$1
विष्णुतोषिणी
$1

विष्णुतोषिणी

आत्मानात्मविवेकजन्यपरमं ब्रह्म प्रियं शाश्वतं मायायुक्तमलक्ष्यतत्त्वममलं नाद्वैतभिन्नं जगत् । इत्थं गन्धकुतर्कमन्दसकलं ध्वंसीकृतं साधवं संभ्रान्तं सुरपार्थसारथिवरं श्रीदारु संप्रार्थये ॥ १॥ मायावादिमतं समस्तकुहकं सत्यं जगद्वैष्णव नित्यं त्वं पिब कृष्णनाम सरसं सेवस्व पादद्वयम् । हंहो तत्त्वमसीति वाक्यमलिकं सारं शिरोवेदनं किञ्चान्यत्सुखमक्षयं भुवि सखे नीलाद्रिनाथं भज ॥ २॥ सिद्धे शारीरकेस्स्मिन्प्रचुरतरसुखं भास्करे पारिजाते पूर्णप्रज्ञे प्रदीप्तस्तवगुणमहिमा श्रीकरे शैव-शाक्ते । श्रीभाष्ये वल्लभस्य त्वणुमयपरमे सर्ववेदान्तसारे गोविन्दे पूज्यपादे विलसति नितरां प्रेमभक्तिर्हरेर्नः ॥ ३॥ सिद्धान्तो न हि मान-तर्कविषयो नो निर्णयस्तादृशैः नो वादो न च जल्पगल्परहितः किं वा वितण्डारवैः । दृष्टान्तास्वयवैः सजातिकलितो नो निग्रहो दुश्च्छ्लैः हेत्वाभासमहाप्रयोजनमहो मेये हरौ संशयः ॥ ४॥ सिद्धान्तं श‍ृणु पाञ्चरात्रवचनं ज्ञानञ्च सङ्कर्षणः प्रद्युम्नश्च बलं क्रिया सुरुचिरा सृष्टिश्च सौदर्शनी । शक्तिः स्यादनिरुद्ध-विष्णु-भगवान् वेदार्थसंस्थापकः चातुर्व्यूहसमाश्रयो हरिरभूत् श्रीवासुदेवप्रभुः ॥ ५॥ मोहाबद्धनिपीडिता हतधियो नैयायिकास्तार्किकाः नित्यं सप्तपदार्थतत्त्वविषयाः केचित्तु वै षोडश । पक्ष-व्याप्ति-सहेतु-मानसहिताः निःश्रेयसाकाङ्क्षिणः वाचालाः खलु शुष्कतर्कमुखराः किं वा परैर्दुर्जनैः ॥ ६॥ आजीवे यदि दुर्गतिः प्रविधिना याजिश्च नीलाचले व्याजी मा भव वासुदेव मतिमन् वाजीव कार्यं चर । राजीभूतसमस्तदर्शनचये चाव्जी चिरं सुन्दरे सज्जीभूतसमस्ततत्त्वपुरुषे राजीवनेत्रे मनः ॥ ७॥ स्नानं वेद्यां रथगतिसुखं शायनं चायने द्वे प्रावारश्च प्रतिदिनमहो चन्दनश्चापकेलिः । पार्श्वत्यागो दमनकसहोत्थानपुष्याभिषेका भव्या यात्रा विपुलललिता द्वादशैव प्रसिद्धाः ॥ ८॥ सत्यासत्यकथां प्रदीप्त-मतिमन् कर्णौ कुरु स्वादरं प्रस्थानीकृतसर्वदर्शनमतं वक्ष्यामि सारं परम् । आनन्दामृतयोगसाङ्ख्यसहितं वेदान्तवेदान्वितं दृश्यादृश्यपदार्थतत्त्वसरसं भक्तिप्रियं माधवम् ॥ ९॥ दिव्यं कोटिशरत्कलाकररुचं शङ्खाकृतिर्स्तैजसं नीलाद्रिप्रणवाद्यतत्त्वगहनं प्राचीरबिभ्रत्त्रयम् । चातुष्कोणितनादविन्दुरहितं दीप्तं चतुर्द्वारकं त्रैमात्रं हरिधामशाश्वतसुखं वैकुण्ठनामोज्ज्वलम् ॥ १०॥ द्वादश्यां प्रियकार्तिके मलतिथौ षट्के जगन्नाथ हे व्याघ्रत्वक्परिधानकुण्डमुकुटो नागार्जुनो दुर्लभः । दिव्यास्लौकिकषोडशायुधयुतः कैरातवेशोज्ज्वलो रामानन्दपुरीश्वर त्वयि सखे दुष्प्राप्यबोधस्थितिः ॥ ११॥ लीलां कोलकृते कलाकरवृते शार्दूलविक्रीडिते वाञ्छाकल्पवटावृते तटधृते दारुप्रभाभास्वते । ज्येष्ठं श्रेष्ठयते शुभं विजयते गीताकथां भाषते भक्तिं प्रार्थयते महाप्रभु-जगन्नाथाय तस्मै नमः ॥ १२॥ श्रद्धारेणुमहासुखं विरहितः श्रीगुण्डिचाविह्वलः रज्ज्वाकर्षणहीनदुर्बलतरो नन्दाभिधानोस्धमः । आशा वैतरणी प्रभातकिरणे श्रीमन्दिरे दर्शनं चित्ते तीव्रवती करोति कवितां हा भाग्यहीनः कविः ॥ १३॥ बुद्धिं वर्धयते गुणं गणयते कृष्णञ्च रामायते चित्तं चोरयते स्वभक्तमहते कारुण्यमातन्वते । शिष्टान्पालयते खलान्दलयते कष्टं पराकुर्वते भक्तिं प्रार्थयते महाप्रभु-जगन्नाथाय तस्मै नमः ॥ १४॥ कण्ठे हारविशाललम्बितपदः नानासुखैः पुष्पितः भाले दिव्यशिखण्डदीप्तमकुटः प्रत्यक्षदीप्तद्युतिः । नासालम्बितपुष्पहारतिलकं शीर्षे मनोरञ्जनं दृश्यो विश्वगुरुः पुरीशपरमो भक्तिप्रियो दारवः ॥ १५॥ तप्तस्वर्णसवर्णमङ्गनिचयं रक्तो रजश्चाधरः आस्यं कृष्णकलाप्रमुग्धसरलं हास्यं जगन्मोहनम् । नेत्रे वीक्षणमुग्धदुग्धमधुरं भूगोलकोलाग्रतं फुल्लं घ्राणविहारचित्रकुसुमं को वा तिरस्कुर्वते ॥ १६॥ श्रीमद् गोविन्दचन्द्रो निखिलसहृदयो नीलजीमूतकान्तः श्रीमद्राजाधिराजो रघुकुलतिलको नीलदूर्वादलाभः । श्रीसत्सङ्गाधिरूढो विपुलपुलकितो ब्रह्मदारुप्रदीप्तः श्रीसत्कारेषु भान्तः प्रविलसतु तरां प्रार्थना-कामधेनुः ॥ १७॥ एषा विष्णुपुरी महाजनचरी सिद्धान्तशिरोमणिः नित्या नीलमणिप्रकाशसहजा तद्दारुकोलाग्रती । भेदाभेदविशेषतत्त्वगहनप्रत्यक्षदृश्यास्ध्वरी स्वाहाकारकरी प्रभातसमये सर्वार्थसिद्धिप्रदा ॥ १८॥ राधाकृष्णपदारविन्दयुगला सर्वत्र सञ्जीवनी तृष्णातापविघातिनी निगदिता सद्दर्शने शाश्वती । तर्कातीतसमस्तमार्गसरला चैतन्यसंयोजिनी सा मा पातु विमुक्तिभक्तिललिता माता मनोरञ्जिनी ॥ १९॥ प्रेमालिङ्गितशुद्धबुद्धनिखिलाम्नायप्रभामण्डलो लीलादैनिककौतुकी रुचिकरी लक्ष्मीपराकर्षिणी । वेशो भूषणसुन्दरं निरुपमं भोगश्च नानाविधै- रर्चारूपमिदं हरेः प्रियतमं श्रीमन्दिरे नन्दति ॥ २०॥ व्यूहातीतसमस्तदृश्यपटलं तद्दारुदेहाश्रितः सूक्ष्मस्थूलचतुष्टयैर्विलसितो वेदान्तसारोत्तमः । नित्यं तत्त्वमसि प्रधानपुरुषो मायामयो निर्जर आस्ते मिष्टमहाप्रसादजनकः कैवल्यदाता हरिः ॥ २१॥ प्रत्यक्षं सुखमैहिकं भजत रे आमुष्णिकं नैव सत् सम्भोगे पुरुषार्थसिद्धिरखिला संसारभूमौ सदा । स्वर्गो नास्ति न वेदमन्त्रसफलो मृत्युश्च मोक्षस्थितिः चार्वाको बहुभाषते खलवरो मूर्खश्च वाचालधीः ॥ २२॥ दुःखं जन्म तथा प्रवृत्तिरखिला दोषश्च मिथ्यामितिः पौर्वापौर्वविचारकाः श्रमकृताः सम्भावयन्ति प्रथाम् । स्वच्छन्दं न हि नापवर्गरमृतं किं वैपरीत्ये मतिः त्यक्त्वा धूर्तमतं रमस्व सततं भक्तिप्रिय प्रेमिक ॥ २३॥ तद्द्रव्यं गुणकर्मभेदनिचयं सामान्यज्ञानं तथा सप्तशेष्ठ-विशेषशब्दविषयाभावाः पदार्थास्त्वमी । साधर्म्याः समवाययोगरुचिरा वैधर्म्यतत्त्वाश्रिताः रुग्णाः मांसरसं पिबन्ति रुधिरं तर्कान्धकारेस्ध्वनि ॥ २४॥ श्रीनीलाचलमौलिमण्डनमणिं संविन्मयं शाश्वतं मित्याज्ञानविताडनं प्रियतमं तत्कृष्णवर्णद्वयम् । जिज्ञासातिबला पुरीप्रियकथा श्रीमन्दिरप्रेमिकं तत्त्वातीतमिदं हरेः खिलसुखं कर्णामृतं भावये ॥ २५॥ नित्या सौख्यकरी विमुक्तिसहिता वेदान्तवेद्या रति- र्युक्तिर्दारुमयी सदैवललिता स्वात्मानुसन्धायिनी । विद्या द्वैतमहारसा मधुमयी सन्मार्गसद्भाविनी श्लाघ्या श्रीपरमेश्वरप्रियतमा भक्तिर्महा सात्त्विकी ॥ २६॥ मूर्तिर्भक्तिजनी विशल्यकरणी नाद्वैतवैयासकी नो तर्क-प्रबला न साङ्ख्य-सरला नो योग-विद्वेषिणी । आराध्या तुलसीदलायितपदा श्रीब्रह्मदारुप्रिया संसारामयनाशिनी निगमजा मन्मानसी वैखरी ॥ २७॥ कृष्णं कीर्तय सुन्दरं श‍ृणु कथां गोविन्दनाम स्मर दारुब्रह्म समर्चय प्रियतमं सेवस्व पादौ चिरम् । सख्यं श्रीपुरुषोत्तमे प्रतिदिनं श्रीरामदासो भव सर्वस्वात्मनिवेदनं कुरु हरौ तद्वन्दने नन्दय ॥ २८॥ श्रीमद्भागवतं पुराणमशनं गीतामृतं पानकं नित्यं दारुमुखं निरीक्षणमहत्सौख्यं पुरीसेवनम् । तन्नामश्रवणं सहर्षयजनं सङ्कीर्तनं जीवनं साक्षाच्छ्रीहरिभक्तिसाधकवरं सुस्वागतं कुर्महे ॥ २९॥ श्रीक्षेत्रं पुरुषोत्तमस्य सदनं ब्रह्ममहावैष्णवो लीलाद्वैतकलाकरो हरिवरो ब्रह्माण्डपिण्डाधिपः । नित्यं सेवक-सेव्यभावलसितो भोगालये संस्थित- स्तद्दिव्यं हरिकीर्तनं वितनुते प्रदीप्तनन्दास्धमः ॥ ३०॥ दासीभूतां हरेस्तां त्रिगुणपरिहितां विष्णुमायां सुशक्तिं विद्यास्विद्यास्वरूपां प्रकृतिपदगतां मोक्षभोगप्रदात्रीम् । मूलां सूक्ष्मां सबीजां प्रचरति बहुलां सृष्टिकाले परेशीं मान्यां गण्यां भजेम्बां पुरुषसुखकरीं प्रार्थये सर्वदाहम् ॥ ३१॥ त्वं बुद्धिर्मानसी वै त्वमसि च सकलं ज्ञानविज्ञानरूपं त्वञ्चाहाङ्काररूपो विकृतिकलुषितश्चेन्द्रियाणां समूहः । तन्मात्राणि त्वमेव त्रिभुवनभवने पञ्चभूतानि यानि सर्वाणि त्वञ्च तानि प्रवर यदुपते नास्ति कश्चित्परो वा ॥ ३२॥ जीवाजीवपदार्थयुग्मकथितः स्याद्वादयुक्त्याश्रितो बन्धः सम्बरनिर्जराश्रवयुताः मोक्षश्च तत्त्वानि वै । सम्यग्दर्शनमाद्यरत्नममलं ज्ञानं चरित्रं त्रयं सर्वज्ञो बहु वक्ति नास्ति चरमं तत्त्वान्तरं भावये ॥ ३३॥ भ्राजत्सत्यचतुष्टयेन करुणो हिंसाविहीनो मुनिः श्रीविष्णोः नवमावतारनिगमप्रक्षिप्तविध्वंसकः । सिद्धः शाक्यकुलावतीर्णभगवान् बुद्धो महावैष्णवः निर्वाणामृतधारकः स्मितमुखः पायाद्दयासागरः ॥ ३४॥ इति प्रदीप्तनन्दशर्मविरचिता विष्णुतोषिणी समाप्ता । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
$1
% Text title            : Vishnutoshini
% File name             : viShNutoShiNI.itx
% itxtitle              : viShNutoShiNI
% engtitle              : viShNutoShiNI
% Category              : vishhnu, pradIptakumArananda
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : December 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org