$1
श्रीविठ्ठलेशाष्टकम्
$1

श्रीविठ्ठलेशाष्टकम्

रघुनाथकृतं श्रीगणेशाय नमः । कुरुसदसि कृताभूद्द्रौपदीवस्त्रशेषा सकलनृपवरेन्द्रा यत्र वक्तुं न शक्ताः । हरिचरणरताङ्गी येन तत्रात्मधीरा स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ १॥ प्रथमजननपापप्राप्तसम्प्रेतदेहौ समय इह ममास्मिन्कृष्णभक्त्या समेतौ । गलितपतितवेषावुद्धतौ येन सद्यः स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ २॥ कमलदलसुनेत्रेणैव भूतेशमाया- ततिभिरिव हि येन भ्रामितः सर्वलोकः । अखिलजगति सर्वस्वीयभक्ताः कृतार्थाः स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ३॥ सकलयदुकुलेन्द्रो येन कंसो हतोऽभूत् जननसमयपूर्वं देवकीशूरयोश्च । परिहृतमपि दुःखं यामिका मोहिताश्च स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ४॥ तपनदुहितुरन्तः कालियो मारितः सन् अलिगणसुहितेऽस्मिंस्तत्फणे येन नृत्यम् । कृतमपि च तदम्भो लम्भितं निर्विषत्वं स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ५॥ कपटकृतशरीरा पूतना प्रापिताऽभ्रं व्रजपतिगृहसुप्तावेकपादेन येन । शकट असुरवेषः प्रेषितः स्थाननाशं स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ६॥ पदनतियुतहस्ता तोषिता येन कुन्ती ह्यसुरकुलसमूहा हिंसिता वीर्यवन्तः । अखिलभुवनभारः प्रेषितः संलघुत्वं स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ७॥ अखिलसुरकुलेन्द्रस्यैव येनाभिमानो गिरिवरधरणेन क्षीणतां प्रापितश्च । जलधरभवधाराः संहृता ग्रावयुक्ताः स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ८॥ विट्ठलेशाष्टकमिदं प्रातरुत्थाय यः पठेत् । भक्त्या नत्वा च सुमनाः स याति परमां गतिम् ॥ ९॥ इति रघुनाथकृतं श्रीविठ्ठलेशाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : viThThaleshAShTakam
% File name             : viThThaleshAShTakam.itx
% itxtitle              : viThThaleshAShTakam (raghunAthavirachitaM)
% engtitle              : viThThaleshAShTakam
% Category              : vishhnu, aShTaka, raghunAthajI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : raghunAthajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org