विष्णुस्तवः
गौरमुखकृतः
धरण्युवाच ।
कथं गौरमुखो विष्णुं तोषयामास भूधर ।
एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते ॥ १॥
वराह उवाच ।
नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे ।
नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ॥ २॥
नमस्ते सर्वसंस्थाय नमस्ते जलशायिने ।
नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ॥ ३॥
नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे ।
त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः ॥ ४॥
त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः ।
त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ॥ ५॥
त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः ।
त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ॥ ६॥
त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः ।
त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ॥ ७॥
त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः ।
पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ॥ ८॥
ममापि देवदेवेश राजा दुर्जयसंज्ञितः ।
आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे ॥ ९॥
तस्य मे निर्धनस्याद्य देवदेव जगत्पते ।
भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसञ्चयम् ॥ १०॥
यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा ।
वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ॥ ११॥
तथा त्वन्यतमं वाऽपि यद्ध्यातं मनसा मया ।
तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ॥ १२॥
इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः ।
मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ॥ १३॥
इति वराहपुराणे एकादशोऽध्यायान्तर्गतः वराहप्रोक्तः विष्णुस्तवः समाप्तः ।
गौरमुखकृतः
अध्याय ११ श्लोकाः १०-२२
Encoded by D.K.M. Kartha and proofread by P.S.A. Easwaran