श्रीविष्णुस्तवराजः २

श्रीविष्णुस्तवराजः २

(भीष्मस्तवराजः) जनमेजय उवाच- शरतल्पे शयानस्तु भरतानां पितामहः । कथमुत्सृष्टवान् देहं कं च योगमधारयत् ॥ १॥ वैशम्पायन उवाच- श‍ृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः । भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥ २॥ प्रवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे । शुक्लपक्षस्य चाष्टम्यां माघमासस्य पार्थिव ॥ ३॥ प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे । समावेशयदात्मानमात्मन्येव समाहितः ॥ ४॥ विकीर्णांशुरिवादित्यो भीष्मः शितशरैश्चितः । शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥ ५॥ व्यासेन वेदविदुषा नारदेन सुरर्षिणा । देवरातेन वात्सेन तथा श्येनसुमन्तुना ॥ ६॥ तथा जैमिनिना चैव पैलवेन महात्मना । शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥ ७॥ असितेन वसिष्ठेन कौशिकेन महात्मना । हरीतरोमशाभ्यां च तथात्रेयेण धीमता ॥ ८॥ बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः । सनत्कुमारकपिलौ वाल्मीकिस्तुम्बुरुः कुरुः ॥ ९॥ मौद्गल्यो भार्गवो रामस्तृणबिन्दुमहामुनिः । पिप्पलादश्च वायुश्च संवर्तः पुलहः कचः ॥ १०॥ काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः । मरीचिरङ्गिराः कण्वो गौतमो गालवो मुनिः ॥ ११॥ धौम्यो विभाण्डो माण्डव्यो धौम्रकृष्णानुभौतिकः । उलूकः परमो विप्रो मार्कण्डेयो महामुनिः ॥ १२॥ भास्करः पूरणः कृष्णः सूतः परमधार्मिकः । शैब्येन याज्ञवल्क्येन शङ्खेन लिखितेन च ॥ १३॥ एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः । श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः ॥ १४॥ भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा । शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः ॥ १५॥ स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् । योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ १६॥ कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुः । भीष्मः परमधर्मात्मा वासुदेवमधास्तुवत् ॥ १७॥ भीष्म उवाच- आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् । तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥ १८॥ शुचिं शुन्पिदं हंसं तत्पदं परमेष्ठिनम् । युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ॥ १९॥ अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एकोऽयं वेद भगवान् धाता नारायणो हरिः ॥ २०॥ नारायणादृषिगणास्तथा सिद्धमहोरगाः । देवा देवर्षयश्चैव यं विदुः परमव्ययम् ॥ २१॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥ २२॥ यस्मिन् विश्वानि भूतानि तिष्ठिन्ति च विशन्ति च । गुणीभूतानि भूतेशे सूत्रे मणिगणा इव ॥ २३॥ यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति । सदसद्ग्रथितं विश्वं विश्वगे विश्वकर्मणि ॥ २४॥ हरिं सहस्रशिरसं सहस्रचरणेक्षणम् । सहस्त्रबाहुमुकुटं सहस्रवदनोज्ज्वलम् ॥ २५॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्टं च स्थवीयसाम् ॥ २६॥ गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि । य वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ॥ २७॥ गृणन्ति सर्वकर्माणं सत्वं सत्येषु सामसु । चतुर्भिश्चतुरात्मानं सत्वस्थं सात्त्वतां पतिम् ॥ २८॥ यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः । यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति ॥ २९॥ सर्वात्मा सर्ववित् सर्वः सर्वगः सर्वभावनः । यं देवं देवकी देवी वसुदेवादजीजनत् ॥ ३०॥ भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः । यमनन्यो व्यपेतासिरात्मानं वीतकल्मषम् ॥ ३१॥ इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि । अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् ॥ ३२॥ अतिबुध्दीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् । पुराणे पुरुषं प्रोक्तं ब्रह्म प्रोक्तं युगादिषु ॥ ३३॥ क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे । यमेकं बहुधात्मानं प्रातर्भूतमधोक्षजम् ॥ ३४॥ नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् । यं प्राहुर्जगतः कोशं यस्मिन् संविहिताः प्रजाः ॥ ३५॥ यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा । ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ ३६॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः । यं सुरासुरगन्धर्वससिद्धर्षिमहोरगाः ॥ ३७॥ प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् । अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ ३८॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् । यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ॥ ३९॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् । हिरण्यवर्णं यं गर्भमदितेर्दैत्यनाशनम् । एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ ४०॥ शुक्ले देवान् पितॄन् कृष्णे तर्पयत्यमृतेन यः । यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ ४१॥ महतस्तमसः पारे पुरुषं ह्यतितेजसम् । यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥ ४२॥ यं बृहन्तं बृहत्युक्थ्ये यमग्नौ यं महाध्वरे । यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥ ४३॥ ऋग्यजुस्सामधामानं दशार्धं हविरात्मकम् । यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ ४४॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥ ४५॥ यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः । रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः ॥ ४६॥ यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः । हिरण्यवर्णः शकुनिः तस्मै तार्क्ष्यात्मने नमः ॥ ४७॥ पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषणम् । यमाहुश्चाक्षरं नित्यं तस्मै वीर्यात्मने नमः ॥ ४८॥ यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार हा । लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥ ४९॥ यः शेते योगमास्थाय पर्यङ्के नागभूषिते । फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥ ५०॥ यश्चिनोति सतां सेतुमृतेनामृतयोनिना । धर्मार्थं व्यवहारार्थं तस्मै सत्यात्मने नमः ॥ ५१॥ यं पृथग्धर्मचरणाः पृथग्धर्मफलेषिणः । पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ ५२॥ यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः (?) । उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥ ५३॥ यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः । क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ ५४॥ यं त्रिधात्मानमात्मस्थं वृतं षोडशभिर्गुणैः । प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥ ५५॥ यं विनिद्राजितश्वासाः शान्ता दान्ता जितेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ५६॥ अपुण्यपुण्यः परमे यं पुनर्भवनिर्भयाः । शान्ताः संन्यासैनो यान्ति तस्मै मोक्षात्मने नमः ॥ ५७॥ योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः । सङ्क्षोभयाति भूतानि तस्मै घोरात्मने नमः ॥ २८॥ सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ ५९॥ अजस्य नाभ्यां सम्भूतं यस्मिन् विश्वं प्रतिष्टितम् । पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥ ६०॥ सहस्रशिरसे चैव पुरुषायामितात्मने । चतुस्समुद्रपर्यङ्के योगनिद्रात्मने नमः ॥ ६१॥ यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ ६२॥ यस्मात् सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः । यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥ ६३॥ यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः । इष्टानिष्टत्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥ ६४॥ अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम् । वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः ॥ ६५॥ विभज्य पञ्चधात्मानं वायुर्भूतशरीरगः । यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥ ६६॥ ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः । पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥ ६७॥ युगेष्वावर्तते योगैर्दिनर्त्वयनहायनैः । सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥ ६८॥ यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ ६९॥ विषये वर्तमानो यं तं वैशेषिकनिर्गुणैः । प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ ७०॥ अन्नपानेन्धनमयो रसप्राणविवर्धनः । यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥ ७१॥ प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् । अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥ ७२॥ पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखायुधम् । दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥ ७३॥ रसातलगतः श्रीमाननन्तो भगवान् विभुः । जगद्धारयते कृत्स्नं तस्मै वीर्यात्मने नमः ॥ ७४॥ यो मोहयति भूतानि स्नेहपाशानुबन्धनैः । सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ ७५॥ सुतलातलमध्यस्थो हत्वा तु मधुकैटभौ । उद्धृता येन वै वेदास्तस्मै मत्स्यात्मने नमः ॥ ७६॥ ससागरनगां बिभ्रत् सप्तद्वीपां वसुन्धराम् । यो धारयति पृष्ठेन तस्मै कूर्मात्मने नमः ॥ ७७॥ एकार्णवे हि मग्नां तां वाराहं रूपमास्थितः । उद्दधार महीं योऽसौ तस्मै क्रोडात्मने नमः ॥ ७८॥ नारसिंहवपुः कृत्वा यस्त्रैलोक्यभयङ्करम । हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः ॥ ७९॥ वामनं रूपमास्थाय बलिं संयम्य मायया । इमे क्रान्तास्त्रयो लोकास्तस्मै क्रान्तात्मने नमः ॥ ८०॥ जमदग्निसुतो भूत्वा रामः परशुधृत् प्रभुः । सहस्रार्जुनहन्तैव तस्मा उग्रात्मने नमः ॥ ८१॥ रामो दाशरथिर्भूत्वा पौलस्त्यकुलनन्दनम् । जघान रावणं सङ्ख्ये तस्मै क्षत्त्रात्मने नमः ॥ ८२॥ वसुदेवसुतः श्रीमान् वासुदेवो जगत्पतिः । जहार वसुधाभारं तस्मै कृष्णात्मने नमः ॥ ८३॥ बुद्धरूपं समास्थाय सर्वधर्मपरायणः । मोहयन् सर्वभूतानि तस्मै मोहात्मने नमः ॥ ८४॥ हनिष्यति कलेरन्ते म्लेच्छांस्तुरगवाहनः । धर्मसंस्थापनार्थाय तस्मै कल्क्यात्मने नमः ॥ ८५॥ आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितः । यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ ८६॥ अत्रमेयशरीराय सर्वतो बुद्धिचक्षुषे । अपारपरमेयाय तस्मै दिव्यात्मने नमः ॥ ८७॥ जटिने दण्डिने नित्यं लम्बोदरशरीरिणे । कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ ८८॥ शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने । भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥ ८९॥ चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने । पिनाकशूलहस्ताय तस्मा उग्रात्मने नमः ॥ ९०॥ पञ्चभूतात्मभूताय भूतादिनिधनाय च । अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ ९१॥ यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः । यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥ ९२॥ विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव । अपवर्गस्थ भूतानां पञ्चानां पुरतः स्थित ॥ ९३॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु । नमस्ते दिक्षु सर्वासु त्वं हि सर्वमयो निधिः ॥ ९४॥ नमस्ते भगवन् विष्णो लोकानां प्रभवाप्ययम् । त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥ ९५॥ तेन पश्यामि भगवन् दिव्येषु त्रिषु वर्त्मसु । तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥ ९६॥ दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा । विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥ ९७॥ दिशो भुजा रविश्चक्षुर्वीर्यं शुक्रः प्रजापतिः । सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥ ९८॥ अतसीपुष्पसङ्काशं पीतकौशेयवाससम् । नमस्यन्ति च गोविन्दं न तेषां विद्यते भयम् ॥ ९९॥ नमो नरकसन्त्रासरक्षामण्डलकारिणे । संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥ १००॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ १०१॥ प्राणकान्तारपाथेयं संसारच्छेदभेषजम् । दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥ १०२॥ यथा विष्णुमयं सत्यं यथा विष्णुमयं जगत् । यथा विष्णुमयं सर्वं पापं मे नश्यतां तथा ॥ १०३॥ त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे । यच्छ्रेयः पुण्डरीकाक्षं तं ध्यायस्व सुरेश्वरम् ॥ १०४॥ इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः । वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ १०५॥ नारायणं परं ब्रह्म नारायणपरं तपः । नारायणपरं चेदं सर्वं नारायणात्मकम् ॥ १०६॥ वैशम्पायन उवाच- एतावदुक्त्वा वचनं भीष्मस्त्वाहतमानसः । नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥ १०७॥ अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः । त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥ १०८॥ तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः । भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ॥ १०९॥ ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् । भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥ ११०॥ यं योगिनः प्राणविमोक्षकाले यत्नेन चित्ते विनिवेशयन्ति । साक्षात्पुरस्ताद्धरिमीक्षमाणः प्राणान् जहाँ प्राप्तकालो हि भीष्मः ॥ १११॥ शुक्लपक्षे दिवा भूमौ गङ्गायां चोत्तरायणे । धन्यास्तात मरिष्यन्ति हृदयस्थे जनार्दने ॥ ११२॥ विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः । सहसोत्थाय सन्तुष्टो यानमेवान्यपद्यत ॥ ११३॥ केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः । अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥ ११४॥ भीमसेनो यमौ चोभौ रथमेकं समास्थिताः । कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥ ११५॥ तै रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः । नेमिघोषेण महता कम्पयन्तो वसुन्धराम् ॥ ११६॥ ततो गिरः पुरुषवरैः स्तवान्विता द्विजेरिताः पथि सुमनाः सुशुश्रुवे । कृताञ्जालें प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत् ॥ ११७॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । धर्माध्यक्षं स्तुवन्नित्यं सर्वपापैः प्रमुच्यते ॥ ११८॥ इमं स्तवं यः पठति शार्ङ्गधन्वनः श‍ृणोति वा भक्तिसमन्वितो जनः । स चक्रधृत प्रतिहतदग्धकल्मषो जनार्दनं प्रविशति देहसङ्क्षये ॥ ११९॥ अशनिशितसुधारं यस्य चक्रं सुचारु मणिकनकविचित्रे कुण्डले यस्य कर्णे । भ्रमरशतसहस्रैः सेविता यस्य माला असुरकुलनिहन्ता प्रीयतां वासुदेवः ॥ १२०॥ स्तवराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः । गाङ्गेयेन पुरा गीतो महापातकनाशनः ॥ १२१॥ श्रीभगवानुवाच - यः पठेत इदं स्तोत्रं मम जन्मानुकीर्तनम् । देवलोकमतिक्रम्य तस्य लोको यथा मम ॥ १२२॥ इति श्रीमहाभारतान्तर्गतः श्रीविष्णुस्तवराजः अथवा भीष्मस्तवराजः सम्पूर्णः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Vishnu Stavaraja 2 03 13
% File name             : viShNustavarAjaH2.itx
% itxtitle              : viShNustavarAjaH 2 (sharatalpe shayAnastu)
% engtitle              : viShNustavarAjaH 2
% Category              : vishhnu, shataka, stavarAja, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-13
% Indexextra            : (Scan, Hindi)
% Latest update         : August 14, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org