विभीषणहनुमत्संवादरूपवायुस्तुतिः
कस्मादस्मद्वनस्याङ्घ्रिपचयमुदयत्पुच्छवानच्छिनस्त्वं
रक्षो वृक्षोग्रहस्तः सुबहु किमवधीः किम्बलस्त्वं बताद्य ।
सिन्धुं चान्धूकरोषि प्रविशसि पृतनां निर्भयो द्विड्भटानां
चिन्तासन्तापकारी दशवदनपुरश्रीहरः को हरे त्वम् ॥ १॥
वायोरायोधनाग्रेसरसुभटशिरश्चित्ररत्नोपमस्य
प्रायो नायोध्यमस्य प्रियतमसुकुमारोऽहमारोहयोग्यः ।
श्रीशाक्लेशाङ्कधाम्नः कमलजवसतेश्चाहुरार्या हनूमा-
नित्याख्यां नात्ययोऽस्मत्कुलजमुन्निषु वो रंहसा वांऽहसा वा ॥ २॥
पारावारान्तरोद्यद्द्युमणिगणसमा भाति यद्धामसीमा
धीरो नारायणोऽयं रघुकुलमनघं कर्तुमुर्व्यां विहर्तुम् ।
भूमा भूमावुदेत्याखिलकविविनुतो रामनामास्ति धीमान्
सोऽयं श्रीमारुतस्य प्रियतमतनयं दासवृत्याऽनुशास्ति ॥ ३॥
रामारामां दिदृक्षोः करचरणचलद्बाललीलोरुघातैः
जातक्ष्माजातपातो न तु कृतिरियमल्पातिदर्पस्य मेऽलम् ।
वेगादागच्छतो मे जवभवपवनस्योदयोऽप्येनमासी-
द्धन्ताहं तादृशो नासुरज मम बलं राघवोऽमोघवीर्यः ॥ ४॥
रामाख्यामानितस्य प्रथितहरधनुर्भङ्गदोत्तुङ्गबाहोः
श्रुत्यन्तात्यन्तगीतागणितगुणगणस्येष्टसर्वेष्टदातुः ।
सोऽहं मोहान्धकारक्षपणदिनमणेर्दानवानीकिनीनां
मृत्योर्भृत्योऽस्मि तेन प्रहित इह खलानीतसीतार्तिशान्त्यै ॥ ५॥
पर्यग्गिर्यग्र्यगण्यं रविरथतुरगस्याग्रतो वाऽग्रयायी
विद्यां प्रद्योतनादध्यगमदुरुजवस्तन्मुखस्योन्मुखो यः ।
रामाङ्घ्रिप्रेमशक्त्या त्रिभुवनजननस्थानसंस्थानशक्ते-
र्लङ्का शङ्कास्पदा किं निगमनुतचरित्रस्य तस्याऽऽशुगस्य ॥ ६॥
अण्डोद्दण्डोदशोषेऽप्यतिकुशलतमः क्वेदमम्भोधिमम्भो-
लोकालोकाप्तमूर्तेर्जलनिधितरणं किं महन्निर्ममस्य ।
विश्वस्य श्वासयन्तुर्मम किमु खलविध्वंसने संशयः स्या-
द्देवाश्चैवोचुरुक्थं मम पितरमतश्चासमो दास एषः ॥ ७॥
धर्मं सम्मानयन्तं रघुपतिरवति प्रत्यहं शत्रुभावं
तस्मिन्योऽस्मिन्प्रदेशे रचयति तमिमं हन्ति तस्यानुगस्य ।
नित्यं कृत्यं तदेव ह्यघकरदशकण्ठोपकण्ठस्थदैत्या-
नित्थं हत्वाऽऽत्मभर्तुः प्रियकृदभवमुद्दामशौर्योर्व्यवार्यः ॥ ८॥
द्रक्ष्यस्यक्षय्यवीर्योऽप्यरिभटपटुभिस्तैरबद्धैर्हि बद्धः
पुच्छस्वच्छाग्निनाऽहं कुनयतनयदत्तेन वित्तं समस्तम् ।
धक्ष्याम्यध्यक्षमेषां भवनवनमपि प्राज्ञ ते धाम धीमन्
त्यक्तवा त्यक्तोग्रदैत्यप्रकृतिकृतविकारस्य धर्मानुगस्य ॥ ९॥
मुञ्च त्वं चाग्रजस्य प्रबलतमहरिद्वेषतो दोषभाजः
सेनामेनां विहीनां मनसि सुमनसां नायकं दायकं ते ।
भाग्यस्याग्र्यस्य नित्यं स्मर दितिजमतं धिक्कुरु न्यक्कुरुष्व
स्वीयस्याऽऽयासदात्रीं धियममलधिया धारयामुं दयालुम् ॥ १०॥
सेतुं यातुं कपीनामुरुतरजलघौ पुण्यहेतुं प्रहातुं
पापान्यापत्कराणि प्रथितसुयशसे शर्म दातुं च गातुः ।
वत्स्यत्यत्स्यत्यथापि स्वकरधृतधनुर्मुक्तशाणोग्रबाण-
ज्वालाजालः स दैत्यव्यवनमवनकृद्राघवः श्लाघनीयः ॥ ११॥
भेत्ता मत्तासुरेन्द्रप्रतिभयशिरसां कुम्भकर्णोग्रकर्ण-
च्छेत्ता हर्ता च तस्य प्रियतमधरणीभारहारी स हारी ।
सीतामेतां समेत्य स्वचरणशरणान्देवभूदेवपूर्वान्
पृथ्वीं चेत्थं प्रतोष्य प्रविशति च निजां शत्र्वयोध्यामयोध्याम् ॥ १२॥
तृष्णा कृष्णावतारेऽप्यघशमनतदङ्घ्यब्जसेवोत्सवे स्या-
द्भीमो भूत्वा तदाऽहं बकमदहरणो हन्मि किर्मीरदैत्यम् ।
सत्वोद्रिक्तं जरायाः सुतमथ गदयोन्मुद्य सद्धैर्यवीर्यः
शौर्योन्मत्तं च दुर्योधनमनु सबलं नाशयाम्याशयाऽन्धम् ॥ १३॥
ईशादेशेन सोऽहं पुनरपि धरणीं प्राप्य दुश्शास्त्रशस्त्रं
मध्वाख्योऽद्धा प्रदूष्य प्रगुणमथ करिष्यामि सूत्रस्य भाष्यम् ।
कृत्वा कृत्वाऽवतारान्सुरनिकरगुरुर्मुख्यवायुर्निजायुः ।
सार्थीकर्तुं मुकुन्दं परैचरति सदाऽरीन्हरन्व्याहरंश्च ॥ १४॥
विद्यां विद्यापतेर्यः पठै हनुमतः सोऽपि विद्यां समृद्धा-
मभ्येत्यभ्युन्नतिं च प्रतिदिनमुरुभक्तिं स्वयोग्यं च भाग्यम् ।
विद्वन्मध्ये प्रसिद्धिं बुधनुतकवितां वादिराजर्षिराजः
सद्यो यद्योगिवर्यो व्यतनुत तदियं सर्वकार्याणि कुर्यात् ॥ १५॥
इति श्रीमद्वादिराजपूज्यचरणविरचिता विभीषणहनुमत्संवादरूपा
वायुस्तुतिः सम्पूर्णा ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Jayalakshmi Jayaraman