श्रीकृष्णस्तोत्रं विप्रपत्नीकृतम्
श्रीगणेशाय नमः ।
विप्रपत्न्य ऊचुः ।
त्वं ब्रह्म परमं धाम निरीहो निरहङ्कृतिः ।
निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ॥ १॥
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ।
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २॥
सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ।
ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ३॥
यस्य लोम्नां च विवरे चाऽखिलं विश्वमीश्वरः ।
महाविराङ्महाविष्णुस्त्वं तस्य जनको विभो ॥ ४॥
तेजस्त्वं चाऽपि तेजस्वी ज्ञानं ज्ञानी च तत्परः ।
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५॥
महदादि सृष्टिसूत्रं पञ्चतन्मात्रमेव च ।
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा ।
त्वमनीहः स्वयञ्ज्योतिः सर्वानन्दः सनातनः ॥ ७॥
अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि ।
सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ८॥
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे ।
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९॥
पार्वती कमला राधा सावित्री देवसूरपि ।
वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ १०॥
वयं किं स्तवनं कूर्मः स्त्रियः प्राणेश्वरेश्वर ।
प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ ११॥
इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे ।
अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥ १२॥
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ।
स गतिं विप्रपत्नीनां लभते नाऽत्र संशयः ॥ १३॥
॥ इति श्रीब्रह्मवैवर्ते विप्रपत्नीकृतं श्रीकृष्णस्तोत्रं
समाप्तम् ॥
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com