$1
विष्णुस्तुतिः
$1

विष्णुस्तुतिः

मुराराते विष्णो हरमुखसुराराध्य भवतो धरायां नास्त्यन्यो भवजलधिपारं गमयितुम् । दुराचारान् वाऽस्मानव गुरुवरानुग्रहबलात् जरादूराधारामयहर निरालम्बनदय ॥ १॥ अहं सक्तः पोते भवजलधिपोते त्वयि न वै रतः पाके लक्ष्मीरमण तव पाके न हि रतः । तथाऽप्याचार्याणां सुखपदजुषां सन्मतरत- स्वृतज्ञानार्यस्याविनयमपिनेयं त्वमव माम् ॥ २॥ रमा कामारातिः कमलभवनः श्यामलतनो यदाऽशक्ताः स्तोतुं जडमतिरहं क्व व्र जपते । तथाऽप्यर्घ्यम् सिन्धोरिव तव भवत्वीश करुणा- समुद्रैषा वाणी तव हृदयतोषाय सततम् ॥ ३॥ न जाने श्रीजाने किमपि सवने नापि नमने रतः स्नाने दाने रघुकुलजने हृन्नियमने । धने याने गानेऽवनिपसभमाने च भवने रतो हीने स्थानेऽवसि तदपि मानैककरुण ॥ ४॥ जना दीना नानावृजिनशमनाम्नायमनना- द्विना वीनासीनाधिगतिरिह नासौख्यमथन । धनाधीना हीना भुवनभवनात्रेयवदना घनानूना ज्ञानापहतमधुनायातमधुना ॥ ५॥ नरान् स्तुत्वा नीचानुदरभरणासक्तहृदयो दयोदाराधाराऽमरवरनुत त्वत्पदयुगम् । न चावन्दे विष्णो तदपि भववारीश पतितं पते माया मायावरणहरणाद्रक्ष नृहरे ॥ ६॥ हरे नानायोनिप्रभवननिदानान्यनुदिनम् घनाभैनांसि श्रीवनजनयनानेकगुणक । क्षमस्व क्षेमं मे सश दिश दशस्यन्दनजने शशाङ्कास्य त्वं मे भवजनिततापं परिहर ॥ ७॥ हरे राजानोऽमी स्वभटतनयान् दोषनिलयान् गुणैर्हीनान् सौवा इति मतियुताः पान्ति सदयाः । मदार्या आबाल्यं तव भजनसंसक्तहृदया जहुर्निद्रां तेषां रघुवर विनेयोऽस्म्यवतु माम् ॥ ८॥ वयं प्रातःस्नानं रघुपनमनं सुप्रवचनम् गुरुध्यानं पद्मारमणभजनं नापि मननम् । अकार्ष्मालं श्रीलं दशवदनकालं गततुलं रमालोलम् यामः शरणममलं वीतशमलम् ॥ ९॥ गुरुस्वान्तस्थान्यागणितगुणमाणिक्यनिकर- च्छविव्रातोपेतामितसुख मखान्नेडित हरे । नमः श्रीमन् व्यास स्वजनदुरिताहार्यविधुर त्वदीये वायौ मे भवति भवताद्भक्तिरतुला ॥ १०॥ रमाराम श्रीमन्नमलकमलासोमनत भो नमामो हेमाभामितमहिम हे माधव न ते । समो भूमा भूमौ शमदमविमानादिनियम- श्रमस्तोमप्रेमन्नव मलहिमानीमिहिर भोः ॥ ११॥ विरागासक्तिस्ते वयमज पुरागाररमणी धरागानासक्ता न च पदपरागादरयुताः । पुरागारात्यादिप्रणुत वितरागाधमहिमन् सुरागावा भूतीः सुमतिमुखरा गाधिजसख ॥ १२॥ घनोपमतनो मम त्वयि मनो न सक्तं जनो विनिन्दति धनोन्मदो यदि तनोषि न त्वम् दयाम् । स्वनोगतमनोहरागम वनोद्भवाभं पदं विनोत्तम गतिश्च का जगदनोद्धरैनोगणात् ॥ १३॥ मनागपि विना हरे तव दयाम् न शं कस्यचित् धनाधिपजनार्जने रतिमतां कथं सा भवेत् । घनान् सुपवना इव त्वमज कल्मषं दूरतो विनाश्य वसनाशनादरमवेश नारायण ॥ १४॥ हरे तव पदस्मृतिं सकलजन्मदोषापहाम् वदन्ति निगमा रमारमण मामकाघं कुतः । न हन्ति न हि सन्ति किं मयि गुरुप्रसादादयो दयोदधिवयोधिपासन भियोऽरितोऽपाकुरु ॥ १५॥ हरे भरतसोदरे दयितसागरे श्रीधरे मनश्चरतु भासुरे सकलदोषदूरेऽजरे । वरे दनुजभीकरे बहुगुणाकरे मध्वरे मयीश परमादरे तनु दयां भवेनातुरे ॥ १६॥ जगज्जनकजानकीकमनभीमसोमाऽदिमा- मरव्रजसुपूजित वृजिननाशन श्रीश नः । आव प्रवणवर्गवत्तव निसर्गभक्तानलम् सुभार्गवतनो तपोहरण भर्गजप्याभिध ॥ १७॥ द्विपाधिपमपाः पुराऽजित विपासनोऽतित्वरः कृपापरवशस्तथा द्रुपदजामुपासद् व्रजम् । क्षपाचरविपाटने पटुमपास्तदोषं वयं ह्यपावृतमुपास्महे विषयलोलुपानप्यव ॥ १८॥ मया किमपि साधनं न कृतमीश वित्तार्जने सदारतिमता रमारमण सत्यधीसन्नत । दयालुरिति वैदिकी प्रथितिरस्ति या तां हरे न नाशय घनाशय प्रशमयामयं भौतिकम् ॥ १९॥ नुतिं हि करवाम नो दिशतु दीदिविं वामनो रघूत्तम न वा मनो भवतु चञ्चलं वा मनो । हरे दितिजनाम नो लवनकौशलावामनो न वामनि भवामनो हर शरीरिका वामनो ॥ २०॥ अये पुरुदयेऽव्यये सुखमये श्रिये संश्रये धिये भुवनजालये शुभजयेभ्यताप्राप्तये । वयेऽरणमनामये रचितभक्तलोकाभये मयेप्सितमदश्शये तव न किं मुरारिप्रिये ॥ २१॥ विरुद्धगतिरीशिता महदणुत्वयोराश्रयः कथं त्वति ममाभवत् प्रतिदिनं महाद्वापरः । हिरण्यकशिपोः सुते नरकनन्दने यद्दयाम् विधाय ऋतधीसुते मयि तनोषि नो तद्गतः ॥ २२॥ अजामिलगजाधिपद्रुपदजास्त्वया पालिता- स्त्वहं तव भटो न किं किमवने गतं पाटवम् । गुणा मयि नहीति वा रघुपते दयाम् नाचरः शिलाकलुषनाशनेऽकृत किलाबलासादनम् ॥ २३॥ महाभिषगभूत् पुरा जलनिधिर्विधेराज्ञया निजापकणपातनादपघने तथा शन्तनुः । कुतोऽलसमतिर्वृथा भव भवामये त्वं महा- भिषग्वपुषि मे क्षिपंस्तव हि शाम्बरं शं तनुः ॥ २४॥ निन्दावन्दारुलोकानवनमुरुदय तद्विधानामुदारा मन्दा नन्दा च भर्गप्रभृतिसुरवराराध्यपादारविन्द । मन्दावृन्दावनक्ष्माविहरण करुणालेशतः पाहि जातं नन्दा वन्दामहे त्वां गुरुवरहृदयक्षीरजस्थम् मुकुन्दम् ॥ २५॥ सीते मातेव पोते गुणलवरहिते मय्यविद्याविभूते पोते देवैः परिते कुरु गुणभरिते काऽनुकम्पा समाते । ख्याते वातेन गीते परिहृतदुरिते सन्नते भूमिजाते भक्तिं लक्ष्मीनिकेते गुरुहृदयगते देहि मे त्वत्समेते ॥ २६॥ वायो श्रेयोऽपि रायो हरिरिति सुधियो देहि भूयो नमस्ते प्रेयो हेयो हि कायो न च बलनिचयो भूरयो नारयो वै । प्रेयो ज्यायोऽनपायोर्जितसुजनदयोदार योगिप्रियोमा ध्येयोपेयोतदेयोनृपसभविजयो नामदो हेऽब्जयोने ॥ २७॥ सेवे देवेश भावे मम वस गुरवे ते नमःश्रीशभावे सृत्यब्धेभूर्यमीवे द्युतिविजितरवे स्याद्दयाऽतीवजीवे । सौवे हे वेदरावेडितचरण भवे मग्नमुद्धृत्य दासं शैवे दैवे त्वयीने रतिमतिविभवे मामवेष्टप्रदातः ॥ २८॥ अधुना स धुनातु भूतबन्धम् मधुनाशी मधुना धिया च पूर्णः मधुना विधुना समानवक्त्रो विधिनाथो विधिना समर्चितो मे ॥ २९॥ स्मृतिस्त्वनुगता हरेर्मतित एव नष्टा भवे- न्नुतिर्न रचिता मया न च नतिर्न वापि स्मृतिः । मतिर्मम न विद्यते यतिपते भवन्तं विना श्रुतिप्रभृतिसाधनैः श्रुतिततीडितं दर्शय ॥ ३०॥ हरे सुरेश रेखया नतं नुतं च तं ततम् । भजे निजे गजे शिवक्रिया दया मया दरे ॥ ३१॥ हरे स्मृतिर्न चास्ति चेत् कथं ममागसाम् स्मृतिः कृतं स्मरेति च त्रयी यदाह वेत्सि तन्न किम् ॥ ३२॥ हरे तव प्रियात्मजस्नुषानपात्तदात्मजाः । मया दयार्थमादृता वदन्ति किं न तेऽन्तिकम् ॥ ३३॥ तात श्रीराममूर्तीरमलकमलतोऽभ्यर्च्य मातुर्न शिष्टं कञ्जं कञ्जालयाया इति यदमनिषि प्राददाः कञ्जमेकम् । तत्किं जायादयातः किमु मयि दयया नैव जानेऽहमज्ञः स्वामिन् श्रीसत्यबोधव्रतिवरहृदयाम्भोजवासिन् वद त्वम् ॥ ३४॥ पुरा पुरारिपालने त्वरा मुरारिणा कृता । धरामरावने न किम् पटुः परापराजितः ॥ ३५॥ इन्दिरा सत्यबोधार्यहृदयाम्भोजमन्दिरा । इन्दिदिरान् स्वपादाब्जेऽव्यान्नोभाजितचन्दिरा ॥ ३६॥ प्रिया यस्य माया क्रियाऽम्नायमेया भिया यस्य माया विनष्टाऽन्यदीया । नयात्तम् जयार्थं दयालुम् हयास्यम् भयार्ताश्च यामः श्रियायद्य विष्णुम् ॥ ३७॥ नेता यः कमलालयादिजगतो माता यथा सर्वतः पाता सत्यमतिव्रतीशहृदयाब्जातालयो यश्च तम् । भूताधीशशचीपतिप्रभृतिभिः पीतामृतैरादृतं धूताशेषभयं नमाम सततं सीतापतिम् राघवन् ॥ ३८॥ घर्मसूक्तव्याकरणधर्मप्रीतो रघूत्तमः कर्मपौर्वं पराकृत्य शर्म मौक्तं प्रयच्छतु ॥ ३९॥ समुद्रसूत्रव्याख्यानसमुद्-रघुपतिर्हि नः । समुद्रजस्कान् सुक्षीरसमुद्रवसतीन्क्रियात् ॥ ४०॥ कमला महिला सुतोऽब्जजातो ननु पौत्रः पुरशात्रवोऽन्यलेखाः । तव यस्य भटा नमत्किरीटाः पुरुटाभाम्बर संस्तुवीत कस्त्वाम् ॥ ४१॥ न मे वपुषि पाटवं न नयने न शब्दग्रहे सिता मम तनूरुहाः प्रशिथिला द्विजानां ततिः । तथाषि विषयेऽशुभे चरति मे मनः श्रीहरे त्वदीयहृदयं विना नहि निदानमस्त्यत्र वै ॥ ४२॥ आम्नायोद्धार भूभृद्धर धरणिधर श्रीहिरण्यासुरारे खर्वाङ्ग क्षत्रगोत्रापह दशरथभूः कंसशत्रो विनेत्र ॥ ४३॥ आर्विन् शर्वेशपूर्वामरगणविनुतानन्तरूपक्रियावन् व्यास श्रीसत्यबोधाह्वयगुरुहृदयावास विष्णो नमस्ते ॥ ४४॥ मध्वार्यमीडे यो मुक्तेरध्वानं मामदर्शयत् । विध्वाननमुपन्याससुध्वानजितवादिनम् ॥ ४५॥ भागिरथिगुणान्वक्तुं भोगीशो बहुलाननः । वागीशोऽपि क्षमो नैव हे गीर्वाणतरङ्गिणि ॥ ४६॥ अङ्गीकृतानङ्गरिपूत्तमाङ्गं संगीतचर्यामघराशिभङ्गाम् । भङ्गाग्र्यदूरीकृतसत्तुरङ्गाम् गङ्गामहं नौमि लसत्तरङ्गाम् ॥ ४७॥ भेरी गौरीशरामस्य नारीकृतशिलस्य या । वैरी न सहते तां तं दूरीकुरु तव स्थलात् विष्णुप्रीत्यै चरको नैव किं तु व्यर्थं नीचान्करकस्सन्नुपासे । आगःपूगान्मामकाद्दुःखहेतोः हेयात्पायाच्छ्रीनिवासाख्यदैवम् ॥ ४८॥ इति श्रीसत्यसन्धतीर्थकृता विष्णुस्तुतिः समाप्ता । Proofread by Daya Aithal
$1
% Text title            : viShNustutiH satyasandhatIrtha
% File name             : viShNustutiHsatyasandha.itx
% itxtitle              : viShNustutiH (satyasandhatIrthakRitA)
% engtitle              : viShNustutiH satyasandhatIrtha
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Daya Aithal
% Indexextra            : (Kannada)
% Latest update         : December 23, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org