व्यासकृतं कृष्णस्तोत्रम्
व्यास उवाच ।
नमःपरमशान्ताय निगमान्तःप्रबोधिने ।
नित्यानन्दस्वरूपाय योगिने ब्रह्मणे नमः ॥ ६९॥
योऽसौ विभूतिभिः सर्वमात्मदेहसमुद्भवैः ।
आवृत्य बहुधा भाति भूषणैरिव हाटकः ॥ ७०॥
नामानि यस्य पुण्यानि जपन्तो जन्तवः परम् ।
पदं गच्छन्ति कल्याणं नमस्तस्मै महात्मने ॥ ७१॥
ॐ नमो वासुदेवाय कृष्णाय परमात्मने ।
भक्तप्रियाय शान्ताय भुक्तिमुक्तिप्रदायिने ॥ ७२॥
नमो नमः पङ्कजलोचनाय नमो नमः पङ्कजभूषणाय ।
भक्तप्रियायाखिललोकधाम्ने नमो नमो नादनवाम्बुजाय ॥ ७३॥
इति ताम्रपर्णीमाहात्म्ये अष्टात्रिंशाध्यायान्तर्गतं
व्यासकृतं कृष्णस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ३८/६९-७३॥
tAmraparNImAhAtmya . adhyAya 38/69-73..
Proofread by PSA Easwaran