विरक्तिमुक्तावलिः

विरक्तिमुक्तावलिः

(यस्येच्छासमकाल एव जगतः सृष्टिस्थितिश्चाप्ययो यः सच्चित्सुखदेहवांश्च रमते लक्ष्म्या स्वयं लीलया । यश्चान्ते स्मृतमात्र एव हि भवागाधाम्बुधेरुद्धर- त्युद्गीतो निगमागमैरवतु मां श्रीमान् स नारायणः ॥ १॥ यस्यापाङ्गनिरीक्षणामृतधुनीपूरेण संवर्धिता मञ्चित्ते कवितालता नवरसाधारैः फलैः शोभते । रङ्गाचार्यमहं गुरुं स्वपितरं नत्वा तमम्बां सती- मार्यां तां च सरस्वतीं भवपरिक्लेशान् निजान् वर्णये ॥ २॥ देवं गुरुं च युगपन्नत्वा श्रीवासुदेवपदवाच्यम् । ग्रथये विरक्तिमुक्तावलिं मुदे सास्तु सुमनसां रुचिरा ॥ ३॥ नत्वा शिरसा कौलगिरवुनाथाचार्यदेशिकपदाब्जम् । स्वकृतं हि निवेदयतः प्रायश्चित्तं ममास्तु हरिपदयोः ॥ ४॥) अज्ञानोग्रनिदाघतप्तहृदयः पातुं सुविद्यापय- स्तृष्णालमना भ्रमन् दिशि दिशि श्रान्तो भृशं संश्रितः । गेहारण्यमथ स्ववृक्षगहनं तत्रापि चिन्तादवा- क्रान्तोऽहं चकितो मृगो घनमिव घ्यायामि कृष्णं हृदि ॥ १॥ क्षुत्तृड्जम्बुकमूषकावृततलो मध्ये च कामादिभि- र्व्याप्तो बभ्रुबिडालकोरगमुखैर्वातादिरोगात्मकैः । श्येनोलूकमुखैः श्रितोच्चविटपस्तत्कोटराधिष्ठितः क्लिश्यत्स्रस्तगरुत्कपोतवदहं खिद्ये हरे पाहि माम् ॥ २॥ नानावर्णगरुन्मनोहरतनुः संवर्धितः पञ्जरे सञ्जल्पन् कलमुद्भ्रमन् सुमधुरं खादन् पिबन् स्वं वयः । नीत्वा विस्मृतसद्विजाश्रितगतिः स्वार्थैकलुब्धैर्जनै- स्त्यक्तो निर्दयमन्धवृद्धशुकवत् खिद्ये हरे पाहि माम् ॥ ३॥ मोहादण्डमयान् स्वनीडपतितान् संवर्ध्य कृच्छ्रार्जितै- र्नानाखाद्यचयैश्चिरोद्गतगरुत्स्वङ्गैर्मनोहारिभिः । कूजद्भिः कलपञ्चमस्वरमथोड्डीय प्रयातैः पिकै- र्नीडे वञ्चितजीर्णकाकवदहं खिद्ये हरे पाहि माम् ॥ ४॥ आनीयोषसि नित्यशः सुकलमं दत्त्वा मुखे पोषिता या प्रेयस्यथ च पक्षपुटके संवर्धिताः शाबकाः । यत्प्रीतिर्मनसो मुदे ह्यजनि तद्बालाबलावञ्चितो नीडे सम्भ्रमदन्धवृद्धशुकवत् खिद्ये हरे पाहि माम् ॥ ५॥ धृत्वाण्डं स्वमुखेऽक्षतं तत इतो नीत्वा मनोज्ञस्थले न्यस्थानीय च दूरतः सुमधुरं संवर्घ्य दत्त्वा ततः । उन्नम्य स्वशिरो निपात्य च मुहुर्भ्राम्यन् वियुक्तश्च तैः सञ्चाराक्षमपीनजृम्भवदहं खिद्ये हरे पाहि माम् ॥ ६॥ सङ्गृह्याम्बु हि बिन्दुशो विरुवतः संवर्घ्य भेकान् बका- नन्येषां कलमान् जडाशयतया सन्तर्प्य वैदेशिकान् । ग्रीष्मे क्षीणजलश्च तैर्विरहितो हा गाधकासारवत् शोच्यां दीनदशां गतोऽस्म्यव कृपासारेण कृष्णाम्बुद ॥ ७॥ त्वां विस्मृत्य मदान्धधीर्ममतयैवावर्धयं यान् गता- स्त्यक्त्वा ते कलमा इवाशु सवशा वात्सल्यनक्रार्दितम् । अन्ते कोऽपि न कस्यचित् सुहृदिति ज्ञातं भवन्तं विना याचे नाथ गजेन्द्रमोचन हरे श्रीकृष्ण मामुद्धर ॥ ८॥ आच्छिद्यान्यकरस्थमन्नमुदरे धृत्वा शिशुं तन्मुखे दत्त्वा सम्परिवर्घ्य सन्मुखगतान् वित्रास्य विद्राव्य च । उत्प्लुत्याथ गतेऽर्भके ममतया कूजन् क्षुधापीडितो वाताकूणितजीर्णकीशवदहं खिद्ये हरे पाहि माम् ॥ ९॥ धैर्यादेकचरोऽखिलान् वनचरान् वित्रासयन् गर्जितै- र्दैवाद् विश्लथसक्थिजानुरपरिस्पन्दः शयानः क्षितौ । सप्राणोऽतिनिकृष्टजम्बुकवृकाद्याघ्रातमूर्धोदर- स्ताम्यन् व्याघ्र इवाधितप्तहृदयः खिद्ये हरे पाहि माम् ॥ १०॥ त्वद्भक्तिं प्रविमुच्य मुक्तिरमणीप्राप्त्यग्र्यदूतीं हरे मोहात् संसृतितज्जकाममुखदुष्पुत्रानुरक्तश्चिरात् । सम्प्राप्तां कफवातपित्तजननीमाश्लिष्य साध्वीं जरां सुप्तः श्रान्ततयोत्स्वपाम्यव हरे मामित्यलं तन्न किम् ॥ ११॥ पुन्नाम्नो नरकात् परत्र भयदात् त्रातेति पुत्राभिधा ये हिंसन्ति सदेह ते स्युरपि तच्छब्दाभिधेयाः कथम् । इत्येतन्न विचार्य दुष्कृतशतं कृत्वापि ते वर्धिताः प्लुष्टं तद्वृजिनाग्निनाव करुणापीयूषलेपैर्हरे ॥ १२॥ भ्रान्त्वा योनिशतं भवत्पदकथालेशावशाकर्णना- ल्लब्ध्वेमं मनुजोद्भवं च विभवं याचे हरे नाभवम् । तत् पृच्छामि भवन्तमेव हि भवं श्रान्तस्तरेयं कथं त्वत्कारुण्यलवं विना गजपरित्राणापदानाव माम् ॥ १३॥ विस्रम्भात् तमजामिलं गजपतिं वेश्यां च तां पिङ्गलां श्रुत्वा त्रीन् भवतोद्धृतान् समभवं स्वच्छन्दचारी सदा । त्यक्तोऽहं तनयैर्गजैरिव भवन्नाम्नाह्वयाम्यन्वहं निर्विण्णोऽस्म्यधनागमात् तदव मां निर्दोष नारायण ॥ १४॥ किं वक्ष्ये तनयाः सदोज्झितनयाः कान्ता कृतान्ताश्रया चित्तं वित्तरतं मतिस्त्वघवती श्वासाश्च कासावृताः । कायश्चामयवान् स्वधर्मचरणे दक्षो न चाक्षैः परं भीतोऽहं भवतो भवन्तमभयं याचे हरे पाहि माम् ॥ १५॥ लब्धैर्हि त्वदनुग्रहेण वसनालङ्कारवित्तादिभि- र्भार्यापुत्रसुतास्नुषातदनुगान् सन्तर्पयित्वा ततः । हा त्वद्विस्मृतिदोषतश्च सकलैस्तैरुज्झितो धिक्कृतः खिद्ये संयमिनीगताघिवदहं श्रीकृष्ण मां पालय ॥ १६॥ षष्ठाष्टव्ययदुःस्थितेषु खचरेष्वेको गुरुः कर्कटे- ऽत्युञ्चो रक्षति मेषजं खलु तथा पुत्रेषु मां माधवः । अन्यो दुर्ग्रहमन्दवन्ननु मिलन्नैनं यथा दूषयेत् संरक्ष्याथ तथा मदिष्टद हरे तं श्रेयसा योजय ॥ १७॥ भूत्वा ब्रह्मविदात्मजो वृजिनधीर्वृत्तिं च वैश्यां श्रित- स्तद्दूरार्जितवित्तमाश्वपहृतं पुत्राभिधैस्तस्करैः । तेनैवागतिकोऽस्मि केवलमिहामुत्रापि दौर्भाग्यवान् नाथ त्वां शरणं व्रजामि कृपया श्रीकृष्ण मामुद्धर ॥ १८॥ त्यक्त्वा त्वद्भजनं द्विजोत्तमसुतो भूत्वापि राजाश्रयं कृत्वा यद्धनमार्जितं तदखिलं भक्ताभिमानाद्धरे । मन्ये तद्वृजिनं धनाश्रयमतः पुत्रैस्त्वया हारितं त्वं वित्तापगमे प्रसीदसि किल श्रीकृष्ण पाह्याशु माम् ॥ १९॥ सत्यं दारसुतादयो मम कथं वा स्युर्यदादौ भव- द्दासोऽहं न ममास्म्यथोज्झितभवद्दास्येन (ये) रक्षिताः । तेऽभिज्ञा हि न नोऽयमित्यथ गता भ्रष्टस्ततोऽतोऽप्यहं स्वामिन् दासजनार्तिनाशन हरे श्रीकृष्ण मां पालय ॥ २०॥ भार्या प्राग् विलयं गताथ तनयैर्यत् प्राप्तभार्याधनै- स्त्यक्तोऽहं धनलोभतस्तदभवं पुत्रैषणावर्जितः । निःस्वत्वान्न च बान्धवा न सुहृदो नान्यञ्च सांसारिकं निर्यत्नेन मुमुक्षुधर्मसहितं द्राक् कृष्ण मामुद्धर ॥ २१॥ भार्या सा तु मृता प्रयातु सुगतिं पुत्राश्च ये निर्गताः स्वच्छन्देन कलत्रवित्तसहिता नन्दन्तु दीर्घायुषः । किं मे बन्धुजनैः सुहृद्धिरथवा कालानु गैस्तैर्हरे त्वद्भक्तिः श्रितभुक्तिमुक्तिसुखदा सैकास्तु मे शाश्वती ॥ २२॥ यद्देहे कलितादरौ हि पितरौ पुत्रास्तु वित्तादरा भार्या च द्वितयादरा न तदहं तेषां न चैते मम । दासोऽहं भवतो भवानथ मम स्वामीति लब्धा स्मृति- स्तेभ्यो दैववशाद् वियुक्तमधुना श्रीकृष्ण मामुद्धर ॥ २३॥ उक्षेवाद्मि हि कुक्षिपोषणपरो विक्षोभ्य विक्षोभ्य स- द्भक्ष्यान् माक्षिकशर्कराघृतयुतान् क्षीराप्लुतान् मङ्क्ष्वहम् । नाद्राक्षं ह्यधिमोक्षदं तव पदं साक्षी भवानक्षयो भिक्षे क्षीणवयास्तथाक्षिविकलो मां रक्ष पक्षीशग ॥ २४॥ वाल्यं क्रीडनकौतुकेन विषयव्यासङ्गतो यौवनं यातं वार्धकमप्यनेकविधया दुश्चिन्तया नीयते । कार्यं त्वद्भजनं कदेति समुपक्रान्ते विचारेऽन्तरा रोगा व्याकुलयन्ति हन्त भवरुग्वैद्याव नारायण ॥ २५॥ ह्यो यातं ह्यथ यातु चाद्य किमतो यच्छ्वः प्रभृत्यन्वहं कार्यो धर्म इति ब्रुवन् ननु जराजीर्णोऽवशोऽन्धोऽभवम् । साधिः साधितवान् न धर्ममथ सत्कर्मापि शर्मास्पदं जीर्णानाथपिशाचवन्नरहरे कोशामि मामुद्धर ॥ २६॥ जातोऽस्म्यस्फुटवाक् स्खलद्गतिरतिक्षुत्तृट्परीतोऽवशः पाल्योऽन्यैरथ शीघ्रमोदशुगहं भीतोऽभितो बालवत् । वृद्धत्वं हि नृणामदेहविगमं प्रायेण जन्मान्तरं भक्तं पापिनमुद्धरस्यथ परे जन्मन्यव श्रीश माम् ॥ २७॥ देहो जीर्णगृहोपमो न वशगं चित्तं क्वपत्यप्रभं सामर्षा कुटिला स्नुषेव च मतिः कुस्त्रीव दुष्टा च वाक् । दुःसाधानि तथेन्द्रियाणि शठदुर्मित्रोपमानान्यतः पाल्यः कृच्छ्रगतो रमेश भवता दास्यानुबन्धेन हि ॥ २८॥ तैः सम्यक्कृतमित्यवैमि तनयैर्यैरस्म्यहं प्रोज्झित- श्चास्माभिर्गलितैषणैर्हि यदनुष्ठेयं पुरानुष्ठितम् । स्वश्रेयः प्रविहाय सत्पुरुषताशाप्तोपकर्तृत्वतः सिद्धं नः सुसमीहितं हि कृपया मामुद्धर श्रीहरे ॥ २९॥ वृद्धोऽन्धः सरुगद्मरः परवशः क्षुत्तृट्परीतोऽबलः शोच्योऽहं न च शोचितास्ति हि मृतिः क्लृप्ता कदा वैतु सा । स्त्रीपुत्रैः स्ववशीकृतेन न मया स्वाराधितस्त्वं हरे त्यक्तस्तैरघुना त्वदेकशरणं मां पाहि नारायण ॥ ३०॥ दत्तो यो भवता रमेश कृपया कैवल्य संसाधने कायः कल्पतमस्त्वनेन रमणीपुत्रादयश्चार्जिताः । यातास्तेऽप्यनयार्जिता यदुभयभ्रष्टोऽस्मि तन्निष्कृतिं देहान्तामिह कारयाशु कृपया कालात्मक श्रीहरे ॥ ३१॥ देशा वङ्गकलिङ्गकेरलमहाराष्ट्राङ्गचोलादयो भ्रान्ताः पुत्रकलत्ररक्षणकृते कार्यार्थमेवात्मनः । गन्तुः संयमिनीं न धर्ममयसत्पाथेयमल्पं च मे याचे नागतपूर्व इत्यव कृपालेशेन लक्ष्मीपते ॥ ३२॥ दृष्टाश्च प्रभवः स्तुताश्च वसु चोपात्तं समाराधिताः स्त्रीपुत्रानुचरास्तदा न च भवान् सन्तर्पितो हृद्गतः । तस्मात् संयमिनीपतिः प्रकुपितो दूतैः स मां क्लेशयेत् तेभ्यो मोचय साहचर्यजनितम्प्रेम्णा जगन्नायक ॥ ३३॥ यत्प्रातः क्षुधयाथ भोजनपरिश्रान्त्या ततः स्त्रीसुता- द्यालापेन च निद्रयाथ निशि चाक्रान्तं मदीयं मनः । न त्वां स्मर्तुमपीहतेऽहमधुना जीर्णो मुमूर्षुः स्थिता दूताः संयमिनीपतेश्च निकटे तेभ्यो हरे रक्ष माम् ॥ ३४॥ यज्जिह्वा रसलालसाथ नयने ज्योतिर्विहीने श्रुति- र्दुर्वार्तैकरतिः सुगन्धवशगश्वासा च नासा सदा । कायोऽपायनिकाय इत्यपगतं बाह्येन्द्रियोपासनं विज्ञाप्यं स्वमनोगतं किमिति तद्भृत्यार्तिहन् पाहि माम् ॥ ३५॥ पुत्रं प्रेरयति प्रसह्य च शुभोदर्के हि कृत्ये पिता माता पालयति स्वयं शठमतिं मूर्खं च दुष्टं तथा । सृष्टोऽहं भवता द्विजोत्तमकुले जाने न सद्वाप्यस- द्धर्मे प्रेरय पालयेह पितरौ श्रीश त्वमेकोऽसि यत् ॥ ३६॥ यत् पश्यंश्च कुटुम्बिनोऽथ धनिकान् शश्वन्मृतान् कीटवत् त्वां नाराधयमङ्गनासुतगृहद्रव्य दिलोभान्वितः । श‍ृण्वन् नारकियातनामथ निजं खिद्ये स्मरन् दुष्कृतं तन्मां केशव पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ३७॥ वृद्धा यत्पितरौ मृतौ हि वनितापथ्यात् प्रमादात् सुतो मन्त्रानस्त्विति चावशिष्टजनसंरक्षाविधौ व्यापृतः । पश्चात् तैश्च निराकृतोऽहमधुनानन्याश्रयस्त्वां भजे मां नारायण पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ३८॥ पश्यन्नेव पितॄद्रुहः कुतनयान् नागप्रतिष्ठादिकं पुत्रप्राप्तिसमीहया ह्यकरवं त्यक्तोऽथ जातैः सुतैः । तस्येदं किल कर्मणः फलमिति श्रान्तो भवन्तं भजे तन्मां माधव पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ३९॥ वृद्धौ यत् पितराविति प्रियतमा नावाप्तपुत्रेत्यथो बालास्ते तनया इति स्वभवने स्थित्वा चिरान्निर्गतः । मामेषानुगता जरा स्मृतिहरा विस्मारितस्त्वं तथा गोविन्दोत्तम पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ४०॥ यत् कृत्यं गृहिणः कृतं हि तनयानुत्पाद्य संस्कृत्य तत्- सद्वृत्तेः परिकल्पनं च न भवानाराधितस्त्वन्तरा । सत्यं साप्तपदीनमाहुरिति तत् संस्मारये प्रेरकं विष्णो सर्वग पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ४१॥ यत् पित्रोः किल जीवतोर्हि वचनं कार्यं सुतैर्नादृतं तत् तैस्ते त्वथ रक्षिता न च भवानाराधितो यन्मया । क्षन्तव्यं भवतोऽभयं करुणया याचेऽनुतप्तोऽधुना तत् त्वं मधुसूदनाव जहि वा त्वत्तो न मेऽन्या गतिः ॥ ४२॥ त्यक्तास्ते न मया शठा अपि सुता नीतिं त्विमां श‍ृण्वता यत् संवर्ध्य विषद्रुमोऽपि न पुनः छेत्तुं स्वयं साम्प्रतम् । यातास्ते प्रविमुच्य मां सुफलितं दैवेन तत् त्वां भजे पाहि त्वं जहि वा त्रिविक्रम हरे त्वत्तो न मेऽन्या गतिः ॥ ४३॥ कः खेदो ननु निर्गता इति सुता यद् देहलग्नान्यहो स्वैरं कानिचिदिन्द्रियाणि हि गतान्यन्यानि यास्यन्ति हि । कालोऽत्र प्रभुरित्यवाप्तचिदहं कालात्मकं त्वां भजे त्वं मां वामन पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ४४॥ यातौ तौ पितरौ मम प्रियतरौ जातोऽस्मि याभ्यामहं ते पान्था इव निर्गताश्च तनयाः किं तैः स्थितैर्वा गतैः । प्रागूर्ध्वं जननान्मृतेरिव भवांस्त्रातेत्यहं त्वां भजे तन्मां श्रीधर पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ४५॥ बाल्यात् स्त्रीसुतमोहतः कुमतितो लोभाद् भवान् नार्चितो वृद्धत्वादथ रुक्श्रमान्मृतिभयाद् भार्यासतानादरात् । त्वत्सेवानिरतोऽर्चितुं स्वकरणैः क्षीणो न शक्नोम्यहं पाहि त्वं जहि वा ममास्ति न हृषीकेश त्वदन्या गतिः ॥ ४६॥ स्वाद्वन्नं न निवेदितं न च हुतं सन्तर्पिता न द्विजाः स्वादु स्वाद्विति चाशितं स्ववनितापुत्रैः सदा यौवने । जीर्णोऽहं त्वधुना स्मरामि तदपि त्वां भोजनाभ्यन्तरे पाहि त्वं जहि वा ह्यनन्यगतिकं श्रीपद्मनाभ प्रभो ॥ ४७॥ चातुर्मास्यमविघ्नतो न रचितं न द्वादशी साधिता नैवाकारि च विष्णुपञ्चकमपि श्रीकान्ततुष्ट्यै व्रतम् । भीतोऽहं ह्यधुना यमाद् भयहरं सर्वात्मना त्वां भजे तद्दामोदर पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ४८॥ क्रीडाभिर्विषयोत्सवैश्च गमितं तद् यौवनान्तं वयः श्रान्तोऽहं ह्यधुना करोमि सुकरं बाह्येन्द्रियोपासनम् । चित्तं चालयतीन्द्रियाणि चपलं तत् तुभ्यमावेदये मां सङ्कर्षण पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ४९॥ यत् कर्तुं किल निश्चिनोमि न च तच्छक्नोमि संसाधितुं यत् स्वप्नेऽपि न चिन्तितं तदवशात् सम्पत्स्यते पुष्कलम् । इत्थं कृच्छ्रगतोऽपि सद्गुरुकृपावष्टम्भतस्त्वां भजे पाहि त्वं जहि वा ह्यनन्यगतिकं श्रीवासुदेव प्रभो ॥ ५०॥ एतत् कार्यमकार्यमेतदिति हि ज्ञात्वान्यथैवावशात् कुर्वे तन्मम दुर्विधेविंलसितं कस्याग्रतो रोदिमि । हीनः स्वीयजनैर्धनैः सुकरणैस्त्वां चिन्तयाम्यन्वहं प्रद्युम्नात्मग पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ५१॥ पुत्राः पित्तकफज्वरा बहुतरापथ्यस्वरूपाः स्नुषा- स्तद्दोषोऽजनि सन्निपातजनितः क्रोशाम्यहं रोदिमि । मुह्यामि प्रलपाम्यतश्च भवरुग्वैद्यं भजे त्वामहं पाहि त्वं जहि वानिरुद्ध कृपया त्वत्तो न मेऽन्या गतिः ॥ ५२॥ न ध्यातं पदमर्चितं न तुलसीपुष्पैर्न मूर्ध्नाननं नैवाभिष्टुतमीक्षितं न न च तन्माहात्म्यमाकर्णितम् । याते सेतुमिवोदके गतवयास्तत्कर्तुमीहेऽधुना तन्मां श्रीपुरुषोत्तमाव जहि वा त्वत्तो न मेऽन्या गतिः ॥ ५३॥ निद्राहारविहारलोलमनसा नीत्वा ह्यलभ्यं वयः स्वल्पायुर्जरठोऽवशेन्द्रियगणो निःस्वोऽसहायोऽधुना । त्वत्सेवाकलितोऽद्य मोहमवनौ जातोऽपहासास्पदं देवाधोक्षज पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ५४॥ कामाद्यैरसुरैर्हि निर्दयमहं बद्धो निरुद्धोऽर्दितो रुक्सर्पैरथ दंशितो मदगजेनालोलितो मज्जितः । क्लेशाब्धौ स्वजनार्तिनाशनमहं तत् त्वां शरण्यं भजे पाहि त्वं जहि नारसिंह कृपया त्वत्तो न मेऽन्या गतिः ॥ ५५॥ कुर्वन्नेव हि विस्मरामि कृतमप्यावर्तयाम्यन्तरा मोहात् तच्च समापयामि समुपक्रान्तस्य नान्तं भजे । चिन्त्योऽन्ते हि भवान् मम स्थितिरियं जाने न किं स्यात् कदा तन्मामच्युत पाहि वाथ जहि वा त्वत्तो न मेऽन्या गतिः ॥ ५६॥ कामाद्या न वशं प्रयान्त्यनुगता जामातृवद् दुर्भरा नेमां त्यक्तुमथोत्सहे ननु जरां रामामिवोढां सतीम् । सामाद्यैर्ने च जेयमेव हि मनो धिङ् मामवश्येन्द्रियं पाहि त्वं जहि वा जनार्दन परा त्वत्तो न मेऽन्या गतिः ॥ ५७॥ पादौ प्रस्खलतः स्थिरौ न च करौ गात्रं सकम्पं शिरो भ्राम्यद्गद्गदनिस्वनस्त्वथ गलश्चक्षुर्भ्रमत्तारकम् । नूनं त्वत्पुरतः प्रनर्तयति मां सेयं जरा नर्तकी पाहि त्वं जहि वाप्युपेन्द्र कृपया त्वत्तो न मेऽन्या गतिः ॥ ५८॥ यद्धर्माधिकृता मयानुसरता भूपान् कृतं पातकं यद्वा केरलवासिना गणयितुं शक्यं न तत सर्वथा । तत् त्वं संहरसि स्मृतोऽपि सकलं तस्मादहं त्वां भजे पाहि त्वं जहि वा हरे करुणया त्वत्तो न मेऽन्या गतिः ॥ ५९॥ त्वन्नामस्मृतिरित्युवाच भगवान् व्यासः परा निष्कृतिः शक्ता सा मम पातकान् क्षपयितुं मत्वेति जातादरः । वच्म्यार्तः स्वकृताघतप्तहृदयः श्रीकृष्ण कृष्णेत्यहं पाहि त्वं जहि वा ह्यनन्यगतिकं श्रीकृष्ण तुभ्यं नमः ॥ ६०॥ मात्स्यं कौर्ममहो वपुर्हि विधृतं वाराहमत्युद्धतं भक्तार्थं त्वथ नारसिंहमचिरात् तद्वामनं चार्षकम् । क्षात्रं गोपनिभं च बौद्धमथ तद्धर्तासि कल्क्यात्मकं तत् त्वां कृष्ण भवाब्धिपोतमनिशं ध्यायामि भक्तेष्टदम् ॥ ६१॥ शङ्खः पाणितलेऽथ मन्दरगिरिः पृष्ठे च भूगोलको दंष्ट्राग्रे विधृतो हिरण्यकशिपुः शस्तो बलिर्निर्जितः । दुर्भूपा दशकण्ठकेशिशकटाद्याः पोथिता मोहिता दैत्या ग्लेच्छगणान् हनिष्यसि भजे त्वां कृष्ण सर्वोत्तमम् ॥ ६२॥ मुख्यप्राण नमोऽस्तु ते कुरु कृपां याचे निबद्धाञ्जलि- र्मामुत्क्रामय रुग्णजीर्णवपुषश्चान्ते हरिं स्मारयन् । मत्कर्मानुगुणा गतिर्हि विहिता या कापि वा यामि तां भक्तिर्मेऽस्तु हरौ गुरौ परमिका तत्राप्यनन्या स्थिरा ॥ ६३॥ मातर्यद्विधृतं हि मासनवकं कुक्षौ ततो वर्धितं वासार्थं मम तद्गतेन हि मया क्लेशाश्च ये वर्णिताः । स्वप्रारब्धसमार्जिता हि त इमे तस्मात् त्वया क्षम्यतां शुष्यज्जीर्णकलेवरं हि तदिदं त्यक्तानुमन्यस्व तत् ॥ ६४॥ आगर्भं भृशमम्बया च भवता यत्पालितं लालितं यस्मिन् संवसता मया ह्यधिगतं सौख्यं परं सद्यशः । प्राप्तं दुःखमथापि यत् तदपि मत्प्रारब्धशेषात्मकं त्यक्ष्ये जीर्णकलेवरं तदधुना तातानुमोदस्त्र तत् ॥ ६५॥ ये ज्ञानामृतसेकपूतहृदयस्वाराधितश्रीधरा- पादस्वङ्गविलोकनोद्भवपरानन्दैकतृप्ताः स्वयम् । शिष्यानुग्रहकारिणः स्वगुरवश्चानेन ये सेविता- स्त्यक्ता जीर्णकलेवरं हि तदिदं मां तेऽनुगृह्णन्त्वलम् ॥ ६६॥ मोहाद् दुर्विषयेषु सक्तमनिशं सर्वैः सहैवेन्द्रियैः स्नेहात् त्वामनुमन्यता हि बहुशो नीतं मयायुः क्षयम् । स्वल्पं शिष्टमतोऽत्र वा मम कृते त्यक्त्वा निजं चापलं साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ६७॥ वैकुण्ठे वरदिव्यरत्नजटिलप्रासादवप्रोज्ज्वले श्वेतद्वीपवरे हरिप्रियतमावासे च दुग्धाम्बुधौ । योगिध्येयमचिन्त्यशक्तिविभवं चानादिमध्यात्ययं साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ६८॥ नृत्यद्दिव्यवराप्सरोभिरथ सातोद्यैस्तथा किन्नरै- र्ब्रह्याद्यैः समुपास्यमानमुचितस्वस्वाधिकारार्हणैः । स्वासीनं नवभक्तिरत्नविलसन्मुक्त्युच्चसिंहासने साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ६९॥ मेघश्यामलमुच्चलत्क्षणरुचिद्युत्याभहेमाम्बरं श्रीमत्कौस्तुभकङ्कणादिवरसद्भूषागणालङ्कृतम् । भास्वद्रत्नकिरीटकुण्डललसत्स्मेराननं सुन्दरं साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ७०॥ प्रोद्यच्चन्द्रशताभहीरमणिसुस्तम्भोच्चसन्मण्टपे क्षीराम्भोनिधिमध्यसम्भृतमहामुक्तावितानोज्ज्वले । उत्कीर्णोज्ज्वलचन्द्रकान्तमयसद्भद्रासनेऽधिष्ठितं साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ७१॥ भृग्वाद्यैरभिवन्दितं मुनिवरैर्ब्रह्मादिभिः सेवितं गीर्वाणैः सनकादिसिद्धनिवः संस्तूयमानं मुदा । गायन्नारदतुम्बुरुप्रभृतिभिः ख्यातापदानं सदा साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ७२॥ विभ्राजद्वरशेषमञ्चगमिलादुर्गाकरान्दोलितं सन्मन्त्रोपनिषद्व्यपाश्रयमसङ्ख्येयावताराभिधम् । विष्वक्सेनमहागताभिनवसन्मुक्तैर्मुहुर्वन्दितं साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ७३॥ तैर्बद्धाञ्जलिभिः स्वमूर्ध्नि सहितैः भूतादिकालैस्त्रिभिः स्वाज्ञाभ्रूवलनावलोकनपरैश्चोपास्यमानं सदा । मुक्तानेकचतुर्मुखैः स्तुतिपरैर्वेदेश्चतुर्भिर्वृतं साङ्गं सायुधमिन्दिरायुतहरिं चेतः सकृत् संस्मर ॥ ७४॥ चूडारत्नपरम्परोज्ज्वलफणासाहस्रसन्मण्टपे स्वास्तीर्णामलशेषभोगशयने विध्यास्यदत्तेक्षणम् । लक्ष्मीकोमलपाणिलालितपदाम्भोजं शयानं मुदा सञ्चिन्त्योपरतिं भजान्तसमये मच्चित्त नारायणम् ॥ ७५॥ आराध्यौ पितरौ प्रिया त्वथ समाधेयानुनेयाः सुताः पूज्याश्चातिथयो यथाविधि समभ्यर्च्या निजा देवताः । द्रष्टव्याः प्रभवो धनार्जनकृतेऽभ्यस्याः कलाः स्वास्थ्यत- श्चाह्नः कृत्यमिदं ततः सुगृहिणां दुखात्मिका संसृतिः ॥ ७६॥ यद्गर्भे त्वथ शैशवे ह्यविदिताः क्लेशाश्च तिष्ठन्तु ते व्याध्याधिप्रभवाश्च कीटपशुजाः क्षुत्तृट्प्रवासारिजाः । एवं तान् सकलानलोलमनसा शश्वच्च निध्यायतां किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ७७॥ यद्बाल्ये पितृनिघ्नता गुरुकुले वासस्ततोऽस्तु द्वयं कैङ्कर्यं धनिनामथामृति ततो हा स्त्रीसुताधीनता । स्वेच्छाहारविहारसौख्यविधुरं तत्पारतन्त्र्यं विदुः किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ७८॥ पित्रोश्चेन्निरतो हिते प्रियतमा कुप्यत्युदास्ते सुत- स्तत्पथ्ये पितरौ न शर्म लभतः साध्यो न सर्वादरः । सन्त्याज्याः स्वसहोदरा अपि समाराध्याः प्रियाबान्धवाः किं वात्रात्ममुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ७९॥ साध्वी चेद्वनिता सुतो न स च चेन्मूढोऽथवा दुर्जनः सत्पुत्रो यदि दुर्निवाररुगतिश्रान्तो दृढाङ्गोऽथ चेत् । भर्तुश्चाप्यहिता स्नुषा यदि हिता तद्वंशजक्लेशदा किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८०॥ जाता पुष्पवती प्रियाथ वपुषि व्याप्ता च रुग् दुःसहा सम्भूतस्तनयो मृता प्रियतमाथोढापरा कन्यका । सम्प्राप्ता प्रलयान्तसन्ततिमहाचिन्ताविलासा जरा किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८१॥ स्मृत्युक्तानुगुणस्वधर्मचरणे भ्रान्तं तमाचक्षते तस्मात् तद्विपरीतकार्य करणे दुर्वृत्तमित्येव तम् । तन्मिश्राचरणे तु हन्त मनुजो भ्रष्टस्ततोऽतो भवेत् किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८२॥ क्लिश्यत्येव हि निर्धनोऽथ धनिकस्तद्रक्षितुं चान्वहं चोरेभ्यो निशि निद्रिते निजजने जाग्रत् स्वयं खिद्यते । धर्म नैव च कारयत्यथ गृहे मुष्णन्ति भार्यासुताः किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८३॥ दत्तं यद्धनिकैर्धनं किल पितस्तत् त्वं कुटुम्बीति ते तच्चास्माकमघात् प्रतिग्रहकृताच्छुध्येर्धनानीहया । कस्मात् ताम्यसि भुङ्क्ष्व शेष्व च सुखं शंसन्ति वेत्थं सुताः किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८४॥ बह्वादाय धनं गृहिण्यथ गृहं प्राप्ते तमावृण्वते द्राग् भार्यातनयादयः सकुतुकाश्चालोलयित्वार्जितम् । एतन्मेऽस्तु ममैतदर्हमिति तद् धृत्वाथ नेक्षन्ति तं किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८५॥ हित्वास्मान् वद धर्म इत्यथ वृथा कोऽयं हि वित्तव्ययः प्रातःस्नानजपानतिस्तुतिभिरेवालं हि धर्मोऽर्जितः । वृद्धत्वे तव कोऽवितेति कुपिता निन्दन्ति भार्यासुताः किं वात्रात्मसुखं ततः सुगृहिणो दुःखात्मिका संसृतिः ॥ ८६॥ भार्या नाद्रियते न जल्पति सुतो निन्दत्यभीतिः स्नुषा पौत्राश्चापहसन्त्यथोक्तसमये भृत्या न चोपासते । वृद्धस्ताभ्यति घस्मरान् निजगृहे दृष्ट्वा स्नुषाबान्धवान् किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८७॥ सर्वस्वं सुतसात्कृतं हि भवता क्लिश्यन्ति मे कन्यकाः खिद्येऽहं कृपणाप्सरा इव मुदा दीव्यन्ति गेहे स्नुषाः । इत्थं व्याकुलयत्यलं कुबनिता निर्विद्यमानं पतिं किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८८॥ धर्मोऽधर्म इति ह्यवाप्तमचिराद् दारिद्र्यमव्याहतं पश्येमां प्रतिवेशिनीं सुवसनां सद्भूषणालङ्कृताम् । धर्मो ह्येष कुरु प्रतिग्रहमिति व्यालोलयन्त्यां स्त्रियां किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ८९॥ यातं बाल्यमशेषलाल्यमथ तन्नष्टं क्षणाद् यौवनं वृद्धत्वं समुपागतं त्वथ लयः सम्भावितोऽस्य क्रमात् । कालाधीन वपुष्मतोऽन्यगृहवत् कोऽयं ममत्वभ्रमः किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ९०॥ सम्प्राप्नोति यथालयान् हि विचरंश्यारो हि राजाज्ञया देही देहशतं स्वकर्मजनितं तद्वद्धरेराज्ञया । दुःखव्याधिजरा विपत्तिमरणोद्भूतं हि निध्यायतः किं वात्रात्मसुखं ततः सुगृहिणां दुःखात्मिका संसृतिः ॥ ९१॥ भ्राम्यत्येव मनोऽर्पितं त्वयि मुहुर्न स्थैर्यमालम्बते वैराग्यं न दृढीभवत्यवगते क्लेशेऽपि सांसारिके । त्वां ध्यायामि कथं स्मरामि च कथं लीलामघध्नीं तव त्वद्भक्तिं सुदृढां विरक्तिसहितां देह्याशु नारायण ॥ १२॥ नष्टांस्तान् पितृमातृसोदरसुताभार्यादिकान् संस्मरन् नैराश्यं निजजीवितेऽपि कलयन् प्रारब्धनिघ्नोऽन्वहं श्रान्तस्त्वां भृशमानमन् हि शिरसा याचे प्रपन्नार्तिहं- स्त्वद्भक्तिं सुदृढां विरक्तिसहितां देह्याशु नारायण ॥ ९३॥ स्वामिन् श्रीपरवासुदेवगुरुणा यत् त्वत्सनाम्ना भव- न्माहात्म्यं कथितं हि तत्रभवता तत्रेदमत्यद्भुतम् । अस्यन्तर्बहिरित्यचिन्त्यमहिमंस्तद्वन्निदिध्यासत- स्तत् प्रत्यायय चित्सुखाङ्गविलसच्छश्वन्ममान्तर्बहिः ॥ ९४॥ निर्वक्तुं न हि शक्नुवन्ति निगमास्त्वां त्वं न दृग्गोचरो- ऽस्यण्वन्तर्जगतो बहिश्च भगवन् जाने विभुं त्वां ततः । ध्येयस्त्वं हि कथं यतोऽस्यनुपमस्तस्मात् त्वमेव स्वयं मच्चित्ताअद्भुतरूपशक्तिमहिमन् नारायणाविर्भव ॥ ९५॥ संसृष्टे हृदयस्थले मम परं श्वासानिलैः सन्ततं त्वद्भक्त्या वरुणेन नित्यममृतासारेण चाप्लाविते । अम्लानस्फुटपुण्डरीकविलसत्सत्कर्णिकायां सदा प्रोद्यत्कोटिरविप्रकाश विलसन्मां पाहि नारायण ॥ ९६॥ चाञ्चल्यान्मनसो न भक्तिरचलाशक्त्या न कर्मादर- स्तत्पर्याप्तसहायवित्तविरहान्न स्त्रोक्तधर्मोद्यमः । आत्मत्राणकृते प्रसीद भगवन् याचेऽन्तकाले मम श्रीनारायण निःसरन्तु मुखतस्त्वन्नामवर्णाः क्रमात् ॥ ९७॥ यज्ञाद्याः सकलाः क्रियाश्च कृतिनां सप्रत्यवायाः सदा ज्ञानं ते बहुजन्मसाध्यमथ च ध्यानं मनस्थैर्यजम् । सौलभ्याद् द्रुतसिद्धितोऽपि च कलौ याचेऽन्तकाले मम श्रीनारायण निःसरन्तु मुखतस्त्वन्नामवर्णाः कमात् ॥ ९८॥ आराध्यात्मगुरून् चिरं गुरुकुले स्थित्वात्तविद्यैः परं प्राप्यं यत् तदजामिलेन सहसा त्वन्नामसङ्कीर्तनात् । प्राप्यं कर्तुमलं न चाहमितरद् याचेऽन्तकाले मम श्रीनारायण निःसरन्तु मुखतस्त्वन्नामवर्णाः क्रमात् ॥ ९९॥ प्राग्जन्मस्वथ चेह जन्मनि मया ये चापराधाः कृताः क्षन्तव्या भवता हि तेऽहमभवं त्वद्भक्तवंशे यतः । त्वद्भक्ता गुरवश्च मे ह्युभयथानुग्राह्य भक्ते मयि श्रीनारायण भक्तवत्सल कृपासिन्धो प्रसीदाधुना ॥ १००॥ ब्रह्माद्यान् विबुधानृषीन् भृगुमुखान् पूज्यान् पितॄन् मद्गुरून् मान्यान् बन्धुजनान् द्विजानपि तथा स्तौम्यन्वहं नौमि च । कृत्वानुग्रहमत्र ये सकरुणा मां श्रेयसायोजय- न्नन्तेऽमुत्र च तेऽर्थयन्त्वथ हरिं निःश्रेयसायापि मे ॥ १०१॥ रङ्गाचार्यतनूभवेषु गणने यो जन्मतो मध्यमः सा प्रासूत सरस्वती यमुटके गोविन्दनामा च यः । श्रीमत्कौलगिवासुदेवचरणा यस्मिन् कृतानुग्रहा- स्तेनेयं रचिनार्पिता हरिपदे वैराग्यमुक्तावलिः ॥ १०२॥ न सुवर्णग्रथितेयं न महार्हपदार्थसुचिरनिर्वर्ण्या । तदपि च मुक्तावलिरिति हरिपदभागिति भवेत् सुजनमान्या ॥ १०३॥ चोले तञ्जपुरस्थेन सेयं मुक्तावलिः शुभा । ग्रथिता दुन्दुभौ ग्रीष्मे कलिमाने गतेधवे (४९६३) ॥ १०४॥ इति श्री-उटके-रङ्गाचार्यसुतगोविन्दाचार्यविरचिता विरक्तिमुक्तावलिः सम्पूर्णा । रुधिरोद्गारिण्यधिसृतिविमनोयोगेन निजसुखं प्राप्ताः । चैत्रे सितसप्तम्यां गोविन्दार्या हरेः पदं याताः ॥ स्तोत्रसमुच्चयः २ (७४) Govindacarya, author of the Viraklimuktdvali (74) was the son of Rangacharya and Sarasvati and belonged to the uTake family. He mentions his Guru’s name as (Kaujagi) Vasudevacharya. He also pays homage to one (Kaulagi) Raghunathacarya. Obviously the author was a follower of Madhvacarya whose name he mentions in the former work (v. 5). The Viraklimukldvali which gives an elaborate description of the difficulties and worries of old age was composed in the Kali year 4963 (A.D. 1862) when he was a resident of Tanjavur (Tanjapuri). According to a verse found after the colophon (above), the author died in the year Rudhirodgari, seventh day of chaitra month, i.e. about a year after the completion of the stotra. The author might be identical with the compiler of the NAtyashastrasamgraha published in the Tanjore Sarasvati Mahal Series (No. 52, 1933). Proofread by Rajesh Thyagarajan
% Text title            : Virakti Muktavalih
% File name             : viraktimuktAvaliH.itx
% itxtitle              : viraktimuktAvaliH (shrI\-uTake\-raNgAchAryasutagovindAchAryavirachitA)
% engtitle              : viraktimuktAvaliH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : shrI\-uTake\-raNgAchAryasutagovindAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org