ब्राह्मणकृतम् विष्णुस्तोत्रम्
ब्राह्मण उवाच -
प्रणिपत्याक्षरं विश्वं विश्वहेतुं निरञ्जनम् ।
यत्प्रार्थयाम्यविकलं सकलं तत्प्रयच्छतु ॥ ७७॥
कर्तारमकृतं विष्णुं सर्वकारणकारणम् ।
अणोरणीयांसमजं सर्वव्यापिनमीश्वरम् ॥ ७८॥
परात्परतरं यस्मान्नास्ति सर्वेश्वरात्परम् ।
तं प्रणम्याच्युतं देवं प्रार्थयामि यदस्तु तत् ॥ ७९॥
सर्वेश्वराच्युतानन्त परमात्मञ्जनार्दन ।
संसाराब्धिमहापोत समुद्धर महार्णवात् ॥ ८०॥
व्योमानिलाग्न्यम्बुधरस्वरूप तन्मात्रसर्वेन्द्रियबुद्धिरूप ।
अन्तःस्थितात्मन्परमात्मरूप प्रसीद सर्वेश्वर विश्वरूप ॥ ८१॥
तमादिरन्तो जगतोऽस्य मध्यमादेस्त्वमादिः प्रलयस्य चान्तः ।
त्वत्तो भवत्येतदशेषमीश त्वय्येव चान्ते लयमभ्युपैति ॥ ८२॥
प्रदीपवर्त्यन्तगतोऽग्निरल्पो यथातिकक्षे विततं प्रयाति ।
तद्वद्विसृष्टेरमरादिभिन्नैर्विकाशमायासि विभूतिभेदैः ॥ ८३॥
यथा नदीनां बहवोऽम्बुवेगाः समन्ततोऽब्धिं भगवन्विशन्ति ।
त्वय्यन्तकाले जगदच्युतेदं तथा लयं गच्छति सर्वभूते ॥ ८४॥
त्वं सर्वमेतद्बहुधैक एव जगत्पते कार्यमिवाभ्युपेतम् ।
यदस्ति यन्नास्ति च तत्त्वमेव हरे त्वदन्यद्भगवन्किमस्ति ॥ ८५॥
किन्त्वीश माया भवतो निजेयमाविष्कृताविष्कृतलोकसृष्टे ।
ययाहमेषोऽन्यतमो ममेति मदीयमस्याभिवदन्ति मूढाः ॥ ८६॥
तया विमूढेन मयाब्जनाभ न यत्कृतं तत्क्वचिदस्ति किञ्चित् ।
भूम्यम्बराग्निसलिलेषु देव जाग्रत्सुषुप्त्यादिषु दुःखितेन ॥ ८७॥
न सन्ति तावन्ति जलान्यपीड्य सर्वेषु नाथाब्धिषु सर्वकालम् ।
स्तन्यानि यावन्ति मयातिघोरे पीतानि संसारमहासमुद्रे ॥ ८८॥
सम्पच्छिलानां हिमवन्महेन्द्र कैलासमेर्वादिषु नैव तादृक् ।
देहान्यनेकान्यनुगृह्णतो मे प्राप्तास्थिसम्पन्महति यथेश ॥ ८९॥
त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्धरोऽपि ।
रागो हि वश्यं कुरुते ततोऽनु लोभादयः किं भगवन्करोमि ॥ ९०॥
एकाग्रतामूल्यबलेन लभ्यं भवौषधं त्वं भगवन्किलैकः ।
मनः परायत्तमिदं भवेऽस्मिन्संसारदुःखात्किमहं करोमि ॥ ९१॥
न सन्ति ते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः ।
अत्ता मया येषु न जन्तवश्च सम्भक्षितो यैश्च न जन्तुसङ्घैः ॥ ९२॥
सिंहेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः ।
तथान्यरूपैर्बहवो मयात्ताः सम्भक्षितोऽहं बहुभिस्ततश्च ॥ ९३॥
उत्क्रान्तिदुःखान्यतिदुःसहानि सहस्रशो यान्यनुसंस्मरामि ।
तैः संस्मृतैस्तत्क्षणमेव देव तडिद्यथा मे हृदयं प्रयाति ॥ ९४॥
ततश्च दुःखान्यनिवारणानि यन्त्राग्निशस्त्रौघसमुद्भवानि ।
भवन्ति यान्यच्युत नारकानां तान्येव तेषामुपमानमात्रम् ॥ ९५॥
दुःखान्यसह्यानि च गर्भवासे विण्मूत्रमध्येऽतिनिपीडितस्य ।
भवन्ति यानि च्यवतश्च गर्भात्तेषां स्वरूपं गदितुं न शक्यम् ॥ ९६॥
दुःखानि बालेषु महान्ति नाथ कौमारके यौवनिनश्च पुंसः ।
ज्वरातिसाराक्षिरुगादिकानि समस्तदुःखालय एव वृद्धः ॥ ९७॥
करोति कर्माच्युत तत्क्षणेन पापं नरः कायमनोवचोभिः ।
यस्याब्दलक्षैरपि नान्तमेति शस्त्रादियन्त्राग्निनिपीडनेषु ॥ ९८॥
दुःखानि यानीष्टवियोगजानि भवन्ति संसारविहारभाजाम् ।
प्रत्येकशस्तेषु नरा विनाशमिच्छन्त्यसूनां ममताभिभूताः ॥ ९९॥
शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं न जलं पयोदा ।
तावत्प्रमाणं न जलं पयोदा मुञ्चन्त्यनेकैरपि वर्षलक्षैः ॥ १००॥
मन्ये धरित्री परमाणुसङ्ख्यामुपैति पित्रोर्गणनामशेषम् ।
मित्राण्यमित्राण्यनुजीविबन्धून्सङ्ख्यातमीशोऽस्मि न देवदेव ॥ १०१॥
सोऽहं भृशार्तः करुणां कुरु त्वं संसारगर्ते पतितस्य विष्णो ।
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यतिदुर्गतोऽपि ॥ १०२॥
परायणं रोगवतां हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य ।
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेकः ॥ १०३॥
प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार ।
मामुद्धरास्मादुरुदुःखपङ्कात्संसारगर्तात्स्वपरिग्रहेण ॥ १०४॥
धर्मात्मनामविकलां त्वयि नाथ भक्तिं
श्रद्धावतां सततमुद्वहतां वरेण्य ।
कार्यं कियन्मम विमूढधियोऽधमस्य
भूत्वा कृपालुरमलामज देहि बुद्धिम् ॥ १०५॥
ज्ञात्वा ययाखिलमसारमसारमेव
भूतेन्द्रियादिकमपारममुक्तिमूलम् ।
मायान्तरेयमचलां तव विश्वरूप
सम्मोहितं सकलमेव जगद्ययैतत् ॥ १०६॥
ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या
ज्ञातुं न यं परमगुह्यतमं समर्थाः ।
न त्वामलं स्तुतिपथेष्वहमीशितारं
स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः ॥ १०७॥
यस्मादिदं भवति यत्र जगत्तथेदं
यस्मिंल्लयं व्रजति यश्च जगत्स्वरूपः ।
तं सर्गसंस्थितिविनाशनिमित्तभूतं
स्तोतुं भवन्तमलमीश न कश्चिदस्ति ॥ १०८॥
मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयं
क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसङ्गि ।
इत्थं कृपां कुरु मयि प्रणते किलेश
त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥ १०९॥
यस्योदरे सकल एव महीध्रचन्द्र -
देवेन्द्ररुद्रमरुदश्विदिवाकराग्नि- ।
भूम्यम्बुवायुगगनं जगतां समूहं
स्तोष्यामि तं स्तुतिपदैः कतमैर्भवन्तम् ॥ ११०॥
यस्याग्निरुद्रकमलोद्भववासवाद्यैः
स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम् ।
अभ्यर्च्यते वद हरे स कथं मयाद्य
सम्पूजितः परमुपैष्यसि तोषमीश ॥ १११॥
न स्तोतुमच्युत भवन्तमहं समर्थो
नैवार्चनैरलमहं तव देव योग्यः ।
चित्तं च न त्वयि समाहितमीश दोषैः
आक्षिप्यते कथय किं नु करोमि पापः ॥ ११२॥
तत्त्वं प्रसीद भगवन्कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनन्त दीनं
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ११३॥
इति विष्णुधर्मेषु चतुर्नवतितमोऽध्यायान्तर्गतं ब्राह्मणकृतं
विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran