विठ्ठलस्तवराजः

विठ्ठलस्तवराजः

ओं अस्य श्रीविठ्ठलस्तवराजस्तोत्रमहामन्त्रस्य भगवान् वेदव्यास ऋषिः अतिजगती छन्दः श्रीविठ्ठलः परमात्मा देवता । त्रिमूर्त्यात्मक इति बीजम् । सृष्टिसंरक्षणार्थ इति शक्तिः । वरदाभयहस्त इति कीलकम् । मम सर्वाभीष्टफलसिद्धयर्थे जपे विनियोगः । अथ न्यासः- ओं नमो भगवते विठ्ठलाय अङ्गुष्ठाभ्यां नमः । ओं तत्त्वप्रकाशात्मने तर्जनीभ्यां नमः । ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नमः । ओं सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नमः । ओं त्रिमूर्त्यात्मकाय कनिष्ठिकाभ्यां नमः । ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् - श्रीगुरुं विठ्ठलानन्दं परात्परजगत्प्रभुम् । त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ १॥ नासाग्रेऽवस्थितं देवमाब्रह्मस्तम्बसंयुतम् । ऊर्णातन्तुनिभाकारं सूत्रज्ञं विठ्ठलं स्वयम् ॥ २॥ गङ्गायमुनयोर्मध्ये त्रिकूटं रङ्गमन्दरम् । ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ ३॥ रुक्मिणीशक्तिहस्तेन क्रीडन्तं चललोचनम् । आज्ञाब्रह्मबिलान्तःस्थज्योतिर्मयस्वरूपकम् ॥ ४॥ सहस्रदलपद्मस्थं सर्वाभरणभूषितम् । सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ ५॥ समपर्वत ऊर्ध्वस्थं श्रोणित्रयसहस्रकम् । स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ ६॥ पीतवस्त्रपरीधानं तुलसीवनमालिनम् । शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ ७॥ ऊर्ध्वपुण्ड्रमयं देवं चित्राभरणभूषितम् । रत्नसिंहासनं देवं सुवर्णमुकुटोज्ज्वलम् ॥ ८॥ रत्नकिङ्किणिकेयूरं रत्नमण्डपशोभितम् । पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ ९॥ देवारिदैत्यदर्पघ्नं सर्वलोकैकनायकम् । ओं नमश्शान्तरूपाय सर्वलोकैकसिद्धये ॥ १०॥ सर्वदेवस्वरूपाय सर्वयन्त्रस्वरूपिणे । सर्वतन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ ११॥ परमन्त्रप्रणाशाय परयन्त्रनिवारिणे । परतन्त्रविनाशाय विठ्ठलाय नमो नमः ॥ १२॥ परात्परस्वरूपाय परमात्मस्वरूपिणे । परब्रह्मस्वरूपाय विठ्ठलाय नमो नमः ॥ १३॥ विश्वरूपस्वरूपाय विश्वव्यापिस्वरूपिणे । विश्वम्भरस्वमित्राय विठ्ठलाय नमो नमः ॥ १४॥ परहंसस्वरूपाय सोऽहं हंसस्वरूपिणे । हंसमन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ १५॥ अनिर्वाच्यस्वरूपाय अखण्डब्रह्मरूपिणे । आत्मतत्त्वप्रकाशाय विठ्ठलाय नमो नमः ॥ १६॥ क्षराक्षरस्वरूपाय अक्षराय स्वरूपिणे । ओङ्कारवाच्यरूपाय विठ्ठलाय नमो नमः ॥ १७॥ बिन्दुनादकलातीतभिन्नदेहसमप्रभ । अभिन्नायैव विश्वाय विठ्ठलाय नमो नमः ॥ १८॥ भीमातीरनिवासाय पण्डरीपुरवासिने । पाण्डुरङ्गप्रकाशाय विठ्ठलाय नमो नमः ॥ १९॥ सर्वयोगार्थतत्त्वज्ञ सर्वभूतहिते रत । सर्वलोकहितार्थाय विठ्ठलाय नमो नमः ॥ २०॥ य इदं पठते नित्यं त्रिसन्ध्यं स्तौति माधवम् । सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ २१॥ सर्वे ज्वरा विनश्यन्ति मुच्यते सर्वबन्धनात् । आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥ २२॥ य इदं परमं गुह्यं सर्वत्र न प्रकाशयेत् । स ब्रह्मज्ञानमाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ २३॥ सर्वभूतप्रशमनं सर्वदुःखनिवारणम् । सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ २४॥ त्रिसन्ध्यं पठते भक्त्या निर्भयो भवति ध्रुवम् ॥ २५॥ सङ्ग्रामे सङ्कटे चैव विवादे शत्रुमध्यगे । श‍ृङ्खलाबन्धने चैव मुच्यते सर्वकिल्वषात् ॥ २६॥ राजद्वारे सभास्थाने सिंहव्याघ्रभयेषु च । साधकस्तम्भने चैव सर्वत्र विजयी भवेत् ॥ २७॥ इति श्रीरुद्रपुराणे वामकेश्वरतन्त्रे विठ्ठलस्तवराजः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : viThThalastavarAjaH
% File name             : viThThalastavarAjaH.itx
% itxtitle              : viThThalastavarAjaH (rudrapurANAntargataH)
% engtitle              : viThThalastavarAjaH
% Category              : vishhnu, stavarAja
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Source                : rudrapurANe vAmakeshvaratantre
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : September 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org