श्रीविष्णुस्तुतिः (कविसूक्तिभ्यःसङ्कलिता)
नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे ।
विष्णवेऽपारसंसारपारोत्तरणसेतवे ॥ १॥
आदिमध्यान्तरहितं दशाहीनं पुरातनम् ।
अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् ॥ २॥
लक्ष्मीकपोलसङ्क्रान्तकान्तपत्रलतोज्ज्वलाः ।
दोर्द्रुमाःपान्तु वः शौरेर्घनच्छायामहाफलाः ॥ ३
जयति स भगवान्कृष्णः शेते यः शेषभोगशय्यायाम् ।
मध्येपयः पयोधेरपर इवाम्भोनिधिः कृष्णः ॥ ४॥
अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः ।
तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव ॥ ५॥
जयति स नाभिर्जगतां स्वनाभिन्ध्रोद्भवज्जगद्बीजः ।
दोमोदरो निजोदरगह्वरनिर्विष्टजगदण्डः ॥ ६॥
श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य ।
जघनमिवेक्षितुमागतमब्जनिभं नाभिसुषिरेण ॥ ७॥
श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति ।
दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति ॥ ८॥
प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः ।
पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥ ९॥
केलिचलाङ्गुलिलम्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः ।
स जयति येन कृता श्रीरनुरूपा पद्मनाभस्य ॥ १०
रोमावली मुरारेः श्रीवत्सनिवेशिताग्रभागा वः ।
उन्नालनाभिनलिनच्छायेवोत्तापमपहरतु ॥ ११॥
कमलाकुचकनकाचलजलधरमाभीरसुन्दरीमदनम् ।
अधिततशेषफणावलि(सु)कमलवनभृङ्गमच्युतं वन्दे ॥ १२॥
जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् ।
अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च ॥ १३॥
श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चञ्चरीकद्युतिमातनोति ।
नीलोत्पलश्यामलदेहकान्तिः स वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १४॥
वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य ।
श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेम्नः कषपट्टिकेव ॥ १५॥
वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः ।
तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥ १६॥
जयत्युपेन्द्रः स चकार दूरतो विभित्सया यः क्षणलब्धलक्ष्यया ।
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम् ॥ १७॥
पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेदस्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ १८॥
श्रेयः सदा दिशतु सालसपक्ष्मपाते
निद्रायितेऽपिदृशौ भृशमुन्नमय्य ।
संवाह्यमानचरणाम्बुजजातहर्षो
लक्ष्मीमुखेक्षणपरः परमेश्वरो वः ॥ १९॥
सकलभुवनबन्धोर्वैरमिन्दोः सरोजैः
अनुचितमिति मत्वा यः स्वपादारविन्दम् ।
घटयितुमिव मायी योजयत्याननेन्दौ
वटदलपुटशायी मङ्गलं वः कृषीष्ट ॥ २०॥
वरवकुचचुबुकाग्रे पाणिषु व्यापृतेषु
प्रथमजलधिपुत्रीसङ्गमेऽनङ्गधाम्नि ।
ग्रथितनिबिडनीवीवन्धनिर्मोचनार्थं
चतुरधिककराशः पातुवश्चक्रपाणिः ॥ २१॥
विरमति महाकल्पे नाभीपथैकनिकेतनः
त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभूः ।
किमधिकरणं कीदृक्कस्यव्यवस्थितिरित्यसौ
उदरमविशद्द्रष्टुं तस्मै जगन्निधये नमः ॥ २२॥
लक्ष्मीपाणिद्वयविरचितं मूलमूर्धश्रुतीनां
व्यक्तं वन्दे चरणकमलद्वन्द्वमाद्यस्य पुंसः ।
यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णैः
आद्रस्यैव प्रणतितरलः क्षालनं पद्मयोनिः ॥ २३॥
अनादृतचमूपतिप्रहितहस्तमस्वीकृत
प्रणीतमणिपादुकं किमिति विस्मितान्तःपुरम् ।
अवाहनपरिष्क्रियं पतगराजमारोहतः
करिप्रवरबृंहिते भगवतस्त्वरायै नमः ॥ २४॥
दृक्पातः कमलासनेऽ स्तु भवतो ज्ञानं मनाङ्मारुते
श्रीकण्ठोऽयमितः सुरानिति नतास्तार्क्ष्येण विज्ञापितः ।
प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क चेत्युल्लसत्
लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः ॥ २५॥
निर्मग्नेन मयाम्भसि स्मरभरादालिः समालिङ्गिता
केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्डग्रहः पातु वः ॥ २६॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ २७॥
येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले
राहुर्येन महाबलः सुररिपुः कार्यादशेषीकृतः ।
कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिलर्लिया
सोऽयं पातु युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ २८॥
मुग्धे मुञ्च विषादमत्र बलभित्कम्पो गुरुस्त्यज्यतां
सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।
इत्थं शिक्षयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छलात्
अन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥ २९॥
नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णन-
प्रोन्मीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युतिः ।
सक्रोधं मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः
सोत्प्रासप्रणयं सरोजवसतिं पश्यन्हरिः पातु वः ॥ ३०॥
निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः
कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने ।
याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो
नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृता ॥ ३१॥
भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।
लावण्यैकमहानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ३२॥
चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणयः
श्रेयः शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणयः ।
भालेष्वब्जभुवो लिखन्ति युगपद्ये पुण्यवर्णावलीः
कस्तूरीमकरीः पयोधरयुगे गण्डद्वये च श्रियः ॥ ३३॥
आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी
धीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः ।
लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा-
दायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति ॥ ३४॥
भ्राम्यन्मन्दरकन्दरोदरदरीव्यावर्तिभिर्वारिधेः
कल्लोलैरलमाकुलं कलयतो लक्षया मुखाम्भोरुहम् ।
औत्सुक्यात्तरलाः स्मराद्विकसिता भीत्या समाकुञ्चिताः
क्रोधेन ज्वलिता मुदा मुकुलिताः शौरेर्दृशः पान्तु वः ॥ ३५॥
पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे
सङ्क्रान्तप्रतिबिम्बसंवलनया बिभ्रद्वपुर्विक्रियाम् ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः
कायव्यूहमिवाचरन्नुपचिताकूतो हरिः पातु वः ॥ ३६॥
मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसत्
लक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्सम्भ्रमाः ।
हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षण-
व्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः ॥ ३७॥
चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया ।
को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः ॥ ३८॥
प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणां
आत्मव्यापारगुर्वी जनितजललवाजृम्भितैः साङ्गभङ्गैः ।
नागाङ्गं भोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं
निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ ३९॥
श्रीराजीवाक्षवक्षःस्थलनिलयरमाहस्तवास्तव्यलोलत्
लीलाब्जान्निःसरन्ती मधुरमधुझरी नाभिपद्मे मुरारेः ।
अस्तोकं लोकमात्रा द्वियुगमुरवशिशोराननेष्वर्प्यमाणं
शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्कमाना पुनातु ॥ ४०॥
किश्चिन्निर्मुच्यमाने गगन इव मुखे शाठ्यनिद्रापयोदैः
न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालम् ।
पायास्तां वो मुरारेः शशितपनमये लोचने यद्विभासा
लक्ष्म्या हस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्राम् ॥ ४१॥
एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः
श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः ।
कस्यान्यत्रामृतेऽस्मिन्नतिरतिविपुला दृष्टिरेवामृतं ते
दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोऽवताद्वः ॥ ४२॥
यस्योद्यद्बाणबाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं
चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य ।
जातग्रासावसायो दिवसकृतिलसन्मांसलांशुप्रवाहे
मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥ ४३॥
त्रिंशत्कोटिवसुरुद्रदिवाकरादि-
देवादिदेवगणसन्ततसेव्यमानम् ।
अम्भोजसम्भवचतुर्मुखगीयमानं
वन्दे शयानमिह भोगिनि शार्ङ्गपाणिम् ॥ ४४॥
लक्ष्मीर्यस्य परिग्रहः कमलभू सूनुः गरुत्मान् रथः
पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्याऽऽसनः ।
ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः
स त्रैलोक्यकुटुम्बपालनपरः कुर्यात्सदा मङ्गलम् ॥ ४५॥
इति कविसूक्तिभ्यः सङ्कलिता श्रीविष्णुस्तुतिः समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com