विवेकानन्द-दर्शनम्

विवेकानन्द-दर्शनम्

लेखकः - नन्दप्रदीप्तकुमारः वेदान्तानन्दसन्दोहरामकृष्णमहात्मनः । नमोऽस्तु प्रियशिष्याय विवेकानन्दयोगिने ॥ श्रीमत्परिव्राजकाचार्यो विवेकानन्दो महान् दार्शनिको बभूव । १८६३ ईसवीये जानुआरी मासस्य द्वादश दिवसे सोमवासरे प्रातः ऊनपञ्चाशदधिके षट् वादने मकरसंक्रान्त्यां तिथौ कलिकता-नगर्य्यां विश्वनाथ दत्तस्य पितृभवने अयं महात्मा जन्म लेभे (१) । विश्वेशर- शिव-करुणया पुत्रोऽयं जातः इति मनसि कृत्वा जननी भुवनेश्वरी पुत्रं वीरेश्वरनामालंकृतं कृतवती (२) । अन्नप्राशनसमये शिशोर्नाम नरेन्द्रनाथ (३) संजातः । तत्पश्चात् सन्न्यासी विवेकानन्दः । एकदा सिमुलिआपल्ली निवासि-श्रीसुरेन्द्रनाथ-मित्र-महोदयस्य गृहे श्रीरामकृष्णेन (४) सह नरेन्द्रनाथस्य साक्षात्कारः समजनि । श्रीरामकृष्णस्य शिक्षापद्धतिरासीदनुपमाऽभिनवा च । स शिष्याणां भावधारां पालयन् तदीयजीवनपूर्णतामसाधयत् । कस्यापि भावमीषदपि नाशयितुं नाचेष्टत । नरेन्द्रमसौ सर्वोच्चमधिकारिणमवागच्छत् । तथापरेद्युः महदाकर्षणम् । श्रीरामकृष्णं गुरुरूपेण स्वीचकार सः । अद्वैतं ब्रह्मज्ञानमेव सर्वाभ्यर्हितं ज्ञानम् । साधनादिभिः वेदान्तसत्यं प्रत्यक्षीकृत्य कालान्तरे महाचार्यो बभूव । नास्माकं देशे अपितु नैकेषु देशेषु परिभ्रम्य स्वकीय-वत्कृतामाध्यमेन शिकागो (५) नगरे भारतीयसंस्कृतेः स्वाभिमानं बर्द्धयामास । स्वामिविवेकानन्दः न कस्यापि धर्मस्य निन्दां समालोचनां वा कृतवान् । कमपि धर्मं न हीनममन्यत् । सर्वदा तेनोक्तम्, स एव धर्मो यमनन्तं भगवद्विषयमुपदेक्ष्यति,स एव तादृशोऽनन्त एव भविष्यति । स एव धर्मसूर्यः कृष्णभक्तं प्रति, ख्रिस्तधर्मं प्रति, साधुम् असाधुं वा प्रति, सर्वान् प्रति समभावेन तुल्यं किरणजालं प्रसारयिष्यति । असौ धर्मः केवलो ब्राह्मण्यधर्मः बौद्धधर्मः ख्रिस्तधर्मः मुस्लिम धर्मो वा न भविष्यति किन्तु सर्वेषामेव धर्माणां समष्टिरूपो भविता । तस्मिन्नेव धर्मे उन्नतेरनन्तपथो मुक्त एव स्थास्यति । असौ सार्वभौमो धर्मः । सर्वस्मिन् धर्मे ईश्वरो विद्यते इति विवेकानन्दस्य महान् उपदेशः संकलितः । (६) बद्ध-जीवानां कृते तस्य महती अभिप्सा आसीत् । सर्वे मुक्ता भवन्तु, सुखिनो भवन्तु, सर्वेषां मोक्षप्राप्तिर्भवतु इति चिन्तयन् अमेरिकायां वक्तृताप्रसंगे तेन विश्वशान्तये समष्टिब्रह्म उत्थापितम् । यच्चोक्तं- यत्खलु हिन्दु-जातीयानां वेदान्तवादीनां ब्रह्म, बौद्धानां बुद्धः, जैनानां जिनः, इस्लामिनां अल्ला,ख्रिस्त्रियानां यिशुः, यहुदीनां जिहोवा रूपेण परिगण्यन्ते परिपूज्यन्ते, अधुना स एव समन्वयेश्वरो भगवान् अस्माकं महदुद्देश्यं सफलयितुं शक्ति वो प्रददातु । (७) इति सर्वधर्मसमन्वय वाणी तत्रोपस्थितानां पाश्चात्यजनानां हृदयमान्दोलीकृता । उन्नतिसाधनं धर्मः, अवनतिसाधनमधर्म इति धर्मस्य संजा तेन निरूपिता । यः पशुं मनुष्यः मनुष्यं च देवतां निर्माति स एव धर्मः सार्वभौमः । पशुत्व-मनुष्यत्व-देवत्वगुणैः सम्मिलितो मानवदेहः । पशुत्वं विहाय मनुष्यत्वे,मनुष्यत्वं च विहाय देवत्वेऽवसानं धर्मः । तद्विपरीतमधर्मः । अत्र सर्वेषां मंगलविधानं धर्मः । द्वेषो पापः । ईश्वरे परमात्मनि अखण्डविश्वासो धर्मः,अन्यार्थेन सत्कार्ये स्वाधीनो धर्मः पराधीनं पापम् । आत्मोद्धार-परोपकारौ सार्वकालिकौ । अन्यथा अस्थि-मांसभारेण देहेन को लाभः? (८) अनन्तशान्तिमत्वं हि धर्मलक्षणम् । धर्मस्य गुप्ततथ्यं मतवादे नास्ति अभ्यासे वर्तते । मनुष्यं निकषा शान्तिरागमनं हि धर्मस्याभ्युदयः । मनुष्यः वृत्ताकारः, यस्य परिधिर्नास्ति । यः केन्द्रः स भगवान् । परमात्मा व्यापकः । शिवज्ञाने जीवसेवा भगवत्पूजा । यदि मानवानां सेवा न भवेत् तर्हि देवाराधनं वृथा । ये अहर्निशं दरीद्र-निर्बल-रुग्णानां सेवां स्वीकरोति वस्तुतः स शिवपूजकः । (९) वेदान्तशास्त्रस्य परमाचार्यः स्वामि विवेकानन्दः ज्ञान-कर्मभक्तीनां समन्वय विग्रह आसीत् । पाश्चात्यदेशेषु वेदान्तप्रचारस्य अश्रुतपूर्वं साफल्यमवाप्य पूज्यपाद विवेकानन्दः आग्लशिष्यैः सह भारतं प्रत्यागतः । नर नारायण सेवा प्रसंगे तेन भणितम्- शिवस्य पूजा केवलं मन्दिरे विग्रहस्यार्च्चनं नहि प्रत्युत दीन दरिद्रेषु तथा आतुरेषु यः जीवरूपः शिवोऽस्ति तस्यैव पूजा अस्ति ।(१०) विवेकानन्दनये धर्म एव भारतस्य मेरुदण्डः । राजनीतिः अन्यो वा न कोऽपि । यदि कदाचित् भारतीयानां कृते जडवादस्य आवश्यकता वर्तते तर्हि साहसिकताया आवश्यकता विद्यते । साहसावलम्बनं कर्तुं निर्देशं कुर्वन् आह विवेकानन्दः- जगति यदि किमपि पापमस्ति तद् दौर्बल्यमेव । सर्वविधां दुर्बलतां परित्यजत । दुर्बलतैव मृत्युः, दुर्बलतैव पापमस्ति । (११) इति । १८९७ ईसवीये विवेकानन्दः ``रामकृष्ण मिशन'' नाम्ना संघः संस्थापितः । अस्य कतिचन नियमाः समुल्लिखिताः । ते वक्षमाणाः निर्दिष्टाः । संघस्योद्देश्यं जनतायाः सेवा, तथा आत्मिकं कल्याण-साधनम् । राजनीत्या सह अस्य संघस्य न कोऽपि सम्बन्धो वर्त्तते । मनुष्यजातेः कल्याणाय वेदान्त सत्यस्य प्रचारं सर्वसाधारणस्य ऐहिक-पारलौकिक कल्याणस्य कृते तत्त्वानां कार्यरूपेण परिणमनमस्य परमो मन्त्रः । बहुजन हिताय बहुजन सुखाय ``रामकृष्ण मिशनः'' संचालित तेन सभापतिना विवेकानन्देन । (१२) विवेकानन्द दर्शनमलौकिकम् । ``आत्मनो मोक्षार्थं'' ``जगद् हिताय च'' इति आदर्शयुगलं मनसि निधाय जीवमात्रे भगवतोऽभिव्यक्तिं स्वीकार्य जीवमात्रस्य सेवा करणेन भगवतो पूजा भवति इति आदर्शस्तस्य सर्वदा बलवत्तर आसीत् । नर नारायण सेवया हि आत्मानुभूतिर्जायते नान्यथा इति । (१३) दानधर्ममहिमा विवेकानन्ददर्शने प्रतिफलिता । ``दानमेकं कलौ युगे'' इति महावाक्यमविस्मरन् तेन भणितम् - चित्तशुद्धेरुपायभूतं दानं सर्वादौ कर्तव्यम् । अनेन सेवाधर्मस्य प्रत्यक्षता प्रमाणीक्रियते । धर्मदान-विद्यादान-प्राणदानमन्नदानादीनां चतुर्विधानां मध्ये धर्मप्रार्थिने धर्मोपदेशदानं, विद्याविहीनाय विद्यादानं, रुग्णानां मुमूर्षूणां औषधदानं सेवया च तज्जीवनरक्षणं, क्षुधातुरेभ्य अन्नदानञ्च महादानेषु अन्तर्भुक्ता भवन्ति । इदं चतुर्विधं भगवत्सेवाबुद्ध्या करणीयमिति प्रतीयते । विवेकानन्द प्रवर्तिते अस्मिन् सेवाधर्मे वैयक्तिके पारिवारिके धार्मिके सामाजिके राष्ट्रिये तथा आन्तर्जातिके जीवने च सुदूरप्रसारी फलस्य विपुल सम्भावना विद्यते । जगति यानि धर्ममतानि तानि अखण्ड-सनातन-धर्मस्यांगीभूतानि इत्येवं मन्यमानानां सर्वधर्मावलम्बिनां मध्ये भ्रातृभावस्थापनाय गुरुपादेन परमहंसदेवेन यानि कार्याणि कृतानि तेषामवधारणं परिचालनं चास्य श्रीरामकृष्णसंघस्य महाव्रतम् । (१४) साधारणजनेभ्यः जागतिक-पारमार्थिक-कल्याणविधायक-विज्ञान धर्मशिक्षादानं, शिक्षाकलाप्रभृतीनामुन्नतिसाधनं, वेदान्तो धर्मभावान्तराणि च यथा श्रीरामकृष्णजीवने संघटिनानि जनसमाजे तेषां प्रवर्तनमेकान्ततः काम्यमिति हेतोः कर्मिसंग्रहः तेभ्यः शिक्षादानं च संघस्य आदर्शत्वेन वर्णितः । (१५) स्वामि विवेकानन्दः नैके मठाः प्रतिष्ठिताः । भारते वेलुरमठः (१६) सारदा मठश्च । पाश्चात्ये आलमोडातः पञ्चविंशति क्रोशदूरवर्तिनि मायावती नामके स्थाने तुषारमौलि हिमाचलस्य निर्जनाभ्यन्तरे अद्वैताश्रमनामको मठश्च संस्थापितः । अत्र प्राच्य-पाश्चात्यभक्ताः सम्मिलिताः सन्तः परस्पर भावविनिमय माध्यमेन उपकृताः सन्ति । अत्र सर्वधर्मावलम्बिनः सर्वमतानुसारिणश्च स्व स्व-धर्ममत-विश्वासानुसारेण अस्मिन् स्थाने एकत्रीभवितुं समर्था भवन्ति । अत्र काचन मूर्तिरपि नास्ति । विवेकानन्दः सर्वदर्शननिष्णातः सत्यद्रष्टा ऋषि आसीत् । तन्मतं तल्लिखितपत्रेपि सुस्पष्टम् । तथा हि- वयं मानवान् इदृशं स्थानं नेतुमिच्छामः, यत्र वेदा न सन्ति, बाइवेलं नास्ति, कोराणमपि नास्ति, तथापि आदर्श स्वरूपे तत्र स्थाने गन्तव्ये सति वेद-वाइबेल-कोराणानां समावेशो जायते । एषा शिक्षा मानवास्तु शिक्षणीया एव । यत्र नाना धर्माः एकमेवाद्वितीयस्य शाश्वताध्यात्मिक-सत्यस्य विभिन्नतां स्वीकुर्वन्ति । तत्र तस्यैव परम-सत्यस्य नाम एकता समन्वयता वेति गीयते । (१७) विवेकानन्दः भक्तिपथं समर्थितवान् । सर्वेषां पूर्वाचार्याणां नारद-शाण्डिल्यादीनां (१८) मतानि तेन व्याख्यातानि । यदिवा ज्ञान-भक्ति-उपदेष्टृणां मध्ये पारस्परिक-सामान्यभेदः परिलक्ष्यते तथापि उभयोर्मध्ये सुप्तरूपेण भक्तिबीजमास्ते । (१९) ``तमेव भान्तमनुभाति सर्वं तस्य भाषा सर्वमिदं विभाति'' (२०) अत्र अनिर्वचनीयं प्रेम पराभक्तेः सहायकमिति निर्दिष्टम् । वैराग्यात् हि पराभक्तिरुदेति नान्यथा । वेदान्तस्य परमाचार्यः स्वामिविवेकानन्दः समन्वयवादी आसीत् । ईश्वरस्वरूपं तु ``जन्माद्यस्य यतः'' (२१) ``क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष'' एव (२२) ``स अनिर्वचनीय प्रेमस्वरूप'' (२३) इत्यादिभिः सर्वमतं समर्थितं महानुभावेन । स्वामिविवेकानन्दः प्राच्य-प्रतीच्ययोः सम्मिलन सेतु-स्वरूप आसीत् । स समस्ते संसारे साम्य-मैत्र्योः स्थापनस्य गुरुदायित्वं निजस्कन्धे गृहीतवान् । तस्यैयं शुभा प्रचेष्टा कियद्दूरं सफला भूता इति इतिहासः प्रमाणयिष्यति । १९०२ ख्रिस्ताब्दे जुलाइ मासस्य चतुर्थ दिनांके असौ महात्मा महासमाधिस्थो बभूव । सहायक ग्रन्थाः १-युगाचार्यः विवेकानन्दः-स्वामि अपूर्वानन्दः २-श्रीश्रीविवेकानन्द चरितम्-यतीन्द्र विमल चतुर्धरी ३-भक्तियोग स्वामी विवेकानन्द -रामकृष्ण मठ (ओडिआ) ४-विवेकानन्द विचारधारा- सौरीबन्धु कर (ओडिआ) ५-स्वामी विवेकानन्द- स्वामी जगन्नाथानन्द (ओडिआ) ६-स्वामी विवेकानन्द-सौरीबन्धु कर (ओडिआ) ७-स्वामी विवेकानन्द- प्रेमचान्द ८-स्वामी विवेकानन्दङ्क बाणी ओ रचना- स्वामी आत्मप्रभानन्द-रामकृष्ण मठ भुवनेश्वर (ओडिआ) ९-विवेकानन्द चरित-सत्येन्द्रनाथ मजूमदार (ओडिआ) १०-Bibekananda, A Biography - by Swami Nikhilananda पादटिप्पण्यः- (१) He was born at 6;49 AM, a few minutes after sunrise, on Monday January 12 1863, It was the day of the great Hindu festival Makarsankranti.- Vivekananda A Biography page-1 (२) युगाचार्यः विवेकानन्दः, पृष्ठ-९ (३) तत्र-पृष्ठ-९ (४) Ramakrishna, the God man of modern times, was born on February 18, 1836 in the little villege of Kamarpukur, in the district of Hooghly in Bengal. Vivekananda A Biography page-9 (५) १८९३ ख्रिस्ताब्दे अमेरिकायां संजातः (६) तत्र पृष्ठ-२०३ (७) तत्रैव पृष्ठ-२०३ (८) स्वामी विवेकानन्द-सौरीबन्धु कर-पपृष्ठ-१३७ (९) तत्र-पृष्ठ १३७ (१०) तत्रैव पृष्ठ-२३८ (११) तत्रैव पृष्ठ-२५० (१२) विवेकानन्द चरित्र-२१४ (१३) तत्र २६६ (१४) तत्र-२६७ (१५) स्वामी विवेकानन्द - पृष्ठ ४०५ (१६) १८९८ ख्रिस्ताब्दे संस्थापितः (१७) विविकानन्द विचार धारा, पृष्ठ-७० (१८) सा परमप्रेमरूपा नारदभक्तिसूत्र १ (१९) स्वामी विवेकानन्द वा-८ (२०) कठोपनिषत्-२/२/१५ (२१) ब्रह्मसूत्र-१/१/२ (२२) पातञ्जली योगसुत्र-२/२५-२६ (२३) शाण्डिल्यभक्तिसूत्र --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Vivekananda Darshanam
% File name             : vivekAnandadarshanam.itx
% itxtitle              : vivekAnandadarshanam
% engtitle              : vivekAnandadarshanam
% Category              : vishhnu, pradIptakumArananda, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : January 14, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org