यादवाभ्युदयं महाकाव्यम्

यादवाभ्युदयं महाकाव्यम्

ध्यानम् । श्रीकृष्णाय परस्मै परब्रह्मणे नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै । मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥ श्रीमच्छीतांशुवंशे जनितगुणनिधेर्दिव्यलीलाप्रबन्धम् । श्रीमद्वेदान्तसूरेर्भणितसुरुचिरं यच्चरित्रं प्रशस्तम् ॥ सूक्तं श‍ृङ्गारशान्त्यादिबहुरसयुतं सज्जनानां निधानम् । तद्वन्दे काव्यरत्नं कलिमलहरणं श्रीचिदानन्दरूपम् ॥ यादवाभ्युदयं काव्यं वेङ्कटेशेन निर्मितम् । श्रीकृष्णचरितं पुण्यं सर्वलोकमनोहरम् ॥ वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै । मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥ ॥ कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयमहाकाव्यम् ॥

॥ प्रथमः सर्गः १॥

वन्दे वृन्दावनचरं वल्लवीजनवल्लभम् । जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १-१॥ यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः । यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥ १-२॥ शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि । अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥ १-३॥ वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते । अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥ १-४॥ स कविः कथ्यते स्रष्टा रमते यत्र भारती । रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥ १-५॥ तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् । न दोषायैतदुभयं न गुणाय च कल्पते ॥ १-६॥ प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् । न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥ १-७॥ विहाय तदहं व्रीडां व्यासवेदार्णवामृतम् । वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ १-८॥ क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् । एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ १-९॥ जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः । परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥ १-१०॥ यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः । सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥ १-११॥ समवर्धत तद्वंशः उपर्युपरि पर्वभिः । यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १-१२॥ बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ । यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १-१३॥ नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः । जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥ १-१४॥ शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे । यथावत् साधकस्येव यावदर्था सरस्वती ॥ १-१५॥ वीरो रस इवोत्साहान्नहुषादभ्यजायत । ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १-१६॥ विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे । आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता(रा)॥ १-१७॥ निदेशं तस्य राजानो न शेकुरतिवर्तितुम् । प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥ १-१८॥ तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः । भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥ १-१९॥ यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः । समानगणनालेख्ये निस्समानैर्निषद्यते ॥ १-२०॥ देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः । ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्षदैः ॥ १-२१॥ स च वृत्तविहीनस्य न विद्यां बह्वमन्यत । न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ १-२२॥ अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः । अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥ १-२३॥ शराणां शात्रवाणां च सन्धानेन महौजसः । तस्य निर्धूतलक्षेण द्विः कचिन्नाप्यभृयत ॥ १-२४॥ युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् । दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ १-२५॥ यशःप्रसूनसुरभिर्यदुसन्तानपादपः । बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥ १-२६॥ वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः । जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥ १-२७॥ आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः । सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥ १-२८॥ तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः । जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ १-२९॥ स विष्णुरिव लोकानां तपनस्तेजसामिव । समुद्र इव रत्नानां सतामेकाश्रयोभवत् ॥ १-३०॥ प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः । रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥ १-३१॥ अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः । ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥ १-३२॥ स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् । व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥ १-३३॥ अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः । यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥ १-३४॥ कयाचिदशरीरिण्या वाचा व्यवसितायतिः । देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥ १-३५॥ स कालातिबलः कंसः कालनेमिरनेहसा । सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥ १-३६॥ एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः । प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥ १-३७॥ विदितं भवतां देवाः! विश्वरूपेण विष्णुना । महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥ १-३८॥ अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः । असङ्खथैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥ १-३९॥ अत आलोचितजगद्धितैः सुरगणैः स्वयम् । (अतः स्वयं सुरगणैरालोचितजगद्धितैः?) न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥ १-४०॥ इति ते भूतधारिण्या निसृष्टार्था दिवौकसः । अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥ १-४१॥ पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः । दुग्धोदधिशयं देवं दुरमेत्याभितुष्टुवुः ॥ १-४२॥ त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये । वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥ १-४३॥ अनन्याधीनमहिमा स्वाधीनपरवैभवः । दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥ १-४४॥ स भवान् गुणरत्नौघैर्दीप्यमानो दयाम्बुधिः । तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥ १-४५॥ त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदम्परैः । निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥ १-४६॥ अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् । वितथा वेदपान्थानां यत्रसायङ्गृहा गतिः ॥ १-४७॥ नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः । पुत्रैः पितृमतः क्रिडा कथं ते केन वर्ण्यते ॥ १-४८॥ नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः । पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥ १-४९॥ ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् । सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥ १-५०॥ निराधारनिजस्थेम्नो निरुपाधिकशेषिणः । निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥ १-५१॥ अनाविलधियामन्तश्चिन्तामणिरिव स्फुरन् । दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥ १-५२॥ संसारमरुकान्तारे परिश्रान्तस्य देहिनः । त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥ १-५३॥ दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः । समग्रगुणसम्पन्नः तारकस्त्वं प्लवो महान् ॥ १-५४॥ अपरिच्छिद्यमानस्य देशकालादिभिस्तव । निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥ १-५५॥ अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् । सङ्कल्पसचिवः काले (लः)शक्तिलेशः स तावकः ॥ १-५६॥ यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते)। लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥ १-५७॥ त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् । प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥ १-५८॥ यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् । तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥ १-५९॥ त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् । मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥ १-६०॥ अनन्यरक्षाव्रतिनं चातकव्रतचारिणः । भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥ १-६१॥ अनिदम्पूर्वनिद्राणामनस्तमयभानुमान् । आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥ १-६२॥ त्वदेकशरणानां त्वं शरणागतजीवनः । विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥ १-६३॥ सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः । जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥ १-६४॥ सदैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः । अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥ १-६५॥ ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् । अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥ १-६६॥ पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया । स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसम्पदम् ॥ १-६७॥ सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् । स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥ १-६८॥ आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः । अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥ १-६९॥ उत्तेजितजयोत्साहमायुधैरनघोद्यमैः । शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥ १-७०॥ स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः । महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥ १-७१॥ श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना । स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥ १-७२॥ स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् । भक्तिनम्रेण सेनान्या प्रतिश‍ृण्वन्तमिङ्गितैः ॥ १-७३॥ अनपायं तमादित्यमक्षयं तारकाधिपम् । अपारममृताम्भोधिममन्यन्त दिवौकसः ॥ १-७४॥ अभयोदारहस्ताग्रमनघस्वागतस्मितम् । अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥ १-७५॥ तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः । निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥ १-७६॥ त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् । तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥ १-७७॥ चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् । हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥ १-७८॥ जाता निखिलवेदानामुत्तमाङ्गोपधानतः । त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥ १-७९॥ यदि न त्वरते नाथ भारव्यपनये भवान् । प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥ १-८०॥ करुणाधीनचित्तेन कर्णधारवती त्वया । माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥ १-८१॥ रशनारत्नरूपेण पयोधिरशना त्वया । प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥ १-८२॥ कंसप्रभृतिभिः सेयं शल्यैरिव समुद्धृतैः । चिरं भवतु ते पृथ्वी शेषमूर्तेश्शिखण्डकः ॥ १-८३॥ प्रबोधसुभगैः स्मेरैः प्रसन्नैः शीतलैश्च नः । कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥ १-८४॥ त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि । विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥ १-८५॥ इत्थं वदति देवानां समाजे वेधसा सह । ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥ १-८६॥ तनुमध्या विशालाक्षी तन्वी पीनपयोधरा । मायेव महती तस्य वनितारत्नरूपिणी ॥ १-८७॥ आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः । अयत्नलब्धां बिभ्राणा मायुरच्छत्रसम्पदम् ॥ १-८८॥ प्रियसन्दर्शनानन्दजनितैरश्रुबिन्दुभिः । न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥ १-८९॥ प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् । दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥ १-९०॥ विपदञ्च जगादैषा विपञ्चीमधुरस्वना । विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ॥ १-९१॥ अथ तान् भव्यया वाचा भगवान् प्रत्यभाषत । प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥ १-९२॥ मा भैषुरसुरानीकात् भवन्तो मदुपाश्रयाः । मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥ १-९३॥ अवतार्य भुवो भारमवतारो ममामराः । अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥ १-९४॥ यावदिष्टभुजो यावदधिकारमवस्थिताः । परिपालयत स्वानि पदानि विगतापदः ॥ १-९५॥ दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः । भृयोऽपि लघुतां प्राप्तां भुवमुल्लाघितामिव ॥ १-९६॥ दैतेयमृगसङ्घाते मृगयारसभागिभिः । भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥ १-९७॥ इति ताननघादेशः समादिश्य जनार्दनः । अवधीरितदुग्धाब्धिर्मधुरायां मनो दधे ॥ १-९८॥ आश्वास्य वागमृतवृष्टिभिरादितेयान् दैतेयभारनमितां पृथिवीं च देवीम् । प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां पद्मापतिः प्रणिदधे समयं दयायाः ॥ १-९९॥ साधूनां स्वपदसरोजषट्पदानां धर्मस्य स्थितिमनघां विधातुकामः । यद्गर्भे(र्भो)जगदखिलं स एव गर्भो देवक्याः समजनि देवदेववन्द्यः ॥ १-१००॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये प्रथमः सर्गः ॥

॥ श्रीकृष्णावतारवर्णनं नाम द्वितीयः सर्गः २॥

अथागमानामनघेन भूम्ना धर्मस्य पूर्णेन धनागमेन । दिवौकसां दर्शयता विभूतिं देवी बभौ दौहृदलक्षणेन ॥ २-१॥ श‍ृङ्गारवीराद्भुतचित्ररूपं गर्भे त्रिलोकै कनिधिं वहन्त्याः । परावरक्रीडितकर्बुराणि द्वेधाऽभवन् दौहृदलक्षणानि ॥ २-२॥ अशेषवेदैरधिगम्यभूम्ना सिद्धेन सिद्धैश्च निषेवितेन । अमानुषी नूनमभूदयत्नात् कृष्णेन केनापि रसायनेन ॥ २-३॥ शतह्रदाबन्धुरया स्वकान्त्या सञ्चारिजाम्बूनदबिम्बकल्पा । त्रय्यन्तसिद्धेन रसायनेन कालेन भेजे कलधौतलक्ष्मीम् ॥ २-४॥ मयूरपिञ्छद्युतिभिर्मयूखै- स्तत्कान्तिरन्तर्वसतस्त्रिधाम्नः । श्यामा बहिः मूलसिता बभासे मङ्गल्यरत्नाङ्कुरपालिकेव ॥ २-५॥ काले बभासे वसुदेवपत्न्याः कर्पूरलिप्तेव कपोलशोभा । शशिप्रभा सप्तमगर्भकान्तिः च्युतावशिष्टेव शनैरुदीर्णा ॥ २-६॥ नवेन्दुनिष्यन्दनिभश्चकाशे वर्णः प्रतीकेषु मधुद्रवाङ्ग्याः । अन्तः स्थितेन प्रथमेन पुंसा प्रवर्तितं सत्त्वमिवावदातम् ॥ २-७॥ करम्बिता किञ्चिदिव प्रसृप्तै- स्तेजोभिरन्तर्वसतस्त्रिधाम्नः । मरीचिभिः स्वैरभवत् प्रजानां मङ्गल्यरत्नाङ्कुरपालिकेव ॥ २-८॥ तस्याः सुधोल्लासजुषः कटाक्षाः सङ्क्षुब्धदुग्धोदधिसौम्यभासः । जगत्त्रयीसौधविलेपनार्हां वितेनिरे वर्णसुधामपूर्वाम् ॥ २-९॥ रक्षाविधौ राक्षसदानवानां कारागृहे कंसनियोगभाजाम् । सम्पश्यमाना सकृदीक्षिता वा सङ्क्षोभयामास मनांसि सैषा ॥ २-१०॥ भुक्ता पुरा येन वसुन्धरा सा स विश्वभोक्ता मम गर्भभूतः । इति ध्रुवं सूचनमाचरन्ती तत्तादृशं नाटितकं ततान ॥ २-११॥ समाधिसुक्षेत्रकृषीवलानां सन्तोषसस्योदयमेघकान्त्या । चकास तस्याः स्तनचूचुकाभा गर्भत्विषा गाढमिवानुलिप्ता ॥ २-१२॥ कस्तूरिकाकाम्यरुचिस्तदीया रम्या बभौ चूचुकरत्नकान्तिः । तद्गर्भसन्दर्शनलोलुपाना- मन्तर्दृशामञ्जनकल्पनेव ॥ २-१३॥ परावरणां प्रभवस्य पुंसः प्रकाशकत्वं प्रतिपद्यमानाम् । अभावयन् भावितचेतसस्तां विद्यामयीं विश्वपितामहीञ्च ॥ २-१४॥ लिलेख विश्वानि जगन्त्यभिज्ञा लीलाहृते चित्रपटे यथार्हम् । प्रायः प्रजानां पतयः प्रतीताः यन्मातृकाः स्वेषु विधिष्वभूवन् ॥ २-१५॥ निराशिषां पद्धतिमाददाना नैःश्रेयसीं नीतिमुपघ्नयन्ती । पुण्याशया पूर्वयुगप्ररोह- मियेष देवी भुवने विधातुम् ॥ २-१६॥ अनाप्तपूर्वं किमपेक्षितं ते किं वोपदद्यामथवाऽधुनेति । (किं भुक्तपूर्वेष्वधुनोपदद्याम् ।) वयस्यया(ऽ)भावविदाऽनुयुक्ता न किञ्चिदित्येव जगाद नाथा ॥ २-१७॥ अनादरे देवि सखीजनानां कथं न दूयेत दया तवेति । उपह्वरे संल्लपिता मनोज्ञै- रालोकनैरुत्तरमाचचक्षे ॥ २-१८॥ अशेत सा काममजातनिद्रा मातुं प्रवृत्तेव पदानि चक्रे । अध्यास्त लोकानवधीरयन्ती भद्रासनं भावितपारमेष्ठ्या ॥ २-१९॥ परिक्रमप्रेक्षितभाषिताद्यै- रन्यादृशैराप्तविभावनीयैः । मदोपपन्ना मदलालसा वा जि(जा)तश्रमा वेति जनैः शशङ्के ॥ २-२०॥ शेषे शयानां गरुडेन यान्तीं पद्मे निषण्णामधिरत्नपीठम् । हयाननैराश्रितवन्दिकृत्यां स्वामाकृतिं स्वप्नदृशा ददर्श ॥ २-२१॥ अन्तःस्थितं यस्य विभोरशेषं जगन्निवासं दधती तमन्तः । तदात्मनो विश्वमपश्यदन्त- स्तर्कातिगं तादृशमद्भुतं नः ॥ २-२२॥ सुरासुराधीश्वरमौलिघातात् विशीर्णजाम्बूनदवेत्रश‍ृङ्गम् । आलक्ष्यसन्तोषमलक्ष्यमन्यै- रनीकनेतारमवैक्षताऽऽरात् ॥ २-२३॥ त्रिलोकम(मा)ङ्गल्यनिधेस्त्रिवेद्याः सञ्जीवनीं वाचमुदीरयन्ती । नियोगयोग्यान् अनघप्रसादा नाकौकसां नामभिराजुहाव ॥ २-२४॥ यदृच्छया यादवधर्मपत्नी यामाह धर्मेषु परावरेषु । अदृष्टपूर्वापरयापि वाचा प्रतिश्रुता नूनमभावि तस्याः ॥ २- २५॥ क्रियामुपादित्सत विश्वगुप्त्या कृतापराधेऽपि कृपामकार्षीत् । मुनीन्द्रवृत्त्या मुखरीभवन्ती मुक्तिक्षमां वक्तुमियेष विद्याम् ॥ २-२६॥ सतां चतुर्वर्गफलप्रसूतौ नारायणे गर्भगते नताङ्गी । अभङ्गुरामुन्नतिमाश्रयन्ती सर्वस्य साऽदित्सत सर्वमेका ॥ २-२७॥ कृशोदरी कार्श्यमतीत्य काले केनापि धाम्ना कृतवृद्धियोगा । परामभिख्यां क्रमशः प्रपेदे ताराभिनन्द्या तनुरैन्दवीव ॥ २-२८॥ निगूढमन्तर्दधता निविष्टं पद्मापरिष्कारमणिं प्रभूतम् । मध्येन तस्याः प्रचितेन काले मञ्जूषया रूप्यभुवा बभूवे ॥ २-२९॥ शनैश्शनैस्तामुपचीयमानां दर्शान्तदीप्तामिव चन्द्रलेखाम् । अन्तःस्थकृष्णामवलोकयन्तः चक्रुश्चकोरायितमात्मनेत्रैः ॥ २-३०॥ मयि स्थिते विश्वगुरौ महीयान् मा भूत् भुवो भार इतीव मत्वा । सखीजनानामवलम्ब्य हस्तान् सञ्चारलीलां शनकैश्चकार ॥ २-३१॥ मुकुन्दगर्भा मुकुरेषु देवी नापश्यदात्मानमवाप्तभूषा । नाथत्विषा नन्दकदर्पणेना- दिदृक्षताऽऽत्मानमदृश्यमन्यैः ॥ २-३२॥ स्रजः प्रभूता न शशाक वोढुं दूरे कथा रत्नविभूषणानाम् । भविष्यति क्षोणिभरापनोदे प्रत्यायनं प्राथमिकं तदासीत् ॥ २-३३॥ दिवौकसो देवकवंशलक्ष्मीं विलोक्य तां लोकनिधानगर्भाम् । विभूतिमग्रेसरवेदवादाः व्याचख्युरस्या विविधप्रकाराम् ॥ २-३४॥ पतिः ससत्त्वामपि तत्प्रभावा- ददुःखशीलां समये भवित्रीम्(अवलोक्यदेवीम्)। सुखैकतानां अवलोक्य देवीं(समये भवित्रीं) स्वसम्पदं सूचयतीति मेने ॥ २-३५॥ पितृत्वमासाद्य सुरासुराणां पितामहत्वं प्रतिपत्स्यमानः । अनन्तगर्भामवलोक्य देवी- मतुष्यदन्येषु गताभिलाषः ॥ २-३६॥ तापोपशान्तिं जगतां दिशन्ती सन्ध्याऽपरा साधुजनप्रतीक्ष्या । तामीदृशीं विश्वपितुः प्रसूतिं संवेदयन्तीव समाजगाम ॥ २-३७॥ सुवर्णपीताम्बरवासिनी सा स्वधामसञ्छादितसूर्यदीप्तिः । उपासनीया जगतां बभासे मुरद्विषो मूर्तिरिव द्वितीया ॥ २-३८॥ प्रसक्तपातारमाम्बुराशौ रक्तोरुबिम्बो रविरस्तशैलात् । दिनान्तनागेन दृढप्रणुन्नं मनश्शिलाश‍ृङ्गमिवाबभासे ॥ २-३९॥ निमज्जता वारिनिधौ सवित्रा को नाम जायेत करग्रहीता । तदेति सम्भावनयैव नूनं (इतीव सम्भावनयाऽन्तरिक्षे) दूरादुदक्षेपि कराग्रमुच्चैः ॥ २-४०॥ स्फुरत्प्रभाकेसरमर्कबिम्बं ममज्ज सिन्धौ मकरन्दताम्रम् । सन्ध्याकुमार्या गगनाम्बुराशेः क्रीडाहृतं क्षिप्तमिवारविन्दम् ॥ २-४१॥ फणामणिप्रेक्ष्यखरांशुबिम्बः सन्ध्यासुपर्णीमवलोक्य भीतः । तापाधिको वासरपन्नगेन्द्रः प्रायेण पातालबिलं विवेश ॥ २-४२॥ प्रदोषरागारुणसूर्यलक्षा- द्दिशागजो दृप्त इवातिघोरः । कालोपनीतं मधुना समेतं (अभुङ्क्त मन्ये कबलं पयोधिः ॥ २) मन्ये पयोधिः कबलं न्य(न्व)भुङ्क्त)॥ २-४३॥ तदा तमः प्रोषितचन्द्रसूर्ये दोषामुखे दूषितसर्वनेत्रम् । वियोगिनां शोकमयस्य वह्ने- राशागतो धूम इवान्वभावि ॥ २-४४॥ सतारपुष्पा धृतपल्लवश्रीः प्रच्छायनीरन्ध्रतमःप्रताना । विश्वाभिनन्द्या ववृधे तदानीं वैहायसी कापि वसन्तवन्या ॥ २-४५॥ अलक्ष्यत श्यामलमन्तरिक्षं ताराभिरादर्शितमौक्तिकौघम् । निवत्स्यतो विश्वपतेरवन्यां कालेन भृत्येन कृतं वितानम् ॥ २-४६॥ अभृङ्गनादप्रतिपन्नमौना निमेषभाजो नियतं(ता)वनस्थाः । दूरं गते स्वामिनि पुष्करिण्य- स्तत्प्राप्तिलाभाय तपो वितेनुः ॥ २-४७॥ निमीलितानां कमलोत्पलानां निष्पन्नसख्यैरिव चक्रवाकैः । विमुक्तभोगैर्विदधे विषण्णै- र्विबोधवेलावधिको विलापः ॥ २-४८॥ तमिस्रनीलाम्बरसंवृताङ्गी श्यामा बभौ किञ्चिदतीत्य सन्ध्याम् । प्राचीनशैले समयान्निगूढं समुद्यता चन्द्रमिवाभिसर्तुम् ॥ २-४९॥ निशाकरेण प्रतिपन्नसत्त्वा निक्षिप्तदेहेव पयोधितल्पे । जगत्समीक्ष्या जहती च कार्श्यं प्राची दिशा पाण्डरतामयासीत् ॥ २-५०॥ तमःप्रसङ्गेन विमुच्यमाना गौरप्रभा गोत्रभिदाभिनन्द्या । विधूदयारम्भविशेषदृश्या प्राची दिशाऽभासत देवकीव ॥ २-५१॥ अपत्यलाभं यदुवीरपत्न्या महोदधौ मग्नसमुत्थितेन । तद्वंशमान्येन समीक्ष्य पूर्वं प्राप्तं प्रतीतेन पुरोधसेव ॥ २-५२॥ क्ष्वेलोपमे सन्तमसे निरस्ते सोमं सुधास्तोममिवोद्वमन्ती । दुग्धोदवेलेव दुदोह लक्ष्मी- माशा मनोज्ञाममरेन्द्रमान्या ॥ २-५३॥ तमस्समाक्रान्तिवशेन पूर्वं जज्ञे निमग्नैरिव भूतधात्र्याम् । ततस्तुषारांशुकरावगूढै- रुत्तभ्यमानैरिव शैलश‍ृङ्गैः ॥ २-५४॥ दिशस्तदानीमवनीधराणां सगैरिकैः पारदपङ्कलेपैः । चकाशिरे चन्द्रमसो मयूखैः पञ्चायुधस्येव शरैः प्रदीप्तैः ॥ २-५५॥ समुन्नमन्ती कुटिलायतात्मा शशाङ्कलेखोदयदृश्यकोटिः । वियोगिचेतोलवने प्रवीणा कामोद्यता काञ्चनशङ्कुलेव ॥ २-५६॥ तमांसि दुर्वारबलः स कालः प्रायो विलोप्तुं सहसा दिशां च । मनांसि कामश्च मनस्विनीनां प्रायुङ्क्त शैत्याधिकमर्धचन्द्रम् ॥ २-५७॥ करेण सङ्कोचितपुष्करेण मदप्रतिच्छन्दकलङ्कभूमा । क्षिप्त्वा तमश्शैवलमुन्ममज्ज मग्नो दिशानाग इवेन्दुरब्धेः ॥ २-५८॥ मदोदयाताम्रकपोलभासा शक्रस्य काष्ठा शशिना चकाशे । उदेयुषा व्यञ्जयितुं त्रिलोकीं नाथस्य सा नाभिरिवाम्बुजेन ॥ २-५९॥ समीपतः सन्तमसाम्बुराशेः बभार शङ्खाकृतिरिन्दुबिम्बः । पित्तोपरागादिव पीतिमानं दोषाविलप्रोषितदृष्टिदत्तात् ॥ २-६०॥ कृशोदरीलोचनकृष्णलक्ष्मा रात्र्याः समिद्धोदयराग इन्दुः । कस्तूरिकाकुङ्कुमचित्रितात्मा कर्पूरविन्यास इवान्वभावि ॥ २-६१॥ प्रसादमन्तःकरणस्य दाता प्रत्यक्षयन् विश्वमिदं प्रकाशैः । तमश्च रागं च विधूय चन्द्रः सम्मो(सन्मो)दनं सत्त्वमिवोल्ललास ॥ २-६२॥ निशाकरो वारिधिनिःस्वनानां निष्पादकः कुन्दरुचिश्चकाशे । उदेष्यतश्चक्रभृतो नियोगात् प्रादुर्भवन् प्रागिव पाञ्चजन्यः ॥ २-६३॥ मृगेण निष्पन्नमृगाजिनश्रीः स्वपादविक्षेपमितान्तरिक्षः । मुरद्विषो वामनमूर्तिभाजः पर्यायतामन्वगमच्छशाङ्कः ॥ २-६४॥ जिगाय शङ्खाश्रितशैवलाभ- श्चारुद्युतेश्चन्द्रमसः कलङ्कः । उदीयमानस्य महोर्मियोगात् सामिच्युतं सागरमूलपङ्कम् ॥ २-६५॥ उदेत्य तुङ्गादुदयाद्रिश‍ृङ्गात् तमोगजान् अग्रकरेण निघ्नन् । निशाकरस्तन्मदलेपलक्ष्मा सिताभिशुः सिंहदशामयासीत् ॥ २-६६॥ निशीथलक्ष्म्या इव पुण्डरीकं निर्वेशसिन्धोरिव फेनचक्रम् । तमन्ववैक्षन्त विलासतन्त्राः तारामणीनामिव सूतिशुक्तिम् ॥ २-६७॥ उदारतारागणबुद्बुदौघ- श्चन्द्रेण सम्पन्नसुधाप्रसूतिः । अशेषदृश्यामधिगम्य लक्ष्मी- मालोकदुग्धोदधिराबभासे ॥ २-६८॥ प्रकाशयन् विश्वमिदं यथावत् चन्द्रोदयोद्दीपितसौम्यतारः । आसीन्निशीथो जगतः प्रभता- दन्धस्य दैवादिव दृष्टिलाभः ॥ २-६९॥ विशोधिताद्विष्णुपदात् क्षरन्ती विष्वङ्मुखी सागरवृद्धिहेतोः(तुः)। तमोमयीं सूर्यसुतां निगीर्य ज्योत्स्नानदी शोणमपि व्यमुञ्चत् ॥ २-७०॥ प्रियामुखैस्तोयमधु प्रदिष्टं पीत्वा नवं प्रीत इवाम्बुराशिः । समेत्य चन्द्रद्युतिनर्तकीभि- स्तरङ्गितं ताण्डवमाततान ॥ २-७१॥ कलङ्कचित्रीकृतमिन्दुखण्डं तमःसमध्यासितसत्त्वकल्पम् । अशुष्कशैवालमिवाबभासे सिद्धापगासैकतमर्धदृश्यम् ॥ २-७२॥ स्वमध्यसम्पन्नविशुद्धधामा श्यामा च सा देवकनन्दनी च । तमः क्षिपन्त्यौ जगतां त्रयाणा- मन्योन्यसंवादमिवान्वभूताम् ॥ २-७३॥ शाखावकाशेषु कृतप्रवेशै- श्चन्द्रातपैराश्रितचारकृत्यैः । हतावशिष्टानि तमांसि हन्तुं स्थानं तदाक्रान्तममृग्यतेव ॥ २-७४॥ पराकृतध्वान्तनिकायपङ्कैः पर्याप्ततारागणफेनपुञ्जैः । अशोभत द्यौरसमायुधस्य यशःप्रवाहैरिव चन्द्रपादैः ॥ २-७५॥ ददानया दिक्सरितां प्रसादं प्रसक्तहंसागमया स्वकान्त्या । अपाकृतध्वान्तघनप्रवृत्त्या शरत्त्विषा चन्द्रिकया चकाशे (बभासे)॥ २-७६॥ कलावता कामविहारनाट्ये कालोचितं कल्पयतेव नर्म । अमोघमायापलितङ्करण्यः प्रायो दिशां दीधितयः प्रयुक्ताः ॥ २-७७॥ कदम्बमालाभिरधीतलास्यः कल्याणसम्भूतिरभूत् प्रजानाम् । प्रियोदयस्फीतरुचो रजन्याः सन्तोषनिःश्वासनिभः समीरः ॥ २-७८॥ प्रयेण हंसैरवधूतसङ्गा चारुस्मिता सम्भृतभृङ्गनादा । सर्वोपभोग्ये समये प्रसुप्तं कुमुद्वती कोकनदं जहास ॥ २-७९॥ कलङ्कलक्षेण समैक्षि काचित् कस्तूरिकापत्रविशेषकान्तिः । सुधांशुबिम्बव्यपदेशदृश्ये मुग्धे रजन्या मुखपुण्डरीके ॥ २-८०॥ तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम् । शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥ २-८१॥ तमस्तरङ्गानवसादयन्त्या समेयुषी चन्द्रिकया महत्या । श्यामा बभौ सान्द्रनवोत्पलश्रीः सुरस्रवन्त्येव कलिन्दकन्या ॥ २-८२॥ स्वविप्रयोगव्यसनान्निपीतं भृङ्गापदेशेन कुमुद्वतीभिः । सुधाभिराप्लाव्य करस्थिताभिः प्रच्यावयामास विषं सुधांशुः ॥ २-८३॥ चकाशिरे पत्रकलासमृद्ध्या व्योमोपमे वारिणि कैरवाणि । कलङ्कदृश्यभ्रमराणि काले स्वनाथ(नाथेन)साधर्म्यमुपागतानि ॥ २-८४॥ (सरिन्मुखैस्तोयमधु प्रदिष्टं पीत्वा नवं प्रीत इवाम्बुराशिः ।) सरिन्मुखोपाहृतमम्बुराशिः पीत्वेव तोयं मधु जातहर्षः । चकार चन्द्रप्रतिबिम्बितानां करग्रहैः कामपि रासलीलाम् ॥ २-८५॥ प्रसादभाजोरुभयोरभता- मुभावनिर्धार्यमिथोविशेषौ । नभःस्थले शीतरुचिः सतारे सकैरवे तत्प्रतिमा च तोये ॥ २-८६॥ नभस्तुषारांशुमयूखयोगात् तमिस्रया मोक्षमविन्दतेव । अतृष्यतः(अविद्यया)तत्त्वविदो निशाया- मन्तर्मुखं चित्तमिवात्मयोगात् ॥ २-८७॥ सहोदिता चन्द्रमसा बभासे ज्योत्स्ना पयोधेरुपजातरागा । तदातने सञ्जननेऽपि शौरेः सहायिनी सागरसम्भवेव ॥ २-८८॥ प्रबुद्धताराकुमुदाब्धिचन्द्रे निद्राणनिःशेषजने निशीथे । स तादृशो देवपतेः प्रसूतिं पुष्यन् बभौ पुण्यतमो मुहूर्तः ॥ २-८९॥ भागेन पूर्वेण तमोमयेन प्रकाशपूर्णेन च पश्चिमेन । तदा निशीथः स सतां प्रसत्त्यै संसारमुक्त्योरिव सन्धिरासीत् ॥ २-९०॥ प्रागेव जातेन सितेन धाम्ना मध्योपलक्ष्येण च माधवेन । प्रकामपुण्या वसुदेवपत्न्या सम्पन्नसाम्येव निशा बभासे ॥ २-९१॥ सह प्रतिच्छन्दशशाङ्कभेदैः सरस्वतां ताण्डविनस्तरङ्गाः । अवेक्ष्य शौरेरवतारवेलां सन्तोषनिघ्ना इव सम्प्रणेदुः ॥ २-९२॥ अवादितोदीरितवाद्यघोषं (तूर्यनादं) दिशाभिराम्रेडितदिव्यगीतम् । सतामुपस्थापितसत्त्वलास्यं सङ्गीतमङ्गल्यमभूत् तदानीम् ॥ २-९३॥ प्रदीपितैः कंसगृहेषु दीपै- स्तापैश्च भावेषु तपोधनानाम् । अलभ्यत क्षिप्रमलब्धभङ्गै- रहेतुनिर्वाणदशानुभूतिः ॥ २-९४॥ अजः स्वजन्मार्हतयाऽनुमेने यामष्टमीं यादवभावमिच्छन् । द्वितीयया भावितयोगनिद्रा साऽभूत् तदानीं प्रथमा तिथीनाम् ॥ २-९५॥ अथ सितरुचिलग्ने सिद्धपञ्चग्रहोच्चे व्यजनयदनघानां वैजयन्त्यां जयन्त्याम् । निखिलभुवनपद्मक्लेशनिद्रापनुत्यै दिनकरमनपायं देवकीपूर्वसन्ध्या ॥ २-९६॥ अवतरति मुकुन्दे सम्पदामेककन्दे सुरभितहरिदन्तां स्वादुमाध्वीकदिग्धाम् । अभजत वसुदेवस्थानमानन्दनिघ्नै- रमरमिथुनहस्तैराहितां पुष्पवृष्टिम् ॥ २-९७॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये श्रीकृष्णावतारवर्णनं नाम द्वितीयः सर्गः ॥

॥ श्रीकृष्णस्य नन्दगृहप्राप्तिवर्णनं नाम तृतीयः सर्गः ३॥

अथ जगन्ति बभूवुरनाविला- न्यतिमिरा हरितः प्रचकाशिरे । अभजदेव निशा दिवसश्रियं जननभाजिनि देवदिवाकरे ॥ ३-१॥ ननृतुरप्सरसो दिवि नन्दिताः किमपि गीतमगीयत किन्नरैः । श्रुतिसुखैः समतोषयत स्वनै- रमरदुन्दुभिरानकदुन्दुभिम् ॥ ३-२॥ दशसु तत्र दिशास्वशरीरिणी जयजयेति बभूव सरस्वती । अजितमेकमगोचरयत् स्वयं स्वरसवृत्तिरसावसुरान्तकम् ॥ ३-३॥ अनतिवेलसमीरणचोदितैः शिशिरशीकरशीभरिताम्बरैः । जलधरैरभितो दिवि दध्वने सुरगजैरिव सूचितमङ्गलैः ॥ ३-४॥ ववुरथो मरुतस्त्रिदशाङ्गना- वदनसौरभसारभूतः शुभाः । मुदितनिर्जरमुक्तसुरद्रुम- प्रसववृष्टिमधुद्रवमेदुराः ॥ ३-५॥ मधुरिपोरवतारमहोत्सवे मुमुदिरे मधुरापुरदेवताः । यदभिगन्तरि भक्तजने वरं ददुरशेषमतन्द्रितचेतसः ॥ ३-६॥ अवदधानधियो मुनयस्तदा यदनधीतमधीतवदञ्जसा । निगमजातमशेषमवेक्ष्य त- न्निरविशन्निव मुक्तिमयीं दशाम् ॥ ३-७॥ प्रसदनं शरदागमसम्भवं नभसि मासि नदीभिरुपाददे । महितयोगविदां मतिभिः समं श्रुतिभिरप्यनुपप्लवनीतिभिः ॥ ३-८॥ निखिलचेतनमानसनिःसृताः कलुषताः समुदे(पे)त्य किल क्षणात् । विविशुरम्भ इव स्वयमापगाः जलनिधेरिव भोजपतेर्मनः ॥ ३-९॥ असुरवीरगृहाणि पृथग्विधै- रशुभशंसिभिरानशिरे मुहुः । अमरराजपुरेषु जजृम्भिरे शुभनिमित्तशतानि पुनःपुनः ॥ ३-१०॥ चरमतश्च ऋणादिव देवकीपति- रमुच्यत श‍ृङ्खलतः स्थिरात् । निखिलबन्धनिवर्तकसन्निधौ विगलनं निगलस्य किमद्भुतम् ॥ ३-११॥ उदितमात्मनि देवकसम्भवा दनुजभेदनमङ्कगतं दधौ । कमपि काञ्चनभूभृदधित्यका हरिहयोपलश‍ृङ्गमिवाद्भुतम् ॥ ३-१२॥ विधृतशङ्खरथाङ्गगदाम्बुजः शबलितः शुभया वनमालया । पितुरसूत मुदं पृथुकस्तदा जलधिडिम्भनिभो जननीधृतः ॥ ३-१३॥ पितरमब्जभुवामनपायिनं प्रियतमाङ्कगतं परिपश्यता । स विभुरानकदुन्दुभिना महान् अवितथैः स्वगुणैरभितुष्टुवे ॥ ३-१४॥ प्रणिपतामि भवन्तमनन्यधी- रखिलकारणमाश्रिततारणम् । अनुगमादनिदम्प्रथमा गिरः किमपि यत्पदमेकमधीयते ॥ ३-१५॥ विषमकर्मविपाकपरम्परा- विवशवृत्तिषु देहिषु दुस्तरम् । करुणया तव देव कटाक्षिताः कतिचिदेव तरन्ति भवार्णवम् ॥ ३-१६॥ त्वदनुभावमहोदधिशीकरै- रवशपातिभिराहितशक्तयः । अवधिभेदवतीमुपभुञ्जते स्वपदसम्पदमब्जभवादयः ॥ ३-१७॥ श्रुतिकिरीटशुभाश्रयविग्रहः परमसत्त्वनिधिः प्रतिपद्यसे । जगदनुग्रहमारुतचोदितो विविधरूपतरङ्गविकल्पनाम् ॥ ३-१८॥ त्वयि न देव यदायतते न त- ज्जगति जङ्गममन्यदथापि वा । इति महिम्नि तव प्रमिते परं विभजने विविधैः स्थितमागमैः ॥ ३-१९॥ अखिललोकपितुस्तव पुत्रता- महमयाचमनन्यमनोरथः । वरद वाञ्छितदानधृतव्रते त्वयि तदेवमयत्नमपच्यत ॥ ३-२०॥ अवनिभारनिराकरणार्थिनां क्रतुभुजामभिलाषमवन्ध्ययन् । जितरिपूणि बहूनि दयानिधे विहरणानि विधातुमिहार्हसि ॥ ३-२१॥ दनुजमोहनदोहलिना त्वया सहजलाञ्छनसंवरणं क्षमम् । तदधुना शमयन् मम साध्वसं यवनिकामधिगच्छ यथेप्सितम् ॥ ३-२२॥ इति सभीतमवेक्ष्य दयानिधिः स्मितमुखो वसुदेवमभाषत । त्वमसि मे जनकः किमिहान्यथा किमपि तात मुधा कथितं त्वया ॥ ३-२३॥ इयममर्त्यपितुस्तव गेहिनी दिविषदां जननी मम चानघा । अभिमतं युवयोरनवग्रहं समयभावि मयैव समर्थ्यते ॥ ३-२४॥ यदि बिभेषि भजामि मनुष्यता- मथ च मां नय नन्दगृहं क्षणात् । दुहितरं च समानय तस्य तां गतभयो भव दूरगते मयि ॥ ३-२५॥ अथ निशम्य नियोगमभङ्गुरं मधुजितो मधुराक्षरमन्थरम् । हितमिदं प्रतिपद्य तमाददे गुरुतरं कृपया लघुतां गतम् ॥ ३-२६॥ तुहिनभानुदिवाकरलोचनं निगमनिःश्वसितं स्वसुतस्य तत् । अनुबभूव मुहुर्मुहुरादरा- दनघमाननमानकदुन्दुभिः ॥ ३-२७॥ श्रुतिसुगन्धितदाननचन्द्रिका- मुषितमोहतमा मुनिसन्निभः । अधिजगाम स तन्मयतां क्षणा- दनिमिषत्वमुत प्रतिसन्दधे ॥ ३-२८॥ जिगमिषुः स दिशो दश यादवः सकृदवैक्षत साध्वसविह्वलः । अनघवैभवमर्भकमुद्वहन् अमितगुप्तिनिरुद्धगतौ गृहे ॥ ३-२९॥ विजघटे सहसैव कवाटिका व्रजमथ व्रजतो यदुभूभृतः । उपलकल्पमशेरत रक्षकाः सरणिमादिदिशुर्गृहदेवताः ॥ ३-३०॥ क्षरदसूनिव यामिकरक्षकान् मुषितमञ्जुगिरः शुकशारिकाः । यदुकुलेन्दुरपश्यदमीलितान् परिजनानपि चित्रगतानिव ॥ ३-३१॥ उपयतो विशिखां सदनान्तरात् कुवलयाभकुमारतनुत्विषा । शतमखोपलमेचकया द्रुतं शमितसन्तमसा हरितो बभुः ॥ ३-३२॥ श्रुतिमयो विहगः परितः प्रभुं व्यचरदाशु विधूतनिशाचरः । अनुजगाम च भूधरपन्नगः स्फुटफणामणिदीपगणोद्वहः ॥ ३-३३॥ दिनकरोपमदीधितिभिस्तदा दनुजदेहविदारणदारुणैः । परिगतः किल पञ्चभिरायुधै- र्यदुपतिः प्रजहावसहायताम् ॥ ३-३४॥ प्रगुणमिन्दुनिवेदितपद्धति- र्यदुकुलेन्दुरथो यमुनानदीम् । परमपूरुषमक्षतपौरुषः पतगराज इवाशु वहन् ययौ ॥ ३-३५॥ तनुतरङ्गपृषत्कणशीतलः सुरभिकैरवसौहृदवासितः । अभिसमेतमसेवत मारुतो यमुनया प्रहितो यदुपुङ्गवम् ॥ ३-३६॥ पवनकम्पितपल्लवपाणिका प्रहितपुष्पभरा पदवीमुखे । उपजुहाव किल भ्रमरस्वनै- र्यदुपतिं यमुनोपवनस्थली ॥ ३-३७॥ निमिषितासितनीरजलोचना मुकुलिताब्जमुखी सवितुः सुता । ललितदीनरथाङ्गयुगस्वना कुहकदैन्यमशोचदिव प्रभोः ॥ ३-३८॥ विकचकैरवतारकिताकृतिं तनुमतीमिव शारदयामिनीम् । त्वरितमम्बुनिधेरभिसारिकां तरितुमैहत सत्यसमीहितः ॥ ३-३९॥ भवति किं नु भविष्यति वा किमि- त्यनवधारितशौरिविहारया । चकितयेव विरोचनकन्यया विधुतवीचिकरं किल विव्यथे ॥ ३-४०॥ घनतमःपरिपाकमलीमसै- र्गुरुभिरूर्मिगणैरनुपप्लुतः । अतिततार दिनाधिपतेः सुता- मनघयोगमना इव संसृतिम् ॥ ३-४१॥ यदुपतेर्यमुना त्वरितं यतः प्रतियतश्च समर्पितपद्धतिः । स्वयममर्त्यमदावलमज्जनी चरणलङ्घ्यजला समजायत ॥ ३-४२॥ अजनि पश्चिमतो भृशमुन्नता रविसुता पुरतः स्थलशेषिता । अधिरुरोह पदं किमसौ हरेः प्रतिययौ यदि वा पितरं गिरिम् ॥ ३-४३॥ अकृतसेतुमनाकलितप्लवां जननसिन्धुदृढप्लवमुद्वहन् । रविसुतामतिलङ्घ्य रमापतिं सपदि घोषसमीपमुपानयत् ॥ ३-४४॥ अथ कयाचन कारणनिद्रया विवशसुप्तजनं व्रजमाविशत् । धनदपत्तनसम्पदि यत्र सा स्वसुतमग्र्यमसूयत रोहिणी ॥ ३-४५॥ उपगते वसुदेवसुतेऽन्तिकं नरकवैरिणि नन्दकुटुम्बिनी । अरणिसम्भवपावकसङ्गमा- दभजताध्वरवेदिरिव श्रियम् ॥ ३-४६॥ न्यधित नन्दवधूसविधे सुतं द्रतमुपादित गोपकुमारिकाम् । अथ निनाय च देवकनन्दनी- शयनमानकदुन्दुभिराशु ताम् ॥ ३-४७॥ अनवबुद्धजनार्दनकन्यका विनिमयस्त्वथ भोजगणेश्वरः । दृषदि तामभिहन्तुमपातयत् प्रतिजघान च सा चरणेन तम् ॥ ३-४८॥ नृपतिराशु पदा निहतस्तया निपतितोदितकन्तु(न्दु)कवद्भवन् । दवसमादृतशैलनिभः क्रुधा दरनिमीलितदृष्टिरदूयत ॥ ३-४९॥ उदपतत् दिवमुग्रघनस्वना युवतिरूपयुगात्ययशर्वरी । असुरघातिभिरष्टभिरायुधै- रलघुभिश्चपलाभिरिवाश्रिता ॥ ३-५०॥ अथ च भोजनियन्तुरयन्त्रिता दनुजहन्तुरुदन्तमुदैरिरत् । पटु गभीरमुदारमनाकुलं हितमविस्तरमर्थ्यमविप्लवम् ॥ ३-५१॥ अहमशेषसुरासुरमोहनी यवनिका मधुकैटभमर्दिनः । प्रबलशुम्भनिशुम्भनिषूदने प्रणिहिता हतया तव किं मया ॥ ३-५२॥ वसति नन्दगृहे विबुधद्विषां दमयिता वसुदेवसमुद्भवः । अयमसौ तव नाशयितेति सा दरमुदीर्य जगाम यथेप्सितम् ॥ ३-५३॥ मधुहिरण्यनिभो मधुरापति- र्दिनहुताशनदीनदशां गतः । श्वसितजल्पितवेपितहुङ्कृतै- ररतिमायतभीतिरसूचयत् ॥ ३-५४॥ जडमतिः स जनार्दनमायया विहसितस्त्रपया जनितव्यथः । अपकृतं वसुदेवममोचयत् दयितया सह दीनविलापया ॥ ३-५५॥ किमपि चिन्तितमागतमन्यथा किमिदमित्यवशादुपजातया । विषविदूषितयेव मनीषया मुहुरदूयत मोहविचेष्टितः ॥ ३-५६॥ अविषये विपदामसुरान्तके पुनरियेष निकारपस्म्पराम् । नियतिरेकमुखी दुरतिक्रमा कृतधिया किमुताऽऽविलचेतसा ॥ ३-५७॥ परिबभूव चुकोप विसिष्मिये परिजहास हरिं प्रजगर्ज च । परिणतेन भवान्तरवासना- ऽऽग्रहगुणेन भजन् भवितव्यताम् ॥ ३-५८॥ क्वचन धामनि कंसनिवेदिते सभयमानकदुन्दुभिरावसत् । स्मृतिगतेन सुतेन सजीविता दिनशतानि निनाय च देवकी ॥ ३-५९॥ विगतकन्यकया च यशोदया नियतिसम्भृतनिर्भरनिद्रया । चिरसमागतजागरयाऽन्तिके हरिरपत्यमदृश्यत धन्यया ॥ ३-६०॥ यदवबुद्धनिराकुलनीतिभि- र्मुनिगणैरधुनाऽपि विमृग्यते । तदिदमागममौलिविभूषणं विधिवशादभवत् व्रजभूषणम् ॥ ३-६१॥ अनघवत्समनाकुलधेनुकं प्रचुरदुग्धमचोरभयोद्भवम् । व्रजमनामयविश्वजनं विभुः कृतयुगास्पदकल्पमकल्पयत् ॥ ३-६२॥ अजनि गोपगृहेषु मनोरमै- रमितकान्तिभिरप्सरसां गणैः । यदनुभूतिरसेन समेष्यतः शरणयादवशैशवयौवने ॥ ३-६३॥ सुरमहीसुरतोषणमादरात् नवमुपादित नन्द उदारधीः । तरलगोपगणागमसङ्कुलं तनयजन्ममहोत्सवमद्भुतम् ॥ ३-६४॥ अधिचकार वदान्यमणेः श्रियं व्यधित कल्पतरोरनुकल्पताम् । अ(व्य)जनयच्च सुतप्रसवोत्सवे महति मेघविकत्थनमोघताम् ॥ ३-६५॥ निधिमनन्तमिव स्वयमुत्थितं निरवधिं निजभागमिवोदितम् । व्रजभुवः प्रतिलभ्य रमापतिं जहसुरैन्द्रमसारतरं पदम् ॥ ३-६६॥ पुत्रं प्रसूय तपसा पुरुषं पुराणं कालं चिरं विधिवशात् कृतविप्रकर्षौ । शङ्काकलङ्कितधियावपि दम्पती तौ तद्वैभवस्मरणशान्तरुजावभूताम् ॥ ३-६७॥ नन्दसद्मनि नवेन्दुसन्निभौ वासमेत्य वसुदेवनन्दनौ । वृद्धिमापतुरनेहसा स्वयं स्वादुभोगजननीं सुपर्वणाम् ॥ ३-६८॥ ॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये श्रीकृष्णस्य नन्दगृहप्राप्तिवर्णनं नाम तृतीयः सर्गः ॥

॥ काव्यरत्ने निर्बाधगोचारणं नाम चतुर्थः सर्गः ४॥

मनीषितं कैतवमानुषस्य श्रुत्वा भयक्रोधपरिप्लुतात्मा । कंसश्चिरं प्राग्भवकालनेमि- श्चिन्तार्णवे मग्न इवावतस्थे ॥ ४-१॥ स दुर्दमान् आसुरसत्त्वभेदान् नेता समाहूय नृशंसचेताः । प्रस्थापयामास परैरधृष्यं नन्दास्पदं नाथविहारगुप्तम् ॥ ४-२॥ कदाचिदन्तर्हितपूतनात्मा कंसप्रयुक्ता किल कापि माया । निद्रापराधीनजने निशीथे व्रजं यशोदाकृतिराविवेश ॥ ४-३॥ स्तन्येन कृष्णः सह पूतनायाः प्राणान् पपौ लुप्तपुनर्भवायाः । यदद्भुतं भावयतां जनानां स्तनन्धयत्वं न पुनर्बभूव ॥ ४-४॥ निशम्य तस्याः परुषं निनादं रूक्षं यशोदा रुदितं च सूनोः । ससम्भ्रमावेगमुपेत्य भीता तमग्रहीद् दुर्ग्रहमागमानाम् ॥ ४-५॥ नन्दश्च तीव्रेण भयेन सद्यः समेत्य पश्यन् अनघं कुमारम् । तेनैव तस्य त्रिजगन्नियन्तुः प्रायुङ्क्त रक्षां परमार्थवेदी ॥ ४-६॥ गोपाश्च सम्भूय गुहोपमाक्षीं स्वघोषनिर्हादितविश्वघोषाम् । गतासुमैक्षन्त निशाचरीं तां भीमाकृतिं भै(भी)मरथीमिवान्याम् ॥ ४-७॥ परश्वधैस्तत्क्षणशातितैस्तां विच्छिद्य विन्ध्याचलसानुकल्पाम् । अनःप्रवृत्त्या बहिराशु निन्युः क्रव्याद्बलिं प्राज्यमिव क्षिपन्तः ॥ ४-८॥ ग्रहादिदोषान् अपहन्तुकामा गोप्तुः सतां गोपतयः समेताः । सुवर्णसूत्रग्रथिताभिरामां पञ्चायुधीमाभरणं बबन्धुः ॥ ४-९॥ रम्याणि रत्नानि रथाङ्गपाणे- राकल्पतां नूनमवाप्नुवन्ति । तदङ्गसंस्पर्शरसात् प्रकामं रोमाञ्चितान्यंशुगणैरभूवन् ॥ ४-१०॥ स शायितः क्षेमविदा जनन्या पर्यङ्किकायां प्ररुदन् कुमारः । चिक्षेप तुङ्गं शकटं पदाभ्यां गाढाभिघातेन गिरीन्द्रसारम् ॥ ४-११॥ विदारितस्तस्य पदाग्रयोगात् विकीर्यमाणो बहुधा पृथिव्याम् । शब्दायमानः शकटाख्यदैत्यः सङ्क्षोभयामास जगन्त्यभीक्ष्णम् ॥ ४-१२॥ यदृच्छयोत्क्षिप्तपदे कुमारे शैलोपलक्ष्ये शकटे निरस्ते । सरोजगर्भोपमसौकुमार्यं पस्पर्श तत्पादतलं यशोदा ॥ ४-१३॥ अथाङ्गणे जानुपदाग्रहस्तै- श्चक्रायुधे चङ्क्रमणप्रवृत्ते । प्रायो धरित्री परिषस्वजे तं सापत्रपा सान्द्ररजश्छलेन ॥ ४-१४॥ निर्व्याजमन्दस्मितदर्शनीयं नीराजितं कुण्डलरत्नभासा । नन्दस्तदानीं न जगाम तृप्तिं मुग्धाक्षरं प्रेक्ष्य प्रेक्ष्य मुखं तदीयम् ॥ ४-१५॥ विश्वानि विश्वाधिकशक्तिरेको नामानि रूपाणि च निर्मिमाणः । नामैकदेशग्रहणेऽपि मातु- र्बभूव कृष्णो बहुमानपात्रम् ॥ ४-१६॥ तरङ्गितानुश्रवगन्धमादौ तस्याद्भुतं संलपितं सखीभिः । वर्णस्वरादिव्यवसायभूम्ना शिक्षाविदां शिक्षणमग्र्यमासीत् ॥ ४-१७॥ तमीषदुत्थाय निलीनमारात् सम्प्रेक्ष्यदन्ताङ्कुरचारुहासम् । सनातनीं दृष्टिमनन्यदृष्टिः सानन्दमालोकत नन्दपत्नी ॥ ४-१८॥ पदैस्त्रिभिः क्रान्तजगत्त्रयं तं भव्याशया भावितबालभावम् । करेण सङ्गृह्य कराम्बुजाग्रं सञ्चारयामास शनैर्यशोदा ॥ ४-१९॥ स्खलद्गतिं द्वित्रपदप्रचारात् जानुक्रमे जातरुचिं कुमारम् । भुग्ने समावेश्य वलग्नभागे स्तन्यं मुदा पाययते स्म धन्या ॥ ४-२०॥ क्रमेण भूयोऽपि विहारकाङ्क्षी नन्दस्य दारैरभिनन्द्यमानः । नित्यानुभूतं निगमान्तभृङ्गै- र्निजं पदाब्जं निदधे पृथिव्याम् ॥ ४-२१॥ स सञ्चरन् साधुजनप्रतीपै- र्मा भुज्यतां सेयमितीव मत्वा । चक्रादिभिः पादसरोजचिह्नै- रामुद्रयामास महीमनन्यैः ॥ ४-२२॥ आलम्ब्य मातुः करपल्लवाग्रं शनैः शनैः सञ्चरतो मुरारेः । बभार चित्रामिव पत्ररेखां धन्या पदन्यासमयीं धरित्री ॥ ४-२३॥ अकर्मनिघ्नो भुवनान्यजस्रं सङ्कल्पलेशेन नियम्य दीव्यन् । प्रचारितः प्रस्नुतया जनन्या पदेपदे विश्रममाचकाङ्क्ष ॥ ४-२४॥ सुरप्रसूनैः सुरभीकृताना- मारोहणान्यङ्गणवेदिकानाम् । तमारुरुक्षुं तरलाङ्घ्रिपद्मं धातारमारोहयदाशु धात्री ॥ ४-२५॥ तलेषु तस्याङ्गणपादपानां तालानुकूलेषु गतागतेषु । व्रजस्थिताः स्वर्गसदामश‍ृण्वन् दूरोदितान् दुन्दुभितूर्यनादान् ॥ ४-२६॥ य एष लोकत्रयसूत्रधारः पर्यायपात्राणि चराचराणि । आनर्तयत्यद्भुतचेष्टितोऽसौ ननर्त खेलं(लन्)नवनीतकाङ्क्षी ॥ ४-२७॥ गृहेषु दध्नो मथनप्रवृत्तौ पृषत्कणैरुत्पतितैः प्रकीर्णः । निदर्शयामास निजामवस्थां प्राचीं सुधाशीकरयोगचित्राम् ॥ ४-२८॥ त्रस्यन् मुकुन्दो नवनीतचौर्यात् निर्भुग्नगात्रो निभृतं शयानः । निजानि निःशब्ददशां ययाचे बद्ध्वाञ्जलिं बालविभूषणानि ॥ ४-२९॥ आरण्यकानां प्रभवः फलाना- मरण्यजातानि फलान्यभीप्सन् । विस्रंसिधान्याञ्जलिना करेण व्याधात्मजां विश्वपतिः सिषेवे ॥ ४-३०॥ सुजातरेखात्मकशङ्खचक्रं ताम्रोदरं तस्य करारविन्दम् । विलोकयन्त्याः फलविक्रय(यि)ण्या विक्रेतुमात्मानमभूद्विमर्शः ॥ ४-३१॥ अ(आ)पूरयत् स्वादुफलार्पणेन क्रीडाशिशोर्हस्तपुटं किराती । रत्नैस्तदा कौस्तुभनिर्विशेषै- रापूरितं तत्फलभाण्डमासीत् ॥ ४-३२॥ मुहुः प्रवृत्तं नवनीतचौर्ये वत्सान् विमुञ्चन्तमदोहकाले । उलूखले कुत्रचिदात्तपुण्ये बन्धुं सतां बन्धुमियेष माता ॥ ४-३३॥ आनीतमग्रे निजबन्धनार्थं दामाखिलं संहितमप्यपूर्णम् । निरीक्ष्य निर्विण्णधियो जनन्याः सङ्कोचशक्त्या स बभूव बन्ध्यः ॥ ४-३४॥ बद्धं तथा भावयतां मुकुन्द- मयत्नविच्छेदिनि कर्मबन्धे । तपस्विनी तत्क्रतुनीतिराद्या सव्रीडमारण्यकथासु तस्थौ ॥ ४-३५॥ उलूखले प्रग्रथितेन दाम्ना निबद्धमास्राविललोलनेत्रम् । सहासमैक्षन्त जनाः समन्ता- दालानितं नागमिवानभिज्ञाः ॥ ४-३६॥ अनादराकृष्टमुलूखलं तत् यावर्जुनौ शैलनिभौ बभञ्ज । बभूवतुर्ब्रह्मसुतस्य शापा- न्मुक्तौ मुनेर्यक्षवरौ तदा तौ ॥ ४-३७॥ शापावधिं ब्रह्मसुतेन दत्तं सम्प्राप्य तौ शौरिसमागमेन । देहेन दिव्येन विदीप्यमानौ स्तुत्वा हरिं धाम समीयतुः स्वम् ॥ ४-३८॥ अदृष्टपूर्वं भुवि पूतनादे- रुदन्तमुत्पातमुदीक्षमाणाः । समेत्य गोपाः सह माधवेन वृन्दावनं सत्वरमभ्यगच्छन् ॥ ४-३९॥ येनौषधीनामधिपं पुरस्ता- दाह्लादहेतुं जगतामकार्षीत् । तेनैव दध्यौ मनसा वनं तत् कृष्णो गवां क्षेमसमृद्धिमिच्छन् ॥ ४-४०॥ अनुग्रहाब्धेरिव वीचिभेदै- राप्याययामास शुभैरपाङ्गैः । वनं पृथिव्या इव यौवनं तत् गोप्ता सतां गोधनवंशचन्द्रः ॥ ४-४१॥ आसीन्निषेव्या पृथिवी पशूनां पुण्ड्रेक्षुरम्याणि तृणान्यभूवन् । तस्मिन्नरण्ये तरुभिः प्रपेदे कल्पद्रुमाणामनुकल्पभावः ॥ ४-४२॥ अदृष्टपूर्वैरधिकां विशेषै- रालक्ष्य वन्याममरेन्द्रमान्याम् । नन्दोपनन्दप्रमुखैर्ननन्दे नाकाधिरूढैरिव नाथभूम्ना ॥ ४-४३॥ दैत्यैस्तृणावर्तमुखैरयत्ना- न्मुहुर्निरस्तैर्मुदितो मुकुन्दः । अभुङ्क्त रामेण सहाद्भुतं तत् पुण्यं वनं पुण्यजनेन्द्रमान्यम् ॥ ४-४४॥ सपक्षकैलासनिभस्य गोपा बकस्य पक्षान् अभितो बबन्धुः । वने तदन्यानपि घोरवृत्तीन् क्षेप्तुं प्रवृत्ता इव केतुमालाः ॥ ४-४५॥ पुरस्कृतं मङ्गलगीतवाद्यैः पंउसः प्रसत्त्यै जगतां प्रसूतेः । कयाऽपि तत्र स्पृहयाऽन्वतिष्ठन् कन्याव्रतं किञ्चन गोपकन्याः ॥ ४-४६॥ निशात्यय(ये)स्नानसमुद्यतानां निक्षिप्तमाभीरकिशोरिकाणाम् । कूलादुपादाय दुकूलजालं कुन्दाधिरूढो मुमुदे मुकुन्दः ॥ ४-४७॥ स चैकहस्तप्रणतिं विधून्वन् क्षौमार्थिनीनां हरिरङ्गनानाम् । अन्योन्यहस्तार्पणसम्प्रवृत्त- मासां जहासाञ्जलिमप्यपूर्वम् ॥ ४-४८॥ स चाऽऽत्मचण्डातकमात्रभाजां क्षौमार्थिनीनां स्वयमर्थ्यमानैः । अनन्यहस्तार्पणसम्प्रवृत्तै- स्तासां जहासाञ्जलिभिस्तदीयैः ॥ ४-४९॥ प्रसुप्तमुद्बोधयता परत्वं वीरश्रियो विभ्रममण्डनेन । नीलादिनिर्वेशनिधानधाम्ना नाथो बभासे नवयौवनेन(वयसा नवेन)॥ ४-५०॥ विहारपर्वक्रमचारु शौरेः कल्यं वयः कामगृहीतियोग्यम् । मनोभिरास्वाद्यतमं प्रपेदे माधुर्यमिक्षोरिव मध्यभागः ॥ ४-५१॥ समाश्रितां विभ्रमसैन्यभेदैः कान्त्या स्वया कल्पितचारुवप्राम् । व्रजस्त्रियः कृष्णमयीं व्यजानन् क्रीडार्गलां क्षेमपुरीमपूर्वाम् ॥ ४-५२॥ वंशस्वनो वत्सविहारपांसुः सन्ध्यागमस्तस्य च वन्यवेषः । आयाति कृष्णे व्रजसुन्दरीणा- मासीच्चतुःस्कन्धमनङ्गसैन्यम् ॥ ४-५३॥ अनुश्रवाणामवतंसभूतं बर्हावतंसेन विभूषयन्ती । अदिव्यया चर्मदृशैव गोपी समाधिभाजामभजत् समाधिम् ॥ ४-५४॥ कलापिनां कल्पितमाल्यभावैः पत्रैस्तदा पत्रलदेहकान्तिम् । अवाप्य सञ्चारितमालमाद्यं छायात्मतां प्रापुरिवास्य गावः ॥ ४-५५॥ वितन्वता मान्मथमिन्द्रजालं पिञ्छेन तापिञ्छनिभो बभासे । अनेकरत्नप्रभवेन धाम्ना शारात्मना शैल इवैन्द्रनीलः ॥ ४-५६॥ मुहुः स्पृशन्ती मुमुदे यशोदा मुग्धाङ्गनामोहनवांशिकेन । मनीषिणां माङ्गलिकेन यूना मौलौ धृतां मण्डनबर्हमालाम् ॥ ४-५७॥ कृतास्पदा कृष्णभुजान्तराले प्रालम्बबर्हावलिराबभासे । विशुद्धहेमद्युतिरब्धिकन्या श्यामायमानेव तदङ्गकान्त्या ॥ ४-५८॥ साचीकृतानि प्रणयत्रपाभ्यां व्यावृत्तराजीवनिभानि शौरिः । सभ्रूविलासानि ददर्श तासां वक्त्राणि वाचालविलोचनानि ॥ ४-५९॥ निरङ्कुशस्नेहरसानुविद्धान् निष्पन्दमन्दालसनिर्निमेषान् । वंशेन कृष्णः प्रतिसम्बभाषे वार्ताहरान् वामदृशां कटाक्षान् ॥ ४-६०॥ अशिक्षितं तुम्बुरुनारदाद्यै- राभीरनाट्यं नवमास्थितेन । जगे सलीलं जगदेकधाम्ना रागाब्धिना रञ्जयतेव विश्वम् ॥ ४-६१॥ अपत्रपासैकतमाश्रितानां रागोदधौ कृष्णमुखेन्दुनुन्ने । हस्तावलम्बो न बभूव तासा- मुत्पक्ष्मणामुत्कलिकाप्लुतानाम् ॥ ४-६२॥ अयन्त्रितस्वैरगतिः स तासां सम्भावितानां करपुष्करेण । प्रस्विन्नगण्डः प्रणयी चकाशे मध्ये वशानामिव वारणेन्द्रः ॥ ४-६३॥ विमोहने वल्लवगेहिनीनां न ब्रह्मचर्यं बिभिदे तदीयम् । सम्पत्स्यते बालकजीवनं तत् सत्येन येनैव सतां समक्षम् ॥ ४-६४॥ स्वसम्भवं कृष्णमवेक्षमाणो बन्धुप्रसूतं च बलं व्रजेशः । निसर्गमैत्र्या नियतैकभावौ न्ययुङ्क्त तौ वत्सकुलानि गोप्तुम् ॥ ४-६५॥ अनन्यतन्त्रः स्वयमेव देवान् पद्मासनादीन् प्रजनय्य रक्षन् । स रक्षकः सीरभृता सहाऽऽसीत् नेता गवां नन्दनियोगवर्ती ॥ ४-६६॥ कथं व्रजेच्छर्करिलान् प्रदेशान् पद्भ्यामसौ पल्लवकोमलाभ्याम् । इति स्नुतस्तन्यरसा यशोदा चिन्तार्णवे न प्लवमन्वविन्दत् ॥ ४-६७॥ विहारवित्रासितदुष्टसत्त्वौ मृगेन्द्रपोताविव धीरचेष्टौ । बभूवतुः शाश्वतिकेन भूम्ना बालौ युवानाविव तौ बलाढ्यौ ॥ ४-६८॥ सिन्दूरितौ वत्सपरागजालैः सितासितौ बालगजाविव द्वौ । उदारलीलावुपलक्ष्य गोप्यः सर्वास्तदाऽनन्यवशा बभूवुः ॥ ४-६९॥ गोपायमाने षुरुषे परस्मिन् गोरूपतां वेदगिरो भजन्त्यः । भव्यैरसेवन्त पदं तदीयं स्तोभप्रतिच्छन्दनिभैः स्वशब्दैः ॥ ४-७०॥ अबालिशो बालिशवत् प्रजानां प्रख्यापयन् आत्मनि पारतन्त्र्यम् । न्यदर्शयत् विश्वपतिः पशूनां बन्धे च मोक्षे च निजं प्रभुत्वम् ॥ ४-७१॥ आत्मोपमर्देऽप्यनुमोदमाना- दात्माधिकं पालयतश्च वत्सान् । गावस्तदानीमनघामविन्दन् वात्सल्यशिक्षामिव वासुदेवात् ॥ ४-७२॥ योऽसावनन्तप्रमुखैरनन्तै- र्निर्विश्यते नित्यमनन्तभूमा । वैमानिकानां प्रथमः स देवो वत्सैरलेलिह्यत वत्सलात्मा ॥ ४-७३॥ महीयसा मण्डितपाणिपद्मं दध्यन्नसारेण मधुप्लुतेन । दृष्ट्वा ननन्दुः क्षुधयाऽन्वितास्तं वत्सानुचर्यासु वयस्यगोपाः ॥ ४-७४॥ स्वादूनि वन्यानि फलानि तैस्तैः स्निग्धैरुपानीय निदर्शितानि । रामाय पूर्वं प्रतिपाद्य शेषैः स पिप्रिये सादरभुज्यमानैः ॥ ४-७५॥ ताभ्यां तदा नन्दनिदेशिताभ्यां रक्षावतीं रामजनार्दनाभ्याम् । विशेषभोग्यामभजत् विभूतिं वृन्दावनं व्यापृतधेनुवृन्दम् ॥ ४-७६॥ अगाधकासारमहीनशष्प- मतीक्ष्णसूर्यं तदचण्डवातम् । प्रच्छायनिद्रायितधेनुवत्सं प्रौढे निदाघेऽपि बभूव भोग्यम् ॥ ४-७७॥ न व्याधिपीडा न च दैत्यशङ्का नासीत् गवां व्याघ्रभयं च तस्मिन् । स्वबाहुकल्पेन बलेन सार्धं नारायणे रक्षति नन्दलक्षमीम् ॥ ४-७८॥ निरीतयस्ते निरपायवाञ्छाः निःश्रेयसादप्यधिकप्रमोदाः । प्रपेदिरेऽपूर्वयुगानुभूतिं गोपास्तदा गोप्तरि वासुदेवे ॥ ४-७९॥ वत्सानुचर्याचतुरस्य काले वंशस्वनैः कर्ण(श्रोत्र)सुधां विधातुः । गतागतप्राणदशामविन्दन् गोपीजनास्तस्य गतागतेषु ॥ ४-८०॥ आघ्रातवर्त्मानमरण्यभागे- ष्वारण्यकैराश्रितधेनुभावैः । केनापि तस्यापहृतं किरीटं प्रत्याहरन् प्रैक्षत पत्रिनाथः ॥ ४-८१॥ देवस्य दुग्धोदशयस्य दैत्या- द्वैरोचनाद्व्यालभुजोपनीतः । कृष्णस्य मौलौ कृतबर्हचूडे न्यस्तः किरीटो निबिडीबभूव ॥ ४-८२॥ समाहितैरग्निषु यायजूकै- राधीयमानानि हवींषि भोक्ता । भक्तैकलभ्यो भगवान् कदाचित् पत्नीभिरानीतमभुङ्क्त भोज्यम् ॥ ४-८३॥ कराम्बुजस्पर्शनिमीलिताक्षान् आमर्शनैराकलितार्धनिद्रान् । वत्सान् अनन्याभिमुखान् स मेने प्रह्वाकृतीन् भक्तिभरावनम्रान् ॥ ४-८४॥ रोमन्थफेनाञ्चितसृक्विभागै- रस्पन्दनैरर्धनिमीलिताक्षैः । अनादृतस्तन्यरसैर्मुकुन्दः कण्डूयितैर्निवृतिमाप वत्सैः ॥ ४-८५॥ सिषेविरे शाद्वलितान् प्रदेशान् कृष्णस्य धाम्ना मणिमेचकेन । वसुन्धरायामपि केवलायां व्यापारयन्तो वदनानि वत्साः ॥ ४-८६॥ नवप्रसूताः स तदा वनान्ते पयस्विनीरप्रतिमानदोहाः । परिभ्रमश्रान्तपदान् अदूरात् प्रत्यागतान् पाययते स्म वत्सान् ॥ ४-८७॥ निविश्य मूलेषु वनद्रुमाणां निद्रायितानां निजतर्णकानाम् । अङ्गानि गाः सादरमालिहन्ती- रमंस्त सम्भाव्यगुणाः स्वमातुः ॥ ४-८८॥ स नैचिकीः प्रत्यहमातपान्ते प्रत्युक्तघोषा इव वत्सनादैः । मधूनि वंशध्वनिभिः प्रयच्छन् निनाय भूयोऽपि निवासभूमिम् ॥ ४-८९॥ समाव्रजन् विश्वपतिर्व्रजान्तं गोभिः समं गोपविलासिनीनाम् । उल्लासहेतुः स बभूव दूरा- दुद्यन् विवस्वानिव पद्मिनीनाम् ॥ ४-९०॥ निवर्तयन् गोकुलमात्तवंशो मन्दायमाने दिवसे मुकुन्दः । प्रियादृशां पारणया स्वकान्त्या बर्हावृतं व्यातनुतेव विश्वम् ॥ ४-९१॥ बालं तरुण्यस्तरुणं च बाला स्तमन्वरज्यन्त समानभावाः । तदद्भुतं तस्य विलोभनं वा तस्यैव सर्वार्हरसात्मता वा ॥ ४-९२॥ अवेदिषातां पृथुकौ पितृभ्यां तारुण्यपूर्णौ तरुणीजनेन । वृद्धौ पुरावृत्तविशेषविद्भिः क्लृप्तेन्द्रजालाविव रामकृष्णौ ॥ ४-९३॥ अथापदानं मदनस्य दातु- मादातुमालोकयतां मनांसि । नवं वयो नाथसमं प्रपेदे गुणोत्तरं गोपकुमारिकाभिः ॥ ४-९४॥ अनङ्गसिन्धोरमृतप्रथिम्ना रसस्य दिव्येन रसायनेन । महीयसीं प्रीतिमवाप तासां योगी महान् यौवनसम्भवेन ॥ ४-९५॥ विजृम्भमाणस्तनकुड्मलानां व्यक्तोन्मिषद्विभ्रमसौरभाणाम् । मधुव्रतत्वं मधुराकृतीनां लेभे लतानामिव वल्लवीनाम् ॥ ४-९६॥ अतिप्रसङ्गादवधीरयन्त्या प्राचीनया संयमितो नियत्या । पाञ्चालकन्यामिव पञ्चभुक्तां धर्मः सतीरादृत तादृशीस्ताः ॥ ४-९७॥ दिशागजानामिव शाक्वराणां श‍ृङ्गाग्रनिर्भिन्नशिलोच्चयानाम् । स तादृशा बाहुबलेन कण्ठान् निपीड्य लेभे पणितेन नीलाम् ॥ ४-९८॥ करेण दम्भोलिकठोरतुङ्गान् देहान् पृथून् दानवदुर्वृषाणाम् । विमृद्य नूनं विदधे मुकुन्दः प्रियास्तनस्पर्शविहारयोग्याम् ॥ ४-९९॥ आत्मीयपर्यङ्कभुजङ्गकल्पौ अक्षेप्यरक्षापरिघौ पृथिव्याः । नीलोपधानीकरणात् स मेने भूयिष्ठधन्यौ भुजपारिजातौ ॥ ४-१००॥ रागादिरोगप्रतिकारभूतं रसायनं सर्वदशानुभाव्यम् । आसीदनुध्येयतमं मुनीनां दिव्यस्य पुसो दयितोपभोगः ॥ ४-१०१॥ अनुद्रुता नूनमनङ्गबाणैः सुलोचना लोचनभागधेयम् । प्रत्यग्रहीषुः प्रतिसन्निवृत्तं त्यक्तेतरैरक्षिभिरात्मना च ॥ ४-१०२॥ व्रजोपकण्ठे विबुधानुभाव्यो गोपीजनैरात्मगुणावदातैः । समावृतो नन्दसुतश्चकाशे तारागणैरिन्दुरिवान्तरिक्षे ॥ ४-१०३॥ हत्वा सयूथं तृणराजषण्डे रामाच्युतौ रासभदैत्यमुग्रम् । अतोषयेतां भृशमात्मभृत्यान् स्वाद्यैः सुधापिण्डनिभैः फलौघैः ॥ ४-१०४॥ कदाचिदासादितगोपवेषः क्रीडाकुले गोपकुमारवृन्दे । स्कन्धेन सङ्गृह्य बलं बलीयान् दैत्यः प्रलम्बो दिवमुत्पपात ॥ ४-१०५॥ पपात भृमौ सहसा स दैत्य- स्तन्मुष्टिना ताडितशीर्णमौलिः । महेन्द्रहस्तप्रहितेन पूर्वं वज्रेण निर्भिन्न इवाचलेन्द्रः ॥ ४-१०६॥ स्ववाससा क्लृप्तकलङ्कलक्षमीः कान्त्या दिशश्चन्द्रिकयेव लिम्पन् । रराज रामो दनुजे निरस्ते स्वर्भानुना मुक्त इवोडुराजः ॥ ४-१०७॥ विनैव रामेण विभुः कदाचित् सञ्चारयन् धेनुगणं सवत्सम् । वनश्रिया दूरविलोभिताक्षः कञ्चित् ययौ कच्छमदृष्टपूर्वम् ॥ ४-१०८॥ यदृच्छया चारितधेनुचक्रः कूलान्तिके विश्वजनानुकूलः । कलिन्दजां कालियपन्नगस्य क्ष्वेलोद्गमैः कज्जलितां ददर्श ॥ ४-१०९॥ विषाग्निना मुर्मुरितप्रताने वैरोचनीतीरवनावकाशे । अहीन्द्रमास्कन्दितुमध्यरुक्षत् काष्ठाकृतिं कञ्चन नीपवृक्षम् ॥ ४-११०॥ मधुद्रवैरुल्बणहर्षबाष्पा रोमाञ्चिता केसरजालकेन । पत्राङ्कुरैश्चित्रतनुश्चकाशे कृष्णाश्रिता शुष्ककदम्बशाखा ॥ ४-१११॥ निपत्य सङ्क्षिप्तपयोधिकल्पे महाह्रदे मन्दरपोतरम्यः । विषव्यपोहादमृतं विधातुं स्वादूदयं क्षोभयति स्म सिन्धुम् ॥ ४-११२॥ कृताहतिः कृष्णनिपातवेगा- दानद्धरूपा विततैस्तरङ्गैः । सर्पापसारौषधिसम्प्रयुक्ता भेरीव सा भीमतरं ररास ॥ ४-११३॥ प्रसक्तकृष्णद्युतिभिस्तदीयैः पृषत्कणैरुत्पतितैः प्रतूर्णम् । अदृश्यताऽऽद्योतितमन्तरिक्षं पीतान्धकारैरिव तारकौएघैः ॥ ४-११४॥ उदग्रसंरम्भमुदीक्ष्य भीता- स्तार्क्ष्यध्वजं तार्क्ष्यमिवाऽऽपतन्तम् । प्रपेदिरे सागरमाश्रितौघाः काकोदराः कालियमात्रशेषाः ॥ ४-११५॥ अथाम्भसः कालियनागमुग्रं व्यात्ताननं मृत्युमिवोज्जिहानम् । भोगेन बध्नन्तमपोह्य शौरिः प्रह्वीकृतं तत्फणमारुरोह ॥ ४-११६॥ सद्यो महानीलमयीं मुकुन्दः सपद्मरागामिव पादपीठीम् । क्रामन् फणां कालियपन्नगस्य ग्रस्तोदितो भानुरिवाबभासे ॥ ४-११७॥ फणामणीनां प्रभयोपरक्ते खेलन् बभौ चक्रिणि चक्रपाणिः । प्रदोषसिन्दूरितमम्बुवाहं प्राचेतसो नाग इवोपमृद्नन् ॥ ४-११८॥ प्रणेमुषां प्राणभृतामुदीर्णं मनो विनेष्यन् विषमाक्षवक्त्रम् । अकल्पयत् पन्नगमर्दनेन प्रायेण योग्यां पतगेन्द्रवाहः ॥ ४-११९॥ तद्भोगवृन्दे युगपन्मुकुन्द- श्चारीविशेषेण समैक्षि नृत्यन् । पर्याकुले वीचिगणे पयोधेः सङ्क्रान्तबिम्बो बहुधेव चन्द्रः ॥ ४-१२०॥ तदुत्तमाङ्गं परिकल्प्य रङ्गं तरङ्गनिष्पन्नमृदङ्गनादम् । प्रशस्यमानस्त्रिदशैरकार्षी- दव्याहतामारभटीमनन्तः ॥ ४-१२१॥ एकेन हस्तेन निपीड्य वालं पादेन चैकेन फणामुदग्राम् । हरिस्तदा हन्तुमियेष नागं स एव संसारमिवाश्रितानाम् ॥ ४-१२२॥ स पन्नगीनां प्रणिपातभाजां द्रवीभवन् दीनविलापभेदैः । प्रसादितः प्रादित भर्तृभिक्षां किमस्य नः (नु)स्यादपदं दयायाः ॥ ४-१२३॥ लोलापतच्चरणलीलाहतिक्षरितहालाहले निजफणे नृत्यन्तमप्रतिघकृत्यं तमप्रतिममत्यन्तचारुवपुषम् । देवादिभिःसमयसेवादरत्वरितहेवाकघोषमुखरै- र्दृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ॥ ४-१२४॥ हरिचरणसरोजन्यासधन्योत्तमाङ्गः शमितगरुडभीतिः सानुबन्धः स नागः । युगविरतिदशायां योगनिद्रानुरूपां शरणमशरणः सन् प्राप शय्यां तदीयाम् ॥ ४-१२५॥ विविधमुनिगणोपजीव्यतीर्था विगमितसर्पगणा परेण पुंसा । अभजत यमुना विशुद्धिमग्र्यां शमितबहिर्मतसम्प्लवा त्रयीव ॥ ४-१२६॥ अवधूतभुजङ्गसङ्गदोषा हरिणा सूर्यसुता पवित्रिता च । अपि तत्पदजन्मनः सपत्न्या बहुमन्तव्यतरा भृशं बभूव ॥ ४-१२७॥ ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये काव्यरत्ने निर्बाधगोचारणं नाम चतुर्थः सर्गः ॥

॥ इन्द्रपूजारम्ब पञ्चमः सर्गः ५॥

ततः समानीतरसालपाकः संवीजयन् पाटलगन्धवाहैः । निरूढमल्लीविभवो निदाघः सीरायुधं शौरिसखं सिषेवे ॥ ५-१॥ अबिभ्रतीनां कुचकुम्भकक्ष्या- मालिप्तकर्पूरहिमोदकानाम् । स सुभ्रुवां देहगुणेन यूना- मासीत् वसन्तादपि माननीयः ॥ ५-२॥ विहारयूना भजता स्वयं तत् व्रजाङ्गनाविभ्रमकिङ्करत्वम् । नितान्तधन्याः स्वगुणैरभूवन् निर्विश्यमाना ऋतवः क्रमेण ॥ ५-३॥ कृतावसेका इव कृष्णगीतै- र्वनद्रुमा वर्धिततुङ्गश‍ृङ्गाः । अयत्नलब्धानि गवां बभूवुः स्थायीनि वर्षातपवारणानि ॥ ५-४॥ बभञ्ज वातः प्रबलो न वृक्षान् न तिग्मरश्मिः सलिलं तताप । ददाह वन्यां न च तत्र दावः संरक्षिता यत्र गवां स देवः ॥ ५-५॥ गावो महिष्यश्च गभीरनादाः सञ्चारिताः शार्ङ्गभृता यथार्हम् । कलिन्दकन्यामवगाह्य काले घर्मापदा सम्पदमेव भेजुः ॥ ५-६॥ गतेऽपि भूयिष्ठगुणे वसन्ते गोपाः सुखं चारितगोधनास्ते । कलिन्दजानूपसमीपभाजः कालं कठोरातपमत्यनैषुः ॥ ५-७॥ वितेनिरे जङ्गमधामकल्पै- रनोभिरध्यासितचत्वराणि । निदाघवर्षानुगुणानि गोपाः स्थानानि गोवत्सगुणोचितानि ॥ ५-८॥ अकालकाल्येन परेण पुंसा साम्यं गतानामिव वल्लवीनाम् । सुखाय सर्वे समया वभूवुः स्वैः स्वैरविच्छिन्नगुणैर्विशेषैः ॥ ५-९॥ सुधाप्लवस्वैरसखीमभिख्यां वनाश्रिते वर्षति कृष्णमेघे । मध्यन्दिनेऽप्याददिरे विहारान् गावः प्रकामं गतघर्मतापाः ॥ ५-१०॥ तापापहन्तुः स्वपदाश्रितानां तत्तादृशा तस्य समीक्षणेन । न तस्य गोपाध्युषितस्य जज्ञे वनस्य वातातपवह्निपीडा ॥ ५-११॥ प्रसाधिताः पाटलपुष्पजालैः प्रच्छायनिद्राशमितोपतापाः । दिनावसानस्नपनेन शीता गोप्यः प्रियैर्निर्विविशुर्निशीथान् ॥ ५-१२॥ निदाघतैक्ष्ण्यादिह दुष्टसत्त्वाः क्षोभं गवां कुर्युरतिक्षुधार्ताः । इतीक्षमाणः सहजेन सार्धं व्यधत्त नाथो मृगयाविहारम् ॥ ५-१३॥ प्रसक्तगङ्गायमुनानुषक्त्या भासा तयोराहितगाढमोहाः । अयत्नलभ्योपगमास्तदाऽऽसन् व्यालाः क्षणादर्भकवेधयोग्याः ॥ ५-१४॥ अनुप्रयातैरिव देवमाया- मच्छेदनीयैरपि दिग्गजानाम् । वनं तदन्तर्गतसत्त्वजातं पाशैरवारुन्धत वत्सपालाः ॥ ५-१५॥ अनन्तलीलोचितभूमिकाप्तै- रावेदितान् वेदवनेचरेन्द्रैः । पथः समास्थाय गृहीतचापा गुप्तस्थितिं गोपसुता वितेनुः ॥ ५-१६॥ क्षणादनिर्धार्य निदानभेदं दत्तापहासैर्वनदेवताभिः । मृगायितं तत्र मृगेन्द्रमुख्यैः सिंहायितं गोकुलसारमेयैः ॥ ५-१७॥ परिस्फुरत्कृत्रिमसत्त्वजातैः प्रसारितैः श्यामपटैर्वनान्ते । स्वयं तिरोधाय तदर्हशब्दा गोपा मृगान् गूढचराश्चकर्षुः ॥ ५-१८॥ शतावरीदामनिबद्धमूर्ध्नः शार्ङ्गध्वनित्रासितसिंहयूथान् । अनीकनाथप्रमुखानकार्षी- दग्रेसरान् व्याधतनूननन्तः ॥ ५-१९॥ विमुक्तपाशा मधुवैरिभृत्यै- र्जिह्वालदुर्दर्शकरालवक्त्राः । निपेतुरन्योन्यविमुक्तरोषाः श्वानो वराहेषु निशातदंष्ट्राः ॥ ५-२०॥ सम्भूय गोपाः प्रसभं प्रयुक्तैः सत्त्वानि वन्यानि समग्रसत्त्वाः । गुहामुखाम्रेडिततीव्रघोषैः कोलाहलैराकुलयाम्बभूवुः ॥ ५-२१॥ अमृष्यतो मानुषसिंहनादं गिरीन्द्ररौधैरपि दुर्निरोधान् । बभञ्ज दृप्तो बलभद्रसिंहः सिंहान् द्विपेन्द्रानिव दुर्निवारः ॥ ५-२२॥ गुञ्जाकलापप्रतिनद्धकेशै- रागुल्फमालम्बितपिञ्छजालैः । निषङ्गिभिश्चारुपृषत्कचापै- र्गुप्तो बभौ गोपसुतैर्मुकुन्दः ॥ ५-२३॥ आक्रान्त्यकम्पेषु नगेषु धैर्यं शौर्यक्रमं श्वापदविक्रमेषु । अशिक्षयत् क्षेमविदात्मभृत्यान् विहारगोपो मृगयापदेशात् ॥ ५-२४॥ आदाय लूनानि मुकुन्दबाणैः श‍ृङ्गाणि शीघ्रं वनकासराणाम् । शार्ङ्गप्रमाणानि शनैरकार्षु- स्तैरेव चारूणि धनूंषि बालाः ॥ ५-२५॥ मनुष्यमांसस्पृहया सरोषं गुहान्तरादुत्पतितुं प्रवृत्तान् । शिलीमुखैः कीलितशैलकण्ठान् कृष्णस्तदा केसरिणश्चकार ॥ ५-२६॥ नवाहृतैर्नाथपरिष्क्रियार्हां गुञ्जास्रजं गोपकुमारवीराः । विभिन्नवन्यद्विपकुम्भमुक्तै- र्मुक्ताफलैरन्तरयाम्बभूवुः ॥ ५-२७॥ शराहतानां विपिने मृगाणा- मार्द्राहृतैश्चर्मभिरात्तहर्षाः । अकल्पयन् आस्तरणानि गोपाः संवेशयोग्यानि सहायिनीनाम् ॥ ५-२८॥ अभिन्नपार्श्वेष्ववकाशभेदात् भिन्नस्थितीन् भीतिमपोह्य वत्सान् । निरस्तसिंहेषु गुहागृहेषु न्यवीविशन् नाथनियोगभाजः ॥ ५-२९॥ आयातयामैरचिरप्रतापात् सुमृष्टपाकैरधिशल्यश‍ृङ्गम् । मांसैर्मृगाणां मधुनाऽवसिक्तै- र्नन्दस्य भृत्या विपिने ननन्दुः ॥ ५-३०॥ निवेद्यमानान् वनदेवताभिः सङ्गृह्य वन्यान् उपदाविशेषान् । समं सुहृद्भ्यः सहसा विभेजे रामानुरोधेन रमासहायः ॥ ५-३१॥ त्राणं सतां दुष्कृतिनां विनाशं तन्वन्नभीष्टं मृगयाच्छलेन । स्वच्छन्दचर्यानुगुणं गवां त- च्चक्रे वनं शान्तमृगावशेषम् ॥ ५-३२॥ निसर्गकारुण्यतरङ्गवृत्त्या निर्वैरतां नैगमगोपदृष्ट्या । सम्प्रापिताः प्रापुरिवैकजात्यं केचिद्गवां केसरिदन्तिमुख्याः ॥ ५-३३॥ विधून्वता धूलिकदम्बरेणून् धाराकदम्बाङ्कुरकारणेन । निन्युः श्रमं निर्झरबिन्दुभाजा नभस्वता नन्दसुतानुयाताः ॥ ५-३४॥ अमर्त्ययक्षेश्वरधामभाजोः आरामयोरेकमिवावतारम् । प्रशान्तघर्मातिशयं प्रभावात् वृन्दावनं नन्दसुतो वितेने ॥ ५-३५॥ दिशं समाक्रम्य करैरुदीचीं देवे रवौ दक्षिणतः प्रवृत्ते । निदाघक्लृप्त्या निगृहीतदेहां वृष्टिं पुनः स्रष्टुमियेष शौरिः ॥ ५-३६॥ अथाविरासीदपसारयन्ती तापं गवां चण्डकरप्रसूतम् । विचित्रसस्योदयमेचकाङ्गी मेघाविला माधवयोगवेला ॥ ५-३७॥ महीभृतः सम्भृततीर्थतोयै- रम्भोधरैराचरिताभिषेकाः । प्रयुक्तविद्युद्वलयैः पुनस्तैः प्रायेण नीराजनमन्वभूवन् ॥ ५-३८॥ धौतावदातैः क्रकचच्छदानां पत्रैरविश्रान्तषडङ्घ्रिनादैः । व्यदारयत् पुष्पशरः प्रतूर्णं मानग्रहं मानवतीजनानाम् ॥ ५-३९॥ पयोमुचा सेकवतां स्थलानां वीरुत्प्ररोहा विविधा बभूवुः । समीक्षितानां मधुसूदनेन श्रद्धादयाद्या इव सद्गुणौघाः ॥ ५-४०॥ शितेन पञ्चेषुशरेण भिन्नात् वियोगिनीमानसतो विकीर्णाः । तदेन्द्रको (गो)पत्वमिवाधिजग्मुः शोणाः क्षितौ शोणितबिन्दुभेदाः ॥ ५-४१॥ मधुद्रुतेरुल्बणदन्तवीणा मेघानिले मेदुरबिन्दुजाले । प्रभूतकम्पाः प्रथयाम्बभूवुः शीतालुतां कण्टकिनः कदम्बाः ॥ ५-४२॥ शतह्रदाशस्त्रविलासदीप्ता धीरप्रणादा धृतचित्रचापा । कनद्बलाकाध्वजपङ्क्तिरासीत् कादम्बिनी कामचमूरपूर्वा ॥ ५-४३॥ मृदङ्गधीरस्तनितो विहायाः सौदामनीसम्भृतचारुलास्यः । बभौ नवानां प्रभवो रसानां रतिप्रियस्येव नटस्य रङ्गः ॥ ५-४४॥ अचिन्तितोपस्थितजीवनाना- मासेदुषामभ्यधिकां समृद्धिम् । तोयाशयानां परिवाहजन्या स्वगुप्तिरन्योपचयप्रदाऽभूत् ॥ ५-४५॥ गुहासु गोवर्धनसम्भवासु प्रकामविस्तीर्णसमस्थलीषु । गुणाधिको विश्वसृजा प्रवर्षे वासः समाधीयत वल्लवानाम् ॥ ५-४६॥ दरीषु गोप्यः प्रसमीक्ष्य कृष्णं दिशासु जीमूतगणं मयूर्यः । अग्रे पतीनामधिगीतिनादं वितेनिरे चारु विहारलास्यम् ॥ ५- ४७॥ पयोदलक्ष्य (क्ष)प्रहिताग्रहस्तां कृष्णः स्वनेत्रे इव चन्द्रसूर्यौ । तिरोदधानां प्रतिरोद्धुमैच्छत् स्वैरी स्वलीलामिव वर्षवेलां (जातलीलाम्)॥ ५-४८॥ अथाञ्जनस्निग्धनभःप्रकाशाः क्षणत्विषां कल्पितलास्यभङ्गाः । दिशामुखोल्लासनदृष्टदाक्ष्या दीनाम्बुवाहा दिवसा बभूवुः ॥ ५-४९॥ अलक्ष्यतीव्रातपमन्तरिक्षं सितासितैरम्बुधरैश्चकाशे । विवेकमासादयतामिवादौ चित्तं वितर्कैरनिवर्तमानैः ॥ ५-५०॥ विहाय सद्यः कुटजार्जुनादीन् विप्लावितान् कालविपर्ययेण । पुनर्बबन्धुः प्रणयं द्विरेफाः कोशोपपन्नेषु कुशेशयेषु ॥ ५-५१॥ तरङ्गलोलाम्बुजतालवृन्ता बर्हातपत्रायितभृङ्गयूथाः । विधूतहंसावलिचामरौघा नद्यः समातन्वत नाथसेवाम् ॥ ५-५२॥ तापानुबन्धप्रशमाय पुंसां शय्यार्थिना शार्ङ्गभृतोपहूता । पयोदमालाव्यपदेशदृश्या प्रायस्तिरोऽधीयत योगनिद्रा ॥ ५-५३॥ इतस्ततः प्राप्तशरद्विहारं गोपीसखं द्रष्टुमतीव हर्षात् । अशोभि नेन्नैरिव जृम्भमाणैः शीर्णैर्धरित्री शिखिनां कलापैः ॥ ५-५४॥ चराचरेष्वाहितजीवनाना- मनुज्झतां सत्पथमम्बुदानाम् । शुचित्वमन्तर्बहिरप्ययत्ना- दभ्यागतैर्हंसगणैः शशंसे ॥ ५-५५॥ संस्कारभेदैः कलमादिकानां क्रमेण लब्धोपचयस्थितीनाम् । धर्मं निजं साधयितुं क्षमाणां समुन्नतिः सन्नतिहेतुरासीत् ॥ ५-५६॥ विहारगोपस्य गुणान् गृणद्भिः क्षीबाशया गीतपदैरुदारैः । चकासुरासादि (शिरे साधि)तभक्तिभेदाः सामोपशाखा इव शालिगोप्यः ॥ ५-५७॥ विकस्वरेन्द्रायुधबर्हदाम्नः श्यामीकृतं कृष्णघनस्य धाम्ना । शरत्प्रसङ्गेऽपि तदा तदासीत् वृन्दावनं बद्धमयूरलास्यम् ॥ ५-५८॥ समग्रबन्धूकरजःसमेतं स्मेरातसीमेचकमन्तरिक्षम् । पीताम्बरेण प्रभुणा तदानी- मयत्नसम्भूतमवाप साम्यम् ॥ ५-५९॥ समग्रसप्तच्छदरेणुकीर्णैः स्रोतोभिरुन्नीतमदप्रवाहः । स्वकानने स्वैरजुषां गजानां गोवर्धनो यूथपतिर्बभूव ॥ ५-६०॥ अधोमुखैश्च प्रतिबिम्बरूपै- रभ्युन्नतैरात्मभिरप्यशंसन् । त्रिविक्रमस्य स्थितमुन्नतं च पदद्वयं पाथसि रक्तपद्माः ॥ ५-६१॥ पङ्कक्षये प्राक्तनवर्तनीनां वक्रेतरा व्यक्तिरभूत् पृथिव्याम् । बहिर्मतप्रत्ययिनां व्यपोहे वेदोदितानामिव सत्क्रियाणाम् ॥ ५-६२॥ मदप्रभूतध्वनयो महोक्षा रोधोविभेदोल्बणतुङ्गश‍ृङ्गाः । दर्पस्य देहा इव योगसिद्धाः दन्तावलान् अन्तरयाम्बभूवुः ॥ ५-६३॥ सरोरुहां रक्तसितासितानां श्रिया बभौ शारदवासरश्रीः । विहारभाजा गुणभेदयोगात् व्यक्तीकृता विश्वसृजेव माया ॥ ५- ६४॥ आरक्तकल्हारविलोचनश्रीः क्लान्ता भृशं खेलगतिः स्खलन्ती । उन्नालनालीकमधूपभोगात् मत्तेव मार्ता(र्त)ण्डसुता बभासे ॥ ५-६५॥ वलग्नलग्नोर्मिवलीविभङ्गां काले यथास्थानगृहीतकार्श्याम् । अरंस्त पश्यन् अनघोऽनुरूपां श्यामां सुदृष्टामपि सूर्यकन्याम् ॥ ५-६६॥ शोणाकृतिं कोकनदैरुदारै- रिन्दीवरैराकलितात्मकान्तिम् । सिताम्बुजैः सूचितजाह्नवीता- मेकामनेकामिव तामभुङ्क्त ॥ ५-६७॥ कुमुद्वतीं प्रेक्ष्य कलिन्दकन्यां तारापरिष्कारवतीं त्रियामाम् । नभःस्थलीं च स्फुटहंसमालां नाथस्त्रिधाभूतममन्यतैकम् ॥ ५-६८॥ बन्धूकजालैः परिधानशोभा- मिन्दीवरैरप्रतिमामभिख्याम् । मुखश्रियं तामरसैर्मुरारेः सम्भृत्य लेभे शरदानुरूप्यम् ॥ ५-६९॥ पयोधराणां पलितङ्करण्या दिवश्च तारुण्यमिवार्पयन्त्या । विचित्रभूम्ना शरदा स्वशक्तिं विख्यापयामास विहारगोपः ॥ ५-७०॥ कुमुद्वतीकल्पितभृङ्गगीतः सन्दर्शयन् दर्पणमिन्दुबिम्बम् । सचामरश्चन्द्रिकया सिषेवे तमीश्वरं तत्र शरत्प्रदोषः ॥ ५-७१॥ सरोरुहां रक्तसितासितानां स्थानेषु भृङ्गध्वनिभिः प्रतेने । जिगीषतः पञ्चशरस्य विश्वं तूर्णं प्रवृत्तैरिव तूर्यघोषैः ॥ ५-७२॥ निर्मुक्तभोगीन्द्रनिभैः पयोदै- र्नभःस्थली व्याप्ततनुर्बभासे । अनङ्गयोग्यैर्हरिनीलभूमि- र्धौतप्रकीर्णैरिव चामरौघैः ॥ ५-७३॥ विभाव्य बन्धूकविभातसन्ध्यां कालोचितं कल्पयितुं विहारम् । द्विजैरुपाधावि निसर्गशुद्धै- रङ्गीकृतानाविलतीर्थतोयैः ॥ ५-७४॥ अनिन्दितां ग्लानिमिवोद्वहन्त्यो वितेनिरे मन्दतरान् प्रचारान् । वर्षानिशीथे दयितेन भुक्ताः श्रान्तिं प्रयाता इव शैवलिन्यः ॥ ५-७५॥ श्रिया समं भावितपद्मभूम्ना घनागमादुल्लसितः पयोधेः । रराज नीले रविरन्तरिक्षे मणीश्वरो माधववक्षसीव ॥ ५-७६॥ अवाप्य सङ्कोचमतीव भूयः कालागमादुन्मिषतो नभस्तः । विभागमापुर्विदिशो दिशश्च प्रजाः प्रसन्नादिव विश्वधाम्नः ॥ ५-७७॥ समुद्यतस्तिग्मरुचो घनाब्धे- रुन्निद्रतां पूर्वमुपाजगाम । रथाङ्गपाणेरिव सिन्धुजन्मा सरोजिनी चारुसरोजलक्ष्या ॥ ५-७८॥ उत्सारयन् जीर्णसिलिन्ध्र(शिलीन्ध्र)जालं प्रायो मदैः पेचकिनां प्रसिञ्चन् । चकार सप्तच्छदरेणुजालैः कालो महीं कामविहारयोग्याम् ॥ ५-७९॥ कृतोदयाः कृष्णवलाहकेन स्रोतोवहाः स्वैरविहारभाजः । त्रपामिव स्थानगतिप्रतीक्ष्याः स्वाभाविकीं स्वच्छदशामवापुः ॥ ५-८०॥ सुखावगाह्यैः सुदृशामतुष्यत् स्वादोत्तरैः शौरिरपेतपङ्कैः । प्रसन्नशीतैरनघैः पयोभिः स्वभक्तचित्तैरिव यामुनीयैः ॥ ५-८१॥ अनुल्बणैरन्वहमूर्मिभेदैः सम्पन्नरेखाः सरितामधोऽधः । श्रियो दधुः पद्मवनावतारे सोपानतां सैकतसन्निवेशाः ॥ ५-८२॥ प्रसादभाजा समयेन दत्ता- स्त्रैलोक्यलक्ष्म्यास्तरलस्वभावाः । पयोधरस्थानगता विरेजु- र्हाराः प्रभूता इव हंसमालाः ॥ ५-८३॥ जलातपत्यागसमागमाभ्यां प्राचीमवक्रां प्रकृतिं भजन्त्यः । तदन्वयत्यागवशादवाप्तैः पङ्कैरमुच्यन्त शनैः पदव्यः ॥ ५-८४॥ स्थाने विनिद्राः स्थलपद्मकोशाः प्रायो गतिं पान्थजनस्य रोद्धुम् । अरुन्तुदान् आमुमुचुः परागान् आश्यानपङ्केषु महापथेषु ॥ ५-८५॥ पतत्रलीलाहतपुष्करान्तैः पद्मालयानूपुरसौम्यनादैः । शुभैरभावि स्वपतस्त्रिधाम्नः प्रत्यूषतूर्यैरिव राजहंसैः ॥ ५-८६॥ कल्हारनिष्पादितकर्णपूरा वितीर्णबन्धूकविशेषकश्रीः । आमुक्तपद्मोत्पलरेणुरासीत् सैरन्ध्रिका कापि शरत् त्रिधाम्नः ॥ ५-८७॥ सरोजकोशान्मिषतः प्रभुग्नान् शालीन् विपाकानतपिञ्जराग्रान् । शुकांश्च तेष्वापततोऽनुमेने शौरिः सयूथ्यानिव शोणतुण्डान् ॥ ५-८८॥ स्ववेगसञ्छन्नगभीरभावं स्रोतस्विनीनामपहाय तोयम् । कालुष्यमायोधनकालयोगात् वीराङ्गनानां हृदयं विवेश ॥ ५-८९॥ नवप्ररूढैर्नलिनीपलाशैः शाराणि वेशन्तजलान्यवापुः । स्फुरत्कलङ्कस्य तुषारधाम्न- श्छायाभिरन्याभिरिवाविशेषम् ॥ ५-९०॥ वर्षीयसीनामपि पद्मिनीनां सौम्येन वर्षान्तरसायनेन । सामोदमन्दस्मितहार्यभृङ्गं युक्तं श्रिया यौवनमाविरासीत् ॥ ५-९१॥ शरद्विभूतिं कुमुदावदातां संवीतनीलाम्बरदर्शनीयाम् । अमंस्त निर्धूतघनप्रलम्बां मूर्तिमं बलस्येव शुभां मुकुन्दः ॥ ५-९२॥ निद्रायितेव प्रथमं पयोदैः प्रशान्तनिद्रेव शरत्प्रसादात् । जगत्त्रयी तद्व्रतिनीव भेजे जातोद्यमं जागरणे मुकुन्दम् ॥ ५-९३॥ निद्रापदेशेन जगद्विभूतिं विभावयन् नित्यविधूतनिद्रः । प्रबुध्यमानः स विभुः प्रजानां प्रादात् स्वधर्मानुगुणं प्रबोधम् ॥ ५-९४॥ अव्यासङ्गं जलधिशयनादुत्थितस्याऽऽत्मधाम्नः पत्युः पुण्यं प्रथमनयनस्पन्दितं प्राप्तुकामा । नित्यापूर्वश्रुतिपरिमलं न्यस्तलीलारविन्दा पादाम्भोजं सह वसुधया धारयामासपद्मा ॥ ५-९५॥ अनुचरितविधिज्ञैरादृतां पूर्वपूर्वै- र्महदिदमनपायं मङ्गलं मन्यमानाः । प्रचितविविधभोग्यां प्रारभन्त प्रतीतां वलमथनसपर्यां वल्लवा नन्दमुख्याः ॥ ५-९६॥ वाहेषु गोषु द्विरदेषु चाग्र्यां तज्जन्यया जीविकयोपपन्नाः । तदर्हसम्भारवतीं सपर्यां क्षिप्तापदं क्षेमविदो वितेनुः ॥ ५-९७॥ आबालप्रेक्षणीयं प्रणतमनिमिषैरद्भुतानां प्रधानं धूतत्रैलोक्यदोषं ध्वजममरपतेस्तूर्णमुत्थापयन्तः । घृष्टीनामर्चनाभिः स्तुतिगुणनिकयागीतनृत्तोपहारै- रुद्वेलप्रीतिलोला विदधुरविकलैरुत्सवं गोपवृद्धाः ॥ ५-९८॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये पञ्चमः सर्गः ॥

॥ गोवर्धन विषयः षष्ठः सर्गः ६॥

शमयता पुरुहूतमहोत्सवं व्रजपतिः सह वल्लवयूथपैः । निभृतमञ्जुगिरा निजसूनुना निजगदे जगदेककुटुम्बिना ॥ ६-१॥ विदितवानिव विज्ञपयाम्यहं श‍ृणुत मे शकुनेरिव भाषितम् । पृथुकबुद्धिरहं पृथुचेतसः प्रभवतो भवतो नहि शिक्षये ॥ ६-२॥ निगमदृष्टमिदं निखिलेन वः क्वचन विश्वतनौ पुरुषे स्थिते । य इह यामुपजीवति तत्तनुं स हि तया हितया भुवि नाथवान् ॥ ६-३॥ अतियजेत निजां यदि देवता- मुभयतश्च्यवते जुषतेऽप्यघम् । क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिद्रुहा ॥ ६-४॥ अनघशाद्वलकाननसम्पदा नदनदीह्रदनिर्झरशालिना । बहुपशुः पशुपालकसन्तति- र्महिभृता हि भृता न मरुत्वता ॥ ६-५॥ अचलमर्चत किं विबुधैश्चलैः शुभवनं भवनं च दिवौकसाम् । क्षममनेन वने परिरक्षिते न हरिणा हरिणानपि बाधितुम् ॥ ६-६॥ गिरिषु विष्णुविभूतिषु युज्यते निखिलदेवमयीषु च गोषु नः । तदुभयाश्रितवृत्त्युपजीविनां गुरु चिरं रुचिरं च समर्चनम् ॥ ६-७॥ अभिमतं गिरयः कृतसत्क्रिया ददति दर्शितदैवतभूमिकाः । हरि-तरक्षु-मुखैरपि विग्रहै- रहितमाहित-मान-विपर्ययाः ॥ ६-८॥ पशुभिरद्रिचरैरुपकल्पिते व्रजनये जनयेम न विप्लवम् । क्षितिभृदेष समीहितसिद्धये जनमितं न मितम्पचतां नयेत् ॥ ६-९॥ अपि च साधु गवामभिवर्धना- दनृतहानि-जया निजयाऽऽख्यया । भजति गोपगणैरभिराध्यतां वनमयं नमयन् फलसम्पदा ॥ ६-१०॥ हरति तापमसावुपसेदुषां महिमवान् हिमवानिव दक्षिणः । वितनुते मणिरश्मिभिरप्यसौ सुरपतेरपतेज इवास्पदम् ॥ ६-११॥ प्रदिशता मधुमूलफलानि नः सतरुणा तरुणाद्भुतवीरुधा । उपकृतं गिरिणा तदिहार्प्यतां रस ततं सततं हविराहृतम् ॥ ६-१२॥ समरुता मरु-ताप-जिताऽमुना नदवता दव-तान्ति दवीयसा । श्रम हता महता कृतविश्रमा वयमितो यमितोल्बणशाक्वराः ॥ ६-१३॥ बहुमतो मनुजा दधते धृतिं बहुमतोऽयमनन्यधृतिः सताम् । गिरि-शतोन्नतिमान् अधिको ह्यसौ गिरिश-तोष कृतोऽपि महीभृतः ॥ ६-१४॥ सनगरा नग-राजिमताऽमुना कुहरिणा हरिणा समसम्पदा । सततमातत-मान-महीयसी वसुमती सुमतीश्वर धार्यते ॥ ६-१५॥ सुरसगन्धविभूतिनिधे हितं परिगृहाण निजे पशुपालने । सुरसगन्धविभूति निधेहि तं हरिमवेत्य गिरिं हविरुत्तमम् ॥ ६-१६॥ विशुद्धतोयौघपरीतपार्श्वे शुद्धाशयाः श्वेत इवान्तरीपे । निराशिषो नित्यमिहाश्रयन्ते नैःश्रेयसं तात निवृत्तिधर्मम् ॥ ६-१७॥ इहवासमही समहीनगुणे स्थिरकुञ्जगृहे जगृहे विबुधैः । अयमानमतां न मतां न तनुं क्षितिभृत् भजते भज तेन धृतिम् ॥ ६-१८॥ तटभूमिरसौ जयति त्रिदिवं पवनागत।ताप।वनाग।तता । इह देवगणैरनिशाध्युषिता युतकोकनदायुतकोकनदा ॥ ६-१९॥ प्रकृष्टवंशोदयमाननीयः प्रभूततोयप्रथितानुरूप्यः । प्रवालमुक्तामणिचित्रिताङ्गीः पत्नीरयं प्रापयते पयोधिम् ॥ ६-२०॥ नन्द नीतिधन सर्वनन्दनी तत्त्व यात-मतिभूष तत्त्वया । साधुना क्षितिभृतो रसाधुना सेव्यतामिह गतेन सेव्यताम् ॥ ६-२१॥ नम्यतेह नियता विभूतये भूतयेश्वरतया विराजते । राजतेदृशतटीमहीयसे हीयसे न यदि नाम नम्यते ॥ ६-२२॥ अयोगनिद्रस्य हरेरिदानीं मान्ये पदे मानसतः प्रवृत्ताः । त्वदाशयस्वच्छसरित्प्रवाहे हंसैः समं वासमिहाश्रयेम ॥ ६-२३॥ निशाकरस्य स्फटिकेष्विहाधिकं सुजात।रूपा श्रयतो विभा सिता । रविप्रभा च स्पृशतीव सान्ध्यतां सु।जातरूपाश्रयतो विभासिता ॥ ६-२४॥ न दन्तिनोऽस्मिन् मुदिता नदन्ति नो वनस्थलीलाऽस्त्विह देवनस्थली । व्रजाधिपाघोन्नति।तीव्रजाधि-पा प्रभात।ताम्राश्मगणप्रभा।तता ॥ ६-२५॥ महीयसी गोपगणाश्रिता मही वनैरुपेता फलपुष्पभावनैः । रसौघरम्यैरपि निर्झरैरसौ चकास्त्यमुष्मिन् यवसैश्च मेचका ॥ ६-२६॥ सदोन्नताय प्रणमत्यमुष्मै सतां कनिष्ठा प्रथमाङ्कनिष्ठा । निशामयास्मिन् सरितश्च रत्न- प्रभा-समानाः प्रतिभासमानाः ॥ ६-२७॥ इह वंशलताविलग्नवालाः प्रियवाला नतकन्धराश्चमर्यः । शबरीकबरीनिरीक्षणेन त्रपमाणा इव निश्चला भवन्ति ॥ ६-२८॥ हरिनीलरुचा लसत्तमिस्रो दिवसेऽपि स्फुरदोषधिप्रदीपः । निशि चैष तपोधनाङ्गदीप्त्या दिनमोहादविभक्तकोकयुग्मः ॥ ६-२९॥ व्रजवैरवतीषु वल्लवानां वृष सेनासु सदानवासु देवः । अचलाकृतिराशु नैष गोप्ता वृषसेनासु सदा न वासुदेवः ॥ ६-३०॥ मधुना सविभव सन्तं मदन- धनं यं वदन्ति शुभदिवसं तम् । नियतमिहैव वसन्तं निष्कामधियो- ऽपि निर्विशन्ति वसन्तम् ॥ ६-३१॥ काननं दधदसौ सदोन्नमत्- काञ्चनारककुभं सदृक्षकः । मन्दरस्य महता स्ववर्ष्मणा कां च नाऽऽर ककुभं सदृक्षकः ॥ ६-३२॥ अनेहसा हानिरुपैति नेह सा न कन्दरस्थस्य दिशत्यकं दरः । अपास्य तां भीतिमसावुपास्यतां सदा नवा भूमिरियं सदानवा ॥ ६-३३॥ समिन्धतेऽस्मिन् अजहत्समाधिकाः समाधिकातीतधियः स्थिराशया । स्थिराशयाश्च व्रतिनः सदारसाः सदार। साध्येषु तपस्स्ववस्थिताः ॥ ६-३४॥ वसत्यमुष्मिन् वनदेवताऽद्भुता विभाति भास्वत्तिलकालिकानना । विचित्ररत्ना महती च मेखला विभाति भास्वत्तिलकालिकानना ॥ ६-३५॥ तपस्विनामात्मविदां निवासैः समानभूमावसमानभूमा । इहाटवी काञ्चनकर्णिकार।- पराग।ताम्राऽप्यपरागताम्रा ॥ ६-३६॥ सरस्सु जातैर्नलिनैः सुजातै- रपां तरङ्गैश्च सुधान्तरङ्गैः । इहासमेऽतिव्रततौ समेति मरुत् तुषारः श्रम।रुत्तुषारः ॥ ६-३७॥ यमभिप्लुतमम्बुधरैरभितः सरसा स।रसा स।रसाऽऽस रसा । स्थिरधर्म तया गिरिराद्रियते स मया समयासम या समया ॥ ६-३८॥ प्रणम तमिममचलं अमर- महितमहितमहितमहित! । भजनमलघु विफलमिह न सदयसदय सदय सदय ॥ ६-३९॥ रत्नोपसङ्घटितश‍ृङ्गफणासहस्रः स्फारोदितस्फटिकरश्मिविशुद्धकायः । नित्यं वहन् निजबलेन महीमहीनः पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ॥ ६-४०॥ मरुद्गणसमाश्रितो मघवरत्ननीलद्युति- र्विभाति वनमालया विततनित्यतुङ्गाकृतिः । कनत्यभिगतः श्रिया कनकरश्मिपीताम्बरः रोति विधृतिं भुवः कथमसौ न विश्वम्भरः ॥ ६-४१॥ मुहुरवधीरितोऽपि भजतीह युवा गणयन् हितमतिभूरि-तान-वसुधे वनितां तरसा । सपदि विहाय मानमियमृच्छति तं प्रतिसं- हित-मति-भूरिता नव-सुधेव नितान्त-रसा ॥ ६-४२॥ इह मरुतो वहन्ति सुरसिन्धुसगन्धसरि- द्विकसितहेमकोकनदसौरभसारभृतः । मधुकरमौलिदघ्नमददन्तुरदन्तिघटा- करटकटाहवाहिघनशीकरशीभरिताः ॥ ६-४३॥ मनःप्रियमिह प्रभो ! मधु-रसादरं सादरं विधतत्स्व हविरर्पयन् व्रतशुभावनां भावनाम् । कुरुष्व च गुरुष्वघक्षपणदक्षिणां दक्षिणां प्रयच्छति तवेप्सितं प्रणयपर्वतः पर्वतः ॥ ६-४४॥ गिरिभजनोदितप्रियविकासमये समये जनितनभःप्रचारजलपत्रिदशैस्त्रिदशैः । सह यदि नः समेति हरिरप्रतिघप्रतिघः प्रतिहतिमेतु दुष्टवधदोहलिना हलिना ॥ ६-४५॥ प्रत्यक्षं गोत्रमासन्नं किमनादृत्य गोधनैः । अदृश्यो गोत्रभित् कश्चित् गतः स्वर्ग गवेष्यते ॥ ६-४६॥ अहार्यो विविधैर्भोगैराकर्षन् विबुधानपि अपरिच्छिन्नमूलोऽसौ ससारः सर्वदुःखकृत् ॥ ६-४७॥ नन्द गोपप्रभो धर्मैर्व्रज वृद्धार्य सद्गतिम् । भज तामेव बुध्वाऽद्रिं तनु त्राणे रतिं गवाम् ॥ ६-४८॥ नानाफलवनालीके नालीकेद्धामितोदके । तोदके च क्षुधामत्र धाम त्रस्तहितं विदुः ॥ ६-४९॥ सहसा सह सार्थैर्मा तरसेतरसेवनम् । तनु तात नुताद्वज्री नगतो न गतोऽर्च्यताम् ॥ ६-५०॥ जुषतामिह धीः सूर्यसमा हि तव सुन्दरीम् । रक्षार्थमिह यक्षेण समाहितवसुं दरीम् ॥ ६-५१॥ सभा-जनं वदाम्येतत् गव्यैः सरस-भाजनम् । सभाजनं गिरेरर्थ्यं स्ववृत्त्युल्लास-भाजनम् ॥ ६-५२॥ भवता भव-तापघ्ने भाविते भावि-तेजसा । सु।तरा सुतरामस्मिन् सुरभीस्सुरभीस्वर ॥ ६-५३॥ बहुविद्भ्यः समग्राहि समग्रा हि मतिस्त्वया । अतोऽन्यजनसन्दिग्धे न सन्दिग्धे हिताहिते ॥ ६-५४॥ गोवर्धनप्रकाशिन्या गोवर्धनसमाख्यया । समक्षेऽपि गिरेरस्य समक्षेपि क्षमा स्तुतिः ॥ ६-५५॥ वयं धेनुशतैः सार्धमत्रासङ्कटकान्वयाः । अन्वभूम निराबाधमत्रासं कटकान्वयाः ॥ ६-५६॥ अनन्तमहिमा सोऽयं समस्त-वसुधा-धरः । मौलिमण्डनमस्येन्दुः समस्तव सुधाधरः ॥ ६-५७॥ तपोधनैरयं शैलो महाभाग महीयते । गोधनैरपि न त्वत्र महाभागम हीयते ॥ ६-५८॥ रोधोरोधोज्झितैरेतैरुत्सैस्त्सैकतैरसौ । महीमहीनां तनुते ग्रावाऽग्रावाप्ततारकः ॥ ६-५९॥ धिषणातीत ! धिषणा लोकनीत्याऽस्तु लोकनी । सुधरेऽस्मिन् वसु-धरे तात तेजस्विता-तते ॥ ६-६०॥ पादपादभ्रपर्यन्ता दीनादीनामसौ गतिः । गोप गोपन-योग्याऽस्मिन् कान्ता कान्तारभूरपि ॥ ६-६१॥ इह पुष्पौघनिष्पन्नव्रजामोदे वने हिते । भृशमुत्सवसन्तोषं व्रजामो देवनेहिते ॥ ६-६२॥ प्रयतस्व गिरेरस्य व्रजदेव ! सभाजने । खपुष्पकल्पे मा भक्तिं व्रज देव-सभा-जने ॥ ६-६३॥ देवस्थानमिवेन्धानं परायणमवारितम् । गोवर्धनमवेह्येनं नारायणमिवागतम् ॥ ६-६४॥ मोघाशो मघवान् देवः स्यादत्रत्यस्य सादने । मेघानामपि वा भावः सादमेत्यद्रिसादने ॥ ६-६५॥ अचञ्चलाङ्गसत्ताकश्चलाचलघनाततः । अचलः कस्य नाऽऽकल्यः साध्यानन्दस्यसिद्धिकृत् ॥ ६-६६॥ अगः सनग आसन्नः सालताललताततः । सततं संहतघनः सङ्गतानन्दसाधकः ॥ ६-६७॥ अहहाङ्ग खगङ्गाकगाहकाङ्गाङ्कगागकः । अघाकागाङ्गकागाङ्कगाङ्गकागखगाङ्गकः ॥ ६-६८॥ रजतगैरिकरत्नगणैरयं- कनति कान्तलताञ्चितकाननः । त्रिजगदेकनिधानतयाऽधिक- स्त्रिदशराजधराधरतल्लजात् ॥ ६-६९॥ सहेत पर्वतोऽयं वो गोप्तुं क्वचन कन्दरे । अदरिद्रा वसामोऽत्र सर्वहेतोरिवोदरे ॥ ६-७०॥ घनाघना घनाघनाद्भुतेह शाखिसन्ततिः । वनावनावनावनानुरूपसत्फलावृता ॥ ६-७१॥ वृतेह भाति हेमभूर्नमेरुणा समन्ततः । प्रतीहि नैनमद्भुतं न मेरुणा समं ततः ॥ ६-७२॥ इह प्रभूतवाहिनीवने वने वने वने । फलेन भूयते स्वयं नतेन तेन तेन ते ॥ ६- ७३॥ अहार्यमेतिचेतनासितासितानराज ते । अहार्यमेति चेतना सितासिता न राजते ॥ ६-७४॥ समग्रगुणभूमाऽसौ सानुमानागमानितः । समाहितधियां सेव्यः सानुमानागमानितः ॥ ६-७५॥ याचले जरसानेता ताने सारजले चया । कालिमानवसायामा माया सावनमालिका ॥ ६-७६॥ अभ्रान्तमतिशय्येह विराजिततमागमे । निशामयालीनघनं सालौघमतिनन्दनम् ॥ ६-७७॥ श्लोकावृत्तिः- अभ्रान्तमति शय्येहविराजि ततमागमे । निशामयालीनघनं सालौघमतिनन्दनम् ॥ ६-७७॥ चारुचीरीरुचा रोची रुरुचारैरचर्चरुः । चिरोच्चरोचिरचरो रुचिरो रुचिराचरः ॥ ६-७८॥ नीतिनेतृ (त्र)नतानन्त नितान्तोन्नततानतः । तातेतोऽतनुतोऽनी(ती)तं ननुत्तैनोनुतान्ततः ॥ ६-७९॥ सराससारसासारैः सूरोस्रसरुसारसैः । रससूः सरसस्रंसैः सरःसाररसैरसौ ॥ ६-८०॥ धीर धीरधुराधारी धाराधरधरोऽधरे । रोधोधरारोधरोधिधाराधारो धराधरः ॥ ६-८१॥ भूभृन्निभेभभानेनानेन भूनाभिनेनभ । भानुभानुभभाभिन्नं नुन्नं नूनं न नो नभः ॥ ६-८२॥ तत्र तत्रातितारेऽत्र तारातीततरूत्तरे । तरेत् तातारतीरेतातते त्रातरि ते रतिः ॥ ६-८३॥ विततीतावृतिवृते वीतातीतावृतावृतौ । तातावातातिवृत्तेऽति वातोऽतीवाततेऽवति ॥ ६-८४॥ नुन्नैनसां निनंसूनां सानूनासनसानुना । सानसां नः ससेनानां साऽनेनाऽऽसन्नसूः सनिः ॥ ६-८५॥ कल्लोलोल्लोलकीलाले केकाकलकलाकुले । कालिकाकलिलालोके काले कालेकिलैककुः ॥ ६-८६॥ पतता पततोपेतः पतितोत्पतितातपः । पाता पीतोपतापोऽपि तपःपूतपते पितः ॥ ६-८७॥ भूतभूते भूतभृतो भीतताभीतिभूतिभूः । भातीतो भूभृतो भाभृद्भाता भाता तुभूतितः ॥ ६-८८॥ मरुमुर्मुरमर्मारिं मारमारेऽमरामरे । रमारामे मुरारौ रुरामेममुरुमेरुमम् ॥ ६-८९॥ रवीरेरावरावारोऽवर वैरिविरावर । विवराराविविवरो वीर वव्रे वरैरुरुः ॥ ६-९०॥ मानयानन्यनियमो मान्यमेनमनामयः । यमिनां नाम नम्योऽयममेयो मौनमानिनाम् ॥ ६-९१॥ निःसमानेन मानेन सुमनोमानसैः समः । सोमसीमासमासन्नसानुमान् सानुमानसौ ॥ ६-९२॥ तातेतातीतितातीतः केकाका-कुककेकिकः । पापोपपापपापापो नानानानान्ननान्ननीः ॥ ६-९३॥ यये या याय यो योऽयः स सोऽसौ सास सासुसूः । मम मामोऽममामाम गोगागोगागगोगगुः ॥ ६-९४॥ रुरुरूरुरिरारोऽरं दूदादीं दददादिदः । लालिलोलालिलीलालो हाहाहूहूहहेह हि ॥ ६-९५॥ नानानानानानानाना नानानानानानानाना । नानानानानानानाना नानानानानानानाना ॥ ६-९६॥ इति तत्त्वमतत्त्वं च यथावदवगाढया । अर्च्यानर्च्यौ धिया भिन्दन् गोधनान्यव गाढया ॥ ६-९७॥ नयानयानयानयानयानयानयानया । नयानयानयानयानयानयानयानया । यानयानयानयान यानयानयानयान । यानयानयानयान यानयानयानयान ॥ ६-९८॥ मायाभासा साभायामा यासूताया यातासूया । भातायायायायाताभा सा यायागे गेयायासा ॥ ६-९९॥ सेवा माननमावासे वासिताहिहितासिवा । माता पिता तापितामा नहिताततता हि न ॥ ६-१००॥ गेहा देववदेहागे हासताननतासहा । देतानयायाऽऽनतादेऽव नयात तयाऽऽनव ॥ ६-१०१॥ नदीसारसमेतात्र दीप्ता भासा नरावृता । साभानासौ माभिरामे रसा सौम्या सुमानस ॥ ६-१०२॥ वसुदा त्रसदानन्द धीसुदान्त मुदा नता । नानदा मुक्तिदा रम्या सनदाऽत्र सदा रसा ॥ ६-१०३॥ सद्दैवेऽङ्कुरयातवैभवलताशोभ्युच्चनानागभे भव्यङ्कर्म सदार्चितोद्भव नदीयादस्सनाथीकृते । चित्राटव्यनुवाहिवातवलनश्रेयःप्रचेयोत्सवे वदोक्त्या समये भजेः शुचि गिरौ मेरू न्नतेऽस्मिन् ध्रुवे ॥ ६-१०४॥ वासे नास्मिन् पूजाऽदेवा वादे ! जातातोद्यारावा । वाराद्याविर्भूताजीवा वाजीतात्रादीना सेवा ॥ ६-१०५॥ सानुमानयमतीततारकः सानुमानयमतीततारकः । सानुमानयंअतीत तारकः सानुमानयमतीततारकः ॥ ६-१०६॥ विराजमानादसमान भू-मा- विराजंआनादसमानभूमा । वि-राजमानादसमानभू मा वि।रा।ज मानादस मांअ भूमा ॥ ६-१०७॥ अक्लिष्टचित्रमिदमत्र मनागिवोक्तं चित्रायुतानि सुवचानि पुनस्तथापि । कृत्यं विभोर्निगमनीयमनन्यभक्तैः आराध्यतां हरिरसौ पृथिवीधरात्मा ॥ ६-१०८॥ इति कथयति कृष्णे गोपवृद्धा निदध्युः शरणमशरणानां शाद्वलश्यामलाङ्गं पुलकितवनमालं पुष्पकिञ्जल्कजालैः पुरुषमचलश‍ृङ्गे पुण्डरीकायताक्षम् ॥ ६-१०९॥ शतमखमणिशैलः स्यादसौ देवतात्मा शरदि समुदितं वा तोयकालस्य तोकम् । चिरपरिचितपूर्वं चेतसां किं न (नु)भाग्यं न किमिदमिति चिन्तां न व्यतीयाय नन्दः ॥ ६-११०॥ आद्यं किमेतदधिदैवतमद्भुताना- माकालिकं फलमुतैकमिदं शुभानाम् । एकीभवन्निधिरसौ किमभीप्सिताना- मित्यन्वभावि सविधोपगतैः स देवः ॥ ६-१११॥ पीतांशुके पृथुलबाहुभुजान्तराले मेघाभिजन्मनि मिथः प्रतिबिम्बबुद्ध्या । धन्यानि गोपनयनानि तदाऽन्वभूवन् कृष्णे च तत्र च कियन्ति गतागतानि ॥ ६-११२॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्येषष्ठः सर्गः ॥

॥ गोवर्धनधारणं नाम सप्तमः सर्गः ७॥

व्रजौकसो विस्मयमन्थराक्षा बालार्कवर्णं वसनं वसानम् । श्यामं युवानं शतपत्रनेत्रं शैलोदितं देवमथोपसेदुः ॥ ७-१॥ यमाहुरन्तर्बहिरप्यलक्ष्यं योगेश्वरं योगिभिरेव दृश्यम् । तमद्रिश‍ृङ्गे समुदीक्षमाणा गोपं सतां गोपगणाः प्रणेमुः ॥ ७-२॥ स तान् अशेषान् सुधयेव दृष्ट्या प्रहर्षयन् प्रत्ययितप्रसादः । सरामकृष्णान् सनकादिगम्यः स्वामी सतां स्वागतमन्वयुङ्क्त ॥ ७-३॥ शरत्प्रवृत्त्येव शशाङ्कभासो वाचा हरेर्गोपधियः प्रसन्नाः । मिथोविमर्शैः कुमुदैरिवाऽऽसन् मिषद्भिरासादितनिर्मलाशाः ॥ ७-४॥ विधानदक्षा विपिनाश्रयास्ते तदन्यसंराधनवीतसङ्गाः । तमर्चयामासुरदीनसत्त्वाः सम्प्रीणनैः शक्रमखोपनीतैः ॥ ७-५॥ अनन्ययोगादयजन्त चैनं कृष्णेन तेनैव कृतानुचाराः । समेघकैलासनिभैरसङ्ख्यैः सव्यञ्जनैः सादरमन्नकूटैः ॥ ७-६॥ निर्धारितार्थेषु निजोपदेशात् न्यस्तोपहारेषु महीधरार्थम् । अर्च्यत्वमाचार्यकमप्ययासीत् गोपेषु कृष्णो भुवनेषु गोप्ता ॥ ७-७॥ उपाहरन् यानि सभाजनार्थं बलद्विषो वल्लववंशवृद्धाः । परेण पुंसा परिगृह्यमाणैः प्राप्तं फलं पुष्पफलादिभिस्तैः ॥ ७-८॥ मृत्यूपसिक्तैर्भुवनैरशेषै- रनन्यदत्तैरपि हव्यकव्यैः । अलब्धपूर्वामभजत् तदानीं गोपाहृतैः प्रीतिमशेषगोप्ता ॥ ७-९॥ विधिप्रयुक्ते हविषि प्रभूते सम्भुज्यमाने हरिणा समक्षम् । अनागमश्रान्तधियोऽपि तत्र श्रद्धामविन्दन्त समग्रतोषाः ॥ ७-१०॥ अमृष्यमाणो विहतां स्वपूजा- मक्ष्णां सहस्रेण तदा महेन्द्रः । अनेहसं रक्तशिलीन्ध्रजालै- राकालिकैरञ्चितमन्वकार्षीत् ॥ ७-११॥ अवञ्चितान्यूनपयःप्रदानान् आराधकान् कालमियन्तमिन्द्रः । आहारकर्षादभिहन्तुमैच्छत् कृतानभिज्ञेषु किमानृशंस्यम् ॥ ७-१२॥ अथाऽऽजुहाव प्रतिघानुषङ्गात् धोराशयो घोषविमर्दकाङ्क्षी । समेष्यतां सम्भवमर्णवानां संवर्तकं नाम गणं घनानाम् ॥ ७-१३॥ प्रदीपितान् कोपहुताशभूम्ना पीतोदधीन् वारिधरायुधौघान् । मरुद्भुजेन त्वरितं मरुत्वान् प्रायुङ्क्त घोषाभिमुखं सघोषान् ॥ ७-१४॥ प्रकल्पयन्तः परिवेषचक्रं वृन्दावने विह्वलगोपवृन्दे । समीरनुन्नाः सहसा पयोदाः शक्रस्य ते शासनमन्वतिष्ठन् ॥ ७-१५॥ तटित्सहस्रेण विदीप्तनेत्रः समेतवज्रो धृतचित्रचापः । अतर्क्यतेन्द्रः स्वयमभ्रवाहः कालात्मना भूमिकयेव खेलन् ॥ ७-१६॥ असूयता वज्रभृता प्रयुक्ता- माकालिकीं प्रावृषमादिदेवः । आशानिरोधं जगतां दिशन्तीं निरोद्धुमैच्छन्निजया न शक्त्या ॥ ७-१७॥ वियत्पयोधिं परितः पयोदै- र्वेलातमालैरिव वर्धमानैः । जिघांसता गोपगणान् मघोना छन्नेन तस्थे मृगयार्थिनेव ॥ ७-१८॥ अदृश्यरूपः स तदा मरुत्वान् अम्भोमुचामन्तरतोऽवतस्थे । अपारयन् द्रष्टुमिव त्रिधाम्नो दीप्तिं दिवाभीत इवातिसूर्याम् ॥ ७-१९॥ अमर्षवेगादचमत्क्रियोत्थात् जिघृक्षता वज्रमकुण्ठवीर्यम् । अलक्षि जीमूतरथे मघोना मोघक्रियो मुक्त इवेन्द्रचापः ॥ ७-२०॥ सुतीव्रहुङ्कारभृतो निनादैः सौदामनीदर्शिततर्जनीकाः । मरुत्वदाज्ञाविमुखान् अभीक्ष्णं निर्भर्त्सयामासुरिवाम्बुवाहाः ॥ ७-२१॥ क्षणप्रभास्तत्क्षणमन्तरिक्षे प्रायेण गोपान् ग्रसितुं प्रवृत्ताः । बभासिरे वासवरोषवह्ने- र्ज्वालाग्रजिह्वा इव जातलौल्याः ॥ ७-२२॥ किमन्तरिक्षेण घनीबभूवे किमुत्थितं ध्वान्तमहीन्द्रलोकात् । मूलं किमेतत् प्रलयार्णवाना- मितीव मेने मलिनाभ्रमाला ॥ ७-२३॥ व्रजोपमर्दं समयो विधास्यन् बभार नम्रेण पयोदमूर्ध्ना । महीयसीं वासवचापलेखां मायाप्रदिष्टामिव माल्यशेषाम् ॥ ७-२४॥ कठोरगर्जापटहप्रणादः करप्रसूनैरवकीर्य पृथ्वीम् । क्षणप्रभाभिर्घटिताङ्गहारः कालः प्रतुष्टाव युगान्तनृत्तम् ॥ ७-२५॥ प्रणुद्यमानाः प्रबलैः समीरै- राप्लावयामासुरमन्दघोषाः । महीमपर्यायनिपीतमुक्तै- रौदन्वतैरम्बुभिरम्बुवाहाः ॥ ७-२६॥ अङ्गाररूक्षस्तनयित्नुपूर्णात् ऐरम्मदे तेजसि तप्यमानात् । विहायसो नूनमभूद्विलीनात् विष्वङ्मुखी वृष्टिरवारणीया ॥ ७-२७॥ प्रदीप्तविद्युद्गणदुर्निरीक्षान् सोढुं व्रजाः श्रोत्रविघातिघोषान् । न शेकुरावर्जितशक्रचापान् धाराशरश्रेणिमुचः पयोदान् ॥ ७-२८॥ सहुङ्कृताः सामिनिमीलिताक्षा दीर्घोरुश‍ृङ्गा दरभुग्नवक्त्राः । प्रत्यग्रहीषुः प्रतिपन्नरोषा धाराःक्षणं धैर्यभृतो महोक्षाः ॥ ७-२९॥ स्तनाहितस्वस्तिकबाहुबन्धाः स्त्यानालकाः सन्नतवक्त्रपद्माः । विलग्नदेहा वसनैर्न्यषीदन् व्रजस्त्रियो वादितदन्तवीणाः ॥ ७-३०॥ चलद्बलाकोल्बणशङ्खमाला पयोधरव्यक्तिधरोर्मिहारा । प्रावृट्पुनः संववृतेऽतिघोरा संवर्तसिन्धोरिव धर्मपत्नी ॥ ७- ३१॥ गम्भीरगर्जापटहप्रणादं प्रारब्धझञ्झानिलनादगीतम् । तडिद्भिरापादितताण्डवं तत् कालस्य सङ्गीतमपूर्वमासीत् ॥ ७-३२॥ विद्युद्गुणैः सन्दितया समन्तात् व्रजे मरुत्वान् मृगयामिवेच्छन् । समावृणोत् सान्द्रतमिस्रधाम्ना मेघात्मना वागुरया वनाद्रीन् ॥ ७-३३॥ आसारधाराच्छुरितेन्द्रचापै- र्मेघैर्दिशा माघवती चकाशे । आमुक्तमुक्तागुणरत्नदामैः सिन्धोरपत्यैरिव धीरनादैः ॥ ७-३४॥ हुङ्कारवन्तः स्तनितैरुदारैः क्षणप्रभाकाञ्चनवेत्रभाजः । पुरन्दरस्येव पुरःसरास्ते प्रचेरुरुत्सारितगोपवर्गाः ॥ ७-३५॥ प्रकृष्टवज्रायुधचापचिह्नां पौरस्त्यवातेन कृतप्रकम्पाम् । कालस्य कृष्णामिव केतुमालां कादम्बिनीं प्रेक्ष्य जनश्चकम्पे ॥ ७-३६॥ पयोमुचां पङ्क्तिरसह्यधारा भूभृद्गणान् भेत्तुमिव प्रवृत्ता । विडम्बयामास विशेषभीमां कृतान्तकोपोल्लसितां कृपाणीम् ॥ ७-३७॥ पयोदभारैर्नमितं नभः किं शेषाहिना भूमिरुत प्रणुन्ना । अदूरतः सम्पुटभावभाजो- रासीत् तयोरन्तरमल्पशेषम् ॥ ७-३८॥ प्रायः प्रकीर्णाशनिविष्फुलिङ्गै- र्लोकास्तदा लोचनरोधमापुः । पयोदरूपेण विवर्तमानैः पर्जन्यकोपानलधूमजालैः ॥ ७-३९॥ अलातकल्पाः करकास्त्रिलोकी- मापूरयन् अद्भुतभीमरूपाः । युगान्तवात्यारभसावधूताः सम्भूय तारा इव सम्पतन्त्यः ॥ ७-४०॥ चकासचञ्चत्करकास्थिमाला कादम्बिनीकण्टकभीषणा द्यौः । वज्रौघनिष्पेषमहाट्टहासा मूर्तिस्तदा मोहकरीव रौद्री ॥ ७-४१॥ शतह्रदाभिर्धृतहेमकक्ष्या धाराधरसेन्द्रधनुष्पताकाः । अदभ्रघोषघ्वनयोऽनुचक्रुः सप्तस्रुतां शक्रमतङ्गजानाम् ॥ ७-४२॥ अहीन्द्रभोगप्रतिमाः पतन्त्यो धारास्तदा घोरमरुत्प्रणुन्नाः । अभावयन् भीमपयोदनक्रं व्योमार्णवं वीचिगणावकीर्णम् ॥ ७-४३॥ आसारदुर्लक्षतडित्प्रकाश- मन्योन्यसङ्कीर्णहरिद्विभागम् । आसीदसह्यस्तनितं प्रजाना- मभिन्ननक्तन्दिवमन्तरिक्षम् ॥ ७-४४॥ तडित्स्वभावेन तमःप्रकृत्या निर्ह्रादरूपेण जलात्मना च । विवर्तते विश्वमितीव गोपाः प्रायो न चिन्तार्णवपारमापुः ॥ ७-४५॥ प्रवर्तमानान् प्रतिसर्गक्लृप्तौ पश्यन् घनान् पाशभृताऽप्यवार्यान् । अभीतिमुद्रामधुरेण गोपान् आश्वासयामास करेण शौरिः ॥ ७-४६॥ यदर्चनादापदियं प्रसक्ता तेनैव गोपालगणस्य गुप्तिम् । अरोचयत् कर्तुमशेषगोप्ता रामेण सम्मन्त्र्य रथाङ्गपाणिः ॥ ७-४७॥ स लीलया मेरुमिव द्वितीयं गोवर्धनं गोपकुलप्रदीपः । नवप्ररूढं निहितैकहस्तो नागो नलस्तम्बमिवोज्जहार ॥ ७-४८॥ अधोमुखावस्थितमेरुकल्पं शैलं तमुत्खाय शरण्यगोपः । उदञ्चयन् सत्वरमूर्ध्वमूलं चक्रे महेन्द्रं शमितार्धगर्वम् ॥ ७-४९॥ फणाभिरामप्रसृताङ्गुलीकः प्रियाङ्गरागव्यतिषङ्गपाण्डुः । भुजस्तदीयो गिरिणा बभासे भूमण्डलेनेव भुजङ्गराजः ॥ ७-५०॥ आ(अ)भुग्नरक्ताङ्गुलिपञ्जरं तत् रत्नोर्मिकारश्मिशलाकमन्तः । नवोदकक्षौमवृतं व्यभासी- च्छत्रप्रकाण्डं हरिबाहुदण्डे ॥ ७-५१॥ विहारपद्मस्पृहयेव कृष्णो भुजाद्रिणा भूमिधरं दधानः । स्वशेषभूतस्य हलायुधस्य प्राचीमवस्थां प्रथयाम्बभूव ॥ ७-५२॥ निवासभूते निखिलस्य तस्मिन् बालाकृतौ बिभ्रति शैलमेकम् । सविस्मयान् वीक्ष्य जहास गोपान् सम्प्रीतिलक्ष्येण तदग्रजन्मा ॥ ७-५३॥ स कालिकाकालकृपाणिकानां धाराशतैराहतसन्धिबन्धः । अवासृजत् क्षिप्रतरं क्षरद्भि- र्धातुद्रवैर्नूनमसृञ्जि शैलः ॥ ७-५४॥ सगैरिकस्तस्य गिरेः समन्तात् विलम्बितो वर्षपयःप्रवाहः । वितानपर्यन्तजुषो वितेने विडम्बनां वर्णतिरस्करिण्याः ॥ ७-५५॥ इरम्मदार्चिर्व्यतिषङ्गदीप्तः पाणौ हरेरद्रिपतिश्चकाशे । प्रत्यस्त्रमिन्द्रेण मुमुक्षितानां प्रयुक्तमुत्खात इवाशनीनाम् ॥ ७-५६॥ स बाहुदण्डेन वहन् सलीलं प्रवालकल्पाङ्गुलिपञ्जरेण । महीधरच्छत्रमनन्यवाह्यं मायामयीं व्याकुरुतेव लीलाम् ॥ ७-५७॥ करालरूक्षाकृतिवर्णभेदान् कालाग्निनिर्वापणकल्यवृत्तीन् । रुरोध शैलीकृतया स्वशक्त्या प्रायो घनान् पर्वतकूटकल्पान् ॥ ७-५८॥ पृथ्व्या यथावद्भरितं गिरेस्त- न्मूलं निवासाय गवां बभूव । ग्रासानुभावग्रहणार्हमासी- दग्रं च तस्यानतिविप्रकृष्टम् ॥ ७-५९॥ उदञ्चितस्याद्रिपतेरुपान्ते पयःप्रवाहा निबिडं पतन्तः । अतन्वत स्फाटिकवप्रशोभा- मन्तर्गतैरस्तभयैरवेक्ष्याम् ॥ ७-६०॥ अलब्धसूर्येन्दुकरप्रवेशे मूले गिरेरावसतां जनानाम् । स्वलोचनद्वन्द्वविहारभेदात् नक्तन्दिनान्यातनुते स्म नाथः ॥ ७-६१॥ मुकुन्दगात्रं मणिदर्पणाभं छायापदेशेन विगाहमानैः । सगोधनैस्तत्र सुरेन्द्रभीत्या गोपैस्तदा गूढमिवावतस्थे ॥ ७-६२॥ बिभर्ति कृष्णः सुकुमारगात्रः क्षमाधरं तेन विभावयामः । तदग्रजोऽसौ बिभृयादशेषां बलः क्षमामित्यवदन् व्रजस्थाः ॥ ७-६३॥ बभुः स्वशाखाग्रथिताग्रपादै- स्तपोधनैः साकमधःशिरोभिः । कृताभिमुख्याः कृतिनो मुकुन्दे तपःप्रवृत्ता इव तत्र वृक्षाः ॥ ७-६४॥ अधोमुखस्याद्रिपतेस्तृणानि स्पृष्ट्वा मुकुन्देन निदर्शितानि । जातस्पृहा जग्रसिरे सहर्षं गावस्तदा किञ्चिदिवोन्नमन्त्यः ॥ ७-६५॥ मणिप्रदीपैरतमांसि गोप्यः प्रविश्य रम्याणि गुहागृहाणि । अस्पृष्टशीतोष्णमयत्नलब्धं स्वस्थाशयाः स्वर्गमिवान्वभूवन् ॥ ७-६६॥ यथापुरं तत्र सपुत्रदारै- रच्छिन्नगोदोहनमन्थनाद्यैः । स्वप्नावबोधप्रभृतीनि गोपैः सिषेविरे विस्मृतपूर्ववासैः ॥ ७-६७॥ अस्पृष्टधाराजलबिन्दुसेकै- रकम्पमानैरपदन्तवीणैः । गोपीजनैरादधिरे विहारा गिरीन्द्रमूले गृहनिर्विशेषम् ॥ ७-६८॥ वनेचरा गोपगणैः समेता विमुक्तपर्जन्यभया विचेरुः । महीधरच्छत्रधरे मुकुन्दे वन्यानि सत्त्वानि च तत्र गोभिः ॥ ७-६९॥ प्रभूतधाराप्रतिपन्नशैत्यं प्राप्तारमद्रिं प्रभुरद्भुतानाम् । सुदर्शनादप्यधिकामनैषीत् पवित्रतां पाणिसरोजयोगात् ॥ ७-७०॥ मुकुन्दहस्ताम्बुरुहाधिरोहात् प्तः श्रियं मेरु मुखैरलभ्याम् । वर्षापदेशेन गिरिः स लेभे नगाधिपत्यार्हमिवाभिषेकम् ॥ ७-७१॥ मदोल्बणानामिव वल्लवीनां गीतं गणैः शौरिगुणानुबन्धम् । गुहाविशेषैर्ध्रुवमन्ववादीत् गोवर्धनो गोपगणाभिनन्द्यः ॥ ७-७२॥ कराग्रयन्त्रे घटितेन कृष्णः सवारिणा सानुमताऽभिगुप्तान् । अलम्भयत् गोपगणान् सदारान् धारागृहाभ्यन्तरवाससौख्यम् ॥ ७-७३॥ अचिन्त्यशक्तेरकुमारयूनः कौमारलीलाकवचेन गुप्तम् । बलं तदग्राङ्गुलिसंश्रिताद्रे- स्तावत्परिच्छिन्नमबोधि गोपैः ॥ ७-७४॥ निमेषनिष्ठ्यूतयुगानि यासां येभ्यो निरोधव्यसनान्यभूवन् । तासां स तैः सार्धमभूत् समीक्ष्यो वामभ्रुवां वल्लवयूथनाथः ॥ ७-७५॥ कृतार्थभावं भृशमादधाने कृष्णाङ्गसंस्पर्शविलोकनादौ । अयन्त्रिताभिश्चिरमाशशंसे वर्षानुवृत्तिर्व्रजसुन्दरीभिः ॥ ७-७६॥ धारानिपातैः स्तनतां घनाना मक्षप्रमाणैरभिहन्यमानः । आकस्मिकीमन्वभवत् स शैलो- वज्रव्यथां वासवरोषजाताम् ॥ ७-७७॥ तमेकहस्ताङ्गुलियन्त्रलग्नं धाराहतं धारयतस्त्रिधाम्नः । अमुक्तबाल्यस्य समग्रशक्तेः क्षणार्धवत् सप्त दिनान्यतीयुः ॥ ७-७८॥ स तादृशांस्तोयभृतो युगान्ते श्वासानिलैः शोषयितुं क्षमोऽपि । महेन्द्रदर्पात्ययमात्रकाङ्क्षी प्रख्यापयामास गिरेः प्रभावम् ॥ ७-७९॥ एकत्र संरक्षति कृष्णमेघे गोत्रेण चैकेन गवां कुलानि । अशेषगोत्रौघभिदा नियुक्तै- र्मेघायुतैर्मोघतमैर्बभूवे ॥ ७-८०॥ व्रजोपमर्दे वितथे सुरेन्द्रः स्वयंवृतोऽपत्रपया भिया च । दुनोति मामिन्द्रपदं दुरन्तं किम्पौरुषं केवलमित्यदुःख्यत् ॥ ७-८१॥ निवृत्तरोषे निभृतेऽपि शक्रे सन्दर्शितस्वामिनिदेशसङ्गाः । ववर्षुरुग्रां मुहुरश्मवृष्टिं वैरोपपन्ना इव वारिवाहाः ॥ ७-८२॥ निवार्य दुर्वारजवान् पयोदान् नाथं सतां नन्दसुतं प्रपित्सुः । करम्बितप्रीतिभयः क्षणार्धं व्यक्तिं भजन् व्योमतलेऽवतस्थे ॥ ७-८३॥ क्रमेण पृथ्वीमभिगन्तुकामः श्वेताभ्रपर्यायगजाधिरूढः । विलोचनव्यञ्जितपद्मसम्पत् वर्षात्ययो मूर्त इवाबभासे ॥ ७-८४॥ पुनः प्रसन्नां पुरुहूतदान्त्या पश्यन् दिवं प्राणभृतामधीशः । तमद्रिमव्याहतदिव्यलीलः सन्तोलयामास निवेशयिष्यन् ॥ ७-८५॥ विलक्षवृत्त्यै(त्ये)व तिरोहितेषु मेघेषु विश्रान्तविकत्थनेषु । स्थाने निवेशादचलीचकार छत्राचलं शौरिरखिन्नबाहुः ॥ ७-८६॥ उत्क्षिप्यमाणः परिवर्त्यमानः संस्थाप्यमानोऽपि तथैव भूयः । स तस्य सङ्कल्पवशेन भेजे शैलो न शैथिल्यकथाप्रसङ्गम् ॥ ७-८७॥ व्यपेतशैलव्यवधानदृश्यो विभूषितः स्वेदकणैः स बालः । दिशद्भिरामोदमभौमभोग्यं दिव्यैरवाकीर्यत पुष्पवर्षैः ॥ ७-८८॥ निवेश्य कृष्णं शकटीरथाग्रे नाथोपचारैरुपसेदिवांसः । सगोधनाः स्वं व्रजमाव्रजन्तः सङ्गीतलीलामभजन्त गोपाः ॥ ७-८९॥ कच्चिन्न खिन्नोऽसि वहन् गिरीन्द्रं कच्चिन्न विम्लायति पाणिपद्मम् । इति ब्रुवाणाः सुहृदो मुकुन्दं पर्याकुलाः पस्पृशुरङ्गमङ्गम् ॥ ७-९०॥ अथावतीर्य स्वयमन्तरिक्षाद- नुज्झितैरावतदानवर्षात् । विलक्षचित्तो वसुदेवसूनुं वल्गुस्मितं वज्रभृदाससाद ॥ ७-९१॥ पुरोदधानः सुरभिं प्रतीक्ष्या- माजग्मुषीमात्मभुवो नियोगात् । अपत्रपागद्गदमाबभाषे बद्ध्वाञ्जलिं बालमुपेन्द्रमिन्द्रः ॥ ७-९२॥ नाथ त्वया नर्मविहारभाजा विमोहितो विप्रतिसारितश्च । अकिञ्चनस्त्वामहमाश्रितः सन् क्षिप्तापकारो न बहिष्क्रियार्हः ॥ ७-९३॥ कृतापराधेष्वपि सानुकम्पं क्षेमङ्करं क्षेत्रविवेचकानाम् । विश्वोपकाराध्वरबद्धदीक्षं वेद्यं परं वेदविदो विदुस्त्वाम्(वदन्ति)॥ ७-९४॥ निगृह्णतस्ते सृजतश्च वर्षं निमित्तभावे निहितैस्त्वयैव । प्रवर्त(र्त्य)ते निष्प्रतिघो विहारः स्वयं प्रयुक्तैरिव यन्त्रभेदैः ॥ ७-९५॥ अनन्यसाधारणपारमेष्ठ्यात् अन्यान् अशेषान् अतिसन्दधानात् । गोपायितुं पारयति त्रिलोकीं गोपायमानादपि न त्वदन्यः ॥ ७-९६॥ व्रजौकसां नाथ दिवौकसां वा विपत्प्रसङ्गे विहितावतारः । एकस्त्वमेव स्वयमीप्सितानां दयासहायो नियमेन दाता ॥ ७-९७॥ रूपतो विग्रहतश्च विश्वं नित्यं त्वयैकेन धृतं यदेतत् । तदेकदेशोद्वहनादमुष्मात् न विस्मयं तत्त्वविदो भजन्ति ॥ ७-९८॥ प्रयोजितोऽहं त्वयि भक्तिबन्धात् गोभिः स्वलोकादुपसेदुषीभिः । इच्छामि संरक्षितगोव्रजं त्वां स्थाने गवामिन्द्रतयाऽभिषेक्तुम् ॥ ७-९९॥ तिरोहितामम्भसि विन्दता गां पूर्वं त्वया पोत्रिवरेण लब्धा । निरुक्तनिष्णातकृताभ्यनुज्ञा व्यक्तिं पुनर्यातु शुभा त्वदाख्या ॥ ७-१००॥ उपेन्द्रभूताद्भवतोऽपि भूम्ना मान्यो मनुष्याभिनये मया त्वम् । अभ्यर्थनामादरतस्तदेनां प्रतीच्छ विश्वम्भर विश्वभूत्यै ॥ ७-१०१॥ इति ब्रुवाणो मघवान् धृताद्रेः श्रान्तिं जगद्धातुरिवापनेष्यन् । ध्यातोपयातां त्रिदशप्रणेता दिव्यापगां दर्शयति स्म देवीम् ॥ ७-१०२॥ अभौमगङ्गापयसा प्रपूर्णा- मावर्जयन् वारणराजघण्टाम् । अशेषसाम्राज्यपदाभिषिक्तं गुप्त्यै गवां गोत्रभिदभ्यषिञ्चत् ॥ ७-१०३॥ तदङ्गसंस्पर्शवशेन धन्यै- राप्लाव्यमानामभिषेकतोयैः । अपेतभारामिव भूतधात्री- मुल्लाघितां प्रैक्षत नाकनाथः ॥ ७-१०४॥ कृताभिषेकः कृतिना मघोना गुप्तेन गोविन्द इति स्वनाम्ना । कृतप्रसादः प्रजिघाय कृष्णः स्वर्गाधिरोहाय पुनः सुरेन्द्रम् ॥ ७-१०५॥ प्रतिगतवति यूथे पुष्कलावर्तकानां दिविभुवि च नियत्या दीर्घनिद्रोज्झितानाम् । गुणगरिमसमृद्धं गोकुलं वीक्ष्य तुष्यन् गुरुभिरभिनियुक्तामाशिषं प्रत्यगृह्णात् ॥ ७-१०६॥ मुकुलितरविधाम्ना देहदीप्त्यैव मुष्णन् जलदकदनजातं जीवलोकस्य जाड्यम् । व्यचरदचलभो(भा)गे चारयन् धेनुचक्रं पिशुनितनिजमायां भूषयन् पिञ्छमालाम् ॥ ७-१०७॥ प्रणिहितमधिरोहन् प्रागिवाद्रिं पृथिव्यां अवमतपुरुहूतैरर्चितो गोपवृन्दैः । व्रजपतिरुपसीदन् बालयोग्यान् विहारान् वनचर(भव)परिबर्हो वत्सपालैः सिषेवे ॥ ७-१०८॥ नाथः सोऽयं शिशुरपि सतां नन्दगोपस्य सूनुः प्रायः शैलः प्रतिनिधिरसौ पद्मनाभस्य पुंसः । किं नः साध्यं सुरपतिमुखैः किम्पचानैस्तदन्यैः साकं दारैरिति किल जगुस्तत्र सम्भूय गोपाः ॥ ७-१०९॥ ॥ इति श्रीकविवार्तिकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वैदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये गोवर्धनधारणं नाम सप्तमःसर्गः ॥

॥ वेणुनाद रासलीलां अष्टमः सर्गः ८॥

अथ प्रसूनायुधभागधेया- न्यारब्धमन्दानिलसौतिकानि । मधुप्रसङ्गान्मधुराणि यूना- मनुष्णशीतान्यभवन् दिनानि ॥ ८-१॥ अनेकरूपैः स्वयमेकरूपः कालात्मकं रूपमकालकाल्यः । ऋतुप्रभेदैरनुभूय रेमे रामासखो राममनुप्रयातः ॥ ८-२॥ हेमन्तपूर्वः शिशिरान्तिमश्च शरच्च सम्भूय वसन्तवृत्त्या । शनैश्शनैः शान्तिमुपेयिवांस- स्तद्वैभवात् तन्मयतामिवाऽऽपुः ॥ ८-३॥ प्रायेण पञ्चायुधपञ्चवक्त्रः पलाशकोशाकृतिमाददानैः । मनस्विनीमानगजेन्द्रभेदात् सशोणितैः पाणिरुहैश्चकाशे ॥ ८-४॥ जगन्ति पुण्ड्रेक्षुशरासनेन प्रसूनबाणैरपि जेतुमिच्छोः । असूचयन् आत्मभुवः स्वनादै- रव्याहतामाशिषमन्यपुष्टाः ॥ ८-५॥ वराङ्गनावक्त्रपदाम्बुजानां स्वाभाविकीं सौरभरागलक्ष्मीम् । प्रपित्समानौ प्रसवैस्तदर्हं द्वेधा द्रुमौ दोहदमन्वभूताम् ॥ ८-६॥ तीक्ष्णारुणाग्राण्यचिरप्ररोहा च्चकाशिरे चम्पककुड्मलानि । दत्तानि कामोत्सवमङ्गलार्थं दीपाङ्कुराणीव वसन्तलक्ष्म्या ॥ ८-७॥ मुक्तापगामग्नसमुत्थितात्मा भूयो भजन् पुष्परजोभिषेकम् । चचार मन्दं मलयाद्रिवात- श्चेतोभुवो दृप्त इवौपवाह्यः ॥ ८-८॥ पुष्पेषु संयोगवियोगवृत्त्या क्रमाद्भजन्ती नतिमुन्नतिं च । वनान्तरे षट्पदपङ्क्तिरासी- न्मञ्जुस्वना मन्मथचापमौर्वी ॥ ८-९॥ वसन्तक्लृप्तान् मदनस्य बाणान् आन्दोलयन् नूनमनोकहेषु । दिनेदिने दक्षिणमातरिश्वा गतागताभ्यां गणयाञ्चकार ॥ ८-१०॥ आघूर्ण्यमानैरभितो नभस्वान् कान्तैः प्रदीपैरिव कर्णिकारैः । वनश्रियो माधवसङ्गमार्हं मङ्गल्यनीराजनमाचचार ॥ ८-११॥ प्रसूनहासाधरपल्लवानां किञ्जल्करोमाञ्चजुषामभुङ्क्त । मन्दानिलैराहितवेपथूनां कान्तिं वसन्तो वनवल्लरीणाम् ॥ ८-१२॥ विहारयोग्यामथ वीक्ष्य वन्यां रमापतिं रामसखं विशन्तम् । नभश्चरैः साकमनोकहास्तं नाथं प्रसूनोर्मिभिरभ्यषिञ्चन् ॥ ८-१३॥ पुष्पाकरेण प्रतिपन्नशोभं वृन्दावनं नन्दितगोपवृन्दम् । प्रदर्शयन् प्रापितधेनुवत्सं रामानुजो राममिदं बभाषे ॥ ८-१४॥ मनोभुवो मूर्तमिवावलेपं मान्यं मनस्कारमिव त्वदीयम् । चिरं त्वया सेव्यमिहार्य मन्ये चित्रं वनं चैत्ररथाभिनन्द्यम् ॥ ८-१५॥ अमानुषप्राप्यमरण्यमेतत् प्राप्तस्य ते पादरजःप्रभावात् । सत्त्वोपपन्ना न भजन्ति सत्त्वाः शान्ताशयाः शाश्वतिकं विरोधम् ॥ ८-१६॥ अचिन्त्यभूम्नस्तव सन्निधाना- दन्योन्यजातीयदशां दधानाः । सिंहीवशास्तन्यविदो भजन्ते सुभ्रातृतां केसरिदन्तिपोताः ॥ ८-१७॥ त्वदर्पितस्वादुतृणादिनीनां त्वद्वंशनादामृतपायिनीनाम् । मन्ये गवां वत्सगणावृतानां विष्वग्वनं विश्रमयोग्यमेतत् ॥ ८-१८॥ वसन्तलक्ष्म्या इव वासभूमिं सङ्कल्पयोनेरिव शिल्पशालाम् । रतेरिवारामविभूतिमन्यां वन्यामिमां वेद्मि तवोपका(क)र्याम् ॥ ८-१९॥ वनस्थलीयं मकरन्दवर्षै- रतोयकर्मान्तिकमात्तसेका । प्रस्तौति पर्याप्तपरागजाला समीहितं सञ्चरणोत्सवं ते ॥ ८-२०॥ नभःस्पृशामत्र महीरुहाणां नीडादमी निष्पतिताः सलीलम् । प्रयुञ्जते स्वागतमञ्जसा ते प्रायः शुभालापजुषः शकुन्ताः ॥ ८-२१॥ वातावधूतास्तरवः स्वमूर्ध्ना सन्तानसान्तानिकसम्पदस्ते । प्राज्यैरमी पुष्पफलैश्च नूनं वितन्वते वन्दनमर्हणां च ॥ ८-२२॥ आस्वाद्य चूताङ्कुरमन्यपुष्टाः प्रायः स्वनैः पञ्चममुद्गिरन्तः । आकारयन्तीव वनं गतं त्वां दिव्यानमी दर्शयितुं प्रदेशान् ॥ ८-२३॥ त्वत्पादविन्यासविशेषधन्या- मापादयिष्यन्त इवात्मधात्रीम् । एनां स्वशाखाग्रकरप्रयुक्तैः प्रचिन्वते भूमिरुहाः प्रसूनैः ॥ ८-२४॥ निशामयन्त्यो वनदेवतास्त्वां चकोरसम्मोहनचारुदीप्तिम् । प्रीतिं प्रभूतां परिवाह्य गीतैः शीताश्रुणा शेषमिवोद्वमन्ति ॥ ८-२५॥ रसालरम्भादिभवैरिहैताः फलद्रवैः पिच्छिलपार्श्वभागाः । वत्सावगाह्या वनराजिमध्ये पूर्णाः सुधाया इव भान्ति कुल्याः ॥ ८-२६॥ कल्हारपद्मोत्पलकान्तिभिस्ते कटाक्षविक्षेपगुणं भजन्त्यः । अरण्यभागान् अभितः प्रवाहै- राप्याययत्याप इमाः प्रसन्नाः ॥ ८-२७॥ त्वद्वक्त्रपद्मप्रतिमासहस्रैः संसृज्यमानेव सपुष्कराऽसौ । प्रभावतः ख्यापितपुष्करश्रीः पुण्योदका पुष्करिणी विभाति ॥ ८-२८॥ सञ्चारजातैः श्रमवारिलेशै- रालक्ष्यमुक्तागुणमण्डनं त्वाम् । व्यक्तं नदी वीजयतीयमारा- दम्भोरुहैराश्रितवीचिहस्तैः ॥ ८-२९॥ सहन्ति वाता(शीता)तपवर्षवातां- स्तोयेषु तिष्ठन्ति रविप्रतीक्षाः । तपस्यतस्त्वन्मुखकान्तिलोभात् पद्मानिमान् पश्चिमराम मन्ये ॥ ८-३०॥ तरङ्गिणीभिः परिरभ्य मुक्तः संलापवान् भृङ्गरवैरधीरैः । आपृच्छते नूनमतः प्रयान्तं (?) मन्दीभवन् कुन्दसमीरणस्त्वाम् ॥ ८-३१॥ मनःप्रसादं तव दर्शयन्ती प्रालेयसङ्घातनिभैः पयोभिः । शुद्धा नवेन्दीवरनीलवासा- श्छायेव ते शैवलिनी विभाति ॥ ८-३२॥ सह प्रयच्छन्ति तव प्रियाभि- श्चञ्चूर्यमाणा इह चक्रवाकाः । आहूय दातार इवातिथेयाः कालोचितां कस्त्वमितीव वाचम् ॥ ८-३३॥ विधूतवालव्यजनाः स्वपक्षै- श्चारुस्वनापादितचाटुवादाः । अभिन्नवर्णाः प्रतियन्त्यमी त्वां राजोपचारैरिव राजहंसाः ॥ ८-३४॥ दिवाऽपि गोवर्धननिर्झराणां सञ्छादिते व्योम्नि तुषारजालैः । इहातपश्चान्द्रमसेन धाम्ना विकल्प्यते बोधितपङ्कजोऽपि ॥ ८-३५॥ अतर्कितप्राप्तमवेक्ष्य कान्त्या मेघङ्करं मेचकमम्बरं ते । निनादनिष्पादितषड्जगीता नृत्यन्त्यमी सानुषु नीलकण्ठाः ॥ ८-३६॥ नदीभिरारब्धतरङ्गलास्यं नादैर्युतं निर्झरदुन्दुभीनाम् । गायद्द्विरेफं गिरिणा त्वदर्थं प्रायेण सङ्गीतमिह प्रयुक्तम् ॥ ८-३७॥ कलिन्दजाकच्छभुवां सखीभिः प्रच्छायवन्याभिरधित्यकाभिः । सूते गिरिः सूचि(दि)तनन्दनोऽसौ स्वर्गौकसां स्वैरविहारवाञ्छाम् ॥ ८-३८॥ अभ्यागतं वीक्ष्य भवन्तमारात् साला इमे सामिनताग्रशाखाः । सुधारसस्वादुतमानि भक्त्या स्वयं प्रयच्छन्ति फलानि धन्याः ॥ ८-३९॥ पात्रीभवन्तस्तव वीक्षणानां पद्मालयावासविकल्पितानाम् । चराचराः कानि कियन्ति वैते तपांस्यतप्यन्त भवान्तरेषु ॥ ८-४०॥ विजानतां सत्पुरुषप्रभावं पुंसाममी पुण्यतमीभवन्तः । प्रायस्त्वदङ्गीकरणात् प्रयास्य- न्त्याराध्यतामद्रिवनावकाशाः ॥ ८-४१॥ संस्कारपूताभिरितीव वाग्भिः सम्मोदयन्नग्रजमादिदेवः । विजातलीलो विजहार हृष्यन् वन्द्यः सतां वत्सगणानुयायी ॥ ८-४२॥ स्वयंवृतः स्वैरविहारलक्ष्म्या मुहुर्वितेने विपिने मुकुन्दः । स्थानान्तरप्राप्तिविभावितानि स्थितेरभिन्नानि गतागतानि ॥ ८-४३॥ प्रभूतया पुष्पफलप्रसूत्या वदान्यवृत्तीनि वनानि दृष्ट्वा । सस्मार चिन्तावशवर्तिनीनां व्रजस्थितानां वरवर्णिनीनाम् ॥ ८-४४॥ प्रायस्तदाह्वानविधौ नियोक्तुं प्रगृह्य वेणुं प्रतिपन्नदूत्यम् । न्यवेशयत् कुड्मलिते सलीलं बिम्बाधरे सूचितचित्तरागे ॥ ८-४५॥ सामोपपन्नान् क्रमशः स्वरन्ध्रैः सप्त स्वरान् सप्तभिरुद्वमन्तम् । प्रचक्रमे वादयितुं वनान्ते वंशं प्रियो वल्लववंशजानाम् ॥ ८-४६॥ मुकुन्दवक्त्रानिलवाद्यमानो वेणुर्बभौ वेद इव द्वितीयः । रागावधीनां रहसां यदेकं गीतात्मनां तस्य निदानमासीत् ॥ ८-४७॥ तद्वंशनादः सुभगोऽनुगच्छन् अग्रेसरं सौरभमागमानाम् । अयत्ननिष्पन्नमनस्समाधीन् आब्रह्मकान् आतनुतेव जन्तून् ॥ ८-४८॥ श‍ृण्वद्भिरुद्वान्तमधुप्रवाहं वंशस्वनं तस्य सुधैकवंशम् । सयूथ्यतां नूनमवाप्य सर्वैः सत्त्वैः स्थितं सामिनिमीलिताक्षैः ॥ ८-४९॥ मधुद्रवैरुल्बणसम्मदाश्रू- ण्यालेख्यनिष्पन्दमृगद्विजानि । उदग्रकोशोत्पुलकानि कृष्णो वंशीनिनादेन वनान्यकार्षित् ॥ ८-५०॥ आस्वाद्य तद्वंशनिनादमाध्वी- माघ्राय तत्सञ्चरसौरभं च । भुक्तामृतानां भुवि सौरभेय्यः क्षिप्तेतरां क्षीबदशामवापुः ॥ ८-५१॥ वंशस्वनास्वादवशीकृतानां व्यक्तोदयानां वनदेवतानाम् । स कर्बुरः स्निग्धतमैः कटाक्षैः सेन्द्रायुधो मेघ इवाबभासे ॥ ८-५२॥ आध्मापयामास स श‍ृङ्गमग्र्यं शङ्खं तथाभूतमिवात्मयोगात् । जगौ च गेयानि बहूनि येषां गान्धर्ववेदोऽपि न पारदृश्वा ॥ ८-५३॥ त्रिस्थानयुक्तस्वरभूषितं तत् त्रिधा स्थितं ग्रामविशेषयोगात् । अरञ्जयत् सप्त जगन्त्ययत्नात् गीतं हरेराहृतकिन्नरौघम् ॥ ८-५४॥ विलासवाक्यैरिव वेणुनादै- र्दिव्येन गीतेन च दैत्यहन्तुः । निवेदितार्थाः सुदृशः स्ववासा- दाजग्मुराकर्षणमन्त्रतीक्ष्णैः ॥ ८-५५॥ अनिष्टशब्दैर्वलयैरपोढाः काञ्च्याऽप्यवज्ञातपदोपगत्या । गुणावकृष्टाः प्रियमाप्तुमीषुः कामोपदिष्टेन महापथेन ॥ ८-५६॥ आदिश्यमानां प्रियवंशनादै- राशां निजाशामिव निर्विघाताम् । तदास्थितां प्रास्थिषताशु धन्या- मासन्नसन्ध्याधिकरागभाजः ॥ ८-५७॥ मधुव्रताधिज्यशरासनेन पुष्पात्मकं सन्दधता पृषत्कम् । अनुप्लवेन व्रजता बभूवे तासामनङ्गेन तदोद्यतानाम् ॥ ८-५८॥ आदेशयोगैरथ तत्र गोप्यो निवार्यमाणा अपि दुर्निवाराः । आनिन्यिरे रागमयैर्महौघैः क्लेशापहं कृष्णसुधापयोधिम् ॥ ८-५९॥ त्वरासखीनां पुरतः प्रचेले तरस्विना निःश्वसितेन तासाम् । सदागतिप्रार्थनया समेतं दूरस्थितं कृष्णमिवोपनेतुम् ॥ ८-६०॥ प्रायेण वेगात् सुदृशां विभिन्नः प्रकीर्णमुक्ताफलपुष्पजालः । प्रस्तावयन् कामविहारनाट्यं हारः समालक्ष्यत सूत्रधारः ॥ ८-६१॥ अवस्थितं कापि कदम्बमूले बल्गुस्मितं वादितमञ्जुवेणुम् । साचीकृताक्षं ददृशुस्तरुण्यः स्वाद्यं सतां स्वस्तिकचारुजङ्घम् ॥ ८-६२॥ तदङ्गशोभामवलोक्य दिव्यां विस्मेरभावं व्रजतेव दूरात् । अमोहयत् यौवतमादिधूर्तः सन्तोषदिग्धेन समीक्षणेन ॥ ८-६३॥ द्रुतागतिव्याकुलभूषणास्ताः किञ्चित्समुच्छ्वासितनीविबन्धाः । पर्याकुलाक्ष्यः परिवार्य तस्थुः कृष्णं कृपाधीनदृशं कृशाङ्ग्यः ॥ ८-६४॥ स वल्लभः संसदि वल्लवीनां बर्हस्रजा दर्शितदानराजिः । उदग्रश‍ृङ्गध्वनिराबभासे दृप्तो वशानामिव वारणेन्द्रः ॥ ८-६५॥ अवृद्धिसङ्कोचमिवेन्दुमन्य- मकार्मुकं काममिवाऽऽत्तवेणुम् । तमद्भुतानामिव राशिमेकं गोप्यस्तदात्मान इवान्वभूवन् ॥ ८-६६॥ सुराङ्गनाभिः समये धृतायां स्वेनैव गोपाकृतिभूमिकायाम् । अकर्मवश्यस्य विभोस्तदासी- दर्चाफलस्पर्शनमात्रलीला ॥ ८-६७॥ न खल्वमुष्य प्रमदामदान्ध्यं न कुत्सनं तत्तदभीष्टदातुः । न धर्मसंस्धापनबाधगन्धः शुद्धानुचिन्त्या हि शुभस्य लीला ॥ ८-६८॥ अनागमप्रत्ययसम्भवानां गुरुत्यजां गोपकुमारिकाणाम् । अनन्यसङ्गात् स दयालुरासी- दसङ्गघण्टापथसार्थवाही ॥ ८-६९॥ पुष्पावचायप्रवणेन गोप्यः प्रसाधितास्तेन स च प्रियाभिः । अभिन्नबाह्यान्तरमैकरस्या- दामोदमन्योन्यसगन्धमापुः ॥ ८-७०॥ स्वलालनादापतितं स तासां सौभाग्यदुर्मानमदं विनेष्यन् । पुष्पावचायव्यपदेशलौल्या- दासीत् दवीयानबहिःस्थितोऽपि ॥ ८-७१॥ अविप्रकर्षेऽपि तिरस्करण्या क्लृप्तावृतिं कृष्णमनीक्षमाणाः । भीमैरदूयन्त भृशं तरुण्यः क्षणैः स्वनिःश्वाससमीरदीर्घैः ॥ ८-७२॥ पुष्पावकीर्णेषु वनद्रुमाणां मूलेषु मोहालसचेतसस्ताः । कृतासिकाः कृष्णवियोगखेदात् कामास्त्रपर्यङ्कगता इवाऽऽसन् ॥ ८-७३॥ विलीनचित्ता विषमास्त्रतापात् विलापयन्त्यो वसुधां विलापैः । अदृश्यरूपस्य हरेरगायन् गुणांश्चरित्राणि च गोपकन्याः ॥ ८-७४॥ मुकुन्दविश्लेषविमोहितानां संश्रूयमाणानि मुहुर्वनान्ते । शमप्रदान्यात्मविदामभूवं- स्त्रय्यन्तगन्धीनि वचांसि तासाम् ॥ ८-७५॥ स माययाऽऽत्मानमसौ परेषां प्रच्छाद्य सन्दर्शयति प्रसादात् । इतीममर्थं प्रथयन् प्रियाणां दृष्टिं शुभां दातुमियेष तासाम् ॥ ८-७६॥ तासामथ स्मेरमुखाम्बुजेन श्यामेन पीताम्बरचित्रितेन । आविर्बभूवे सहसा पुरस्तात् मधुद्विषा मन्मथमन्मथेन ॥ ८-७७॥ तमेकचित्ताः प्रतिसन्निवृत्तं यातेन नृत्यन्तमिवाद्भुतेन । गोप्यः पुनर्जातमिवात्मनैव प्रैक्षन्त सम्मोदपयोधिमग्नाः ॥ ८-७८॥ नवेन्दुरेखाकृशपाण्डुराङ्गी- स्तापाश्रुसन्दर्शितवह्नितोयाः । ददर्श गोपीरवतारगोपः श्वासैस्त्रिलोकीमिव(मुप)शोषयन्तीः ॥ ८-७९॥ अविध्यतैकः प्रणयापराधी योगैरलक्ष्यो युगपत् प्रयुक्तैः । आवर्जितभ्रूधनुषाममोघै- रेणीदृशामीक्षणचित्रपुङ्खैः ॥ ८-८०॥ प्रसादजीवातुभिरङ्गनानां प्रत्येकमन्याभिरलक्षणीयैः । विलासचाटूक्तिविलोकनाद्यै- रानन्दयन् सान्त्वनमाचचार ॥ ८-८१॥ तासां तदङ्गव्यतिषङ्गलोभात् सैरन्ध्रिकावृत्तिमुपेयुषीणाम् । विरक्तनिध्येयपदः स रागी रागाधिकां प्रास्तुत रासलीलाम् ॥ ८-८२॥ तदग्रहस्तग्रहणार्थिनीनां स सव्यतो दक्षिणतश्च तिष्ठन् । बभार विद्युद्व्यवधानभाजां वात्याजुषां वारिमुचामभिख्याम् ॥ ८-८३॥ द्वयोर्द्वयोरेकतया स तासां मध्ये स्थितो मण्डलरासनृत्ते । करद्वयस्पर्शरसेन कान्ताः प्रत्येकमानन्द्य भृशं ननन्द ॥ ८-८४॥ अपारमावर्तयता रसाब्धिं रामानुजो रासजवेन दीव्यन् । पदाश्रितानां भ्रमशान्तिहेतुः प्रियासहस्रं भ्रमयाञ्चकार ॥ ८-८५॥ स्वमायया धूर्णयतो महत्या विश्वानि भूतानि विभोरजस्रम् । रामाजनं रासवशं विधाय स्वस्य स्वयं प्राप निदर्र्शनत्वम् ॥ ८-८६॥ स्वपादपांसुस्नपिताकृतीनां स्विद्यन्मुखीनां व्रजसुन्दरीणाम् । लम्बालकानां ललितस्मितानां लाभात् स्वयं लब्धमनोरथोऽभूत् ॥ ८-८७॥ सनृत्तगीतेन विहारयूना गोपीजनैरन्तरितेन बद्धम् । तदद्भुतप्रस्थिति रासचक्रं जवादलक्ष्यान्तरमाबभासे ॥ ८-८८॥ जगुः सहर्षं दिवि देवकन्याः दिव्यास्तदा दुन्दुभयः प्रणेदुः । पपात कल्पद्रुमपुष्पवृष्टिः सदर्चिते संश्रितरासलीले ॥ ८-८९॥ गृहीतहस्तद्वितयाः सलीलं मिथ्याभुजङ्गेन मृगीदृशस्ताः । परिभ्रमन्त्यो विपरीतवृत्त्या प्रक्रान्तरासां भुवमभ्यजानन् ॥ ८-९०॥ मनोज्ञमल्लीहसितेन तासां रम्येण कृष्णो रजनीमुखेन । अन्यादृशीं प्रीतिमनन्ययोगा- दापादयिष्यन् विरराम रासात् ॥ ८-९१॥ उद्भिन्नघर्माम्बुकणं विहारात् तासां करस्पर्शरसेन चैनम् । लतागृहे नन्दनगर्भशोभिन्या- सीनमन्वासत गोपकन्याः ॥ ८-९२॥ स्वलम्भितैश्चित्रपलाशपुष्पैः संवीज्यमानो विटपैः प्रियाभिः । निदर्शयामास वनान्तराले नीलाद्रिमुद्भ्रान्तमयूरवृन्दम् ॥ ८-९३॥ विचित्रलीलाहितवेपथूनां तासामनासादितविश्रमाणाम् । तापोपशान्त्यै तपनात्मजाया- माह्लादनीमद्भिरियेष लीलाम् ॥ ८-९४॥ मुखेन तस्य द्विजराजभासा ताराभिरामेण तमोपहेन । प्रेमोदधिं वर्धयता प्रियाणां सञ्चिक्षिपे तत्र सरोजकान्तिः ॥ ८-९५॥ सन्ध्याघनाभः स तदा प्रियाणां मध्ये बभौ वारिजरेणुताम्रैः । श‍ृङ्गारदिग्धैरिव दृष्टिपातैः श‍ृङ्गोदकैराप्लुतचित्रदेहः ॥ ८-९६॥ स पद्मिनीनां सलिलस्थितानां चकार सम्मीलनमाशु तासाम् । तुषारजालैस्तुहिनांशुसौम्यः कामोपनेता करयन्त्रमुक्तैः ॥ ८-९७॥ पटीरपङ्कैः प्रतिपन्नगङ्गां शोणान्वितां कुङ्कुमसङ्गमेन । कस्तूरिकाभिः प्रचितात्मवर्णां कृष्णप्रियाः कृष्णनदीं वितेनुः ॥ ८-९८॥ अकालजातप्रतिमेन्दुजालान् आकीर्णमिथ्याशफरांस्तरङ्गान् । वक्त्राक्षिवक्षोरुहबिम्बयोगा- दकल्पयन् कल्पितचक्रवाकान् ॥ ८-९९॥ सविभ्रमा चारुपयोधराभा ताभिः समं सूर्यसुता प्रपेदे । अलब्धपूर्वं तदनन्यलभ्यं कृष्णोपभोगेन कृतार्थभावम् ॥ ८-१००॥ नितम्बवक्षोजनिरूढवृद्धि- र्मध्ये कृशा संश्रितनिम्ननाभिः । विलोलपद्माग्रतरङ्गहस्ता तासामभूदन्यतमेव साऽपि ॥ ८-१०१॥ असूययेव प्रमदाजनानां लाक्षाञ्जनादीनि विलोपयन्ती । निसर्गशोभातिशयप्रकाशात् कृतोपकारेव नदी बभूव ॥ ८-१०२॥ चिरप्रवृद्धं दयितेऽनुरागं चित्ते दुरासेधमिवोद्वमन्ती । प्रायेण तत्कान्तिमधूपभोगात् दृष्टिस्तदा रागमुवाह तासाम् ॥ ८-१०३॥ अनङ्गरागोज्ज्वलचित्तदेहा विश्वाधिकं विव्यधुरायताक्ष्यः । कह्ला (ल्हा)रशोभारचितैः कटाक्षैः कामस्य बाणैरिवतापदीप्तैः ॥ ८-१०४॥ विगाहनात् गोपनितम्बिनीनां संवर्धमाने सहसाऽम्बुपूरे । तद्वक्त्रशोभाविजितैः सरोजै- रन्तर्हितं नूनमवाप्तलज्जैः ॥ ८-१०५॥ कृष्णाम्बुदः कल्पितहस्तयन्त्र- श्चकार गोपीनयनोत्पलेषु । धाराम्बुसेकादुपसम्भवन्त्या रागश्रिया रक्तसिलीन्ध्रशोभाम् ॥ ८-१०६॥ मुहुः प्रयुक्तां मुखपुण्डरीके कदर्थयन्त्या करयन्त्रधाराम् । कान्ते कयाचित् दधिरे कराभ्यां गतागतान्युत्पलकाननानाम् ॥ ८-१०७॥ प्रयापिते गोपिकया कयाचित् कृष्णाननं कीचकयन्त्रतोये । निमीलनोन्मीलनतस्तदीयात् नक्तन्दिवं तत्क्षणदृश्यमासीत् ॥ ८-१०८॥ तमार्द्रभावान्निबिडान्तरीयं लम्बालकं राशिमिवाद्भुतानाम् । पश्चादुपेता परिरभ्य तस्थौ काचित् प्रिया कामवधूरिवान्या ॥ ८-१०९॥ अभङ्गुरप्रेमबलेन तस्या वद्धं प्रियं बाहुलताद्वयेन । समीक्ष्य कामार्पितपाशमन्याः सम्प्लावयामासुरपेतशङ्काः ॥ ८-११०॥ यदङ्घ्रियोगाज्जगतां त्रयाणां मन्दाकिनी मान्यतमा बभूव । तयाऽपि सम्भाव्यतमा तदाऽऽसीत् कृष्णेन सा तेन कृतावगाहा ॥ ८-१११॥ अथोपचारान् उपपादयन्ती दिव्येन देहेन दिनेन्द्रकन्या । आनर्च पादार्पितरत्नपुष्पा गोपीसखं गोपकुमारमाद्यम् ॥ ८-११२॥ सरिद्भिरन्याभिरपि प्रभावात् प्रायेण गोपीतनुमाश्रिताभिः । तोषादुदन्वत्सुतयोपभोग्य- स्तोयोपचारेण विभुः सिषेवे ॥ ८-११३॥ तमुत्तरन्तं सरितः प्रवाहा दुत्तारकं पङ्कमयात् पयोधेः । मरुत्प्रयुक्ता वसनाङ्गरागै- राकल्पयन् अप्सरसस्तदर्हैः ॥ ८-११४॥ व्रजाङ्गनाश्च त्रिदशाङ्गनाभिः प्रसाध्यमाना बहुमानपूर्वम् । रमासहायप्रणयानुरूपां सम्माननां साधुजनेष्वविन्दन् ॥ ८-११५॥ विहृत्य तस्मिन् व्रजसम्मुखीने चक्रं गवां शैलवनान्निवृत्तम् । उपाद्रवत् कश्चिदरिष्टनामा कैलासपर्यायतनुः ककुद्मान् ॥ ८-११६॥ खुराग्रवज्रेण विदारयन् क्ष्मां विषाणनिर्भिन्नविमानमूलः । दुर्वारवेगो ददृशे स दूरा- न्मृत्योरुपक्रान्तमहो महोक्षः ॥ ८-११७॥ श‍ृङ्गावरुग्णैः शकटैः प्रकीर्णं वृषान्तरैराशु विमुक्तमार्गम् । व्रजं तदा विप्लुतगोपवर्गं त्यक्त्वा स कृष्णाभिमुखं जगाम ॥ ८-११८॥ तमापतन्तं प्रतिसञ्जिहानो निर्र्ह्रादवित्रासितदीनधेनुम् । विषाणयुग्मग्रहणेन शौरि- श्चक्रे विनिष्पीडितपीनकण्ठम् ॥ ८-११९॥ अपहत्य दुर्जयमरिष्टदानवं जगतामरिष्टमिव जातविग्रहम् । व्रजसद्भिरद्भुतविहारतोषितैः सुरसत्तमैरपि समं स तुष्टुवे ॥ ८-१२०॥ अन्यैरप्यसुरमलिम्लुचैरनेकै- रातङ्कान् स्थिरचरसूतिभिः प्रसूतान् । गोपानां प्रतिविदधे गवां च काले रामेण स्तुतचरितो रथाङ्गपाणिः ॥ ८-१२१॥ ॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये वेणुनाद रासलीलां नाम अष्टमः सर्गः ॥

॥ मधुराप्रत्यागमनं नाम नवमः सर्गः ९॥

अथ भोजपतिर्जगत्पते- रवतारं भुवि नारदान्मुनेः । श्रुतवान् अतिदेवदानवं व्यथया पीतविषोपमोऽभवत् ॥ ९-१॥ निहता पृथुकेन पूतना शकटं तत् परिवर्तितं महत् । ककुभद्वितयं निपातितं प्रहितः क्वापि निपीड्य कालियः ॥ ९-२॥ स च गोमुखवर्धनो दधे गमितः क्षोदमरिष्टपर्वतः । प्रथितश्च बलः प्रलम्बजित् निधनं धेनुकदानवो गतः ॥ ९-३॥ दवहव्यवहश्च जग्रसे विषधृत् विन्ध्यसमो विदारितः । इति नाम विजृम्भणे रिपो- रलमेकैकमलङ्घ्यतास्थिते ॥ ९-४॥ बहुभिः किमिह प्रतर्कितै- र्बलिनः स्त्रोतसि धावतो विधेः । यदतीतमतीतमेव तत् करणीयं पुनरायतिक्षमम् ॥ ९-५॥ इति विप्रतिसारविह्वलः स्वयमुत्थापितमृत्युचोदितः । प्रतिहन्तुमियेष चक्रिणं शलभो दीप्तमिवाशुशुक्षणिम् ॥ ९-६॥ दिवसान्तदिवाकरोपमः श्वसितान्दोलितजीवितस्थितिः । भयविस्मयरोषकर्बुरः स शिरःकम्पमवर्तयत् क्षणम् ॥ ९-७॥ स च दानपतिं समादिशत् भवतो जीवतु भद्र सौहृदम् । अजितेन जिघांसितस्य मे भज साहायकमात्मरक्षणे ॥ ९-८॥ अतिमानुषचेष्टितः स्वयं मधुजिन्मानुषभूमिकां वहन् । असुरान् अभिहन्तुमीहते दमनीयोऽयमरूढयौवनः ॥ ९-९॥ अविचारितमाशु गम्यता- मधिनन्दावसथं विहारिणौ । बलदेवजनार्दनौ बला- दुपनेयौ भवता छलेन वा ॥ ९-१०॥ सह नन्दमुखैरशङ्कितं करदानव्यपदेशवञ्चितैः । अपरेद्युरिहोपसर्प्यता- मसुरध्वंसकृदग्रजान्वितः ॥ ९-११॥ इति वाचमुदीर्य दुर्मतिः स्ववधोपात्तकृपाणिकोपमाम् । सपदि प्रजिघाय केशिनं मधुजित्पीडनलोभमोहितः ॥ ९-१२॥ स च वाजिमहासुरश्चरन् अनुवृन्दावनमद्रिसन्निभः । समहेषत सम्मुखं प्रभो- रशनिध्वानभयानकध्वनिः ॥ ९-१३॥ कुलिशोपमदन्तपङ्क्तिकं कुटिलप्रेक्षितजातविद्युतम् । खुरखण्डितभूमिमण्डलं ज्वलदङ्गस्फुटविष्फुलिङ्गकम् ॥ ९-१४॥ बडबामुखवह्निदारुणं विपुलावर्तविशेषचित्रितम् । धृतसिन्धुतरङ्गताण्डवं मुखनिष्कासितफेनसम्प्लवम् ॥ ९-१५॥ क्षितिभेदकृतक्षणैः खुरैः पटुधीरध्वनिनिर्जिताम्बुदैः । विदधानमशेषघातिनः शमनस्येव मृदङ्गवादनम् ॥ ९-१६॥ धृतवालधिधूमसंहतिं चटुलोल्काशतचण्डकेसरम् । ग्रसितुं क्षममम्बुधीन् क्षणात् अनुकल्पाश्रितकल्प(चण्ड)पावकम् ॥ ९-१७॥ गरुडानिलचित्तरंहसं गतदूरान्तिकमक्रमैः क्रमैः । मुहुरुत्प्लुतिभिन्नभास्करं निबिडास्यूतपयोदकेसरम् ॥ ९-१८॥ भ्रमणे कृतसालमण्डलं क्रमणे दिक्षु विदिक्षु च स्थितम् । नटवृत्तिमिवाशुनर्तने कलिताकाशमिवाङ्गधूनने ॥ ९-१९॥ मधुजिद्वहनक्षमात्मना दरनिर्भुग्नफणेन भोगिना । मुहुरुन्नमितामयत्नतो नमयन्तं निजभारतः क्षितिम् ॥ ९-२०॥ अचलक्षितिसन्धिभेदनै- रनिलस्कन्धविभागभञ्जकैः । बधिरीकृतनिर्जरश्रुतिं बहुभिः सम्भ्रमहेषितोर्मिभिः ॥ ९-२१॥ द्विरदायुतसारदुर्दमं द्रुतविद्रावितदिङ्मतङ्गजम् । असुरादिभिरप्यनास्थितं सुरसेनापरभागदर्शिनम् ॥ ९-२२॥ प्रतिकायमिवासुरश्रियः प्रथमाकल्पमिवान्तकभ्रुवः । परिवर्तमिवामरश्रियः प्रतिघस्येव महोत्सवं नवम् ॥ ९-२३॥ उपमानमिवात्मनः स्वयं प्रतिमानेऽपि समे समत्सरम् । अवलेपमिवाऽऽत्तविग्रहं द्विषदुत्पातमिव द्रुतोदितम् ॥ ९-२४॥ अचमत्कृतपञ्चवक्त्रकं कृतमन्यैरिह दुष्टसत्त्वकैः । अपसर्पितगोकुलं भयात् अभिलीनस्थलगोपयूथपम् ॥ ९-२५॥ अवमत्य तुरङ्गदानवं शमयन् गोपगणस्य साध्वसम् । प्रजहास हरिः प्रतिद्रवन् प्रसभास्फोटितभावितोद्यमः ॥ ९-२६॥ विवृतायतवक्त्रकन्दरं प्रतिधावन्तमिवान्तकं प्रभुः । भुजसानुमतः प्रवेशना- दगमं वज्र इव व्यदारयत् ॥ ९-२७॥ क्रकचक्षतदारुभेदवत् समपादाक्षिललाटनासिके । ददतुः क्षितिकम्पमाघ्नती शकले सैन्धवदानवस्य ते ॥ ९-२८॥ विशरारुभिरस्य विश्वतः कलधौताचलखण्डपाण्डरैः । वितता पृथिवी विदिद्युते विबुधप्रीतिलताङ्कुरैरिव ॥ ९-२९॥ तदनाधि विभूतिबन्धुरं विगतव्याधि कुलं व्रजौकसाम् । दमितारिगणेन दीव्यता यदुनाथेन सनाथतां ययौ ॥ ९-३०॥ त्वरितं च तदा श्वफल्कजः स्वहितं कंसनियोगमास्थितः । दनुजान्तकदर्शनोत्सवस्थिर- सम्प्रीतिरिति व्यचिन्तयत् ॥ ९-३१॥ अपि नाम निशामयिष्यते निगमान्तैरिव निर्मिता स्थली । रमयिष्यति यत्र मे दृशौ रसभूमा(रमणीयमातृका)॥ ९-३२॥ भवदुर्गतदिव्यभेषजैः प्रचितां तत्पदपद्मरेणुभिः । प्रणिपत्य शुभां वनस्थलीं परिपूतो भविताऽह(य)मप्युत परिपूतो भवितास्म्युताप्यहम् ॥ ९-३३॥ रसमप्रतिमं रसायनं रमया च क्षमया च सेवितम् । नयने मम किं नु पास्यतो नरकातङ्कनिदानभेदनम् ॥ ९-३४॥ अपि शङ्खरथाङ्गतोरण- ध्वजवज्राङ्कुशमत्स्यलाञ्छनम् । विनिवेशयताद्विभुः स मे विनते मूर्धनि पादपङ्कजम् ॥ ९-३५॥ यदुवंशमसौ सभाजयन् बहुमानेन विहारजेन माम् । भुजपञ्जरमध्ययन्त्रितः पुलकोद्भासितनुं विधास्यति ॥ ९-३६॥ श्रुतिसौरभसौम्यया गिरा सुधयेवैष मुखेन्दुसूतया । शमयेदपि नाम सञ्ज्वरं पुरुषः पुष्करलोचनो मम ॥ ९-३७॥ अहमस्मि तवेति वादिनं प्रणयस्मेरमुखः प्रसन्नधीः । विदितेतरवर्जितोऽप्यसौ विभुरक्रूर वदेति वक्ष्यति ॥ ९-३८॥ चिरशीलितसंयमक्रमै- र्यतिभिर्योगदृशा दिदृक्षितम् । निधिमद्भुतमुज्झितावधिं परिपश्येयमहं प्रसङ्गतः ॥ ९-३९॥ स दृशा सदृशान्तरोज्झितः सुमुखः स्वागतवाक्यगर्भया । कलुषं किमपह्नुवीत मे करुणासिन्धुसुधोर्मिकल्पया ॥ ९-४०॥ व्यथितं वृजिनेन धन्वना विषयाशीविषमोहितं च माम् । अपि जीवयिता पतिः सता- ममृतासारनिभैरवेक्षणैः ॥ ९-४१॥ अलमत्र पृथग्विधैः फलै- रवशादध्वनि विन्दतो मम । वसुधावसुदेवदेवकी- तपसामेकमिदं महत् फलम् ॥ ९-४२॥ मदखेलगती महाबलौ मधुरालङ्करणं विधित्सतः । व्रजयूथपती वशानुगौ भवितारौ मम भागधेयतः ॥ ९-४३॥ किमकुर्वत पुण्यमग्रिमं महितास्ते मधुरानिवासिनः । कृपयोपगतौ निरीक्षितुं कृतिनः कृष्णहलायुधावुभौ ॥ ९-४४॥ रमया क्षमया च माधवो रममाणः प्रतिगम्य तां पुरीम् । अपि चर्मदृशोऽपि मादृशान् अविसंवादयिता स्ववैभवे ॥ ९-४५॥ अवरुद्धभुजान्तरः श्रिया विदधानो वसुधाकरग्रहम् । अभिषेकमुपेयिवानसौ किमु नाथो भविता कुलस्य नः ॥ ९-४६॥ असहिष्णुरसह्यविक्रम- स्त्रिजगत्क्षोभकृदुग्रसेनजः । बलवान् बलभद्रकृष्णयो- र्हतधीर्हन्त किमाचरिष्यति ॥ ९-४७॥ अकठोरशिरीषकोमलैः कथमङ्गैः प्रतियोत्स्यते हरिः । कुलशैलकुलीनमुष्टिभिः कुटिलैः संयति मुष्टिकादिभिः ॥ ९-४८॥ उदयास्तमहीधरस्तनीं चतुरम्भोनिधिमेखलां भुवम् । उपभोक्ष्यत एष कंसजि- न्न हि दुःसाधमचिन्त्यतेजसः ॥ ९-४९॥ इति सम्मतसत्त्वसारथौ महितस्थेम्नि मनोरथे स्थितः । हरिपादरजःपवित्रितं व्रजमासाद्य रथादवातरत् ॥ ९-५०॥ नवनीतमुखैरुपायनै- रथ नन्दप्रमुखप्रकल्पितैः । उचितामभिनन्द्य सत्क्रिया- मभितस्तान् अगवेषयत् प्रभुम् ॥ ९-५१॥ स ददर्श गवामनुप्लवं मुदितं केशिवधेन केशवम् । गतिमप्रतिघाध्वयायिनां गरुडच्छत्रनिवारितातपम् ॥ ९-५२॥ घनसंवृतनारदस्तुतं निगमाघ्रातनिजाङ्घ्रिसौरभम् । तरुणारुणताम्रवाससं शुभ-तापिञ्छतुलाधरद्युतिम् ॥ ९-५३॥ अभिलक्ष्यमनुश्रवेक्षणै- रविपर्यस्तहिताहितक्रमैः । परिभूषितबर्हभूषणं कमलाकौस्तुभनित्यभूषितम् ॥ ९-५४॥ अतिसूर्यसुधांशुतेजसं समहानेरुपमेयमात्मना । निबिडाद्भुतराशिमक्षयं निगमानामपि नित्यनूतनम् ॥ ९-५५॥ उपवीणयतस्तमर्भकान् उपगातॄन् उपनृत्यतश्च सः । तदवस्थतदर्हभूमिकान् यमिनोऽनन्यमतीन् अमन्यत ॥ ९-५६॥ शुभतर्णकशोभितान्तिकाः सविधे तस्य च धेनुविग्रहाः । अनघाङ्गवतीरमन्यत श्वसितैरस्य समुत्थिताः श्रुतीः ॥ ९-५७॥ प्रणुनाव च भक्तिसन्नतः प्रणिधानेन विना समीक्षितम् । हरिमद्भुतगोपखेलनं श्रि(श‍ृ)तसर्वातिथिमागतोऽतिथिः ॥ ९-५८॥ दुरितग्रहयोगदुःखितं त्रिगुणग्रन्थिनिबन्धनिघ्नितम् । पतितं निजपादपङ्कजे परिगृह्णीष्व घृणानिधान माम् ॥ ९-५९॥ स्वपदप्लवमाश्रितान् जनान् नयसे पारमपारवैभवः । अतिवेलमहोर्मिसङ्कुले कलुषोदन्वति कर्णधारितः ॥ ९-६०॥ रमया सह राजहंसवत् परमं धाम विभूषयन् भवान् । प्रणिधानवतामपङ्किले पदमेतन्निदधाति मानसे ॥ ९-६१॥ अतिरोधिरसौ निधिः श्रुते- रनिमेषव्रतदेशिनी दृशोः । तनुते तनुरीश तावकी स्मरणं विस्मरणं च दुःशकम् ॥ ९-६२॥ व्यपदिश्य मुकुन्द देवकीं विहरन्त्या वसुदेवमन्दिरे । जनितोऽसि निजानुकम्पया जगतीरक्षणजागरूकधीः ॥ ९-६३॥ भवतो भवनाटिकां विदन् विभवाडम्बरिणां विडम्बिनीम् । अनपायपदाधिरोप(ह)णा- दपवृत्तो(क्तो)न पुनर्निवर्तते ॥ ९-६४॥ सुधियस्तव गोपभूमिकां सुभगां कौतुकसूतिकां धियाम् । अनुविद्य गताग्र्यभूमिका- मधिविन्देयुरनश्वरीं श्रियम् ॥ ९-६५॥ दुरितानि भजन्ति सङ्क्षयं तपनेनेव तमांसि दीव्यता । हृदयानि च योगिनां त्वया कुमुदानीव विकासमिन्दुना ॥ ९-६६॥ गुणतश्च विभूतितश्च ते क्वचिदंशेऽपि समाधिकत्यजः । उपमानकलाविकल्पितै- रुपलक्ष्येत जगत्प्रधानता ॥ ९-६७॥ महिमार्णववर्णनोद्यताः परिमातुं गुणमेकमक्षमाः । त्रपयेव भजन्त्यसीमनि त्वयि वाचंयमतामनुश्रवाः ॥ ९-६८॥ तव विश्वविदो वदामि किं जगदेकाधिपतेर्दिशामि किम् । कृपणः परिपूर्णसम्पदः कमिवांशं परिपूरयाम्यहम् ॥ ९-६९॥ प्रकृते किमनेन तत् प्रभो भवदाविर्भवनस्थलीं पुनः । पदपद्मरजःपवित्रितां विदधानो जहि नाथ विद्विषः ॥ ९-७०॥ बहुशाखविजृम्भणो महान् अवदातेन सुगन्धिनाऽद्य नः । यशसा भवतु प्रसूनवान् यदुसन्तानमहीरुहस्तव ॥ ९-७१॥ त्वरते रिपुरागतौ तव स्वयमेवावसरं समर्पयन् । नतरक्षणकिंवदन्त्यसौ न विलोपं भुवि यातु तावकी ॥ ९-७२॥ स्वयमेव समेयुषां वधे विमतानां क्षितिभारजन्मनाम् । मृगयामिव भावयन्त्यसौ महती सम्पदुपस्थिताऽद्य ते ॥ ९-७३॥ शतकोटिसहस्रसारवान् मथनं प्राप्स्यति मातुलस्त्वया । व्यसनं विपदप्यनेहसा विनिपातश्च न कस्य कर्मिणः ॥ ९-७४॥ अभिसंहितमौग्रसेनिना कथितं च क्रमशो व्यजिज्ञपत् । कुलजः कुटिलाशयोज्झितः कुशलं पृष्टवते मधुद्विषे ॥ ९-७५॥ अपरेद्युरशेषतो नयन् सहसा गोपगणान् स यादवः । स्थितमध्वनि रामकेशवौ रथमारोपयदग्र्यरंहसम् ॥ ९-७६॥ व्रजतोरथ वल्लवस्त्रियो बलभद्रस्य जनार्दनस्य च । अनुदुद्रुवुराशु वर्तनीं कुररीकूजितसूचकस्वनाः ॥ ९-७७॥ व्यलपन्निति बाष्पगद्गदं विरहारम्भविषादविह्वलाः । वलयैः प्रियवर्त्मपातिभिः क्षतपुष्पा इव घर्मवीरुधः ॥ ९-७८॥ अपयाति सहाग्रजन्मना सहसा नन्दसुतो विहाय नः । अनुयाम निवारयाम वा कथमस्माभिरुदास्यते मुधा ॥ ९-७९॥ श्रुतिषु ज्वलनं वमत्यसा- वदवीयोरथचक्रचीत्कृतिः । द्रुतमेत्य पतेम तत्पदे गुरुभर्त्रादिषु मुक्तगौरवाः ॥ ९-८०॥ प्रगुणत्वमिव व्रजस्त्रिय- श्चलसम्बन्धिनि नन्दनन्दने । मुदिरध्वनितां विजानते शिखिनस्तद्रथनेमिनिःस्वने ॥ ९-८१॥ अयमुद्धृतगोकुलेक्षणः कथमक्रूर इति प्रजल्प्यते । अथ वा भुवनेषु दारुणाः प्रथिताः पुण्यजना निशाचराः ॥ ९-८२॥ बडिशामिषवत्प्रयुक्तया रिपुरक्रूरसमाख्ययाऽन्वितः । विभवं हरति व्रजौकसां किमिहोच्येत वदेम कस्य वा ॥ ९-८३॥ अवतारवराहरूपिणा हरिणा भूमिरुदञ्चितोदधेः । विरहव्यसनोदधेरितः क इवोदञ्चयितुं क्षमेत नः ॥ ९-८४॥ चिरसङ्घटितोऽपि नः क्षणा- दनुरागो बलभद्रकृष्णयोः । अपयातमहानदीद्वयो भविता शोण इवैष निष्फलः ॥ ९-८५॥ अविकल्पितबाल्ययौवनः प्रणयोऽस्मासु बलानुजन्मनः । विधिना विषमप्रवाहिणा सिकतासेतुरिवैष भिद्यते ॥ ९-८६॥ अमुना शशिनेव कल्पित- श्चिरमस्मासु शरन्नदीष्विव । प्रणयः प्रतिभासजीवितः प्रतिमाचन्द्र इव प्रलीयते ॥ ९-८७॥ अहमस्मि तव त्वमेव वा मम दृष्टिस्त्वमिति प्रलोभयन् । विजहाति स एव वल्लवी- रलमेतावदतः परेण किम् ॥ ९-८८॥ अयमेवमशुल्कदासिकाः स्वपदोपघ्नलताः स्वयं प्रभुः । बहुमत्य जहाति निःस्पृहः कथमालेख्यगता इवाद्य नः ॥ ९-८९॥ निरपेक्ष इवैष नीलया रसिकः पालिकया सराधया । पृथगत्र किमेतदुच्यते कुहकः कश्चिदसौ कुलस्य नः ॥ ९-९०॥ अमृतस्य विषस्य च स्वयं प्रभवस्थानमभूत् पयोनिधिः । नियतं तदनेन दर्शितं निजसंयोगवियोगदायिना ॥ ९-९१॥ मुखचन्द्रिकया मुखानि नः कुमुदानीव विकासमानयन् । कितवो यदुवाच सत्यवत् क्व गतं तत् क्व य तेन गम्यते ॥ ९-९२॥ यमुनापुलिनेषु दीव्यता यदुतानेन वशीकृता वयम् । विफलप्रणयप्रदायिना विधिना हन्त विलोभितास्ततः ॥ ९-९३॥ विजहाति स एष गोकुलं मथुरामाद्रियते मनोरमाम् । भवितव्यतया शुभाशुभे तदिहैवं परिवर्तितास्पदे ॥ ९-९४॥ सहजं हरता महानिधिं विवशानामिव वैरिणेव नः । विहितः सुकृतेन कीदृशा मथुरायोषिदनुग्रहो महान् ॥ ९-९५॥ सहपांसुविहारसम्भृतं जहता स्नेहमनङ्गवर्धितम् । अपि नागरयौवतं क्षणा- दमुना हन्त विलोभयिष्यते ॥ ९-९६॥ नटवत् परिगृह्य मायया नतचिन्तामणिरेष नस्त्यजन् । अनुरूपतमास्वपि ध्रुवं नगरस्त्रीषु न सङ्गमेष्यति ॥ ९-१७॥ निजवंशनिनादतोऽपि यत् स्वदते श्रोत्ररसायनं वचः । निदधीत नृशंसधीरसौ पुरयोषित्स्वपि वागुरामिमाम् ॥ ९-९८॥ इह तावदुपेक्षिता वयं वशिनाऽऽलेख्यप(व)राङ्गना इव । विहरन् विरसेन चेतसा कितवस्तत्र किमाचरिष्यति ॥ ९-९९॥ युवतीरयमिन्दुकान्तयेत् नगरे नन्दकुमारचन्द्रमाः । स्मितचन्द्रिकया यदीयया द्रवतामेति मनःशिलाऽपि नः ॥ ९-१००॥ अपि जह्युरमुष्य दर्शने नवलुब्धा नगरस्त्रियः प्रियान् । सुलभे सुमणौ कथं मतिः क्रमते काचन काचसङ्ग्रहे ॥ ९-१०१॥ ललिताद्भुतलास्यगन्धिषु ध्रुवमङ्गेषु बलानुजन्मनः । नवयौवनरामणीयकं नयनैः पास्यति नागरीजनः ॥ ९-१०२॥ विधिना विषमप्रवृत्तिना व्यपनीतोऽपि कदाचिदागतः । अपि नः पुनरार्द्रयिष्यते मदनप्राणसुहृद्भिरीक्षितैः ॥ ९-१०३॥ इह तत्पदकाङ्क्षिभिः स्तनै- र्नयनैस्तन्मुखपद्मषट्पदैः । श्रवणैश्च तदुक्तिजीवितैरपि जीवेम पुनस्तदादृताः ॥ ९-१०४॥ करुणाभरितैः कदा पुनः स्वयमुल्लाघयिता स एव नः । अपरस्परपातिभिः शनै- रगदङ्कारनिभैरवेक्षणैः ॥ ९-१०५॥ विविधारुणराजिरञ्जिते विशदस्मेरविशालशीतले । किमपि ब्रुवती कृतार्थतां नयने तस्य कदाऽनुनेष्यतः ॥ ९-१०६॥ बधिरत्वमिवागतान्यसौ श्रवणान्यद्य पुनः समेत्य नः । रमयिष्यति चाटुभिः कदा रतिसिन्धोरिव वीचिपङ्क्तिभिः ॥ ९-१०७॥ मदयन् हृदयानि विभ्रमै- रवि(पि)संवादमिवाऽऽचरन् दृशा । अविभागमिवावहन् गुणै- रपि नः प्रत्यवपत्स्यते पुनः ॥ ९-१०८॥ परिवर्तयिता जगत्त्रयी- मपरावृत्तिरनेहसः क्रमः । यदतीतमतीतमेव तत् पुनरेष्यत्यपि पुष्करेक्षणः ॥ ९-१०९॥ अथवा पुरसुन्दरीजनैः सुभगम्भावुकसौम्यवृत्तिभिः । अवशादवरुद्धचेतसः कृतिनः कैव कथा व्रजागमे ॥ ९-११०॥ मथुरापुरमत्तकाशिनीमधुराला पविलोभिताशयः । पुनरेष्यति नन्दनन्दनः किमिवास्मासु विचिन्त्य कारणम् ॥ ९-१११॥ बहुविभ्रमपाशबन्धुरां गुणगृह्यः स्वयमेष दुस्तराम् । अतिलङ्घयितुं न शक्रुयात् नगरस्त्रीजननेत्रवागुराम् ॥ ९-११२॥ न रथः परिदृश्यते महान् न च नेमिस्तनितं निशम्यते । न च रेणुरितो विजृम्भते तदपि भ्रश्यति जीवितं न नः ॥ ९-११३॥ इति वादिनि वल्लवीजने यमुनां सत्वरसूतचोदितः । घटयन् वसुधामनोरथं वशिनस्तस्य रथः क्षणात् ययौ ॥ ९-११४॥ स्वगुणानुभवेन सुभ्रुवां भवभोगोचितपुण्यसञ्चयम् । विरहव्यथया तु तीव्रया वृजिनाम्भोधिमशोषयत् प्रभुः ॥ ९-११५॥ परवन्ति जगन्ति बाधितुं नियतिः किं न करोति निष्ठुरा । विजहौ करुणानिधिः प्रियाः विरहे तस्य च ताभिरास्यत ॥ ९-११६॥ विनिवेश्य रथे सितासितौ वसुदेवस्य सुतौ स यादवः । मणिभङ्गरुचं महापगां दिवमुष्णांशुरिव व्यगाहत ॥ ९-११७॥ अघमर्षणलीनकिल्विषः सलिले मग्नतनुर्ददर्श तौ । भुजगेन्द्रभुजङ्गशायिनौ पुरुषौ किञ्चिदिवान्यलक्षणौ ॥ ९-११८॥ उपसृत्य च तीरमादरात् तदवस्थौ निरवर्णयत् रथे । स्मयमानदृशोस्तयोरसौ निभृतः स्वानुभवं न्यवीविदत् ॥ ९-११९॥ प्रणिधानबहिर्विलोचनैः प्रतिलब्धानुभवः प्रसादयन् । अनिनीषत तावुभौ तदा पुरमारब्धशरासनोत्सवाम् ॥ ९-१२०॥ गजसिंहगती ततश्च तौ गिरितुङ्गेन रथेन तेरतुः । गगनद्रवसन्निभां नदी- मपुनःप्राप्तिभयादिवाऽऽकुलाम् ॥ ९-१२१॥ अथ वियति समेतैः सिद्धगन्धर्वमुख्यै- र्भुवि च भुवनगोपः संस्तुतो गोपवृद्धैः । ललितगतिविहारो रामचन्द्रेण सार्धं रणपरिणतिकाङ्क्षी राजधानीं जगाहे ॥ ९-१२२॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये मधुराप्रत्यागमनं नाम नवमः सर्गः ॥

॥ कंसराज्योद्धारो नाम दशमः सर्गः १०॥

ततस्तौ ददृशुस्तत्र विशन्तौ राजवीथिकाम् । पूर्णदृष्टिफलाः पौराः पुण्यैरेकमुखैरिव ॥ १०-१॥ चक्षुषामिव भाग्येन सम्प्रवृत्तौ महोत्सवौ । युक्तौ मदनशक्त्येव युगपन्मधुमाधवौ ॥ १०-२॥ अभिख्यावीचिविक्षेपैरपृथग्भावचित्रितैः । समेतैरनुभावाद्यैः सक्ताविव रसोत्तमौ ॥ १०-३॥ क्रममुल्लङ्घ्य भूतानां भोगमोक्षाविवोद्गतौ । तयोरेव विनिष्पत्त्यै धर्माविव च तादृशौ ॥ १०-४॥ पुनन्तौ भुवनं पादैः पुष्पवन्ताविवापरौ । सिञ्चन्तौ कान्तिवर्षेण सितकृष्णाविवाम्बुदौ ॥ १०-५॥ मदोपक्रमदुर्दान्तौ मधुरोद्धतविभ्रमौ । कलभाविव सन्नद्धौ कंसादिनलमर्दने ॥ १०-६॥ शुभानामिव सीमन्तैः श्रुतिसीमन्तसेवितैः । पुनन्तौ राजविशिखां पुण्यैश्चरणपङ्कजैः ॥ १०-७॥ शीलसंवृतपारम्यैः श‍ृङ्गारपरिकर्मितैः । दृषदोऽपि द्रवीभावं नयन्तौ दिव्यचेष्टितैः ॥ १०-८॥ दिदृक्षादत्तदृष्टीनां मनस्कारमनीषयोः । सपीतिरससन्तोषं दिशन्तौ देहकान्तितः ॥ १०-९॥ मन्मथायुतसौन्दर्यौ वसन्तायुतसौरभौ । शशाङ्कायुतलावण्यौ चण्डरश्म्ययुतद्युती ॥ १०-१०॥ चित्रतामिव नीतानां चित्तचेष्टापहारतः । प्रतिसौधं पुरस्त्रीणां निर्विशन्तौ निरीक्षणम् ॥ १०-११॥ सुप्रभातमिह प्राप्तं सूषा च सुदिनं च नः । इति वादिभिरन्योन्यं द्रुतचित्तैरनुद्रुतौ ॥ १०-१२॥ बलादपहृतैस्तत्र रजकात् राजसम्मतात् । परभागश्रियं प्राप्तौ वासोभिरसितारुणैः ॥ १०-१३॥ लब्धपुण्यविपाकेन मालाकारेण लम्भितैः । शबलौ दामभिश्चित्रैः सन्दिग्धवनमालिकैः ॥ १०-१४॥ कान्तिनिर्जितया कामात् प्रदिष्टैः कंसकुब्जया । दधतौ वर्णकैर्भूयो दिव्यगन्धौ सुगन्धिताम् ॥ १०-१५॥ ऋजूकृतसुजाताङ्ग्या ऋजुबुद्ध्याऽथ कुब्जया । प्रणयन्त्या स्वगेहाप्तिं प्राप्तमन्दस्मितौ मिथः ॥ १०-१६॥ ततो विविशतुः शालां बलिसद्मगुहामिव । प्रथितां पृथुभिश्चापैः पन्नगैरिव भीषणैः ॥ १०-१७॥ तत्र शैलनिभं शौरिस्त्रिदशैरपि दुर्दमम् । ददर्शाजगवप्रख्यं दम्भोलिकठिनं धनुः ॥ १०-१८॥ स्वपूर्वप्रभवोदन्तमिदानीन्तनयन्निव । तदानम्य धनुर्भीमं बभञ्ज भुजलीलया ॥ १०-१९॥ महता तस्य घोषेण विदद्रे द्विषतां मनः । सौधानि मधुरायाश्च शुष्काशनिविडम्बिना ॥ १०-२०॥ चापगोपचमूं हत्वा तौ जगद्धितमानुषौ । अतिलङ्घ्य धनुःशालां रङ्गद्वारमवापतुः ॥ १०-२१॥ तत्र मृत्युमिव क्रुद्धं निदध्यतुररिन्दमौ । नागं कुवलयापीडं निह्नुवानमिवाम्बरम् ॥ १०-२२॥ तमासाद्य द्रुतं शौरिस्त्रासितत्रिदशद्विपम् । पञ्चवक्त्र इवाक्रम्य पातयामास भूतले ॥ १०-२३॥ तस्य दन्तौ समुद्धृत्य श्वेताद्रिशिखरोपमौ । विदधाते यदुश्रेष्ठौ मल्लयुद्धमहायुधे ॥ १०-२४॥ सह गोपैरधिष्ठाय रङ्गमध्यमरिन्दमौ । बलिजित् बलभद्रश्च बालवृत्तैरदीव्यताम् ॥ १०-२५॥ नृपोपहूतैरथ तौ विहारैक्यमवापतुः । नर्मकारक-जल्पाक-नट-वर्तक-गायकैः ॥ १०-२६॥ जनस्य महतस्तत्र जनयामासतुस्तदा । महता कान्तिवर्षेण दिदृक्षां देवमातृकाम् ॥ १०-२७॥ उपवेदमधीयुर्ये रणार्थं रङ्गदर्शिनः । तमेव ते द्विधाभूतं तावुभावभिमेनिरे ॥ १०-२८॥ तदालोकनलाभेन सामाजिकजनस्तदा । अनिदम्पूर्वमाह्लादमपवृक्त इवान्वभूत् ॥ १०-२९॥ बिम्बिताकृतयो नार्यस्तद्देहमणिदर्पणे । तत्परिष्वङ्गनिर्वेशमयत्नादिव लेभिरे ॥ १०-३०॥ गीतमञ्जुगिरस्तत्र नृत्तसंवादिविभ्रमाः । मञ्चेषु हरिरद्राक्षीत् वरस्त्रीर्मदिरेक्षणाः ॥ १०-३१॥ धृतहेतिपरिष्कारान् धीरोद्धतविलोकितान् । ददर्श पृथिवीपालान् देवानिव दिवश्च्युतान् ॥ १०-३२॥ तमसामिव सङ्घातं समाहारमिवैनसाम् । तुङ्गमञ्चगतं कंसं तुष्टो हरिरवैक्षत ॥ १०-३३॥ ललितारम्भया वृत्त्या रङ्गभाजां रसावहा । नरवृत्तान्तविहृतिर्ववृधे रामकृष्णयोः ॥ १०-३४॥ विदधे सिंहनादेन तारेण यदुसिंहयोः । गर्जितं दैत्यमल्लानां गोमायुगणवाशितम् ॥ १०-३५॥ तावुभौ डिम्भवपुषौ ख्यातवीर्यपराक्रमौ । चाणूरो मुष्टिकश्च द्वौ नियोद्धुमभिजग्मतुः ॥ १०-३६॥ अहो महदुपक्रान्तमत्याहितमिदं यतः । अशिक्षितरणौ बालौ मल्लयुद्धे नियोजितौ ॥ १०-३७॥ शिरीषललितैरङ्गैश्चेष्टितैरपि पेशलैः । अद्रिसारकठोराभ्यां कथं योद्धुमिमौ स्थितौ ॥ १०-३८॥ पश्यद्भिरवशैर्नूनं पौरजानपदैर्जनैः । पापमेतदनुज्ञातं परपिण्डपरायणैः ॥ १०-३९॥ मधुकैटभदुर्दान्तौ मल्लवृन्दारकाविमौ । यदि जेष्यति यः कश्चित् स किं न पुरुषोत्तमः ॥ १०-४०॥ अथवा पूतनादीनामप्रयत्नेन घातुकौ । नि(न)युद्धे मल्लमुख्येभ्यो नालमेतौ न वा कथम् ॥ १०-४१॥ जनवादमिमं श‍ृण्वन् जातहासो जनार्दनः । भुजमास्फोटयामास भूभारहरणे क्षमम् ॥ १०-४२॥ तदास्फोटितशब्देन स्फटत्कर्णस्य भूयसा । कंसमल्लगणस्याऽऽसीत् कथा गोपालकाश्रया ॥ १०-४३॥ गोपयुद्धधिया जिहृच्चाणूरः कूणितेक्षणः । पुष्पपेषमिवोत्पश्यन् आद्रवत् पुष्करेक्षणम् ॥ १०-४४॥ यथोचे विषमं तत्र नियुद्धं स्थूलदृष्टिभिः । तत्त्वदृष्टिभिरप्येवं विश्वाधिकबले हरौ ॥ १०-४५॥ न्यूनाधिकसमारम्भो विभुस्तत्र विहारतः । विषादप्रीतिसन्देहान् सभ्यानां समतानयत् ॥ १०-४६॥ स बालः प्रचयं प्राप बालातप इव क्रमात् । नीहार इव चाणूरः शनैरपचयं ययौ ॥ १०-४७॥ वारितेष्वथ वाद्येषु विषण्णेन महीभृता । दिव्यदुन्दुभयो नेदुर्निगमध्वाननिर्भराः ॥ १०-४८॥ वल्गता बलभद्रेण कृष्णेन च वसुन्धरा । वादित्रमिव दध्वान मधुरेन्द्रभयानकम् ॥ १०-४९॥ भीमकालियभोगीन्द्रस्फटारङ्गमहानटः । मल्लरङ्गनटं दैत्यं मधुमाथं ममाथ(न्थ)सः ॥ १०-५०॥ मुष्टिघातेन रामस्य मुष्टिकश्च निपातितः । भोजाधिपमहोत्पातं भूमिकम्पमवर्तयत् ॥ १०-५१॥ रामरामानुजाभ्यां तौ रावणेन्द्रजिताविव । नमयामासतुः पृथ्वीं नगपातं निपातितौ ॥ १०-५२॥ शायितौ वीरशयने दृष्ट्वा चाणूरमुष्टिकौ । द्रुतमभ्यद्रवन् कृष्णं तत्र तोसकला(तोसलका)दयः ॥ १०-५३॥ स तानपि नियुद्धेन वसुधायां न्यपातयत् । कालो युगपदुद्भूतान् कल्पान्तमिहिरानिव ॥ १०-५४॥ गरुत्मानिव भूभागात् गगनाभोगमायतम् । कंसमञ्चमपद्वारादुदप्लवत केशवः ॥ १०-५५॥ कचग्रहेण विवशं कंसमाकृष्य पातयन् । पतन् वक्षःस्थले तस्य तत्सत्त्वमुदपाटयत् ॥ १०-५६॥ महामोहमिवाक्रम्य मातुलं मधुसूदनः । विवेक इव वृत्तस्थमुग्रसेनममोचयत् ॥ १०-५७॥ ददौ च कंसभृत्यानां ददतां तत्र जीवितम् । उन्मुखत्रिदशप्रेक्ष्यामूर्ध्वां गतिमनुत्तमाम् ॥ १०-५८॥ कंसकर्षणमण्डल्यो गम्भीरास्तत्र चिक्यिरे । रणलक्ष्मीनिवासस्य रङ्गस्य परिखा इव ॥ १०-५९॥ सुदामनामा कंसस्य सोदरस्त्वरितः क्रुधा । बलेन गमितः क्षिप्रमग्रजेन गतां गतिम् ॥ १०-६०॥ अनायुधमहायुद्धं दृष्ट्वा हृषितरोमभिः । प्रवातकदलप्रख्यैः प्राश्निकैरभितः स्थितम् ॥ १०-६१॥ कृतिनस्तादृशं युद्धं किलिकिञ्चितयन्त्रिताः । लीना इव च पश्यन्तो लिखिता इव चाभवन् ॥ १०-६२॥ सिद्धाश्च दिवि तत्तादृक्तालकल्पितताण्डवाः । हर्षदुग्धाब्धिकल्लोलं हाहाकारमकल्पयन् ॥ १०-६३॥ अथ तौ भीमदोर्दण्डकण्डूकर्षणतोषितौ । पितृभ्यां दृष्टजन्याभ्यामुपसृत्य प्रणेमतुः ॥ १०-६४॥ तौ च तौ मृदितारातिरक्तचन्दनरञ्जतौ । अश्रुभिः प्रीतिनिष्यन्दैः पितरावभ्यषिञ्चताम् ॥ १०-६५॥ विबुधत्वमिव प्राप्तो वसुदेवः सुतेक्षणात् । सतत्त्वप्रतिबोधेन सात्त्वतां पतिमस्तुत ॥ १०-६६॥ नमस्ते नाभिनालीकरजसा सृष्टवेधसे । अजाय सर्ववेदानामेकवेद्याय विष्णवे ॥ १०-६७॥ अनन्याधारमाधारमनन्येश्वरमीश्वरम् । अनुश‍ृण्वन्ति सन्तस्त्वामनन्याधिपतिं पतिम् ॥ १०-६८॥ अभङ्गुररसं भोग्यमनपायं रसायनम् । अक्षयं धर्मसर्वस्वमविदुस्तव कीर्तन्नम् ॥ १०-६९॥ अनुग्रहदशादीप्तमशेषार्थप्रकाशकम् । दयासम्प्लुतमाहुस्त्वां दीपमन्तस्तमोपहम् ॥ १०-७०॥ देवकी दनुजस्थूणा दिव्यं धाम व्रजाङ्गणम् । रमा राधादयश्चेति राशिभेदैर्न भिद्यसे ॥ १०-७१॥ नियन्ता सर्वभूतानां नियन्तव्यैर्नियम्यसे । पितामहमुखैः पुत्री मम पुत्रोऽसि मायया ॥ १०-७२॥ महता त्वत्पदेनैव मारुतिन्यायमाश्रिताः । निस्तरन्त्यचिरात् सन्तो दुस्तरं भवसागरम् ॥ १०-७३॥ अहितोदन्वदौर्वाग्निमशेषोत्कर्षमातरम् । भवभैमरथीं भक्तिं भजन्ति त्वयि साधवः ॥ १०-७४॥ भरन्यासाश्वयुक्तेन भाववेगप्रधाविना । मनोरथेन गन्तव्यः सारथिश्च भवान् सताम् ॥ १०-७५॥ वयं तु भवता ग्राह्या वासनादुर्गभेदिना । मनागिव समुद्बोध्य मा पुनर्मूमुहद्भवान् ॥ १०-७६॥ महतामपि निष्कम्पा मनुष्यत्वमतिस्त्वयि । दृढलक्षितचिह्नानां दिङ्मोह इव दुर्दमः ॥ १०-७७॥ दुरन्तसुखखद्योतं दुःखान्धतमसावृतम् । निजेनैव प्रकाशेन निशीथमुपरुन्द्धि नः ॥ १०-७८॥ मशकानिव मातङ्गः कंसमुख्यान् इमान् क्षिपन् । यदि विस्मयनीयस्त्वं विस्मये किं न विस्मयः ॥ १०-७९॥ नखलीलाविदार्येषु नाथेषु विबुधद्विषाम् । परिष्करणपर्यायाः पञ्चापि तव हेतयः ॥ १०-८०॥ कालनेमिविकारेऽस्मिन् कंसे विमथिते त्वया । ईदृशामितरेषां च दत्त एव जलाञ्जलिः ॥ १०-८१॥ नमितायतविष्कम्भा दानवप्रभवैः क्षमा । किञ्चिदुत्तम्भितेवाद्य कंसभारापहारतः ॥ १०-८२॥ न खल्वतिशयं कञ्चिदियमाधातुमर्हति । सुमणावज्ञक्लृप्तेव स्तुतिरस्मत्कृता त्वयि ॥ १०-८३॥ इति विज्ञापितस्तेन व्रीडादिव नतो विभुः । बालोपलालनमिदं भव्यवृत्तिरभावयत् ॥ १०-८४॥ स वाचा सान्त्वयामास पितरं दीनचेतसम् । स्ववक्त्रेन्दुविनिष्यन्दिसुधापूरितकुल्यया ॥ १०-८५॥ गम्भीरमधुरां तस्य गिरं निगमगन्धिनीम् । श्रुत्वा मुक्तिसखीं प्राप मुदमानकदुन्दुभिः ॥ १०-८६॥ देवकी च परिष्वज्य सुतं वात्सल्यनिर्भरा । नन्दगोपवधूलब्धं नवमानन्दमन्वभूत् ॥ १०-८७॥ भूयः प्रादुरभूत्तस्य भुजयुग्मं तिरोहितम् । तथापि तादृशं मर्त्यं तममन्यन्त तामसाः ॥ १०-८८॥ बभूव बलभद्रस्य तेन विश्वातिशायिना । शिरसा विधृतस्यापि किरीटस्येव शेषता ॥ १०-८९॥ क्रियमाणपरिष्कारः किरीटाद्यैः स बन्धुरैः । तानि तान्येव दिव्यानि तत्तदङ्गैरभूषयत् ॥ १०-९०॥ अशोभत शुभं छत्रं तस्य राजन्यलक्षणम् । तन्नाभिपुण्डरीकस्य रूपान्तरमिवोदितम् ॥ १०-९१॥ चामरद्वितयं शौरेः समया मुखपङ्कजम् । शुशुभे सप्रतिच्छन्दो हंसमूर्तिरिव स्वयम् ॥ १०-९२॥ स चन्द्र इव सम्पूर्णः प्रथमो यदुभूभृताम् । पुनरुन्निद्रयामास कीर्न्ति कुमुदिनीमिव ॥ १०-९३॥ अभजन्त द्विजेन्द्रास्तमतद्भोगपराङ्मुखाः । सर्गाधिकारान्निर्विद्य(र्वाप्य)शान्ता इव पितामहाः ॥ १०-९४॥ अहार्यान् यदुवंशस्य स भोगान् समकल्पयत् । स्वपर्यङ्कभुजङ्गस्य फणामणिगणानिव ॥ १०-९५॥ अमरत्वाय पर्याप्तं तन्मुखेन्दुसमुद्भम् । सुधेव परिवारेभ्यः सस्वदे सूनृतं वचः ॥ १०-९६॥ प्रार्थितोऽपि स राज्याय प्रभावज्ञैर्यदूत्तमैः । अरोचयत राजानमुग्रसेनं वयोधिकम् ॥ १०-९७॥ न्यस्तरक्षाभरो राज्ञा यौवराज्यमुपाश्रितः । शुशुभे पारतन्त्र्येण स्वातन्त्र्यवशवर्तिना ॥ १०-९८॥ तस्य गोपायतः पृथ्वीं गोपालकुहनात्यजः । पर्युपास्त पदं धन्या पर्थिवश्रीरनुत्तमा ॥ १०-९९॥ कृतवीराभिषेकं तं क्लप्तकल्याणकौतुकम् । तुष्टुवुः समये वेदाः सौस्नातिकपुरस्कृताः ॥ १०-१००॥ शक्तिभिस्तिसृभिर्दीप्तो विवस्वानिव दिप्तिभिः(घृष्टिभिः)। स्वपदं पृथिवीं चक्रे सुहृद्भिः सूरिभिर्वृतः ॥ १०-१०१॥ विक्लृप्तं तस्य बर्हाद्यं हेमरत्नविभूषणैः । वैरोचनिहृतानीतः किरीटो न व्यकल्पत ॥ १०-१०२॥ सप्तिभिः सैन्यसुग्रीवमेघपुष्पवलाहकैः । व्यक्तिमन्तोऽभवन् वेदास्त्यजन्तो धेनुभूमिकाम् ॥ १०-१०३॥ पद्माकमलदायादं पदं तस्य स्वमौलिभिः । श्रुतयो धारयामासुः पादपीठीकृतात्मभिः ॥ १०-१०४॥ स वेणुः शङ्खरूपेण प्राचा परिपचेलिमः । अगोपीसंविभागार्हं पपौ तस्याधरामृतम् ॥ १०-१०५॥ दिदेश सान्दीपनये धनुर्वेदोपदेशिने । स्वपदारूढतनयप्रत्यानयनदक्षिणाम् ॥ १०-१०६॥ प्रहितां पुरुहूतेन स्वसङ्कल्पानुवर्तिना । कंसजित् कंसपितरं सुधर्मामध्यवासयत् ॥ १०-१०७॥ अशेषरत्नचित्रां तामतीतस्तुतिगोचराम् । अद्वैतमिव सर्वेषामद्भुतानाममन्यत ॥ १०-१०८॥ स च तस्यानुभावेन निध्यातनयपद्धतिः । प्रजापालनधर्मस्य पारदृश्वतमोऽभवत् ॥ १०-१०९॥ कृष्णपक्षमपि प्राप्य स राजा विश्वरञ्जकः । प्रापद्यत परां वृद्धिं सुमनःस्वादनक्षमाम् ॥ १०-११०॥ मलिनैः सततासारैर्मन्त्रिभिश्चपलान्वितैः । विमुक्तः स बभौ भास्वान् मेघैरिव जडा(ला)श्रयैः ॥ १०-१११॥ प्रचितं बहुभिस्तीर्थैस्तस्य गूढं चिकीर्षितम् । ,सारस्वतमिव स्रोतः स्थाने स्थाने व्यजृम्भत ॥ १०-११२॥ मानसंरक्षकस्तस्य मन्त्रस्तर्क इवानयः(घः)। अङ्गपञ्चकसम्पत्त्या विपक्षे दण्डतां ययौ ॥ १०-११३॥ स्वतः शुद्धां यथास्थानं रोषरागवतीं धियम् । स दधे यमुनाशोणशबलामिव जाह्नवीम् ॥ १०-११४॥ सप्तभिः सामदानाद्यैरुपायैः स्थानपातिभिः । द्विनवद्वीपसम्भूतं रत्नजातमजीहरत् ॥ १०-११५॥ अनुगन्ता स्वनेतॄणामुदये विश्वरञ्जकः । दूरीकृततमाः सोऽभूत् द्वितीय इव भानुमान् ॥ १०-११६॥ सञ्चितस्य धनौघस्य स्थानसञ्चारणेन सः । तटाकस्येव पूर्णस्य परीवाहमकल्पयत् ॥ १०-११७॥ आसागरान्तमवमत्य महीपतीन्द्रान् भूम्ना निजेन परिहृत्य ययातिशापम् । ओजोनिरोधकमिलाश्रयमुग्रसेनं राजानमेकमकरोज्जगदेकनाथः ॥ १०-११८॥ क्षिप्तावद्यं क्षत्रियवृत्त्या बहुशाखं मग्नं शापोदन्वति मान्यं यदुवंशम् । इच्छाधीनस्वेतरसर्वः स्वमहिम्ना रक्षागोपो रामयवीयान् उदहार्षीत् ॥ १०-११९॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये कंसराज्योद्धारो नाम दशमः सर्गः

॥ द्वारकाधिष्ठानं नाम एकादशः सर्गः ११॥

तदद्भुतं क्रीडितकं क्रमेण श्रुत्वा(श्रोतॄन्)हरेरप्रतिमानशक्तेः । महाबलान् कंसवधादिजन्मा मन्युः प्रपेदे मगधेन्द्रमुख्यान् ॥ ११-१॥ गोपालडिम्भो नरपालहन्ता कुले यदोरञ्चितमातपत्रम् । अन्यच्च भूम्यामधरोत्तरत्वं हन्तेति वादान् प्रभुरभ्यनन्दत् ॥ ११-२॥ हलादिभिर्हेतिवरैर्यथार्हं रथाङ्गमुख्यैरपि रामकृष्णौ । स्ववृत्तियोग्यावसरोपयातैः प्राचीं श्रियं प्रादुरभावयेताम् ॥ ११-३॥ स दैत्यजित् वध्यवरूथिनीनां सम्प्रापकं सारथिमात्रशेषम् । पुनः प्रवृत्तानुशयं पुरीं स्वां निन्ये जरासन्धं अहार्यसन्धः ॥ ११-४॥ समाहृतैः सैन्यमहासमुद्रै- रायातमष्टादश साम्परायान् । देहावशेषं प्रजिघाय दीनं देहेन भीमेन विभेत्तुमिच्छन् ॥ ११-५॥ स्वदत्तशक्त्या मुचुकुन्ददृष्ट्या भस्मावशेषो भविता द्रुतं यः । कलेरिवात्मानमनन्तदोषं यं कालपूर्वं यवनं प्रचख्युः ॥ ११-६॥ बलस्य च स्वस्य च बाहुभूम्ना यदाहृतम्लेच्छमृगाधिपानाम् । सहस्रकोटीगुणितं सहस्रं पञ्चत्वमायास्यति पञ्चसङ्ख्यम् ॥ ११-७॥ तदागमे यादवपुङ्गवानां विप्रावमानोपनतं विषादम् । निवारयामास न वासुदेवः प्रख्यापयन् ब्राह्ममृषेः प्रभावम् ॥ ११-८॥ निसर्गनिध्येयपरावरः सः सम्मन्त्र्य सार्धं यदुवंशवृद्धैः । विहातुमिच्छन् मधुरां शुभंयुः सङ्कल्पयामास पुरीं तदन्याम् ॥ ११-९॥ स्वयं प्रवृत्तैरपि वृष्णिवीरै- स्त्रातुं क्षमां त्रासितदैत्यलोकः । अनन्यसाधारणशक्तिरन्यां सङ्कल्पयामास पुरीमपूर्वाम् ॥ ११-१०॥ जहौ धरित्रीमिव जामदग्न्यः(ग्नः) कौलीमयोध्यामिव कोसलेन्द्रः । अचिन्त्यवृत्तिर्मधुरामनिन्द्यां तज्जन्मजातो महिमा तु नैनाम् ॥ ११-११॥ परित्यजन्नप्यभिमत्य तिष्ठन् व्याप्तः शुभं व्यक्तिपदं तदग्र्यम् । अनन्यभाजामभजत् स देव- स्तस्मिन् सतां प्रागिव सन्निधानम् ॥ ११-१२॥ अहंसपद्मामिव वाहिनीं तां वीतेन्दुतारामिव वासतेयीम् । समाप्तकार्यामिव सत्रशालां शून्यां पुरीं प्रेक्ष्य जगाम शौरिः ॥ ११-१३॥ चित्रावशेषद्विरदाश्वयोधा शुकादिसम्भाषणशेषसूक्ता । मणिप्रभाशेषितदीपिका सा नाम्नैव माधुर्यवती तदाऽऽसीत् ॥ ११-१४॥ प्राचीमनादृत्य निवासभूमिं प्रत्यङ्मुखीं पद्धतिमाददाना । स्थिरं पदं प्राप्तुमियेष सेना सत्वाधिका धीरिव सात्वतानाम् ॥ ११-१५॥ उत्सारयन् धूलिमिवाग्रयायी विनिर्दिशन् वासमिवातिदूरात् । प्रत्युद्गमाय त्वरयन्निवाब्धिं मरुद्ववौ मन्दविधूतकेतुः ॥ ११-१६॥ प्रभूतभीमोन्नतनागनक्रा पारिप्लवैरूर्मिमती तुरङ्गैः । अपूर्ववारान्निधिमाव्रजन्ती स्वयं तथा शौरिचमूरभूत् सा ॥ ११-१७॥ समेति मां सात्त्वतवाहिनीयं सिष्णासया हन्त जिगीषया वा । इति प्रभूताद्भुतवैभवां ता- मुपेन्द्रनाथामुदधिः शशङ्के ॥ ११-१८॥ गतागतैर्योद्धुमिव प्रवृत्तै- रासीदतामद्भुतभीमवेगौ । मिथःप्रतिच्छन्दतया प्रतीक्ष्यौ वेलावने सैन्यमहासमुद्रौ ॥ ११-१९॥ महीयसा सैन्यरवेण सद्यः पयोधिरन्तर्हिततीव्रघोषः । प्रकम्पमानो भृशमाबभासे भयेन तूष्णीमिव भाव्यमानः ॥ ११-२०॥ प्रतीक्ष्य सेनामुपधावमानां पत्या नदीनां प्रणिधीयमानः । प्रकाशयन् सर्वजनानुकूल्यं समीरणो मन्दतरं चचार ॥ ११-२१॥ वदन्निव स्वागतमागतेभ्यः प्रभूतसन्तोषभवैः प्रणादैः । तरङ्गहस्तप्रहितैः सरस्वान् अभ्यर्चयामास यदून् पयोभिः ॥ ११-२२॥ चिरप्रयातं परिहृत्य शय्या- मभ्यागतं वारिधिरादरेण । मिथःसमायोजितवीचिहस्तः प्रायः प्रभुं प्रार्थयत प्रसादम् ॥ ११-२३॥ निवेश्य सेनामुदधेः समीपे तालाङ्कसम्भावितराजताले । दयार्द्रमेघोपमदेहभूमा विश्वम्भरो विश्रमयाञ्चकार ॥ ११-२४॥ कदाचिदात्मानमवाप्तरत्नं कपालिनं चन्द्रकलावतंसम् । क्षमं सुभिक्षां च दिवं विधातुं (दिवं सुभिक्षां कृतवन्तमेवं) ध्यातागतं सिन्धुमथादिदेश ॥ ११-२५॥ अनारतप्राप्तजयोद्यमानां धर्मं निजं धारयतां यदूनाम् । अपत्यरक्षोचितमन्तरीपं दिव्योपमं देयमिह त्वयेति ॥ ११-२६॥ स तस्य दिक्पालनिवासकल्पां विधित्सतो वृष्णिपुरीं विशालाम् । अगाधपाथःपरिखाभिगुप्तं द्वीपं ददौ दुर्गविधानयोग्यम् ॥ ११-२७॥ बलोत्तराणामपि बह्वमित्रं स्फीतं यदूनां कुलमीक्षमाणः । अवन्ध्ययन् विश्ववित् अर्थशास्त्रं दुराक्रमं दुर्गमियेष कर्तुम् ॥ ११-२८॥ स शासिता शास्त्रमनुप्रतस्थे कर्माऽऽददे कर्मफलप्रदाता । प्रभुः स्वबुद्ध्यैव जगन्ति गोप्तुं कुर्वीत बाह्यैरपि किं न गुप्तिम् ॥ ११-२९॥ प्रभूतरत्नद्युतिकेसरं तत् प्रवालपत्रौघपरीतपार्श्वम् । स्थानं हरेरिष्टतमं तदासीत् सम्भूतिराजीवमिवेन्दिरायाः ॥ ११-३०॥ प्रचोदितस्तत्र च विश्वकर्मा नाथप्रसत्त्यै नलिनासनाद्यैः । रथ्यादिवैचित्र्यवतीं वितेने राशिं गुणानामिव राजधानीम् ॥ ११-३१॥ स शिल्पविद्यां विधिनोपदिष्टा- मशेषतो नूनमधीत्य दाक्ष्यात् । शुभानि तस्यां भवनानि कर्तुं सौधेषु दिव्येषु चकार योग्याम् ॥ ११-३२॥ गतागतार्थं हरिवाहिनीनां सेतुं च योगेन बबन्ध सिन्धौ । चकार दिग्भाग(क्काल)विमूढतां यः प्रत्यर्थिनां चक्रधरप्रभावात् ॥ ११-३३॥ नलेन पूर्वं स्वसुतेन सृष्टात् नवीनमन्यूनतरं स्वकलृप्तम् । समीक्ष्य तुष्यन्नपि विश्वकर्मा नाथाय रोचेत न वेत्यताम्यत् ॥ ११-३४॥ स सेतुरास्कन्दितकूलयुग्मः सङ्कल्पितो वासवलोकतक्ष्णा । महापुरीं तां च महीं च मातुं मध्ये तुलादण्ड इवार्पितोऽभूत् ॥ ११-३५॥ निवेदितां निर्जरशिल्पिनैव स्वयं चमत्कारवता सुकलृप्ताम् । अदृष्टपूर्वामिव विश्वदर्शी दृष्टिः सतां द्रष्टुमियेष नाथः ॥ ११-३६॥ निजप्रतिच्छन्दनिदर्शनीयां मृग्योपमानान्तरमृष्टकान्तिम् । उदन्वता दत्तकरेण देवः प्रदर्शितां पूर्वमवैक्षतैनाम् ॥ ११-३७॥ अनन्यदृष्टिं नगरी नवीना विस्मेरतां विश्वपतिं निनाय । स्वयम्प्रभैः सौधभरैरुदारैस्तुङ्गैः सुमेरोरिव रत्नश‍ृङ्गैः ॥ ११-३८॥ तामद्भुतां तारकिताग्रसौधां धर्मस्य पूर्णामिव योगसिद्धिम् । सपौरभृत्यः समयान्ववेक्षी विवेश वृष्ण्यन्धकयूथनाथः ॥ ११-३९॥ परेण नाकं प्रलयानभिज्ञा- मधीयते यस्य पुरीमचिन्त्याम् । स लोकनाथो विदधे सनाथां दूराधिकां द्वारवतीं दिवोऽपि ॥ ११-४०॥ विधाय त(य)स्यां विदितैः स्वचिह्नै- र्यदून् यथास्थाननिवेशतुष्टान् । तामेव नाथस्त्रिदशाभिनन्द्यां त्यक्तामयोध्यां मधुरां च मेने ॥ ११-४१॥ उदन्वति व्योमतले च लग्नां दृष्टोभयाः दर्पणदर्शनीये । यामद्भुतामात्मपुरीं च देवा- श्छायाममन्यन्त मिथः समीक्ष्याम् ॥ ११-४२॥ प्राकारचक्रं पृथुभिस्तरङ्गै- रास्फालयन् अम्बुधिरात्तवेगः । अमर्त्यमुख्यैरपि जातकोपै- रक्षोभ्यतां व्याकुरुतेव यस्याः ॥ ११-४३॥ यत्सौधपर्यङ्कजुषां वधूनां सङ्गृह्य निःश्वासगुणं समीरः । पद्मेषु नूनं प्रदिशन् प्रभाते गतागतं याति गवाक्षवर्त्मा ॥ ११-४४॥ जालानि यत्रागुरुधूमजालैः सन्दिग्धपारावतसन्निधानैः । अवासयन् नूनमहार्यगन्धान् आसेदुषां नाकसदां विमानान् ॥ ११-४५॥ परार्थ्यरत्नप्रचितात्मभिर्या प्रासादमालाभिरलङ्कृताङ्गी । नाथोपभोगानुगुणां पयोधौ ननन्द दृष्ट्वैव निजामभिख्याम् ॥ ११-४६॥ मणिप्रदीपप्रशम(मे)प्रयुक्ते विहारचूर्णे विफले वधूनाम् । अपत्रपायाः समयेऽपि यस्या- मभूदनास्था परमार्थदीपे ॥ ११-४७॥ प्रायेण यत्र प्रमदाजनानां नित्यं गुणैरप्रतिमैर्नि(ब)रुद्धाः । संस्कारयोगादपि लब्धसत्त्वा- श्चित्रार्पिता नाकसदो न(वि)चेरुः(लुः)॥ ११-४८॥ यदन्तरे यामिकवारणाना- मासेदुषामम्बुनिधेरभिख्याम् । कराभिमर्शेषु पुनश्चका(मर्शावसरेऽचका)सुः कल्लोललग्ना इव कर्णशङ्खाः ॥ ११-४९॥ सौधेषु यस्यां युवसेवितेषु त्रिविष्टपादप्यधिकोन्नतेषु । व्रीलातिभारान्नमिता इवाऽऽसन् वैमानिकैरध्युषिता विमानाः ॥ ११-५०॥ न षड्भिरासन् व्यसनानि पुंसां यद्वासिनामीतिभिरूर्मिभिर्वा । अयोगयत्नेन विनैव चान्ते जज्ञे जगद्धातरि बुद्धिरेका ॥ ११-५१॥ अदेशकालप्रविभागभाजा भूम्ना जगद्धातुरचिन्त्यभूम्नः । यस्यां विहारोपवनान्यभूवन् समाधियोग्यानि तपोवनानि ॥ ११-५२॥ अनंहसामध्वरदीक्षिताना- माह्वानतः प्रागपि सन्निधानात् । अभुङ्क्त कृत्स्नानि हवींषि नित्यं यत्र स्वयं यज्ञतनुः स देवः ॥ ११-५३॥ रतिप्रसूता इव राजकन्या रसोदधेरूर्मिपदं भजन्त्यः । विरक्तभाव्यं तमवाप्य यस्यां रागोपपन्ना रमयाम्बभूवुः ॥ ११-५४॥ प्रवालचित्रीकृतजालकश्रीः सालावृता सम्भृतपत्रजाला । परिष्कृता भद्र-मृगादिभिर्या बभौ स्मरस्येव विहारवन्या ॥ ११-५५॥ ध्वजाग्रभिन्नात् तुहिनांशुबिम्बा- दनुक्षरन्त्या सुधयाऽनुलिप्तैः । चिरप्रक्लृप्तैरपि यत्र सौधै- र्नित्यं नवीनैरिव निर्बभासे ॥ ११-५६॥ स्ववैभवैरप्रतिरूपशोभैः व्यक्तश्रियो वाङ्मनसानि(ति)वृत्तैः । तिरोदधुर्यत्र नरेन्द्रवासाः स्वयम्प्रभां देवसभां सुधर्माम् ॥ ११-५७॥ विभूतिभेदैरनुपप्लवैर्या भोगार्थिनां भूमिगताऽप्यभौमैः । निवारयामास तपोधनानां वासादरं वासवराजधान्याम् ॥ ११-५८॥ यत्सौधरत्नप्रकरेषु विष्वक् प्रसारितैरन्वहमैकमुख्यात् । करैः सहस्रेण गृहीतदीप्तिः प्रद्योतते नूनमतीव भास्वान् ॥ ११-५९॥ यच्चन्द्रशालासु निषेदुषीणां मृगीदृशां हारमणिप्रकाशैः । तिरस्क्रियां प्राप्य विलज्जमाना- स्तारागाणा नूनमधश्चरन्ति ॥ ११-६०॥ गृहेषु यस्यां मणिभित्तिभागे प्रतिक्षणं दृष्टमुखेन्दुबिम्बः । वधूजनः केवलमग्रहस्तै- रादत्त मङ्गल्यतयाऽऽत्मदर्शम् ॥ ११-६१॥ अनन्तचित्रप्रतिमाभिरामै रजस्रमाक्रान्तदिशावकाशैः । अभावयत् गोपुरवैभवैर्या विश्वप्रसूतेरिव वैश्वरूप्यम् ॥ ११-६२॥ सरोभिरुल्लासितपुष्करश्रीः सङ्गोज्झितैः सङ्गमितप्रयागा । प्रभासिता रत्नगणांशुभिर्या धर्माश्रयाणामिव संसदासीत् ॥ ११-६३॥ हसद्भिरुच्चैःश्रवसं हयाग्र्यै- रैरावतं दन्तिवरैश्च दृप्तैः । नरोत्तमैर्नाकसदश्च याऽभूत् सुभ्रूभिरप्यप्सरसः स्वयं द्यौः ॥ ११-६४॥ वप्रेषु यस्याः स्फटिकप्रदेशान् द्वाराभिमानात् द्रुतमापतन्तः । अवापुरागन्तुजनाः सलीलै- रन्तःस्मितैर्नागरकैर्निरोधम् ॥ ११-६५॥ पयोभिरच्छस्फटिकद्रवाभैः दवीयसां दर्शनमादधानैः । सुधाधिकस्वादुरसैरविन्दन् स्वान्तोपमां यत्र सतां सरस्यः ॥ ११-६६॥ यामेकचित्तः प्रसमीक्ष्य तुष्यन् यादोनिधेराहितदिष्टि(ष्ट)वृद्धिम् । लज्जामयासीदिव विश्वकर्मा लङ्कादिनिर्माणकथाप्रसङ्गे ॥ ११-६७॥ समग्ररत्नौघशुभाकृतिं यां सनायकां मध्यजुषा त्रिधाम्ना । हृद्यामजस्रं हृदयेन भूषां रत्नाकरो नूनमधत्त रम्याम् ॥ ११-६८॥ (रम्यां हि हृद्यां हृदयेन नूनं रत्नाकरो रत्नमधत्त भूषाम्)॥ ११-६८॥ अभिन्नसत्त्वान्नभसः परस्मात् क्षीरोदधेरंशुमतश्च बिम्बात् । रमासखस्य प्रणिधानभाजां याऽभूत् प्रियं व्यक्तिपदं पृथिव्याम् ॥ ११-६९॥ यत्सौधभाजो(जां)निशि सुन्दरीणां मुखेन्दुभिश्चूषितकान्तिमिन्दुम् । सद्यः स्वनिष्यन्दसुधाप्रवाहै- राप्याययामासुरिवेन्दुकान्ताः ॥ ११-७०॥ उद्वेलचञ्चत्तुरगोर्मिमाला- मुद्घोषितामुत्सवतूर्यघोषैः । प्रभूतरत्नौघनिधिं पयोधि- र्यामद्भुतां या च तमन्वकार्षीत् ॥ ११-७१॥ यद्वप्रशैलेषु दिवाऽपि सिन्धो- रास्फालनादुत्पतितैः पृषद्भिः । उत्क्षिप्तमुक्ताफलदर्शनीयै- रालक्ष्यतारौघमभूत् विहायः ॥ ११-७२॥ कलत्रपुत्रादिजुषामजस्रं दीर्घायुषां यत्र सतां जनानाम् । धर्मैकभाजामितरे पुमर्थाः प्रायः स्वयं सन्निदधुः स्वभूत्यै ॥ ११-७३॥ रराज सा रामजनार्दनाभ्यां प्राप्तप्रकाशाऽपि यदुप्रवीरैः । सत्येव तारानिकरे त्रिलोकी चक्षुष्मती चन्द्रदिवाकराभ्याम् ॥ ११-७४॥ प्रभुणा सहस्रवदनेन वर्ण्यतां द्विगुणैरमुष्य नयनैरवेक्ष्यताम् । श्रुतिभिश्च तस्य बहुधा निशम्यता- मधिकां ततः श्रियमवाप सा पुरी ॥ ११-७५॥ स्वयमजनि किमत्र श्वेतमेवान्तरीपं परिणतमुत किञ्चिद्भागधेयं पृथिव्याः । वरुणनगरमन्यत् वारिधेरुत्थितं वा किमिदमिति पुरं तत् कीर्तयन्ति स्म पौराः ॥ ११-७६॥ रामप्रष्ठैरधिवसति सा राजधानी जगाहे लोकाधीशे सह बहुमतैर्लोकपालैरिवान्यैः । आश्चर्याणां प्रकृतिरियमित्यद्भुतावेशयोग्यां अप्रत्यूहामनितरतुलारोहणीयामभिख्याम् ॥ ११-७७॥ तन्मध्ये विरचितशिल्पमेरुकल्पं वैचित्र्यादपहृतवैजयन्तगर्वम् । प्रस्पष्टं निजमिव पारमेष्ठ्यमुर्व्यां प्रासादं प्रभुरधिवासयाञ्चकार ॥ ११-७८॥ रामःपुनर्व्रजमुपेत्य विहारभेदै- राश्वासयन् सहचरैः सुहृदश्च सर्वान् । विश्राणितां दुहितरं वरुणेन विन्दन् सीरावकृष्टयमुनास्नपितो विजह्रे ॥ ११-७९॥ प्रत्यञ्चमब्धिमवधूतवतोऽतिदूरं दग्धुश्च कूलमिव दक्षिणमस्त्रभूम्ना(धाम्ना)। आकर्षतश्च सरितं सवितृप्रसूतां रामस्य तस्य शुशुभे रसिकस्य लीला ॥ ११-८०॥ पद्मयोनिवचनादुपनीतां प्राक्तनीं प्रियतमामिव कान्तिम् । रेवतस्य तनयामनुरूपां रेवतीं च परिणीय स रेमे ॥ ११-८१॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये द्वारकाधिष्ठानं नाम एकादशः सर्गः ॥

॥ रुक्मिण्यभ्युदयो नाम द्वादशः सर्गः १२॥

तथाविधानन्दमहापयोधे- स्तरङ्गवृत्त्या भजतोऽवतारान् । अशेषरूपेष्वनुरूपरूपा देवी जगन्नेतुरनुप्रजज्ञे ॥ १२-१॥ सा तस्य नित्योदितदिव्यधाम्नः पत्युः प्रिया भानुमतः प्रभेव । अध्यासितुर्द्वारवतीमदूरात्(रे) व्यक्तिं शुभां प्राप विदर्भदेशे ॥ १२-२॥ शिखण्डकं निष्प्रतिमं श्रुतीनां श‍ृङ्गारलीलोपमविश्वकृत्यम् । अधीयते तन्मिथुनं स्वभावा- दन्योन्यजीवातुमनन्यभोग्यम् ॥ १२-३॥ दयेव नित्यं दयिता त्रिधाम्नः सर्वेषु भावेषु समानभावा । परावराणां जननी प्रजाना- मासीत् विदर्भाधिपतेरपत्यम् ॥ १२-४॥ महीतलान्मैथिलसीरकृष्टात् क्षीरोदधेराहितमन्थशैलात् । भृगूद्वहात् ख्यातिमतश्च याऽभूत् सा भीष्मकादभ्युदियाय भूयः ॥ १२-५॥ अमन्यतैनां तनयां स राजा रुक्मी च (रुक्मश्च)मोहादनुजामजन्याम् । यामेकपत्नीमनघस्य पुंसः प्रजासृजां मातरमामनन्ति ॥ १२-६॥ त्यक्त्वा पराः स्त्रीर्गु(स्त्रीगु)णराशिरेनां शरण्यभूतां शरणं प्रपेदे । प्रायेण दोषैरविविक्तवासा- द्भीतः स्वयं भीष्मकराजकन्याम् ॥ १२-७॥ आरब्धदेहामिव भागधेयै- रक्षीणि लक्ष्यान्तरतो नियन्त्रीम् । सुतामिमां प्राप्य सुधामिवान्या- ममर्त्यकल्पौ पितरावभूताम् ॥ १२-८॥ अनन्यवृत्त्या घनतामुपेतै- रप्रौढसूर्येन्दुमयूखजालैः । सुवर्णरत्नैरथवा प्रक्लृप्तां सुतां सुजाताकृतिमन्वभूताम् ॥ १२-९॥ महीयसीं मङ्गलदीपमालां विद्युत्प्रकाशा विदधे कुमारी । आकल्परत्नांशुतिरस्करण्या दीप्त्या रजन्यामपि दीनभासम् ॥ १२-१०॥ कलामिवार्धामकठोरधाम्नः पुण्योदयानामिव पूर्वचर्याम् । प्ररोहवेलामिव कान्तिवल्ल्याः प्रैक्षन्त शुद्धान्तमृगीदृशस्ताम् ॥ १२-११॥ आत्माधिकारादधिकामवस्था- मयत्नतो नूनमवाप्तुकामा । वार्तानभिज्ञे वयसि स्थितां तां- वाग्देवता वन्दिमुखे(खैः)ववन्दे ॥ १२-१२॥ प्रदित्समानेन हरेरभीष्टं कामेन सा कल्पलतेव सृष्टा । पित्रोरिवानन्यदृशां प्रजाना- माशंसया सार्धमवाप वृद्धिम् ॥ १२-१३॥ पद्मादिरेखाप्रथमानभूमा निर्धार्यमाणा निगमैरभिज्ञैः । तदङ्घ्रिविन्यासमिषेण जज्ञे भूमेस्तदा भूषणपङ्क्तिरग्र्या ॥ १२-१४॥ अदृश्यभेदैरतिसूक्ष्मभावा- ज्जज्ञे जगन्मङ्गलतां दधानैः । विहारलौल्याद् विषमेषु तस्या गतेषु वाक्येषु च नृत्तगीतैः ॥ १२-१५॥ यदप्सरःपाणिसरोजमुक्तं प्रसूनवर्षं निपपात तस्याम् । अपूरि तस्यैव रजोभिरग्र्यै रपांसुला पांसुविहारवाञ्छाम् ॥ १२-१६॥ यदृच्छया तत्र परागजालै र्यानेव सा केलिगृहान् अकार्षीत् । ततः परं त्वष्टुरमी समीची महेन्द्रशालाविधिमातृकाऽभूत् ॥ १२-१७॥ चतुर्दशैतानि जगन्ति यस्याः क्षेमाश्रितं क्रीडनकं बभूव । पर्याप्तलीला मुमुदे तदैषा पाञ्चालिकापञ्जरशारिकाद्यैः ॥ १२-१८॥ आस्वादनीयान्यधिकं श्रुतीनां मुग्धाभिजातानि वचांसि तस्याः । प्रायेण लौल्यादधिकृत्य खिन्ना विधिप्रिया व्याहरतान्यभाषाः ॥ १२-१९॥ अविप्लुतव्याकरणानि तस्याः क्रमेण शिक्षानियताक्षराणि । अनुश्रवाणामनघप्रवृत्ते- रादेशदायीनि वचांस्यभूवन् ॥ १२-२०॥ विभूतयस्तत्र विशाम्पतीना- मात्मीयया देवतयाऽवतीर्णाः । स्वचिह्नभेदान् परिबर्हयन्त्यः प्रपेदिरे तत्परिवारभावम् ॥ १२-२१॥ वेदालवाले विहितस्थितिं तां रम्यप्रतानामिव रत्नवल्लीम् । स्तनादिलक्ष्य(क्ष)स्तबकादिचिह्नै- राविष्कृतं यौवनमाविवेश ॥ १२-२२॥ तदीयसर्वाङ्गजुषोरगाधं सौन्दर्यलावण्यसुधास्रवन्त्योः । ममज्जुरापत्य दृशः सखीना- मन्योन्यसम्भेदमपूर्वतीर्थम् ॥ १२-१३॥ निशेव चन्द्रेण घनव्यपाये नैसर्गिकी बुद्धिरिव श्रुतेन । फलेन सा नीतिरिवाप्रमादा युक्ता बभौ नूतनयौवनेन ॥ १२-२४॥ आलक्ष्यसंलापलवैरपाङ्गै- रङ्गैरनङ्गोदयपूर्वरङ्गैः । वियातमुग्धैरपि विभ्रमैः(लक्षणैः)सा विलक्षयामास विभूषणानि ॥ १२-२५॥ अमुक्तकौमारयुवत्वसीम्ना कान्त्या बभौ कल्पितरागभूम्ना । जरत्पलाशप्रसवानुषक्ता प्रतानिनी पल्लवसम्पदेव ॥ १२-२६॥ प्रसाधनानां परिकर्म दिव्यं विजृम्भणं विभ्रमजालकानाम् । वयः शुभं वामदृशश्चकाशे पश्यद्दृशां भाग्यमनन्यभोग्यम् ॥ १२-२७॥ अवाप्य सा मुग्धदशामपूर्वा- मव्याजलीलागतिराबभासे । रम्या रमोत्पत्तिदशाविशेषात् जाम्बूनदी जङ्गमपद्मिनीव ॥ १२-२८॥ तस्यास्तनुं वर्णयतो ममैवं हीनोपमा दोषपदं न विन्देत् । निदर्शनं तैरपि नित्यदृष्टं येषां निकर्षोऽपि गुणो यतः स्यात् ॥ १२-२९॥ तारेण तस्याश्चिकुरान्धकारे तारायितं मौक्तिकजालकेन । प्रायेण योऽसौ प्रलयावसाने निशीथसृष्टेरभवन्निदानम् ॥ १२-३०॥ द्युतिं शिखारत्नसहस्ररश्मे- र्ज्याएत्स्नां च मुक्ताफलजालजाताम् । तत्कुन्तलश्रेणिमयी तमिस्र- मैत्रीं दधौ मन्मथचापमौर्वी ॥ १२-३१॥ मुखाब्जसौन्दर्यमधुद्विरेफाः कान्त्यापगाशैवलपुञ्जकल्पाः । शोणेन चूडामणिना ससन्ध्यां तमीमपुष्यन् अलकास्तदीयाः ॥ १२-३२॥ शरत्प्रसन्नेन्दुकलाभिरामा ललाटरेखा सुदृशो रराज । कामेन तत्कान्तिलतासमृद्ध्यै स्वयं प्रक्लृप्तेव सुधास्रवन्ती ॥ १२-३३॥ कस्तूरिकाक्लृप्तविशेषकं तत् पश्यन् मृगाङ्को वदनं मृगाक्ष्याः । विभाव्य तादृक्परभागशोभां कलङ्कयुक्तोऽपि जहौ विषादम् ॥ १२-३४॥ तारुण्यनद्यास्तनुवीचिकल्पे तद्भ्रूलते शार्ङ्गनिदानदृश्ये । अनङ्गवेदप्रणवस्य रत्या लेखाक्षरं न्यस्तमसूचयेताम् ॥ १२-३५॥ प्रसूतपद्मोत्पलकाननश्रीः प्रारब्धवीचीविभवा विलासैः । दृष्टिस्तदीया ददृशे दयार्द्रा द्राघीयसी मन्मथदीर्घिकेव ॥ १२-३६॥ तद्दृष्टिरायामवती सुजाता श्यामोज्ज्वला चारुविशालमध्या । मन्ये समेष्यन्मधुवैरिलक्ष्या चेतोभुवः शक्तिरभूदमोघा ॥ १२-३७॥ निगृह्णती रत्नतिलप्रसूनं नासा तदीया नयनाब्धिसेतुः । अबोधि निःश्वाससमीरगन्धै- रन्तर्गतान् वेदगणान् वमन्ती ॥ १२-३८॥ नवेन्दुसन्ध्याप्रभृतीनि लोके निर्वर्ण्यमानानि निदर्शनानि । न खल्वविन्दन् कलयापि तस्याः स्मिताधरव्याप्तिकृतामभिख्याम् ॥ १२-३९॥ अहेतु रज्यन् अधरस्तदीयः प्रसूनमुक्तायितमुग्धहासः । लक्ष्मीलताया ललितोदधेश्च प्रवाळयोगं प्रथयाम्बभूव ॥ १२-४०॥ मुखं तदीयं विरराज मुग्धं सौरभ्यलावण्यसमुच्चयेन । व्यवस्थितान्योन्यविशेषलोभा- देकत्वमापन्नमिवेन्दुपद्माम् ॥ १२-४१॥ वर्णानुपूर्वीसुभगेन काले भव्यां श्रुतिं भावयता यथावत् । तारस्य संस्थानमिवान्वकार्षीत् कण्ठेन सा काञ्चनकम्बुभासा ॥ १२-४२॥ मधुद्विषः कण्ठपरिष्क्रियार्थं कामात्मना माल्यकृतेव क्लृप्ते । बभूवतुर्बाहुलते तदीये शम्पात्विषौ चम्पकमालिके द्वे ॥ १२-४३॥ आसीदधिष्ठानविशेषसीमा वक्षोजयोरङ्कुरतोरमुष्याः । मुकुन्दवक्षस्स्थलमुद्रणार्हां भव्यामवस्थामिव भावयन्ती ॥ १२-४४॥ समावृतौ हारमयूखसूत्रै- स्तस्याः स्तनौ चारुतरावभूताम् । जिगीषतस्तत्प्रियचित्तवृत्तिं मनोभुवो मङ्गलपूर्णकुम्भौ ॥ १२-४५॥ तस्यास्तदा तद्वदलक्ष्यमध्यं तन्व्याः स्तनद्वन्द्वमवाप वृद्धिम् । काले यथा तत्प्रथिमप्रभूतं कृच्छ्रादभूत् कृष्णभुजान्तरालम् ॥ १२-४६॥ मध्यं क्रशिम्ना विरराज तस्या नाभिह्रदान्नालमिव प्ररूढम् । प्रियागमोदर्कमभूत् यदग्रे कुचात्मना काञ्चनपद्मयुग्मम् ॥ १२-४७॥ स्तोकानताङ्गी स्तनभारभूम्ना मुग्धा बभौ मुष्टिमितावलग्ना । भृङ्गाभिनन्द्येन गुणेन युक्ता कामस्य सा काऽपि धनुर्लतेव ॥ १२-४८॥ रराज लावण्यतरङ्गरम्या वलित्रयी मध्यगता मृगाक्ष्याः । अन्तःस्थितानामिव दर्शयन्ती निवेशसीमान्तमनुश्रवाणाम् ॥ १२-४९॥ मध्येवलग्नं सुदृशो विलग्ना रोमावली कामधनुर्गुणाभा । जिगाय नाभीसरसः सुजाता- मुल्लासिनीमुत्पलरेणुपङ्क्तिम् ॥ १२-५०॥ अनुप्रयातः स्ववशामभिख्यां यूथोज्झितो यौवनगन्धहस्ती । तद्रोमराजिव्यपदेशदृश्यां नूनं दधौ नूतनदानरेखाम् ॥ १२-५१॥ प्रकाशितावर्तरुचिः प्रभाब्धौ नाभिः सुवृत्ता रुरुचे नताङ्ग्याः । रोमावलीरत्नलतानुरूपं रुक्मेण निष्पन्नमिवालवालम् ॥ १२-५२॥ पृथ्वी चकाशे स्तनसम्पदस्या लावण्यमम्भो नियतं च तेजः । श्वासोदयो गन्धवहः शुभाङ्ग्याः नाभिश्च मध्यं च नभो विभक्तम् ॥ १२-५३॥ गजेन्द्रहस्तादिषु तत्समत्वे दूरे सतां दोषगुणावमर्शः । भविष्यतः शार्ङ्गभृतस्तदूरू लीलोपधाने किमतोऽधिकेन ॥ १२-५४॥ मनोज्ञवृत्तं मधुबुद्बुदाभं चक्षुष्मतां सादरदर्शनीयम् । स्वदेहकान्तेः सविशेषदृष्टौ जानुद्वयं दर्पणतामयासीत् ॥ १२-५५॥ उदेष्यतः पञ्चशरस्य तस्या मुत्पादयिष्यन् उचितं निषङ्गम् । विधिः स्वयं मातृकया किलार्थी जङ्घायुगं वीक्ष्य जहर्ष तस्याः ॥ १२-५६॥ कलाचिकां काञ्चनसारक्लृप्तां कान्तेः शुभां कामपि काहलीं च । शशङ्किरेऽनन्यसमीक्ष्यशोभां जगन्ति जङ्घामवलोक्य तस्याः ॥ १२-५७॥ अलक्तकादप्यधिकात्मरागा पदद्वयी पद्मदृशश्चकाशे । प्राचीनजन्मप्रणयानुरोधात् सम्भाव्यमानेव सरोजलक्ष्म्या ॥ १२-५८॥ पादाम्बुजे दत्तमधुप्रसक्त्या निर्णेजयामास नखेन्दुकान्त्या । प्रायेण सा सत्पथमाश्रयन्ती पङ्कान् असत्सङ्गभवान् पृथिव्याः ॥ १२-५९॥ तस्याः पदाम्भोजमृणालभासा प्रकाशभूम्ना नखमौक्तिकानाम् । प्रकीर्णपुष्पाः सुधयाऽवसिक्ताः विहारभूम्यो युगपद्बभूवुः ॥ १२-६०॥ तस्याः श्रुतिश्रेणिशिखामणीनां सकेसरा दीधितिभिर्नखानाम् । प्रसाधिकालोचनभृङ्गलौल्यं पद्मद्वयी पादमयी निरास ॥ १२-६१॥ मुखेन्दुनिष्यन्दनिभैरमुष्याः मन्दस्मितैरिन्दुरवाप्तमान्द्यः । प्रायः प्रभूताद्भुतकान्तिलोभात् नखात्मना तत्पदमेव भेजे ॥ १२-६२॥ अलक्षि देवैरवतारलक्ष्म्या- स्तस्याः शुभा पादनखेन्दुपङ्क्तिः । आगामिकल्पेष्वधिकारलोभात् तारावलिस्तत्पदमाश्रितेव ॥ १२-६३॥ यातेन मञ्जीररवैश्च तस्याः प्रायः पराभूतगतिप्रणादाः । शिक्षाविशेषार्थमिवाधिचक्रुः पादानुवृतिं प्रणयेन हंसाः ॥ १२-६४॥ रराज दिव्यैरधिराजचिह्नैः श् श्लाघापदं तत्पदमागमानाम् । अश्मानमास्थापयता परस्तात् यत् पाणिना विश्वपतेरवाप्यम् ॥ १२-६५॥ अतीत्य कृच्छ्रात् समुदायशोभां प्रत्यङ्गसौन्दर्यपरा दिदृक्षा । पर्यभ्रमत् प्राप्तविहारडोला पुष्पेषु भृङ्गीव मुहुः सखीनाम् ॥ १२-६६॥ श‍ृङ्गारयोनेरिव शिल्पविद्यां दिव्यां त्रिलोक्या इव दिष्टवृद्धिम् । सीमान्तरेखामिव सम्पदस्तां जगुः स्त्रियो जङ्गमरत्नसृष्टिम् ॥ १२-६७॥ वयस्ययाऽभीष्टवरानुयोगे साऽपश्यदात्मानममन्दलज्जा । असूचयन्नूनमनेन तस्याः स्वलक्षणं शौरिमनन्यलक्ष्यम् ॥ १२-६८॥ अलिप्सत श्वेव हविस्तदैनां दैत्यस्वभावो दमघोषजन्मा । तस्मै च कृष्णैकमनोरथां तां रूपाधिकां दातुमियेष रुक्मी ॥ १२-६९॥ परस्परं भूषयतः प्रतीकान् औद्वाहिकं मङ्गलमुद्वहन्त्याः । प्रायः स्वदीप्तेरतिरोधिमिच्छ- न्त्यावारयन् आभरणानि तस्याः ॥ १२-७०॥ लावण्यकल्पद्रुममञ्जरीं तां श‍ृङ्गारदिग्वारणवैजयन्तीम् । सौन्दर्यदुग्धोदसुधाप्रसूतिं सैरन्ध्रिकाः प्रेक्ष्य मिथः शशंसुः ॥ १२-७१॥ स्वभावजादभ्यधिकं तदङ्गे ष्वासादितं सौरभमङ्गरागैः । स सर्वगन्धोऽपि यदन्वयेन प्रभूतमामोदविशेषमृच्छेत् ॥ १२-७२॥ व्यामातिरिक्तस्तनकुम्भभूम्ना व्याप्ताकृतिं यौवनकुञ्जरेण । प्रसाधयन्त्यः पतिदेवतास्तां नाथोचितां प्रेक्ष्य न तृप्तिमापुः ॥ १२-७३॥ मौलौ सुकेश्याः स्फुटरश्मिजालं मुक्तामयं जालकमाबबन्धुः । क्रीडोचितं कृष्णमृगं गृहीतुं तेन स्मरो वागुरिकस्तदाऽभूत् ॥ १२-७४॥ मुखेन्दुलावण्यसुधाप्रवाहे मुहुः प्रतीपप्लवनोद्यतेन । तत्कर्णभूषामकरेण मन्ये मन्दीकृता मन्मथलाञ्छनश्रीः ॥ १२-७५॥ अनन्यदृष्टिं विततान ताम- प्यादर्शसङ्क्रान्तिविशेषदृश्यम् । प्रसाधनैः प्राप्तगुणैः प्रतीक्ष्यं तस्या मुखं तामरसायताक्षम् ॥ १२-७६॥ मनुष्यताकञ्चुकितात्मभूम्नः काले चकाशे कुचकञ्चुकश्रीः । रत्नाचले भोगिशयप्रियायाः स्वतल्पनिर्मोक इवावलीनः ॥ १२-७७॥ अंसावलम्बिन्यसितेक्षणायाः कम्पोज्ज्वला काचन रत्नमाला । अलक्ष्यतोल्लासितरम्यरश्मिः कामार्पिता कान्तिविहारडोला ॥ १२-७८॥ प्रभाप्रवाहोदितसैकताभे स्तनद्वये तामरसेक्षणायाः । तत्कन्धराशङ्खमतल्लिकायाः प्रसूतिराशङ्क्यत हारवृत्त्या (मुक्ताः)॥ १२-७९॥ अभासताऽऽत्मस्मितसौम्यभासा हारेण हृद्येन जगत्प्रतीक्ष्या । प्रियस्य चन्द्रं हृदयाद्विधातुः प्राप्तानुसारेव निसर्गशुद्धम् ॥ १२-८०॥ रराज मुक्ताभिरवाप्तफेनं रत्नाङ्गदं प्राप्तगुणं तदङ्गे । प्रवाहवृत्तेः परिवृत्तिभेदात् महीयसी मण्डलितेव कान्तिः ॥ १२-८१॥ प्रतिक्रियामात्मतिरस्क्रियायाः प्रायः स्वयं व्यापृतया विधातुम् । तदङ्गयोगोज्ज्वलरत्नधाम्ना सञ्छादितं मेखलयाऽन्तरीयम् ॥ १२-८२॥ शिखण्डकानि श्रुतिसुन्दरीणां चारूणि पादाभरणानि तस्याः । पदेषु सङ्घर्षवशादिवासन् मिथः पुरोभागिपदास्पदानि ॥ १२-८३॥ अनुक्षणं बन्धुजनैरमुष्या- मामुच्यमानेषु विभूषणेषु । अयत्नतस्तानि तदन्तराले कृतास्पदा केवलताऽत्यशेत ॥ १२-८४॥ अभिन्नरूपामनुवेलभिन्नात् प्रसाधनादभ्य(प्य)धिकां प्रसत्तिम् । विलोकयन्ती जनता तदीयां व्यावर्तयामास ततो न दृष्टिम् ॥ १२-८५॥ आदर्शबिम्बेन तदङ्गकान्ते- रक्षाम्यता निष्प्रतिमत्ववादम् । प्रतिप्रवृत्तिं प्रतिमां विधाय प्रख्यापिता वृत्तवतामपीर्ष्या ॥ १२-८६॥ निनीषितां देवगृहं ययैता- माकल्पलक्ष्म्या समयोजयन्त । मुकुन्दसंस्पर्शमवाप्तुमर्हा सैव स्थिरा धन्यतमा बभूव ॥ १२-८७॥ पतिव्रताः पार्थिवयोषितस्तां प्रत्यङ्गसौन्दर्यनिमग्नभावाः । कृताशिषः कृष्णमनोरथस्था- मारोप्य कर्णीरथमन्वगच्छन् ॥ १२-८८॥ मङ्गल्यसङ्गीतसमेतयात्रा मनुष्यदेवीभिरनुद्रुता सा । निनंसितैषा स्वयमेव देवी नान्येति सद्भिर्निरणायि नाथा ॥ १२-८९॥ भावान्तरेषु प्रतिपन्नलीला पैतामहादीनि पदानि दातुम् । स्वदत्तशक्तेः कुहनामनुष्या कुतश्चिदिष्टं स्वयमाशशंसे ॥ १२-९०॥ प्रणम्य मूर्ध्ना निहितोपहारा- मुत्तस्थुषीमुत्सवदेवतैनाम् । अवोचदारादशरीरिवाचा परैरजय्यं पतिमाप्नुहीति ॥ १२-९१॥ पत्या निजेन परिणीतिमवाप्तुकामा लब्ध्वा वरं ललितमुत्सवदेवतायाः । तेनैव सा समसमीहितसिद्धिरासीत् मानाधिका जगति मन्मथमन्मथेन ॥ १२-९२॥ ऊरुः सव्यो नयनकमलं भ्रूलता चापि तस्याः प्रावेपन्त प्रियमुपगतं सूचयन्ति स्ववृत्त्या । आरादासीदलघुतुलसीगन्धसौम्यः समीरः प्रत्यासन्नं मुहुरुदचरत् पाञ्चजन्यप्रणादः ॥ १२-९३॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये रुक्मिण्यभ्युदयो नाम द्वादशः सर्गः ॥

॥ रुक्मिणीपरिणयो नाम त्रयोदशः सर्गः १३॥

प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः । समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः ॥ १३-१॥ तामद्भुतां सिद्धिमिवाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् । सत्तामनन्यामिव सद्गणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः ॥ १३-२॥ अङ्गैरवज्ञातकदम्बगोलै- रस्पन्दमन्देन विलोचनेन । लीलोपशान्त्या लिखितेव साऽभूत् दामोदरे दृष्टिपथं प्रयाते ॥ १३-३॥ पद्माकराणां परिषन्निवेशे पर्याप्तचन्द्रायुतकान्तिपू(सा)रे । अनन्यलभ्यां लभते स्म तृप्तिं तस्या मुखे दृष्टिरतीव शौरेः ॥ १३-४॥ वाचस्पतित्वं च वनस्पतीनां दिव्येतरेषां च दिवस्पतित्वम् । दातुं क्षमाया दयिते तदानी- माज्ञापको नूनमभूदनङ्गः ॥ १३-५॥ तस्मिन् द्वितीयामिव वैजयन्तीं सा च प्रिये साचिविशेषरम्याम् । कटाक्षमालां निबबन्ध कृष्णे कामाधिके कौतुकमेदुराक्षी ॥ १३-६॥ अलक्ष्यभेदत्रिविधाम्बुजाभै- रालक्ष्यश‍ृङ्गारगुणानुबन्धैः । स्वयंवरस्रग्भिरभावि तस्याः कालोदिते कंसरिपौ कटाक्षैः ॥ १३-७॥ स वैजयन्त्यादिविभावशाली निर्व्याजनिष्पन्ननिजानुभावः । श‍ृङ्गारवीराद्भुतचित्रितात्मा रम्यस्तया निर्विविशे रसोऽन्यः ॥ १३-८॥ आकेकराणामनघस्तदानी मेकक्षणं लक्ष्यमभूत् बहूनाम् । तस्याः स्थिरानन्दपरिप्लुताना- मर्थस्पृशामर्धविलोकितानाम् ॥ १३-९॥ तस्याश्चिराकाङ्क्षितलाभधन्यै- रपत्रपामन्थरितैरपाङ्गैः । बभार भूयो बहुमानपूर्वं बाल्ये धृतां बर्हिकलापभूषाम् ॥ १३-१०॥ सन्तानसौभाग्यघनेन यूना सिक्ता सुधासारनिभैरपाङ्गैः । उद्भिन्नरोमाञ्चततिर्बभासे कान्तप्ररोहा कलमस्थलीव ॥ १३-११॥ स्वकान्तिसाम्यादिव जातसङ्गैः- शौरिस्तदा स्वागतसूक्तिगर्भैः । प्रियासखीनामभजत् प्रहृष्टै रुद्वीक्षणैरुत्पलपुष्पवृष्टिम् ॥ १३-१२॥ स रुक्मिणीनेत्रचकोरचन्द्रः सा तत्प्रहर्षाम्बुजपूर्वसन्ध्या । तदद्भुत(तं)द्वन्द्वमवेक्ष्य सद्यो ययुस्तुलामप्सरसामनूनाम् ॥ १३-१३॥ तयैव तादात्म्यमिवाऽऽगतानां तस्याः सखीनां सममाविरासन् । परस्य वीक्षां प्रतिसल्लँपन्तो वक्रोक्तिगर्भा इव मन्दहासाः ॥ १३-१४॥ स कौस्तुभाभ्यर्णनिवेशयोग्यं कन्यामयं कामपयोधिरत्नम् । परीतमारात् प्रतिहारपालैः पश्यन् क्षणं पान्थ इवावतस्थे ॥ १३-१५॥ तं माल्यभूषापरिकर्मिताङ्गं धारातटित्वन्तमिवाम्बुवाहम् । समीक्ष्य बाला तदनन्यदृष्टि- श्चर्यामवालम्बत चातकानाम् ॥ १३-१६॥ तलोदरीं तालफलस्तनीं तां ताम्राधरां चारुनवोत्पलाक्षीम् । किं नाम भावीति विभावयन्तीं कृष्णस्तदा किञ्चिदिवाऽऽससाद ॥ १३-१७॥ दुर्दर्शमध्यां द्विरदेन्द्रयातां व्यूहक्रमव्यक्तविचित्रगात्रीम् । परैरभेद्यां प्रतिजग्मुषीं तां कान्तात्मिकां कामचमूं स मेने ॥ १३-१८॥ स चन्द्रिकां चन्द्र इवाभियात- श्चन्द्राननां यादववंशचन्द्रः । निर्वेशनीयः सविशेषमासीत् नेदीयसां नेत्रचकोरवृन्दैः ॥ १३-१९॥ अहं त्वया दूतमुखेन दूरात् साध्व्या समाहूत इहोपयातः । मा ते भयं भूदिति मञ्जुभाषी तामग्रहीदग्रकरे मुकुन्दः ॥ १३-२०॥ प्रियेण सा तेन गृहीतहस्ता तद्वक्त्रदिव्याम्बुजषट्पदेन । विलोचनेन व्यवृणोत् सखीभ्यः कृतार्थतां क्षीबदशोल्बणेन ॥ १३-२१॥ प्राचोऽवतारान् अतिशय्य भूम्ना सा रुक्मिणी तेन वृता चकाशे । तस्यैव रूपान्तरदूरवृत्तिः कन्दर्पजन्मानुगुणेव कान्तिः ॥ १३-२२॥ मल्लीविकासोज्ज्वलमन्दहासा रोमाद्गमैराहितकोरकश्रीः । समेयुषी सन्ददृशे तदा सा वसन्तलक्ष्मीरिव माधवेन ॥ १३-२३॥ अघर्मजस्वेदकणावकीर्णा- मभीतिजं वेपथुमुद्वहन्तीम् । अनुष्णबाष्पोदयमन्थराक्षीं विलोक्य देवीं विभुरभ्यनन्दत् ॥ १३-२४॥ हरिप्रियां केसरिणीमिवैनां दुरासदामन्यनृपद्विपेन्द्रैः । सखीजनः प्रीतमना निदध्यौ ययौ च खेदं निजविप्रयोगात् ॥ १३-२५॥ मिथो गुणैस्तन्मिथुनं निबद्धं वियोगवैदेशिकसम्प्रयोगम् । अजायतान्योन्यनिलीनभावं सखीदृशां सादरदर्शनीयम् ॥ १३-२६॥ जगत्त्रयार्तिप्रशमाय जातां विहारसङ्क्षोभितवैरिसिन्धुः । देवेषु पश्यत्सिवव पूर्वमेनां जग्राह तां जाग्रति राजलोके ॥ १३-२७॥ स पुष्पकं राम इव प्रियां स्वा- मुत्तारितां शत्रुभयादुदीर्णात् । मनोजवं सत्यमनोरथस्ता- मारोपयामास रथं रथाङ्गी ॥ १३-२८॥ सा चामरौघैरुपचर्यमाणा वातावधूतैरिव काशजालैः । रराज नाथेन रथोदयाद्रौ चन्द्रेण पूर्णेन शरन्निशेव ॥ १३-२९॥ परस्परप्राप्तगुणेन भासा (धाम्ना) बर्हावृतं व्योम विभावयन्तौ । विरेजतुस्तुङ्गरथाश्रयौ तौ विद्युत्पयोदाविव मन्दरस्थौ ॥ १३-३०॥ प्रभेव देवेन तमोपहेन प्रत्यग्दिशं तेन सह प्रयान्ती । नित्यानपायित्वमजानतीनां सत्यापयामास निजं प्रजानाम् ॥ १३-३१॥ तामुद्वहंस्तामरसायताक्षो रत्नौघदीप्तेन रथेन देवीम् । आत्मानमेवार्यममण्डलस्थं विद्यासखं व्यञ्जयति स्म वीरः(देवः)॥ १३-३२॥ अतीतदर्शामिव चन्द्रलेखां शान्तोपरोधामिव शारदीं द्याम् । अमंस्त निर्विघ्नफलामिवेच्छां शोकत्यजं शूरकुलेश्वरस्ताम् ॥ १३-३३॥ समेत्य सिंहीमिव तामनन्यां यानोद्यतं यादवपञ्चवक्त्रम् । आघुष्य गोमायुरिवामिषार्थी चैद्यः क्रुधा दीप्तमुखोऽन्वधावत् ॥ १३-३४॥ रुक्मी च तूर्णं प्रतिपन्नरोषः पुरो भवन् भूमिभृतां सखीनाम् । पराभवस्य प्रतिकारमिच्छन् जग्राह पार्ष्णिं जगदैकनेतुः ॥ १३-३५॥ जिघांसिते भ्रातरि जातखेदैः कान्ताभिलापैः कतकैरिवाम्भः । मनः प्रपेदे सहजां प्रसत्तिं सत्वाधिकं सात्त्वतवंशगोप्तुः ॥ १३-३६॥ स वीक्षमाणः सविलासनेत्रं वल्गुस्मितं वामदृशो मुखाब्जम् । तदुक्तिभिः स्वादुतमाभिरासी दाप्यायितो नूनमनाविलाभिः ॥ १३-३७॥ अनुद्रुतां वैरिचमूं स वीरो बलेन रुद्ध्वा निजबाहुनैव । विनिर्दिशन् मार्गभवान् विशेषान् विश्वासयामास विदर्भकन्याम् ॥ १३-३८॥ प्रियासहायः पदवीं स गच्छन् द्राघीयसीं दारुकसारथिस्ताम् । उदग्रवेगान् उदधेरनूपे वीतीन् क्षणं विश्रमयाम्बभूव ॥ १३-३९॥ भयार्णवादुद्धृतया स्वयाऽसौ श्रियेव साक्षादनुभूयमानः । पयोधिरूपां परिघां विलङ्घ्य द्युसम्मितां द्वारवतीमयासीत् ॥ १३-४०॥ परिष्कृतां काञ्चनतोरणैस्तां वल्गुध्वजां वन्दनदामचित्राम् । रामासहायः प्रसमीक्ष्य रेमे रम्यप्रसूनाञ्चितराजवीधीम् ॥ १३-४१॥ महीयसां मङ्गलदुन्दुभीनां नादैरवज्ञातपयोधिशब्दा । श्रुतोत्सवानां विदधे पुरी सा स्वर्गौकसां श्रोत्रसुधामपूर्वाम् ॥ १३-४२॥ प्रत्येयुषां कंसरिपुर्यदूनां देवद्रुमाणामिव जङ्गमानाम् । अनर्घरत्नाभरणप्रधानान् आदत्त दिव्यान् उपदाविशेषान् ॥ १३-४३॥ तस्मिन् महानीलमणिप्रकाशे तां रुक्मिणीमाहितरुक्मकान्तिम् । पुराङ्गनाः प्रेक्षितुमीहमानाः स्वर्गाधिकान् आरुरुहुः स्वसौधान् ॥ १३-४४॥ कलक्वणन्नूपुरचारुवाद्यं कर्णावतंसोदितभृङ्गगीतम् । कस्याश्चिदन्वागतनाट्यवेदं लीलागतं लास्यमभूदपूर्वम् ॥ १३-४५॥ परिच्युतं किञ्चिदिवान्तरीयं काचित्समालम्ब्य सहैव काञ्च्या(कान्त्या)। क्षिप्तेव तीव्रेण कुतूहलेन क्षणेन वातायनमाससाद ॥ १३-४६॥ आमुच्य ताटङ्कमनङ्गचक्रं सव्येतरे सत्वरमाव्रजन्ती । अन्येन काचिद्भृशमाबभासे कर्णेन कैवल्यविभूषणेन ॥ १३-४७॥ उदञ्चिता बाहुलतेतरस्या मौलिस्रजा हस्तगृहीतयाऽऽसीत् । जगज्जिगीषोर्मदनस्य जैत्री पताकयेवाद्भुतकेतुयष्टिः ॥ १३-४८॥ प्रकोष्ठभाजः प्रियशारिकायाः पयः स्वयं सादरमर्पयन्ती । गवाक्षमागम्य गजेन्द्रयाता काचित् प्रसस्मार कृतावशेषम् ॥ १३-४९॥ प्रचारवेगात् त्रुटितेन चक्रे- हारेण मुक्ताफलवर्षिणाऽन्या । अदूरतः सन्निहितस्य शौरे राचारलाजाञ्जलिपूर्वरङ्गम् ॥ १३-५०॥ स्तनांशुकं स्रस्तमबुध्यमाना सखीजने सस्मितमीक्षमाणे । परामृशन्ती विततान काचित् प्रतिक्रियां पाणिनखांशुजालैः ॥ १३-५१॥ सखीधृतैश्चामरतालवन्तै- राश्यानतां प्रापितमङ्गरागम् । विलोकिते शार्ङ्गिणि विह्वलाऽन्या श्वासानिलैः शोषमिवानिनीषत् ॥ १३-५२॥ प्रसाधयन्तीमवधीर्य धात्री- मङ्गैरसम्भावितभूषणाऽन्या । समीक्ष्य कृष्णं सहसोपजातैः परिष्क्रियामाद्रियतेव भावैः ॥ १३-५३॥ भ्रुवा स्फुरन्त्या मदनस्य मौर्वीं ज्याघातरेखामभि(पि)दर्शयन्ती । अन्यानुषक्तेऽपि हरौ वियातां प्रायुङ्क्त दूतीमिव दृष्टिमन्या ॥ १३-५४॥ समेयुषीमप्रतिमेन यूना तां रुक्मिणीं वीक्ष्य विलीनभावा । भाग्यं किमस्या इति भावयन्ती तदात्मतां नूनमलिप्सतान्या ॥ १३-५५॥ तदीक्षणे भर्तुरिव स्मरन्त्या कन्यादशां कामवशाद्भजन्त्या । स्वयंवरार्हे स्वयमेव तस्मिन् कयाचिदाधायि कटाक्षमाला ॥ १३-५६॥ कक्ष्यानिबन्धच्यवने सलीलं स्तनाहितस्वस्तिकबाहुबन्धा । जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत् ॥ १३-५७॥ रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती । त्यक्ता निमेषैरपराऽन्वकार्षीत् चित्राङ्गनानां सुरयोषितां च ॥ १३-५८॥ समीक्षितस्यापि सहत्वसङ्गात् दुष्प्रापलोभादपि दूयमाना । गलद्भिरन्या वलयप्रसूनै- रभ्यर्चनामातनुतेव शौरेः ॥ १३-५९॥ समानकान्त्या प्रियया समेते दृष्टे जगद्धातरि जातरागा । प्रणामयोग्येयमितीव मत्वा प्राप्तं पदं मेखलयापरस्याः ॥ १३-६०॥ तासां तदेकोत्सुकदर्शनानां समाधिभाजामिव शेमुषीणाम् । अलं प्रभुस्सोऽपि न मातुमासी- दपारहर्षादनघामवस्थाम् ॥ १३-६१॥ अवारुणीसम्भवसौरभैस्तै- रनन्यसाध्याधरबिम्बरागैः । निरञ्जनोपस्थितनेत्रशोभैः स पिप्रिये पौरवधूमुखाब्जैः ॥ १३-६२॥ स पौरकन्याकरविप्रकीर्णान् प्रायः प्रतीच्छन् उपचारलाजान् । अचीचरत् स्यन्दनमब्जनेत्रः सव्यापसव्येन गतेन वीधी(ध्या)म् ॥ १३-६३॥ कह्लारपद्मोत्पलकान्तिचोरैः कटाक्षणैः पौरवधूजनानाम् । मुग्धेन्दुहासो मुमुदे मुकुन्दः पश्यन् प्रियां प्रापितपुष्पवृष्टिम् ॥ १३-६४॥ कृष्णस्य तां स्कन्धमुपघ्नयन्तीं सुरद्रुमस्येव सुवर्णवल्लीम् । अवेक्ष्य नूनं चतुरः पुमर्थान् अनन्यलभ्यामलभन्त पौराः ॥ १३-६५॥ वक्त्रैः सुधासोदरकान्तिपूरैः कस्तूरिकापत्रकलङ्कदृश्यैः । अलक्ष्यदेहा विदधुर्मृगाक्ष्यः प्रत्युप्तपूर्णेन्दुशतान् गवाक्षान् ॥ १३-६६॥ शुचिस्मिताः सौधतलान्तरस्थाः पद्मेक्षणं प्रेक्ष्य परिस्फुरन्त्यः । शरत्पयोदोदरसंश्रितानां क्षणद्युतीनां द्मुतिमन्वविन्दन् ॥ १३-६७॥ अपाङ्गजालैरसितोत्पलाभैः कृष्णात्मकं भावमिवोद्वमन्त्यः । वितेनिरे राजपथे मृगाक्ष्यः तदादृतां बर्हवितानशोभाम् ॥ १३-६८॥ हरेरभिख्यामनुपाधिरम्यां विलोचनैर्वीतनिमेषविघ्नैः । आस्वादयन्त्यः सुदृशस्तदानी- मयत्ननिष्पीतसुधा इवाऽऽसन् ॥ १३-६९॥ अम्भोरुहाणामवलेपसीमां कर्णोत्पलानामपि कान्तिकक्ष्याम् । विलङ्घयन्तः सुदृशां कटाक्षा विलिल्यिरे कृष्णमवाप्य लक्ष्यम् ॥ १३-७०॥ तमात्मवन्तं परविद्ययेव पराक्रमं तत्परयेव लक्ष्म्या । तमेव देवं दययेव जुष्टं सम्मेनिरे तत्त्वविदः सभार्यम् ॥ १३-७१॥ तां प्राप्य चित्रामिव तारकेशः स्तव्यैः स्तुतो वन्दिगणैरभौमैः । विवेश धाम स्वमुदीर्णधामा वैवाहिकीं सम्पदमाप्तुमिच्छन् ॥ १३-७२॥ विहारयोगेन विभज्य युक्तं मिथोऽनुरूपं मिथुनं तदाद्यम् । उपाचरन् व्योमचरा यथार्हं सम्प्रीणनैरुत्सवसंविधानैः ॥ १३-७३॥ सदाऽभिगम्यैरभिगम्यमानं विश्राणने वैश्रवणात् प्रभूतम् । तं शङ्खपद्मप्रमुखा महान्तः सिषेविरे शेवधयः समेताः ॥ १३-७४॥ अकृत्स्नसंवेदिनि जीवलोके सङ्ग्राहयन् धर्ममथात्मवृत्त्या । प्रत्यर्चयामास मुनीन् उपेतान् प्रभुः स्वयं प्रेष्य इवोपचारैः ॥ १३-७५॥ अपत्रपाविप्लुतचेतसो ये त्यक्त्वा विपक्षं तरसोपसेदुः । यथाक्रसं सात्यकिरुत्सवादौ सेभावयामास सभासदस्तान् ॥ १३-७६॥ शुभंयवः स्वामिमहोत्सवेन स्वाराज्यमक्षय्यमिवाप्तवन्तः । दत्तोपचारा वसुदेवदारैः पुण्याशयाः पौरजनाः जहर्षुः (प्रहृष्टाः)॥ १३-७७॥ सहोदरन्यस्तभरस्तदात्मा रुक्माणि रत्नानि च रौहिणेयः । अदत्त सन्तोषवशादभीक्ष्णं वाञ्छाधिकं वन्दिवनीपकानाम् ॥ १३-७८॥ अनन्यभक्तैरनुभाव्यभूम्ना दत्तेक्षणो दानपतिस्त्रिधाम्ना । समाहितैः सम्मतमुद्धवाद्यैः पुरोधसां पूजनमाचचार ॥ १३-७९॥ आहन्यमाना धृतहेमकोणैः गन्धर्वमुख्यैरिव गाढविद्यैः । जातानुनादा जगतां त्रयाणां दोषच्छिदो दुन्दुभयः प्रणेदुः ॥ १३-८०॥ विभावितं शिक्षितनाट्यवेदै रुद्वाहसङ्गीतमुदारक्लृप्तम् । प्रसादनं दृष्टिमनश्श्रुतीना- मदिव्यमास्कन्दितदिव्यमासीत् ॥ १३-८१॥ लावण्यपूरं ललिताङ्गयष्टेः कार्त्स्नेन निर्वेष्टुमपारयन्त्यः । अङ्गानि वध्वाः कुलवृद्धनार्यः प्रसाधनैरन्तरयाम्बभूवुः ॥ १३-८२॥ प्रयुज्यमानानि तयोर्यथार्हं मङ्गल्यमाल्याभरणाक्षतानि । प्रायेण लोकाभ्युदयं प्रदातुं तत्सङ्गमात् तादृशतामकाङ्क्षन् ॥ १३-८३॥ अरातिपक्षार्णवमन्दराभे हस्ते हरेर्यत्तदबन्धि सूत्रम् । तदाददे स्थानवशादभिख्यां संवीतनागेन्द्रनिदर्शनीयाम् ॥ १३-८४॥ समेधितस्तस्य विवाहवह्निः पुरोधसा पुण्यकृदग्रिमेण । प्रदक्षिणावृत्तशिखाकलापः प्रायेण नीराजनमाततान ॥ १३-८५॥ आशास्य लाजाञ्जलिहोमभाजा क्षेमाशिषा किञ्चिदशेषहृद्यम् । अन्योन्यमाकेकरसस्मिताक्षा- वपश्यतामादिमदम्पती तौ ॥ १३-८६॥ वैलक्ष्यडोलामिव संश्रितानां विलोचनानां ववृधे विहारैः । तयोरनन्यादृशवैभवाना- मन्योन्यराजीवमधुव्रतानाम् ॥ १३-८७॥ परस्परं पाणिसरोजयोगात् बभूवतुस्तौ पुलकाञ्चिताङ्गौ । अस्विद्यतां च ज्वलनस्तु मन्दै- रसूत धूमैरधिवासमात्रम् ॥ १३-८८॥ समन्त्रकं साक्षिणि हव्यवाहे सख्योचितां सप्तपदीं भजन्तौ । स्वशासनेन स्वयमन्वयैन्ता- माचारमागन्तुकदम्पतीनाम् ॥ १३-८९॥ अन्वेतु विष्णुः स्वयमित्युदीर्य प्रियां पराधीन इवानुगच्छन् । जायापतीनां जगदुद्भवानां भव्यां दशां भावयति स्म नाथः ॥ १३-९०॥ आत्मानमेव स्वयमग्निरूपं परिक्रमैः पर्यचरत् स देवः । विश्वस्य बाह्यान्तरनित्यवृत्त्या न कर्म कर्ता च य एव येषाम् ॥ १३-९१॥ प्रदक्षिणेन क्रमणेन ताभ्यां दत्तार्चनो दिव्यवधूवराभ्याम् । नूनं तथाऽऽनर्च विघूर्णनेन स्वान्तः स्थितौ वह्निरपि स्वयं तौ ॥ १३-९२॥ तस्याः सलीलं चरणारविन्दं कामी गृहीत्वा करपङ्कजाभ्याम् । आस्थापयत् यां दृषदं मुकुन्दः साऽभूत् स्वयं मौलिमणिः श्रुतीनाम् ॥ १३-९३॥ यदत्र कर्मण्ययथाकृतं तत् स्विष्टं क्रियादग्निरिति ब्रुवाणः । स्वतेजसा भावितविश्वतेजाः स्वाहासखं देवमुपास्त देवः ॥ १३-९४॥ रामस्य सीतेव रमेव विष्णो- रमुष्य भूयास्त्वमिहैकपत्नी । इत्यूचिषो यादववृद्धदारान् प्रीताशया प्रैक्षत सा सनाथा ॥ १३-९५॥ वरेण वन्द्येन सुरासुराणां मङ्गल्यसीमान्तभुवा च वध्वा । समीक्षिता ब्रह्मसुतस्य पत्नी सर्वैरभूत् सादरदर्शनीया ॥ १३-९६॥ तदेकभावा तमनन्यभावं नाथप्रिया नाथमनुव्रजन्ती । अभीष्टसिद्धेरधिदेवतेयं यद्वा सवित्रीति यथार्थमूचे ॥ १३-९७॥ मनुष्यतां मानयतो विहारैः स्वामेव देवीमुपयच्छतस्ते । समेधतां मङ्गलमित्युशन्तः सत्याशिषस्तं मुनयः शशंसुः ॥ १३-९८॥ कृताशिषं कृष्णगृहेश्वरीं तां पुरोधसा पुण्यमनोरथेन । सकौतुकां कौतुकिनः सुरत्नैर- भ्यर्चयामासुरमात्यवृद्धाः ॥ १३-९९॥ प्रदाय ताभ्यामुपदाः समीचीः प्रत्यागताः स्वानि गृहाणि पौराः । आशापतीनां विभवादनूनां तत्रैव ते सम्पदमन्वभूवन् ॥ १३-१००॥ स्त्रीपुंसनाम्ना बहुधा विभक्तं विश्वं ययोरेव विभूतिमाहुः । नयो जहौ द्वारवतीं न ताभ्या- मङ्गीकृतामादिमदम्पतिभ्याम् ॥ १३-१०१॥ वधूसखे तत्र जगन्निवासे वसत्यमर्यादगुणानुभावे । तस्मिन्निवाऽऽसीदनपायभावा तस्यां नगर्यामपि रुक्मिणी श्रीः ॥ १३-१०२॥ तस्याः कटाक्षैर्विहिताभिषेकः तद्बाहुना कल्पितकण्ठमाल्यः । अवाप शोभामधिकां मुकुन्दः सौभाग्यसिंहासनसार्वभौमीम् ॥ १३-१०३॥ कदम्बगोलश्रियमाक्षिपन्तं कन्दर्परूपोदयपूर्वरूपम् । प्रियापरिष्वङ्गरसेन धन्यं प्रीताशयो बह्वमताऽऽत्मदेहम् ॥ १३-१०४॥ तां प्राप्य कृष्णः प्रभुतामिव स्वां मनःप्रसूतेरिव मन्त्रसिद्धिम् । आसीदभीतैः सहसाऽभिगम्यो मित्रैरमित्रैरपि सापराधैः ॥ १३-१०५॥ श्रीवत्ससंस्थानजुषा प्रकृत्या स्थानेन चिह्नेन च लक्षणीयौ । दृष्टावभीष्टं भजतां ददाते जगत्पती ताविह दम्पती द्वौ ॥ १३-१०६॥ न ते मनुष्या न च देवतास्ते प्रायेण तावेव तथाभवन्तौ । यैरेवमन्योन्यविभूषितं तत् द्वन्द्वातिगं द्वन्द्वमवैक्षि धन्यैः ॥ १३-१०७॥ अथ समुदितहर्षैरादृतो मन्त्रिवृद्धैः सुरपतिदयिताभिः स्तूयमानापदानः । रुचिमिव निरपायां रुक्मिणीं प्राप्य हृष्यन् यदुपतिरधिचक्रे यायजूकाधिकारम् ॥ १३-१०८॥ सुभगमुपलबिम्बे शातकुम्भेऽपि रत्नं कनति विपिनभागे कालकण्ठेऽपि गङ्गा । वशिकनृपगृहे सा वासुदेवेऽप्यदीव्यत् न हि भवति विशेषः क्वापि नित्योन्नतानाम् ॥ १३-१०९॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये रुक्मिणीपरिणयो नाम त्रयोदशःसर्गः ॥

॥ स्यमन्तकमूलस्त्रीपरिणयो नाम चतुर्दशः सर्गः १४॥

अथैकदा रोधसि पश्चिमोदधे- रदभ्रसत्राजितभक्तियन्त्रितः । त्रयीमयश्चन्द्रसमीकृतद्युतिः प्रसेदिवान् प्रादुरभूत् दिवाकरः (प्रभाकरः)॥ १४-१॥ अनल्पतेजोनिधिमप्रमाद्यतां प्रसूतिमिष्टस्य धनस्य भूयसः । स्वकण्ठलग्नं द्युमणिः स्यमन्तकं महामणिं भूमिभृते वरं ददौ ॥ १४-२॥ तमुग्रसेनार्थमियेष कंसजित् न वार्यते राजनि रत्नहारिता । प्रतीत्य सत्राजित एतदप्रियं क्वचिन्निचिक्षेप गुणाधिके(कं)मणिम् ॥ १४-३॥ यदेकमेकेन च लब्धमेकतो रसेन रत्नामिषमर्थकाङ्क्षिणा । बभूव तत् बन्धुविरोधमादधत् क्रमात् बहूनां विनिपातकारणम् ॥ १४-४॥ स्यमन्तकोदन्तविशेषसम्भवां मृषाभिशस्तिं शमयन्नथात्मनः । प्रसेनविध्वंसकसिंहघातिनो बिलं ययौ जाम्बवतो बलानुजः ॥ १४-५॥ स्तनन्धयोपान्तनिबद्धगीतया ददर्श धात्र्या विधृतं करेण सः । धनाष्टभारप्रसु(भ)वं दिनेदिने मणीश्वरं दर्शितकौस्तुभश्रियम् ॥ १४-६॥ जिघृक्षया दत्तदृशं च तत्र तं जरानिरुद्धोऽपि जवेन जाम्बवान् । अरोधनीयं विबुधैरपि स्वयं रुरोध नैसर्गिकसत्त्वरोषितः ॥ १४-७॥ मलिम्लुचं कञ्चिदिवागतं हरिं वनेचरः प्रेक्ष्य तदर्हविक्रियः । अहेतिहस्तं स्वयमप्यनायुधः प्रसह्य तं सा(बा)धयितुं प्रचक्रमे ॥ १४-८॥ अनन्यतन्त्रस्य पितुः पितामहः सुतस्य चाऽऽरब्धमवेक्ष्य संयुगम् । समीहितोदकमिदं द्वयोरिति प्रबुध्यमानो न निरोधमादधे ॥ १४-९॥ मिथस्तयोरस्तदयं विमथ्नतो- रनायुधं युद्धमपेतकैतवम् । अकल्पितप्राश्निकमन्ववैक्ष्यत स्वयं चतुर्भिर्दशभिश्च साक्षिभिः ॥ १४-१०॥ अरिष्टचाणूरमुखेष्वलक्षितं प्रदर्शयन् ऋक्षपतेः पराक्रमम् । चिरं ददौ युद्धमचिन्त्यवेष्टितो मनस्विनस्तस्य मधुप्रभञ्जनः ॥ १४-११॥ प्रकीर्यमाणा निजमुष्टिमुद्गर- क्षताकृतेर्जाम्बवतः क्षतोद्भवैः । रराज रामावरजस्य सा तनुः सशक्रगोपा वसुधेव शाद्वला ॥ १४-१२॥ स ऋक्षराजः क्षतजैर्जयश्रियः कुचार्पितैः कुङ्कुमकर्दमैरिव । परिष्कृताङ्गः प्रचितोन्नताकृतिः सगैरिकक्ष्माधरसम्पदं दधौ ॥ १४-१३॥ अशेषयज्ञाग्रहरं समागतं जिगीषयाऽनुव्रतया स दीक्षितः । अतोषयत् संयुगसप्ततन्तुना विभाव्यऋत्विग्विधिना भुजादिभिः ॥ १४-१४॥ तलप्रहारैरथ मुष्टिपातनैः पदाभिघातैर्भुजयन्त्रपीडनैः । मिथःप्रतिक्षेपपुनर्गृहीतिभिः नियुद्धचर्यानिपुणौ निजघ्नतुः ॥ १४-१५॥ कृतप्रतीकारविशेषतोषितौ परस्परच्छिद्रनिवेशितेक्षणौ । दिशागजेन्द्राविव दर्पदुर्मदौ दिनानि तौ निन्यतुरेकविंशतिम् ॥ १४-१६॥ अहीयत प्रत्यहमृक्षभूपतिः स्वलीलया कंसरिपुः समैधत । तमःप्रकाशाविव तौ दिनागमे वभूवतुः संयति पूर्वपश्चिमौ ॥ १४-१७॥ स तेजसा यादवतिग्मतेजसः समिध्यमानेन निवारितोन्नतिः । शरन्नदीपूर इव स्फुटाशयः शनैश्शनैः शान्तिमवाप जाम्बवान् ॥ १४-१८॥ वलीभिरापादतलं तरङ्गितः सिरालुदेहः पलितैस्सितासितः । चिरप्रवृत्ताहवसम्भृतश्रमो न चेतसा ऋक्षपतिः प्रचुक्षुभे ॥ १४-१९॥ स्वविक्रमादप्रतिमात् सुरद्विषां भयानकात् आनकदुन्दुभेस्सुतः । अबिभ्यतं प्रेक्ष्य तमृक्षपुङ्गवं महासुरं केवलमस्मरन्मधुम् ॥ १४-२०॥ युगान्तदम्भोलिनिपातभीषणै- र्निहन्यमानं निजमुष्टिमुद्गरैः । स्वनाभिपद्मोद्भवजृम्भिकासुतं बलानुजन्मा युधि बह्वमन्यत ॥ १४-२१॥ दशाननायोधनकेलिकिङ्करं परामृशन् ऋक्षपतिं परः पुमान् । बलीयसस्तस्य बहूपकारवित् बभञ्ज दर्पं भुजयन्त्रलीलया ॥ १४-२२॥ तमादितो मानुषमात्रमागतं सदृक्षमृक्षाधिपतिस्ततः परम् । अथाधिकं सामिनिरुद्धपौरुषः क्रमादमीमांस्यममंस्त कर्मभिः ॥ १४-२३॥ उवाच चैनं विधिवक्त्रसम्भवः स्वविक्रमप्रीतमनुक्रमात् विदन् । सगद्गदं सन्नमितेन मौलिना नखत्विषा पुष्पितमञ्जलिं वहन् ॥ १४-२४॥ अहो महत् सत्त्वमहो पराक्रम- स्त्वमीश्वरो नूनमहो निरीश्वरः । अतीतदेवासुरनागर्नैऋतः पतिः पतीनां प्रतिभाति मे भवान् ॥ १४-२५॥ अनेकमन्वन्तरदर्शिना मया न खल्वरामो ददृशे भवादृशः । निजौजसा र्नैऋतयूधघातिनं नियोधयन् (मां)यन्निभृतः प्रवर्तसे ॥ १४-२६॥ गुणैरपि प्रत्यवमृश्यते भवान् दशाननाद्यैर्युधि दृष्टवैभवः । श्रुतं मया सिद्धजनादिह स्वयं गुहाशयः प्राप्स्यति ते गुहामिति ॥ १४-२७॥ वनं तदेतन्महितं तपोवनं गिरिं च वेद्मि त्रिदिवेश्वरालयम् । पचेलिमं किन्नु(ञ्च)तपो बिलस्य मे प्रसाधितं यत् तव पादपांसुभिः ॥ १४-२८॥ स्वनाभितः सप्तमजन्मभागिनो विजृम्भमाणस्य विधेर्यदृच्छया । त्वमेव मां वेदमधुव्रताश्रिता- न्मुखाब्जतः स्वानुचरं व्यजीजनः ॥ १४-२९॥ त्रिभिः क्रमैर्दीव्यति दिव्यवामने स्वमायया मोहितदानवे त्वयि । जगन्ति विश्वानि मितानि विष्णुने त्यघोषयं द्रागिव जैत्रघोषणाम् ॥ १४-३०॥ जिघांसिते देव दशानने त्वया हतारिसङ्घैर्हरियूथपैर्वृतः । अवर्तयत् सूर्यसुतस्य सन्निधा- वयं जनः किङ्करवृत्तिमाहवे ॥ १४-३१॥ गतेषु सुग्रीवमुखेषु तावकं पदं तदप्राप्यमहं त्विह स्थितः । त्वदीक्षणात् प्राप्तफलोऽस्मि साम्प्रतं जरन् पुनर्यौवनमाप्तवानिव ॥ १४-३२॥ न तादृशाः सम्प्रति सन्ति भूतले ऋते भवत्तः प्रतिसन्धिभावनैः । हनूमतैकेन विभीषणेन वा मयाऽपि वा सोऽयमिति त्वमूह्यसे ॥ १४-३३॥ रसावहैरेकधियां रसायनैः शुभैः श्रुतिश्रेणिशिरोविभूषणैः । अपेतभारां अतिदेवमानुषै- र्विहारभेदैरवनीं विधास्यसि ॥ १४-३४॥ विशुद्धमिश्रैश्चतुरश्रवृत्तकै- रगाधतुङ्गैः प्रमितामितक्रमैः । अनन्यभावान् अनुकम्पते भवान् अचिन्त्यचिन्त्यैरवतारनाटकैः ॥ १४-३५॥ न वर्धसे कर्मभिरीश साधुभिः न हीयसे च त्वमसाधुभिः कृतैः । जगत्परित्राणपरेण केवलं विधिर्निषेधश्च न लङ्घ्यते त्वया ॥ १४-३६॥ गुणोदधिस्त्वं गुणकर्बुरात्मना तिरस्करिण्या पिहितात्मदृष्टिभिः । न दृश्यसे देव सदा सहैव सन् दिदृक्षमाणैरपि देवदानवैः ॥ १४-३७॥ जगत् तवान्तर्बहिरप्यमुष्य च त्वमेवमेवंविधचित्रवैभवः । समाधिदृष्ट्या मुनिभिः समीक्ष्यसे सनातनो नूतनभूमिकाश्रितः ॥ १४-३८॥ तवैव सङ्कल्पकलांशतः क्वचित् समर्थवादाः परमेष्ठिनामपि । त्वयि प्रतिद्वन्द्विनि कस्य किं बलं क एव जेता न भवेत् त्वदी(ये)क्षितः ॥ १४-३९॥ असह्यमेतन्मधुकैटभादिभिः स्वतल्पसारोल्बणबाहुना त्वया । निपीडनं यन्निबिडं विषह्यते मयाऽल्पसत्त्वेन तवैव तद्बलम् ॥ १४-४०॥ त्वया जितोऽहं क इवाजितः परो न रुध्यसे नाथ मया न किं परैः । दयालुनाऽपास्यत दर्प एव मे भुजाहवे च व्युदपादि भूष्णुता ॥ १४-४१॥ न नीतिवर्तन्यतिलङ्घिता मया न च त्वदादेशविपर्यये स्थितं (तः)। तथाऽपि सर्वाधिकसत्क्रियोचिते विरुद्धचेष्टा विदधे विमोह(हि)तः ॥ १४-४२॥ जगत्पते जाम्बवतीमिहार्हणां गृहाण पत्नीं गृहमागतः स्वयम् । मणिं च दिव्यं द्युमणेः स्यमन्तकं युतं धनैर्यौतकमर्पयामि ते ॥ १४-४३॥ ममाऽऽत्मजाऽपि श्रियमेवमप्सरः प्रसूतिरेषा वहती(ति)(दधती)श्रिया समाम् । त्वदर्हशीलादिगुणप्रसाधिता स्वयं वृणीतेऽद्य भवन्तमेकधीः ॥ १४-४४॥ त्वदागमात् ऋक्षबिलं परं पदं त्वदीक्षणात् सूरिगणा इमे वयम् । त्वदाश्रयात् सिन्धुसुतै(ते)व मत्सुता त्वया धृतोऽसौ मणिरस्तु कौस्तुभः ॥ १४-४५॥ त्वदाहितस्वातिशयैः स्वयोगतः परत्र साध्योऽतिशयः स्थिरत्रसैः । अनन्यसाध्यातिशयस्य तस्य ते स्वशेष(षि)ताऽसौ न विघातमर्हति ॥ १४-४६॥ स्वयोगभूम्ना चुलकीकृताखिलैः मुकुन्द देवैरपि किं न मुह्यते । विवेकवैराग्यविदेशवर्तिना वनौकसा मांसदृशा मया न किम् ॥ १४-४७॥ अभार्गवो नापनयेत न क्वचित् न वक्त्यसाधून्यबृहस्पतिर्न च । अवासवो न च्यवते न चाहवादते च ते तद्वदहं तु किं पुनः ॥ १४-४८॥ भवार्णवे कर्मविपाकवात्यया भवद्भिरावर्तगणैः परिभ्रमन् । कृतोपरोधः कृपया त्वदीयया भवत्पदं कूलमिव प्रपद्यते ॥ १४-४९॥ अविन्दतस्त्वाममितामृतोदधिं विगाढतृष्णाविवशान्तरात्मनः । विगाहनीयाः प्रतिभान्ति वीचिका मरीचिकानामिव भोगसम्पदाम् ॥ १४-५०॥ गुणोदधिं यः प्रमितप्रमाणया गिरा त्वदीयं परिमातुमिच्छति । स पातुमीहेत समग्रचापलः पयोज(सरोज)नालेन पयःपयोनिधिम्(धेः)॥ १४-५१॥ अकर्मतन्त्रस्य जगन्ति कर्मभि- र्निबध्यमानानि विमुञ्चतस्तव । अलीकलेशैरनुपप्लुता स्तुतिः तथाऽप्यकल्येयमयावदुक्तितः ॥ १४-५२॥ अजानत (अभुत्सि न)त्वन्महिमानमद्भुतं विमो(तिरो)हितं देव तवैव मायया । कृतापराधं कृपया वशीकृतः क्षमस्व मामित्यपतत् क्षमातले ॥ १४-५३॥ विलूनमूलद्रुमसन्निभं स तं विलक्षमुत्थाप्य विहारयादवः । प्रियाङ्गरागव्यतिहारगन्धिना भुजान्तरेणोपजुगूह सादरम् ॥ १४-५४॥ स कन्यकारत्नमचिन्त्यवैभवं वदान्यरत्नं च समं समर्पयन् । सरस्वतीवल्लभवक्त्रसम्भवो महामनाः पूर्णमनोरथोऽभवत् ॥ १४-५५॥ वनौकसां पत्युरहीन्द्रशोभिना विमथ्यमानादचलेन बाहुना । ननन्द लब्ध्वा हृदयङ्गमां प्रियां मणिं च दिव्यं मधुकैटभान्तकः ॥ १४-५६॥ स्तनापदेशस्तबकावभासिनी विलासभेदैरभिनीतपल्लवा । रमापतौ गारुडभूधरद्युतौ रसाधिका रत्नलतेव सा बभौ ॥ १४-५७॥ सविस्मया पूर्वमथ प्रमोदिनी ततो मदारम्भमिवाभिजग्मुषी । तदन्यसंस्कारनिरोधतः क्रमात् तदीक्षणे तन्मयतामवाप सा ॥ १४-५८॥ स पर्यणैषीत् त्रिदशैरुपस्थितो विधिर्यदाज्ञा विधिजन्मनस्सुताम् । बिले तदीये विबुधालयोपमे विकल्प्यमानाकृतिमप्सरोगणैः ॥ १४-५९॥ अवाप्य जामातरमादिपूरुषं जगत्प्रतीक्ष्यत्वमवाप जाम्बवान् । विदर्भराजेन विदेहभूभृता समक्रमं दुग्धपयोधिना च सः ॥ १४-६०॥ मनुष्यभावाभिनयव्यवस्थितां कुशीलवार्हां कुहनां वहन् प्रभुः । पुनस्तमृक्षेन्द्रपदानुभूतये परं च भोक्तुं पदमन्वमन्यत ॥ १४-६१॥ प्रहृष्यता जाम्बवता निवेदितां प्रवालजाम्बूनदरत्नसंहतिम् । प्लवङ्गभल्लूकगणैरनुप्लवै- रविप्लवां द्वारवतीमजीगमत् ॥ १४-६२॥ ततस्तमामन्त्र्य चतुर्मुखात्मजं प्रतिप्रयातः स्वपुरीं प्रियासखः । स्यमन्तकं संसदि दानवान्तकः स्वतोऽनघः स्वामिवशे न्यवीविशत् ॥ १४-६३॥ जगत्पतिं जाम्बवतीसखं तदा नियुद्धचिह्नैः परिकर्मिताकृतिम् । निरीक्ष्य तं द्वारवतीनिवासिनो ननन्दुरानन्दजलाविलेक्षणाः ॥ १४-६४॥ अपेतसम्मोहमिवाऽऽत्मवेदिनं दिवाकरं राहुमुखादिवोद्गतम् । अमंस्त नागेन्द्रमिवास्तश‍ृङ्खलं प्रशान्तवाच्यं प्रकृतिर्यदूद्वहम् ॥ १४-६५॥ जिताहितो जाम्बवतीनिषेवितः स तत्र सत्राजितसात्कृते मणौ । स्वचौर्यदुर्वादममार्जयत् स्वयं न विद्यते यस्य न किञ्चिदण्वपि ॥ १४-६६॥ स्यमन्तकस्य द्युमणेरिव त्विषा (वोदये)निमेषमापुः कुमदाकरा इव । ह्रिया च मिथ्यापरिवादिनस्तदा परे च पद्मा इव तद्विपर्ययम् ॥ १४-६७॥ स्वगोचरानेवमगोचरो गिरां बलानुजो बालधियामपाहरत् । रहस्सु रथ्यासु च लब्धसम्भवान् अवर्णवादान् अनघो गुणार्णवः ॥ १४-६८॥ अकीर्तिरारोप्यत कीर्तिरागता यदप्रियं प्रोचुरिदं प्रियाप्तये । न कर्मतन्त्रेषु मतेरमोहता न च स्वतन्त्रे स्युरनिष्टहेतवः ॥ १४-६९॥ प्रशान्तखेदः(भेदः)प्रतिलभ्य सन्मणिं जगद्विनेतुर्वसुदेवजन्मनः । ददौ धरित्रीमिव सद्गुणाधिकां स सत्यभामां तनयां नयाम्बुधिः ॥ १४-७०॥ यथा गिरीशो गिरिराजसम्भवां पुलोमकन्यां च दिवौकसां पतिः । स्वयं च दुग्धोदसुतां सुधासखीं तथा स रेमे सदृशीमवाप्य ताम् ॥ १४-७१॥ अनुव्रता कामकलास्वधीतिनी विचित्रशस्त्रास्त्रविहारवेदिनी । बहुप्रियस्यापि हरेरतीव सा वभूव देवी बहुमानगोचरः ॥ १४-७२॥ यथा न खेदाय गतः क्षणो भवेत् यथा च तन्वीत न भीतिमायतिः । अनन्तनिष्कम्पगुणामनुक्षणं प्रियः प्रियां प्रीतिमलम्भयत् तथा ॥ १४-७३॥ स वल्लभाभिस्तिसृभिः प्रकाशयन् परत्वमाद्यं प्रतिपन्नषङ्गुणः । नयो महीयानिव शक्तिभिस्समं समेतसिद्धिः प्रचिकाय सम्पदम् ॥ १४-७४॥ स्वदिव्यदेहप्रकृतीरिवापराः पराश्च देवीरवृणीत पञ्च सः । यथार्हसेवावसरे प्रमाद्यतां यदन्वितस्सन् अभिगम्यतां ययौ ॥ १४-७५॥ अखण्डिताशोक्तिभिरेकवृत्तितः(भिः) स ताभिरन्योन्यसमन्वितात्मभिः । विभूषयामास विभूतिवैभवं दिशाभिरष्टाभिरिवात्मनः पदम् ॥ १४-७६॥ अवाप्य देव्यः पतिमग्र्यनायकं महौजसं मन्मथसूत्रसंयताः । उदग्र्नसद्वंशभुवो मिथस्समाः सुवृत्तमुक्तावलि(फल)सौम्यतां ययुः ॥ १४-७७॥ आदौ लक्ष्मीरभजत हरिं रुक्मिणीरू पदृश्या प्रापुस्तस्याः प्रतिनिधिपदं तत्प्रियाः सप्त देव्यः । सिद्धीरष्टौ दधदिव तदा सेवितस्ताभिरेकः क्रीडायोगी निरवधिमसौ निर्वृत्तिं निर्विवेश ॥ १४-७८॥ प्राचीनासु प्रकृतिषु यथा प्रादुरासन् प्रजौघाः तद्वज्जाताः सममिव जगन्नेतुरष्टासु तासु । पश्चात्प्राप्ते(प्त)प्रणयिनि तथा षोडशस्त्रीसहस्रे तेषामेकः किमयमथवा तत्समानो बभूव ॥ १४-७९॥ शमितनिगमखेदैः साधुभिः श्लाघनीयं चरितमिदमुदारं शास्तृ(तस्य)चाणूरहन्तुः । श्रुतमनुकथितं वा शुद्धिमग्र्यां दधानं समतनुत पृथिव्यां शाश्वतं धर्मसेतुम् ॥ १४-८०॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादावाभ्युदये महाकाव्ये स्यमन्तकमूलस्त्रीपरिणयो नाम चतुर्दशः सर्गः ॥

॥ शिशुपालवधो नाम पञ्चदशः सर्गः १५॥

अथ पद्मभुवः पितुः सकाशा- दभिगच्छन् यदुपुङ्गवं दिदृक्षुः । मुनिरध्वनि वल्लकीसहायः प्रजगौ लास्यतरङ्गितप्रचारः ॥ १५-१॥ अहमस्मि पितामहस्य सूनुः स विभोरात्मभुवः सरोजनाभेः । भजते भुवि साम्प्रतं स देवः स्वयमेवाऽऽनकदुन्दुभेः सुतत्वम् ॥ १५-२॥ अवरोपितगोपसूनुभावः स नटः सम्प्रति देवकीसुतस्सन् । परितोषितभावुकः स्ववृत्त्या श्रुतिलक्ष्यां महतीं प्रियामविन्दत् ॥ १५-३॥ तदहं तमसः स्थितं परस्ता- दनपायद्युति भास्वताऽऽत्मनैव । कमलोल्लसितेन दर्शनीयं दिनमाद्यन्तविवर्जितं दिदृक्षे ॥ १५-४॥ गुणसिन्धुरसौ गुणातिवर्ती गतिरन्तःस्थितिरागमैकगम्यः । दयितासहितो दयैकसङ्गी गुरुराद्यो मयि गौरवं विधाता ॥ १५-५॥ जगदेकहितेन जन्मनाऽसौ दनुजैराक्रमणं भुवो निरुन्धन् । कलहप्रियमद्वचसोनुरोधात् न कथं विग्रहमारभेत नाथः ॥ १५-६॥ अधिकारविलम्बितापवर्ग- स्थिरसङ्गादपकौतुकस्त्रिवर्गे । विधिना नियतेन धर्मगुप्तौ विनियुक्तोऽस्मि विरोधनेन दीव्यन् ॥ १५-७॥ विदधे विनिवेदितं मयाऽसौ विविधं विश्वहितं विधास्यते च । स्वजनत्वधिया सुरासुराणां बहुमानैकपदं यतोऽहमासम् ॥ १५-८॥ विनिवेदयता रिपोरुदन्तं दिविषद्वैभवदावचित्रभानुम् । अजितस्य जिगीषतो मयाऽसौ विजयारम्भमहोत्सवो विधेयः ॥ १५-९॥ इति भव्यमनोरथो महीयान् प्रभुमासीनमुपह्वरेऽभियातः । विदिताखिलवेदितव्यमित्थं मुदितः प्राह जगद्धितं मुनीन्द्रः ॥ १५-१०॥ जय देव जगत्त्रयान्तरात्मन् न नियन्ता न च ते समस्त्वदन्यः । भवभीतिनिशीथिनीविभातं परमं ब्रह्म भवन्तमामनन्ति ॥ १५-११॥ उदितः प्रणवाङ्कुरात्मना त्वद्- विविधस्कन्धविभक्तरूढशाखः । त्वदनुग्रहपुष्पितः प्रजानां फलमिष्टं निगमद्रुमः प्रसूते ॥ १५-१२॥ विषमं निजकर्मभेदयोगात् बहुमानास्पदबन्धमोक्षलीलः (लम्)। जनितं भवतैव पुत्रनीत्या जगदेतत् स्वयमेव रक्षसि त्वम् ॥ १५-१३॥ गुणचित्रितजन्तुदन्तुरेऽस्मिन् जगति त्वद्विहिते हितेतरेभ्यः । अपि विश्वसृजां समाहिताना- मयथाचिन्तितमापतन्त्यवस्थाः ॥ १५-१४॥ सुकृतोपचयेन जातसिद्धि- स्त्वदसौ कश्चिदुपस्थितापराधः । अनुभूय हिरण्यरावणत्वे भजते सम्प्रति चेदिराजभावम् ॥ १५-१५॥ त्रिषु जन्मसु ते विहारदक्षं (शिक्षा) विधिना सिंहगजक्रमेण सृष्टः । सहजः किल रुक्मिणीनिमित्ते स रिपुः सम्प्रति कृत्रिमश्च जातः ॥ १५-१६॥ विपथेन सदैष विप्रधावन् विबुधग्राम(व्यूह)विपन्निदानभूतः । भवतो भजतामनन्यसाध्यं विनिपातं प्रणिपातवृत्त्य(गत्य)नर्हः ॥ १५-१७॥ दमनं दमघोषसम्भवस्य प्रबलस्यापि यदर्थ्यते तदेतत् । मधुकैटभमेरुमर्दिनस्ते मशकामर्शनमात्रमित्यवैमि ॥ १५-१८॥ अथवा जगदेतदोदनस्ते तदुपघ्नन् उपसेचनं च मृत्युः । महदादि विलापयन् महिम्ना दमनैरा(नेना)द्रियसे न दानवानाम् ॥ १५-१९॥ सुहृदोऽपि सदा सुरासुराणां प्रणतानुग्रहभावितात्मनस्ते । क्वचिदापतितोऽपि पक्षपातः समतामेव समर्थयेत सत्याम् ॥ १५-२०॥ प्रथमा चरमा च देवता त्वं वरणीया वरदा च विश्ववन्द्या । निगमेषु सती पुरेषु चैका जनयित्री जनपङ्क्तिहारिणी च ॥ १५-२१॥ कलशै (घटकै)रिव कर्मपाशनद्धैः स्थिरकालात्मकचक्रयन्त्रनिघ्नैः । विहरस्यधरोत्तरक्रमेषु स्ववशैरेव सुरासुरैः स्वतन्त्रः ॥ १५-२२॥ सवने भवमुक्तिसन्धि(क्तिसिद्धि)रूपे विधिना विश्वपते विचित्रहेतिम् । हृदि शान्तधियः समिन्धते त्वा- मनघात्मक्रतुहव्यवाहमाद्यम् ॥ १५-२३॥ अणिमादिभिरेक एव भिन्नः परविद्यामणिदर्पणेषु भानात् । सुदृशां भजसि त्वमात्मभूतः सुखसन्दर्शनयोग्यमाभिमुख्यम् ॥ १५-२४॥ अपि दृष्टमपि श्रुतं प्रभावं भवदीयं भविनस्तमोभिभूताः । न विदन्ति यथावदात्मवन्त- स्त्वनुपश्यन्ति करस्थिताम्बुकल्पम् ॥ १५-२५॥ सहधर्मचरीं सदाऽनुवृत्तां स्वयमुद्दीपयता त्वयाऽनुकम्पाम् । शरणागतरक्षणव्रतस्य प्रतिलब्धोऽयमिह प्रयोग(प्रबोध)कालः ॥ १५-२६॥ अहितं न हि(वि)चिन्तितं मयैतत् चिरदुष्कर्मकृतोऽपि चेदिभर्तुः । सह नाकसदामसौ विमानैः सुकृतित्वं लभतां त्वदस्त्रपूतः ॥ १५-२७॥ स्वपतः किल जाग्रतश्च तस्य त्वयि वैरेण विदीप्तचित्तवृत्तेः । त्वदनुस्मरणप्रभावयुक्ता नियतिस्त्वन्मयतामिवातनोति ॥ १५-२८॥ विनिवेदितविश्वकार्य इत्थं कृतिना तेन कृतार्हणो यथार्हम् । मुनिरात्ममनीषिकावदातः खलचेतोमलिनं खमुत्पपात ॥ १५-२९॥ वसुदेवसुतश्च पाण्डवेन क्रतुमारब्धवता कृतोपहूतिः । समरप्रियया सह ध्वजिन्या सवनं तस्य जगाम सत्प्रतीक्ष्यः ॥ १५-३०॥ यदुभिस्सह यादवेश्वरं तं परिषत्प्राप्त(प्य)मुपेत्य पञ्च पार्थाः । विभवोचितमीश्वरानुरूपं सुहृदर्हं च समर्चयाम्बभूवुः ॥ १५-३१॥ क्रतुमप्यनघं स धर्मसूनु- र्हविषां भोक्तरि दत्तसन्निधाने । विधिवत् स्वधिया समर्प्य चक्रे बहुधाऽनुश्रुततत्प्रभावभूमा ॥ १५-३२॥ हरिदश्वसमुद्भवं प्रदाने धनगुप्तौ च सुयोधनं न्ययुङ्क्त । स्वयमेव समाहितेन वव्रे हरिणा विप्रपदावनेजनांशः ॥ १५-३३॥ समये परिषत्सभाजनार्हे दिविषत्पूज्यपदोऽपि दैत्यहन्ता । किमसाविति यादवेषु कश्चि- न्नृप इत्यैक्षि जनैरलक्ष्यपारः ॥ १५-३४॥ अविशेषितशेषवृत्तिवाचं (भाजं) निजपारम्यनिगूहनाधिगम्यम् । अपृथग्विभवैस्तमासनाद्यै- रुपमृद्नन्त इवाऽऽसत क्षितीन्द्राः ॥ १५-३५॥ अथ युक्तविमर्शिभिश्चतुर्भि- र्गुरुभिः पश्चिमपाण्डवो नियुक्तः । प्रविवेश सभामशेषकर्तु- र्यदुवीरस्य विधातुमग्रपूजाम् ॥ १५-३६॥ अवदच्च तमेतमग्रगण्यं विबुधानां पितरं पतिं गुरुञ्च । हरिमर्चितुमर्च्यमुद्यतास्स्म- स्तदशेषैरनुमन्यतां सुधीभिः ॥ १५-३७॥ जगदेकपतेरमुष्य पूजां स्थिरधर्मद्रुममूलसेकरूपाम् । निखिलानुमतां नृपो विधत्ते निरपायप्रियपथ्यभावभव्याम् ॥ १५-३८॥ इति दर्शयतः पदं समाजे बलिनां मानभृतां महीपतीनाम् । महती बहुवारमुत्तमाङ्गे सहदेवस्य पपात पुष्पवृष्टिः ॥ १५-३९॥ हरिमर्चयितुं य ईहते तं सुरपुष्पैः स्वयमर्चयन्ति देवाः । इति नूनमगापयत् द्विरेफैः प्रसृतः पाण्डुसुते प्रसूनवर्षः ॥ १५-४०॥ अवलोक्य तदद्भुतं महीयः प्रतिपन्नानुमते नरेन्द्रलोके । निजगाद हसन् अमर्षवेगात् क्षितिपालान् शिशुपाल उन्मदि(त्पति)ष्णुः ॥ १५-४१॥ विदितं भवतामिदं यदेतत् स्वयमाहूय महीयसः क्षितीन्द्रान् । अवमन्यत एवमध्वरस्थः कुटिलो हन्त कुमार एष कुन्त्याः ॥ १५-४२॥ अयमश्विसुतोऽपि तावदास्तां यदि माद्रीतनयः स पाण्डुसूनुः । रभसादवमत्य राजलोकं यदि जीवेदलमन्ववायवादैः ॥ १५-४३॥ कृपणेन किमत्र साधुना नः सहदेवेन नियोगसाधकेन । चतुरः पुनरस्य पूर्वजातान् मनसा यात शठान् मनुष्यदेवाः ॥ १५-४४॥ द्विरदायुतसत्त्वशालिनो मे यदि धर्मध्वज एष धर्मसूनुः । मिषतः परिभूय धर्मपालान् यजते पश्यत पश्चिमेष्टिमस्य ॥ १५-४५॥ अथवा वसुदेवबन्धुदृष्ट्या वयमासीमहि मन्दहासगर्भम् । स्वयमस्य पिता कथं स धर्म- स्तमिमं धर्मविपर्ययं सहेत ॥ १५-४६॥ अयमस्मदनुज्ञया विजित्य क्षितिमासादितराजसूयधर्मः । प्रसवोपगमे पतिप्रतीपा वनितेवाद्य बिभर्ति वैपरीत्यम् ॥ १५-४७॥ परिपश्यति हन्त राजलोके पशुपालस्य विधीयते सपर्या । अथ तत्र समर्थतैव तन्त्रं तदसौ वीरवरेण्य एकलव्यः ॥ १५-४८॥ कुरुवृद्धमुपेक्ष्य जाह्नवेयं जयसम्प्रीणितजामदग्न्यरामम् । इतरानपि तादृशानिहैतान् न च गोपो न च यादवः समर्च्यः ॥ १५-४९॥ अतिमर्त्यबला विराटशल्य- द्रुपदाद्या बहवो हि सन्ति वृद्धाः । अतिलङ्घनमभ्युपैतु को वा गुणकर्मश्रुतशालिनाममीषाम् ॥ १५-५०॥ क्वचिदर्चनमिन्द्रजालतश्चेत् कुहकाः सन्ति परश्शताः पृथिव्याम् । अथ कश्चन सत्य एष भूमा क्व गतोऽसौ यवनादिसैन्यगन्धे ॥ १५-५१॥ अय(इद)मग्रज एष रौहिणेयो बलशाली वपुषा च शुद्धवर्णः । अनतिक्रमणं तदस्य युक्तं यदि शेषोऽयमविप्लुतः क्रमो वः ॥ १५-५२॥ नटवत् धृतशङ्खचक्रचिह्नाः कति नामात्र विडम्बयन्ति विष्णुम् । अनुकर्तुमयं च तद्वदीशः कथमीशत्वमनूर्मिषट्कहीने ॥ १५-५३॥ न च विश्वसिमो न वृद्धवाक्यं बलवन्मानविलङ्घनं न चेत् स्यात् । न वदन्त्यनिदम्परेषु सन्तः स्तुतिवाक्येषु यथाश्रुतार्थसिद्धिम् ॥ १५-५४॥ इति तत्र मुदा विकत्थमानं कठिनं कण्ठविलग्नमृत्युपाशम् । परिदृष्टपरावरस्तमीष- द्विनयन् विष्णुपदीसुतो बभाषे ॥ १५-५५॥ श‍ृणु तात हितं समाहितस्त्वं रुशतीं वाचमपास्य रोषजाताम् । अविमृश्य विपत्तिमापतन्तीं न हि तिष्ठन्त्यहितेषु बुद्धिमन्तः ॥ १५-५६॥ अतिपत्य मुकुन्दमन्तिकस्थं पथि(वशि)कान् अर्चितुमुन्मना भवेत् यः । अवधीरितकौस्तुभः स नूनं कुरुविन्देषु कुतूहलं विधत्ते ॥ १५-५७॥ स्तुतिभिः कतिचित् त्रिवर्गमृच्छ न्त्यपवर्गं च यमेकमाश्रिताभिः । निरये निपतन्ति निन्दयाऽन्ये यदि तद्वेत्थ वदैष यत्क्रियार्हः ॥ १५-५८॥ सहजं नयनं च तत् तृतीयं भुजयुग्मं च तव स्थितातिरिक्तम् । सहसा यदुपागमेन नष्टं स्वयमाकारयसि स्वमृत्युमेनम् ॥ १५-५९॥ न हि सन्ति न निश्चितागमार्थाः न गताः सन्निहिताश्च न प्रसुप्ताः । अपि तु त्रपया नतास्त्वदुक्ती- स्त इमे नन्विह चेतसा हसन्ति ॥ १५-६०॥ यदि जीवितुमीहसे चिराय प्रतिपद्यस्व हितं यदस्मदुक्तम् । अथ न प्रहितो जलाञ्जलिस्ते; श‍ृणुतान्ये य इह श्रुतौ निरूढाः ॥ १५-६१॥ युगकोटिशतायुतानि वेधाः स्वपदं प्राप यमेकमर्चयित्वा । मनुजस्य तदर्चने विगायन् मतिहीनः पशुरेष मर्षणीयः ॥ १५-६२॥ विधिहस्तधृतात् यदङ्घ्रिपद्मात् च्यवमाना पवमानवेगनीता(हीना)। विपुनाति जगन्ति दिव्यसिन्धुः क्रमते हन्त तदर्चने विवादः (तत् कथमेष दोषवादः)॥ १५-६३॥ स च कश्चन सर्वमेधयज्वा हविरात्माह्वयमात्मनैव हुत्वा । यत एव बभूव देवदेवः स किमस्माभिरदैवतैरनर्च्यः ॥ १५-६४॥ य इहाद्य भजन्ति यज्ञभागान् कृतिनः कार्तयुगेन कर्मणा ते । अयजन्त पुरा यमेकमाद्यं वरिवस्यामिह तस्य वारयेत् कः ॥ १५-६५॥ अथवा विबुधादिपूजनीये मनुजैरर्चनमत्र मा विधायि । इति नाम विमन्यता(विरम्यता) मिदानीमपशुत्वाय च कल्पतामयं नः ॥ १५-६६॥ धनबन्धुवयःक्रियादिमात्रै- रधिकेष्वप्यचमत्क्रिया विहत्यै । जगदेकपतौ सदोपकर्त- र्यपकृत्यैष भजेत कामवस्थाम् ॥ १५-६७॥ क्वचिदर्चयति प्रभूतपुण्ये त्रियुगं तद्वदलब्धभागधेयैः । यदि नाम धिया न शोचितव्यं न कथं दर्शनतोऽपि नन्दनीयम् ॥ १५-६८॥ यदनुग्रहनिग्रहप्रयुक्ते सुखदुःखे श‍ृणुमः स्वयम्भुवोऽपि । विमतिं भजतस्तदर्हणायां न च देयो(विधेयो)ऽनुनयो न सान्त्वना च ॥ १५-६९॥ न पनायति चेत् असौ न जिह्वा न नमस्यत्यथ नैतदुत्तमाङ्गम् । यदि नार्चयतो न तौ च हस्तौ कृपया कल्पितसन्निधानमेनम् ॥ १५-७०॥ निरुपाधिकसर्वबन्धुमेनं द्विषताऽनेन न भाषणप्रसङ्गः । निरयज्वलनेन्धनीभविष्यन् कृपणः केवलमेष शोचनीयः (चितव्यः)॥ १५-७१॥ सहनीयतया प्रतिश्रुतं यत् वसुदेवस्वसुरच्युतेन पूर्वम् । अपराधशतं तदद्य पूर्णं भविता चैद्यविपत्तये परं यत् (तत्)॥ १५-७२॥ कुरुवृद्धवचस्तदेतदर्थ्यं दमघोषप्रभवो निशम्य दीप्तः । प्रभयाऽनुकृतप्रवर्ग्यदीप्तिः प्रतिरुन्धानदुरासदो ररास ॥ १५-७३॥ निपुणैरतिबालवृद्धवाक्यं न परिग्राह्यमिति ब्रुवन्ति सन्तः । सहदेववदेष इत्यनिन्द्यं पृथुकत्वेन पितामहं निनिन्द ॥ १५-७४॥ अतिवृत्तिमवेक्ष्य तस्य घोरा- मशनिक्षोभनिभां सभासदस्ते । सदसत्प्रतिपत्तिमूढचित्ताः क्षणमालेख्यसमर्पिता इवासन् ॥ १५-७५॥ जहसुः कतिचिद्विनिन्द्य चैद्यं पिदधुः कर्णयुगं परे कराभ्याम् । सुरसिन्धुसुतं शशंसुरन्ये व्यचिकित्सन्त च केचिदल्पसत्त्वाः ॥ १५-७६॥ मुनिभिः पुलकाञ्चिताखिलाङ्गैः क्षरदानन्दधुबाष्पदिग्धदेहैः । अनुमोदनजातमौलिकम्पैः हरिकीर्तिश्रवणोन्मुखैरभावि ॥ १५-७७॥ स्तुतिनिन्दनयोरभिन्नरूपं मुखरागं मधुहन्तुरीक्षमाणैः । यदुभिः प्रतिरुद्धरोषवेगैः क्षमया तिर्यगवैक्ष्यत क्षमैव ॥ १५-७८॥ मधुजित्परिवादजातरोषं सहसा चेदिपतेर्वधाय सज्जम् । गदया सह भीममुज्जिहानं शमयन्नित्थमवोचदापगेयः ॥ १५-७९॥ बलभीमसुयोधनैरमुष्मिन् परिहीणायुषि न प्रवर्तितव्यम् । अतिपर्यनुयोगया नियत्या हरिणैवैष भवाब्धिवन्निवर्त्यः ॥ १५-८०॥ त्यज साहसमुज्झ्यताममर्षः समये विक्रमसम्पदाद्रियेत । सदनागतसूदनापवादो महतां सम्प्रति मा च भूदयं वः ॥ १५-८१॥ भजतु प्रथमार्हणां यथार्हं भगवानेष भवार्णवैकसेतुः । प्रकृतस्य विधातुमन्तरायं स्वयमेतस्य शुभस्य न क्षमं वः ॥ १५-८२॥ इति शान्तनवे प्रभाषमाणे निखिलानुश्रवसंशयप्रमोक्ता । मुदितो मुनिरब्जयोनिजन्मा मुहुराधूतकरस्तदभ्यनन्दत् ॥ १५-८३॥ क्षितिपालगणोदधिस्तदानीं विषमारम्भविरोधसेतुभिन्नः । स्तिमितक्षुभिताकृतिर्बभासे गगनाम्भोधरसन्निभो गभीरः ॥ १५-८४॥ ननृते मुदितेन नारदेन क्षिपता मङ्क्षु मृगत्वगुत्तरीयम् । सुरसिन्धुसुतोदितं विपञ्ची- मसकृद्गाप(ञ्चींसकृदावाद)यताऽनुनादवृत्त्या ॥ १५-८५॥ उदगीयत यत् तदा विधिज्ञैः सममुद्गातृभिरेकताननादैः । मधुमर्दनगीत(ति)गर्भया तद् विशदं नारदवीणयाऽन्ववादि ॥ १५-८६॥ व्रजयोषिदपाङ्गवेधनीयं मधुराभाग्यमनन्यभोग्यमीडे । वसुदेववधूस्तनन्धयं तत् किमपि ब्रह्म किशोरभावदृश्यम् ॥ १५-८७॥ निकटेषु निशामयाम(नि)(मि)नित्यं निगमान्तैरधुनाऽपि मृग्यमाणम् । यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवनं युवानम् ॥ १५-८८॥ पदवीमदवीयसीं विमुक्ते- रटवीसम्पदमम्बुवाहयन्तीम् । अरुणाधरसाभिलाषवंशां करुणां कारणमानुषीं भजामि ॥ १५-८९॥ अधराहितचारुवंशनालाः मकुटालम्बिमयूरपिञ्छमालाः । हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ १५-९०॥ जयतादिह देवकीसुतोऽसौ जगतामादिरनाद्यनन्तभूमा । अवतारयितुं भरं पृथिव्या वसुदेवस्य गृहे कृतावतारः ॥ १५-९१॥ क्रतुरत्र समर्पितः कृतार्थः स च धर्मः कमिवाचचार धर्मम् । जगदेकपतेरमुष्य पूजां विदधानेन युधिष्ठिरेण पुत्री ॥ १५-९२॥ इह नाकसदो न मानुषास्ते य इमे कृष्णमिहार्चयन्त्यनन्याः । अयमेव महो ममेति गायन् स तदा मूर्त इवाऽऽस नाट्यवेदः ॥ १५-९३॥ अभिनन्दितवृत्तिरार्यमिश्रै- रविसंवादिभिरागमोदितेषु । विनयादवनम्य विश्वभर्तुः सहदेवः स्वयमाहरत् सपर्याम् ॥ १५-९४॥ अरजस्तमसां महीपतीना- मनुमत्या मुनिमुख्यसम्मते च । पुरुषस्य परस्य पूर्वपूजां सहदेवप्रहितां शशंसुरार्याः ॥ १५-९५॥ तृणभुक्प्रतिमस्तृणाय मत्वा स तदा चेदिपतिर्युधिष्ठिरादीन् । अजहत्परुषोक्तिहेतिजालो दरशेषेन्धनवह्निवत् दिदीपे ॥ १५-९६॥ अजुगुप्सत भूभृतः सहिष्णून् परिवादैश्च तिरश्चकार पार्थान् । अवमत्य मुकुन्दमर्भकोऽसा- विति धिक्कृत्य पितामहं जगर्ह(र्हे)॥ १५-९७॥ अनघोऽयमतन्द्रितः क्रियायां गुरुभिः शिक्षितशुद्धधीरनेकैः । कुरुवंशपितामहः कुतोऽसौ मतिमोहेन महीयसा गृहीतः ॥ १५-९८॥ अशठैरजडैरनेडमूकै(मुहुरादृतमोहशान्तिकृत्यै)- र्मुनिभिश्चात्र किमङ्ग्यकारि मौनम् । अथवा किमरातिपक्षसक्तै- रहमस्मीति मुहुर्जहास मूढः ॥ १५-९९॥ परिवर्तहुताशनप्रदीप्तं वदनं तस्य रुषा विजृम्भमाणम् । फणभृद्बिलभीषणं तदाऽऽसीत् ज्वलदुल्काशतदुर्निरीक्षनेत्रम् ॥ १५-१००॥ बडबानलधूमराजिरूक्षा भ्रुकुटी तस्य मुखे परिस्फुरन्ती । ददृशे तदसून् प्रसह्य पातुं शमनेनेव निवेशिता भुजङ्गी ॥ १५-१०१॥ भसितीकृतचन्दनानुलेपः क्वथितद्रावितहेमपुष्पदामा । सहसा हृदि तस्य कोपवह्निः समदीपि स्फुटितप्रकीर्णहारः ॥ १५-१०२॥ कठिनौ परिपिंषतः करौ द्वौ बहुशस्तस्य वरोर्मिका विशीर्णा । ध्रुवमप्रशमाय रोषवह्ने- स्तुषविक्षेपमधत्त रत्नचूर्णैः ॥ १५-१०३॥ स्ववधाहतडिण्डिमस्वनाभान् असकृच्चेदिनियन्तुरट्टहासान् । अभितो मणिभित्तिभिः सभा सा प्रजहासेव विजृम्भितप्रतिश्रुत् ॥ १५-१०४॥ प्रतिपद्य रुषा विवर्णभावं तमसा बिभ्रदलङ्घ्यमैकराश्यम् । उपरक्त इवार्यमाऽस्तमृच्छन् स भृशं सद्भिरभूददर्शनीयः ॥ १५-१०५॥ श्वसितैरवि(पि)दूरवृत्तिमद्भिः परिवारैरिव तत्यजे त्रसद्भिः । निजमंसमरातिवन्निजघ्ने प्रविकल्पेन पदेन चास्य भूमिः ॥ १५-१०६॥ निभृतैरपि पूर्वमैकमत्यात् विकृतस्याथ विरुद्धचेष्टितानि । दधिरे दमधोषसम्भवस्य प्रतिबिम्बैरिव तस्य मित्रभूतैः ॥ १५-१०७॥ विकृताकृतिवेषचेष्टिताना- मवलेपग्रहलुप्तमानसानाम् । अवधीरितजाह्नवेयवाचा- मपहासः परमाददे महद्भिः ॥ १५-१०८॥ उपहूय रणाय वृष्णिवीरान् नृपलोकादथ निर्जगाम चैद्यः । तममंसत यादवास्तदानी- मनलस्कन्धविनिस्सृतं स्फुलिङ्गम् ॥ १५-१०९॥ कतिभिश्चन कामचारसक्तै- रुपसञ्जातमदैरुदग्रश‍ृङ्गैः । गजयूधपतेरिवाग्रभाजो गतिरेतस्य गजैरिवानुजग्मे ॥ १५-११०॥ अथ तान् अनुमत्य पाण्डवादीन् समरस्थानमुपागतः ससैन्यः । हरिरप्रतिरोधनीयवृत्तिः द्विरदाधीशमिव द्विषं रुरोध ॥ १५-१११॥ रथहस्तितुरङ्गपत्तिरूपै- र्युयुजाते पृतने यथार्हमङ्गैः । स्थितिकर्मभिराभिमुख्यवद्भि- र्युधि बिम्बप्रतिबिम्बवद्भवन्त्यौ ॥ १५-११२॥ गरुडा इव पन्नगान् उदग्रान् द्रुमषण्डानिव मारुताः प्रचण्डाः । अहितान् अभिनिघ्नतो निजघ्रु- र्यदुवीरा मधुवैरिहेतिकल्पाः ॥ १५-११३॥ स्थितमप्रतिमे रथाङ्गपाणिं गरुडप्रख्यगतागते रथाग्र्ये । पतनोद्यततारकानुकारी शलभो वह्निमिवाऽऽससाद चैद्यः ॥ १५-११४॥ ज्वलदुज्ज्वलहेतिवृन्दशाली विपुलस्यन्दनवेदिमध्यदीप्तः । स्वयमेव बभूव चेदिराजः स्वविभूतेरभिचारहव्यवाहः ॥ १५-११५॥ यदुपुङ्गवसूर्यसन्निधाने शिशुपालः प्रतिसूर्यवत् प्रदीप्तः । किमतो भवतीति खिन्नचित्तैः सखिभिः स्वर्गिभिरप्यवैक्ष्यतैकः ॥ १५-११६॥ मदलुप्तधिया तदाऽभियुक्तो यदुसिंहः शिशुपालकुञ्जरेण । विजहार गुहाशयस्तरस्वी निखिलारण्यकनिर्विघातवृत्तिः ॥ १५-११७॥ मधुमर्दनकार्मुकप्रणादः सुमनश्श्रोत्रसुधारसायमानः । त्रिजगद्भयशान्तिकप्रयोगो रणवेदप्रणवो बभूव रम्यः ॥ १५-११८॥ अचिरद्युतिभास्व(सु)रोऽथ चैद्यः पुरुहूतायुधचारुचित्रचापः । प्रलयस्तनयित्नुभीमनादः शरवर्षेण मुकुन्दमभ्यवर्षत् ॥ १५-११९॥ गदया तदपोह्य बाणजालं प्रतिनिर्धूतहिमप्रभाकराभः । अहितं विशिखैरहन् मुकुन्दो- ऽदरवेधेऽपि दरव्यथाविमुक्तम्(क्तः)॥ १५-१२०)॥ मुषिताम्बरमस्त्रशस्त्रभूम्ना दनुजारेर्दमघोषजन्मनश्च । अतिराघवरावणं तदानी- मभवत् द्वैरथमाकुलेन्दुसूर्यम् ॥ १५-१२१॥ रथिनोरथ वादिनोरिवाऽऽसीत् युधि शस्त्रास्त्रमयैः प्रमाणतर्कैः अपरस्परपातिभिः प्रभतै- रवधानेन परस्परं जिगीषा ॥ १५-१२२॥ प्रथितौ रणयज्ञयायजूकौ धनुराम्नायसमाहितप्रयोगौ । तदनन्यरसान(व)तोषयेतां नरदेवान् उपहूतसन्निधातॄन् ॥ १५-१२३॥ यदुसूर्यमवाप्य चैद्यचन्द्रः शनकैर्यत्र बभूव मन्दधामा । गणना न बभूव कृष्णपक्षे हतभग्नादिविकल्पितेऽपि तस्मिन् ॥ १५-१२४॥ रभसभ्रमणेन हेतिराजो रणनीराजनमाचचार शौरेः । तममंसत सैनिकास्तदानीं द्विषदुत्पातमलातचक्ररूपम् ॥ १५-१२५॥ सुकृतेन पुराकृतेन चैद्यः प्रतिपन्नप्रकृतिः प्रशान्तवैरः । क्षणमद्भुतकृष्णरूपदर्शी शिथिलाकृष्टशिलीमुखोऽवतस्थे ॥ १५-१२६॥ समयोदयसम्भृतप्रसादः त्रिगुणग्रन्थिचिकित्सकः श्रितानाम् । विलुलाव सुदर्शनेन कृष्णः शिशुपालस्य शिरः किरीटजुष्टम् ॥ १५-१२७॥ सह भृत्यगणैः समित्रवर्गे निहते चेदिपतौ निवृत्तखेदाः । अभितुष्टुवुरादरेण देवा नरदेवाश्च तमीड्यमादिदेवम् ॥ १५-१२८॥ हरिणा निधनं तदीक्षणं च प्रयतामप्रतिबोधसम्प्रयुक्तम् । जगदद्भुतदिव्यभोगहेतुः प्रतिबोधे तु दुरत्यया विमुक्तिः ॥ १५-१२९॥ सहसा हरिचक्रसम्प्रयोग- क्षणसम्प्राप्तविपाकया नियत्या । अनघस्थितिमन्तिमामवस्थां स तदा संयमिनामवाप चैद्यः ॥ १५-१३०॥ रभसेन रथाङ्गलूनकण्ठात् वपुषश्चेदिपतेरुदीयमानम् । तपनायुतसन्निभप्रकाशं यदुवीरस्य तनुं विवेश तेजः ॥ १५-१३१॥ अवलोक्य तदद्भुतं महीयः क्षितिपालैरमरैस्सलोकपालैः । मुनिभिश्च मुहुःकृतावमर्शै- रिदमित्थन्त्वविनि(त्थन्त्विति नि)श्चयो न लेभे ॥ १५- १३२॥ इति सम्भृ(हृ)तवीरसप्ततन्तुः कृतिना धर्मभुवा कृतानुयात्रः । विनिवर्त्य तमग्रजानुवर्ती परमेशः स्वपुरीं पुनः प्रतस्थे ॥ १५-१३३॥ जगद्वन्द्यः प्राप्तो जलधिरशनामात्मनगरीं यथार्हं संसृष्टो यदुभिरखिलैरर्चितपदः । धरित्रीभारार्ध(भारस्य)व्यपनयनधर्मे धृतमतिः महिष्या रुक्मिण्या महितचरितःसाधुमुमुदे ॥ १५-१३४॥ अलघुभिरपराधैराशरीरं प्रवृत्तैः श्रितमपि शिशुपालं श‍ृण्वतामप्यसह्यैः । विधिवशनियतेन व्याजमात्रेण मुञ्चन् अजनि परिजनानां शौरिराश्वासपात्रम् ॥ १५-१३५॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये शिशुपालवधो नाम पञ्चदशस्सर्गः ॥

॥ नरकवधो नाम षोडशः सर्गः १६॥

ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् । पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः ॥ १६-१॥ अपत्यभावमापन्नमात्मानममृतोदधेः । निमेषरहितैः पौरैर्देवभूतैर्निरीक्षितम् ॥ १६-२॥ अदृश्यं मन्दपुण्यानाममन्दप्रीतिदायिनम् । आत्तदेहमिव स्वर्गमासेचनकदर्शनम् ॥ १६-३॥ महनीयपरिष्कारं वल्गुध्वजमतल्लिकम् । महोत्सवमिवाशानामाशाभ्यधिकसम्पदम् ॥ १६-४॥ उदधेरिव मन्थेन पीडितस्य समुत्थितैः । दृढलग्नैरिवोत्पत्तौ दीप्तं शोणितबिन्दुभिः ॥ १६-५॥ दैत्यदानवदर्पघ्नैर्दन्तैर्दलितमन्दरैः । सिंहानामपि हन्तारं सिंहवक्त्रविभूषणैः ॥ १६-६॥ मेरुकल्पेन रूपेण मेदिनीधृतिहेतुना । त्रिदशप्रीतिदातारं स्त्यानसिन्दूरधातुना ॥ १६-७॥ मूर्ध्ना विपुलतुङ्गेन मेनकास्तनबन्धुना । दधतं मौक्तिकाकल्पं गङ्गाबुद्बुदनिर्मलम् ॥ १६-८॥ अजहद्भृङ्गगीतेन गर्जाडम्बरशोभिना । स्वकान्त्या कर्णतालेन कॢप्तसङ्गीतखेलनम् ॥ १६-९॥ नर्तयन्तममर्त्यानां नेत्रकौतुकसूतिकाम् । नासां त्रिदशनारीणामूरुनिर्माणमातृकाम् ॥ १६-१०॥ मङ्गलत्वमिवेच्छद्भिर्हैमशङ्खादिमण्डनैः । आश्रितं रत्नपूर्णेन कुम्भेन च महीयसा ॥ १६-११॥ विभूतिशरदम्भोदैः कीर्तिवल्लीगुलुच्छकैः । कान्तिसागरकल्लोलैः सपक्षमिव चामरैः ॥ १६-१२॥ सहजं प्रभया चन्द्रं वारुणीं मदसम्पदा । सूचयन्तं स्वमूर्त्या च सुधां शुद्धानुभाव्यया ॥ १६-१३॥ जगदामोदजनकं दानार्द्रकरपुष्करम् । दभ्रयन्तमिवौदार्यात् दिव्यपादपसम्पदम् ॥ १६-१४॥ उदग्रबहुदन्तांशुं बृंहितव्याप्तदिङ्मुखम् । हसन्तमिव दिङ्नागान् अन्यान् अतिबलानपि ॥ १६-१५॥ उद्वहन्तं कदलिकां काञ्चनीं किङ्किणीफलाम् । वप्राभिघातभीतस्य सुमेरोरुपदामिव ॥ १६-१६॥ चित्रकम्बलसञ्छन्नं कान्तं कनककक्ष्यया । विद्युतेव परिष्वक्तं वासरान्तशरद्घनम् ॥ १६- १७॥ अवधिं दर्शनीयानामाकल्पमनघं दिवः । जीवातुं देवसैन्यानां दर्पभङ्गं विरुन्धताम् ॥ १६-१८॥ घण्टायुगलनादेन नगेन्द्रेष्वनुनादिना । क्षरन्तममृतक्ष्वेलौ कर्णेष्वमरतद्द्विषाम् ॥ १६-१९॥ महता मदगन्धेन तस्य विग्ना विबभ्रमुः । उत्खातविपुलस्तम्भा नागास्त्रुटितश‍ृङ्खलाः ॥ १६-२०॥ स तं द्वारवतीद्वारे समवस्थाप्य सानुगम् । आससाद हरेः स्थानमवज्ञातत्रिविष्टपम् ॥ १६-२१॥ शुभानामिव साम्राज्यं श्वेतद्वीपमिवापरम् । निवेदितसमाहूतः प्रासादं प्राविशत् प्रभोः ॥ १६-२२॥ स तेन विहितां शक्रः प्रतिगृह्य प्रियार्हणाम् । निजगाद निजां भीतिं गद्गदोद्गम(त)या गिरा ॥ १६-२३॥ दयनीयेषु देवेषु देवदेव त्वयाऽधुना । अपाङ्गाः परिपात्यन्तामनुक्रोशानुवर्तिनः ॥ १६-२४॥ सुषुवे नरसिंहं त्वां भक्तप्रह्लादसम्मुखम् । रक्षार्थमिह दीनानां रत्नस्थूणेव देवकी ॥ १६-२५॥ नाथ त्वयि निराबाधं त्रिलोकीं त्रातुमागते । नरको नाम दैत्येन्द्रः कदर्थयति नाकिनः ॥ १६-२६॥ धर्मसूकररूपस्य तवसौ क्षमयाऽन्वये । उत्पात इव भूतानामुद्बभूव भयानकः ॥ १६-२७॥ जननी सर्वभूतानां पत्नी तव वसुन्धरा । प्रसूय नरकं देवी दूयते त्वदुपेक्षया ॥ १६-२८॥ न हिरण्यहिरण्याक्षौ न मधुर्न च कैटभः । उपमानपदे तस्य त्वच्छक्तिजनितात्मनः ॥ १६-२९॥ एष कल्पान्तवृत्तान्तमिदानीन्तनयन्निव । विधुनोति त्वदालम्बं ब्रह्मस्तम्बमिदम्परः ॥ १६-३०॥ विक्रमस्रोतसा तस्य बृहन्त्यपि बलानि नः । सहसा भेदमायान्ति सैकता इव सेतवः ॥ १६-३१॥ यदृच्छोपगमेऽप्यस्य यान्ति देवगृहाश्रिताः । प्रधावितुमनीशानाः साक्षितां सालभञ्जिकाः ॥ १६-३२॥ महता मत्प्रयुक्तेन वज्रेण ज्वलितात्मना । निलिल्ये तस्य दोर्मध्ये निष्काभरणवर्ष्मणा ॥ १६-३३॥ त्वत्कोप इव दीप्तोऽपि ज्वलनो न प्रकाशते । ज्योतिरिङ्गणवत् तस्य द्युमणेरिव सन्निधौ ॥ १६-३४॥ अमोघत्वयशोभङ्गभयादिव निवर्तते । अखण्डितबले तस्मिन् दण्डो दण्डधरार्पितः ॥ १६-३५॥ नयनार्चिष्मतस्तस्य र्नैऋतेश्वरवाहिनी । अपसृप्य पुरोभागादद्यापि न निवर्तते ॥ १६-३६॥ तं सुप्तमपि वा मत्तं वारुणो वैरिदारुणः । न रोद्धुं क्षमते पाशो नलस्तम्ब इव द्विपम् ॥ १६-३७॥ शक्तः शमयितुं तस्य संवर्तार्हजवोऽपि सन् । नभस्वान् खेलतः सङ्ख्ये न स्वेदकणिकामपि ॥ १६-३८॥ धनदेन गदा तस्य महती मूर्ध्नि पातिता । अभित्त्वा पौष्पमापीडमनापीडत्वमादधे ॥ १६-३९॥ जटिलान् कृत्तिवसनान् नियमं तीव्रमास्थितान् । तपस्विन इति ज्ञात्वा स रुद्रान् नातिवर्तते ॥ १६-४०॥ अहरत् वारुणं छत्रं मामकं मणिभूधरम् । अमृतस्यन्दिनी चास्मज्जनन्या मणिकुण्डले ॥ १६-४१॥ आदर्शमिव सम्पत्तेरमृताब्धेरिवाशयम् । औपवाह्यमसौ मत्कमारुरुक्षति साम्प्रतम् ॥ १६-४२॥ देवदानवसिद्धानां नृपाणामपि कन्यकाः । अपहृत्य त्वदेकार्हास्त्वरते पाणिपीडने ॥ १६-४३॥ स भौमस्त्वन्निरस्तानां समवाय इवोत्थितः । बाधते विबुधानेवं बलवीर्यपराक्रमैः ॥ १६-४४॥ तदेवमवसीदत्सु दया देवेषु पात्यताम् । अनपह्नुतदास्यानां दोषनिह्नवसाक्षिणी ॥ १६-४५॥ तमर्धं भूमिभारस्य त्वयैवोत्पादितं प्रभो । त्रिलोकीकण्टकं तीक्ष्णं त्वमेवोद्धर्तुमर्हसि ॥ १६-४६॥ निवर्त्ये धर्मशल्येऽस्मिन् निदाने सर्वपाप्मनाम् । निवेदनमिहास्माकमंशो निर्वहणं तव(त्वयि)॥ १६-४७॥ मशकामर्शवत् यस्य मधुकैटभमर्दनम् । तदन्यदनुजध्वंसे तस्य ते किमिवाद्भुतम् ॥ १६-४८॥ निगमान्तेषु निगदव्याख्यातनिजवैभवः । विधत्स्व विपदुत्तीर्णान् अमर्त्यान् अनुकम्पया ॥ १६-४९॥ इति विज्ञापितोदन्तं दत्तहस्तं बलद्विषम् । विनिवर्त्य जगन्नाथो वैनतेयमथास्मरत् ॥ १६-५०॥ अनुचिन्तितमात्रस्तमुपतस्थे खगेश्वरः । अहीन्द्रदामभिर्भीमैरंसलम्बिभिरंसलः ॥ १६-५१॥ पक्षमारुतघोषेण त्रैलोक्यदुरितच्छिदा । चतुर्णामिव वेदानां सम्भूतिमिव भावयन् ॥ १६-५२॥ तरुणार्कप्रभा-सार सामरस्यजुषा त्विषा । तप्तहेमद्रवौघेन लिम्पन्निव दिशो दश ॥ १६-५३॥ स्वामिदर्शनसन्तोषात् प्रहृष्यद्भिस्तनूरुहैः । युगान्तसन्ध्याजलदः तटिज्जालैरिव ज्वलन् ॥ १६-५४॥ विपुलाद्भुतसंस्थानैर्द्योतितो दिव्यभूषणैः । भुजगेन्द्रफणारत्नशङ्कार्हमणिचित्रितैः ॥ १६-५५॥ तुङ्गवज्रव्रणाङ्केन सुविस्तीर्णेन वक्षसा । अबहिर्भावयन् कृत्स्नमवकाशं विहायसः ॥ १६-५६॥ पृथुना भुजयुग्मेन भोगीन्द्रपरिकर्मणा । मन्दरद्वितयेनेव समेतो रुक्मपर्वतः ॥ १६-५७॥ व्यालखण्डनसङ्क्रान्तविषपङ्कक लङ्किना । दधान इव तुण्डेन दैत्यदर्पगजाङ्कुशम् ॥ १६-५८॥ तक्षकश्रोणिसूत्रेण दृढबद्धेन बन्धुरम् । मान्यमग्रजवर्णेन वसानो दिव्यमम्बरम् ॥ १६-५९॥ नाथभक्तिपरिष्कार्यां नृत्तलीलामिव स्पृशन् । निजेन स्थानकेनाग्रे निहितोन्नतजानुना ॥ १६-६०॥ वपुषा भक्तिनम्रेण धीरोन्नतमहीयसा । शान्तवीराद्भुतरसान् समाहृत्येव सम्पतन् ॥ १६-६१॥ मूर्तिमानिव संरम्भो रूपवानिव मारुतः । तरङ्गान् पक्षतीकृत्य सङ्क्षिप्त इव सागरः ॥ १६-६२॥ संवर्त इव नागानां सङ्घात इव रंहसाम् । वालखिल्यचरित्राणां विपाक इव जङ्गमः ॥ १६-६३॥ पभुस्तं दैत्यसिद्धीनां प्रसूतकिलि(ल)किञ्चितम् । ओलण्डितमिवापश्यदुग्रं समरताण्डवम् ॥ १६-६४॥ दत्तनीराजनस्तेन ददृशे वाहनेश्वरः । प्रदक्षिणीकृतः शश्वत् प्रतापविजयश्रिया ॥ १६-६५॥ स तदाऽऽस्फोटयामास विन्ध्यमेरुसमौ भुजौ । रुद्रया च सुकीर्त्या च मृदितौ कण्ठभूषणैः ॥ १६-६६॥ दुधुवे पक्षती च द्वे डोलायितकुलाचले । वीजयन् घोरदुर्वादिघर्मतप्तामिव त्रयीम् ॥ १६-६७॥ मुहुराम्रेडयामास जयालोकयभारतीम् । मुग्धमध्यप्रगल्भाभिर्दशाभिः कर्बुरामिव ॥ १६-६८॥ स तदा सन्नतस्कन्धो बद्धाञ्जलिरनिःश्वसन् । मुमुदे मूर्ध्नि संस्पृष्टो मुकुन्देन प्रसेदुषा ॥ १६-६९॥ तस्मिन् प्रथममारोप्य सत्यां विरहविक्लवाम् । आरुरोह ततः शौरिराखण्डलकृतस्तुतिः ॥ १६-७०॥ निवर्त्य स्वनिवासाय शक्रं शमितसाध्वसम् । प्रययौ दीप्तसन्नाहः प्राग्ज्योतिषपुरं प्रभुः ॥ १६-७१॥ श्रेयःपरिपणं तस्य श्रुतिश्रेणिशिरोऽमृतं (रोधृतम्)। प्रणतः प्रति(परि)जग्राह शासनं पाकशासनः ॥ १६-७२॥ यथास्वं नगरद्वारे यादवा दानवाश्च तम् । तरस्विगरुडारूढं सत्यमैक्षन्त तत्क्षणम् ॥ १६-७३॥ समन्तात् वैरिदुर्गस्य क्षिप्तचक्रः क्षणेन सः । क्षुरान्तान् अच्छिनत् पाशान् आततान् शतयोजनम् ॥ १६-७४॥ मुरं पञ्चजनं सप्तसहस्राणि मुरोद्भवान् । शलभीकृत्य चक्राग्निरुपदुद्राव तत् पुरम् ॥ १६-७५॥ ततः प्राग्ज्योतिषद्वारे दैत्यदानवसूदनः । पाञ्चजन्यमुपादध्मौ प्रलयाम्बुधिनिस्वनम् ॥ १६-७६॥ वीक्ष्य तं विविशुर्दुर्गं दिवाभीता इवासुराः । उद्यन्तमिव तिग्मांशुमुदयाद्रौ गरुत्मति ॥ १६-७७॥ अभिमानोदितव्यक्तिरहङ्कार इवोल्बणः । महतो दैत्यनगरान्निरगान्नरकासुरः ॥ १६-७८॥ तमस्त्रमायाभ्यधिका दानवाः पर्यवारयन् । प्रकटच्छन्नकौटिल्याः पाषण्डमिव हैतुकाः ॥ १६-७९॥ संयुगे रजसोद्रिक्ते तस्मिन् सत्त्वतमस्त्विषोः । अर्थिप्रत्यर्थिनोरासीदनभिव्यक्तरूपता ॥ १६-८०॥ शरधारासहस्त्रेणच्छादयन् नरको दिशः । स्वहेतुमभिसम्पेदे समुद्रमिव तोयदः ॥ १६-८१॥ नरकाम्बुदमुक्ताभिर्नाथो नाराचवृष्टिभिः । विपद्भिरिव तद्भक्तो विषमाभिर्न विव्यथे ॥ १६-८२॥ दृप्यतामथ दैत्यानां ध्वनिरुत्कम्पयन् दिवम् । पाञ्चजन्यप्रणादेन पर्यभूयत भूयसा ॥ १६-८३॥ दिदृक्षोपगतानां तत् देवानां रोमहर्षणम् । अदीव्यत रणद्यूतमन्तरस्थयशः पणम् ॥ १६-८४॥ प्रतिविव्याध दैतेयं बाणैरशनिभीषणैः । पक्षवन्तमिवाद्रीन्द्रं प्रकुप्यन् पाकशासनः ॥ १६-८५॥ शरसंहतयस्तस्य क्षरन्त्यः शार्ङ्गशैलतः । द्विधा चक्रुः स्ववेगेन द्विषद्बलमहार्णवम् ॥ १६-८६॥ तस्य ज्यास्वनगीतानि समयुज्यन्त संयुगे । करिणां कर्णतालैश्च कबन्धानां च ताण्डवैः ॥ १६-८७॥ दैत्यशोणितदिग्धाभिस्तद्बाणततिभिर्नभः । रुरुधे रोषताम्राभिः कृतान्तस्येव दृष्टिभिः ॥ १६-८८॥ द्विरदाः शरनिर्भन्नकुम्भनिर्मुक्तमौक्तिकाः । क्षरन्तः करकासारं कल्पमेघा इवाऽऽबभुः ॥ १६-८९॥ नासावालधिभिर्नागाः क्षरन्तो रक्तनिर्झरान् । शशंसुर्लाघवं तस्य निष्पत्राकृत सायकम् ॥ १६-९०॥ अग्रिमं विशतां स्कन्धमामूलमहितां चमूम् । शराणां तस्य सन्धाननिपातौ न द्विषोऽविदुः ॥ १६-९१॥ लक्ष्यमेकमभूत् तस्य शराणामुत्पलत्विषाम् । अमरस्त्रीकटाक्षाणामप्यभङ्गुरधन्वनः ॥ १६-९२॥ चिरप्रार्थितभीतानां स तासामेव शात्रवान् । स्वयंवरपतींश्चक्रे सुधन्वा सुरसुभ्रुवाम् ॥ १६-९३॥ त्यक्त्वा भीतिवृतांस्तत्र विमुक्तान् जीविताशया । सार्धमप्सरसः कीर्त्या वीरान् स्वयमवृण्वत ॥ १६-९४॥ अनन्तस्य तदाऽनन्तैरसुरैराहवोत्सवः । जयश्रियं च सत्यां च संमते समतोषयत् ॥ १६-९५॥ स्वबाधनियतस्तत्र परबाधाभिलाषिणाम् । प्रयासः सुरशत्रूणां जात्युत्तरमिवाभवत् ॥ १६-९६॥ विसन्धिविग्रहाः क्षिप्तयानासनसमाश्रयाः । द्वैधीभावसृजो योधा दुर्नयस्था इवाभवन् ॥ १६-९७॥ अनघव्यवसायानामसङ्गत्यक्तवर्ष्मणाम् । योगिनामिव तत्रासीदपरावर्तना(र्तिनां)गतिः ॥ १६-९८॥ तनुं तत्र मुकुन्देन त्याजितान् महती स्वयम् । अवृणोदनघा कीर्तिरधिविन्नाप्सरोगणान् ॥ १६-९९॥ निस्सहायीकृतस्तत्र शरवर्षैर्धरासुतः । बह्वमन्यत तेनैव द्वन्द्वयुद्धमुपस्थितम् ॥ १६-१००॥ कृतप्रतिकृतैरस्त्रप्रयोगैः क्रीडतोस्तयोः । अदृष्टान्तमभूत् युद्धमन्यदृष्टान्तवर्जितम् ॥ १६-१०१॥ वक्रवृत्तिः सरुधिरो लोहिताङ्गो महीसुतः । प्राप्य यादवभास्वन्तं मूढः समभवत् क्रमात् ॥ १६-१०२॥ स्वायुधैकसहायस्तु देवः स्वच्छन्दयादवः । निरयापरपर्यायं रिपुं चक्रे निरायुधम् ॥ १६-१०३॥ क्रोधरक्ततनुर्दैत्यः क्षरच्छोणितनिर्झरः । गृहीतपादसञ्चारो गैरिकाद्रिरिवाऽऽबभौ ॥ १६-१०४॥ निशितैस्तस्य नाराचैर्निर्भिन्नरथसारथिः । आस्फोटितभुजस्तार्क्ष्यमजिघांसदमर्त्यजित् ॥ १६-१०५॥ निसर्गतमसस्तस्य जिह्मगस्याङ्गमुत्तमम् । रथपादेन चिच्छेद राहोरिव रमापतिः ॥ १६-१०६॥ उदतिष्ठत हाकारस्ततो युगपदेकधा । देवदानवसौधेभ्यो हर्षशोकसमुद्भवः ॥ १६-१०७॥ स्फुरद्भ्रुकुटि दैत्यस्य रोषदष्टाधरं मुखम् । निकृत्तमपि न द्रष्टुं प्रबभूवुर्दिवौकसः ॥ १६-१०८॥ निकृत्तशिरसं देवी निजाङ्के पतितं सुतम् । महती मेदिनी दीनं कम्पमानाऽन्वकम्पत ॥ १६-१०९॥ अथ सा दैत्यहन्तारं प्रणम्य नतजीवितम् । अयाचत दयासिन्धुमात्मजस्य शुभां गतिम् ॥ १६-११०॥ तुष्टाव च पतिं तुष्टा मेदिनी विश्ववेदिनी । स्नपयन्तीव संयत्तं(सा देवं)दन्तदीधितिगङ्गया ॥ १६-१११॥ अहमस्मि विभूतिस्ते भूतधात्री त्वया धृता । अशेषाधारमेकं त्वामनाधारमधीयते ॥ १६-११२॥ तिसृभिश्शक्तिभिर्युक्तं षाड्गुण्यप्रथितोदयम् । अधिराजमशेषस्य जगदुस्त्वां जिताहितम् ॥ १६-११३॥ अपि कोटिमुखैः सर्वैरनन्तेनाप्यनेहसा । नाथ त्वद्गुणदुग्धाब्धिपृषदास्वादनं क्षमम् ॥ १६-११४॥ अकर्तुमन्यथाकर्तुं कर्तुमप्यखिलं क्षमम् । लक्ष्मीलक्षणमाहुस्त्वां लङ्घितत्रिविधावधिम् ॥ १६-११५॥ स्थिरत्रसविभक्तं ते चिदचिद्भेदचित्रितम् । स्वसृष्टमिदमुद्यानं त्वदन्यो नास्ति रक्षितुम् ॥ १६-११६॥ स्वातन्त्र्यपरतन्त्रस्त्वं पारतन्त्र्यस्वतन्त्रितैः । विहरस्यात्मसूत्रस्थैः शकुनैरिव जन्तुभिः ॥ १६-११७॥ सितासितगुणारब्धैः पाशजालैर्दुरत्ययैः । निबद्धाः पशवो नाथ त्वदेकाधीनमुक्तयः ॥ १६-११८॥ यस्य त्वं यश्च हृद्यस्ते यस्यासौ तस्य यस्तथा । नाथ त्वत्पदमारुह्य न पुनस्तैर्निवृत्यते ॥ १६-११९॥ सुरासुरविभागोऽयं तुलाग्रन्यायतस्त्वया । कल्पितः कालपर्यायान्निम्नोन्नतसमक्रमः ॥ १६-१२०॥ कस्त्वदङ्गीकृतं हन्ता कस्त्राता त्वज्जिघांसितम् । निहन्सि पासि चैकस्त्वं स्वेन विश्वं परेण वा ॥ १६-१२१॥ वृद्धिसङ्कोचविषमा गतागतसहायिनी । नियतिः केन लङ्घ्येत निजच्छायानुकारिणी ॥ १६-१२२॥ नपुत्रवधमन्वीक्ष्य न दूये त्वन्मतस्थिता । न च पुत्राभिमानो मे मत्प्रसूतेषु जन्तुषु ॥ १६-१२३॥ सूदने कृतसङ्कल्पः स्वभक्तपरिपन्थिनाम् । यदि तीर्णप्रतिज्ञस्त्वं किं मयेदं न मृष्यते ॥ १६-१२४॥ त्वन्मायाजृम्भितैर्देव ब्रह्माण्डैरपि लीयते । जन्मन्यपि सुरोधेषु जन्तुवर्गेषु का कथा ॥ १६-१२५॥ त्वत्प्रसूतस्त्वयैवासौ वधि(र्धि)तश्चक्रधारया । का नाम कृतिनस्तस्य परिदेवयितव्यता ॥ १६-१२६॥ निरुद्धे नरके नाथ नित्यधर्मात्मना त्वया । निष्प्रतिद्वन्द्विकं स्वर्गसुखमास्वाद्यतां सुरैः ॥ १६-१२७॥ निर्यातितमिदं भूयः त्वज्जनन्यै मया स्वयम् । श्रवणाभरणद्वन्द्वं शीतलार्कयुगप्रभम् ॥ १६-१२८॥ इति विज्ञाप्य सा तस्मै विषादाभावमात्मनः । विरराम ततो देवी विलक्षा विश्वधारिणी ॥ १६-१२९॥ तामशेषजगद्धात्रीं सन्नताङ्गीमसान्त्वयत् । सहधर्मचरीं पूर्वां वासुदेवो वसुन्धराम् ॥ १६-१३०॥ पुरस्कृतप्रसादस्तां पूर्वसम्भवगेहिनीम् । गृहीतकुण्डलो गन्तुमन्वमंस्त गदाग्रजः ॥ १६-१३१॥ ततः सा तत्समादेशात् सत्यभामाभिवन्दिता । रम्यं प्रतिययो स्थानं रत्नसानुशिखण्डकम् ॥ १६-१३२॥ ददर्श यदुवीरोऽथ दैत्यवीरनिवेशनम् । अचिन्त्यमिव मायानां प्रभावमनुपप्लवम् ॥ १६-१३३॥ विचक्षणवरं दैत्यं वैरिसम्पत्करग्रहे । विभूतिसञ्चयप्रेक्षी बह्वमंस्त बलानुजः ॥ १६-१३४॥ सुधानिष्यन्दिभिः स्थूलैः मुक्तादामभिरावृतम् । पश्यन् पाशभृतश्छत्रं विश्वकर्ता विसिष्मिये ॥ १६-१३५॥ निदध्यौ कन्यकास्तत्र निदर्शितपरस्पराः । अमुद्राभङ्गसुभगा नीवीरिव रतेः शुभः ॥ १६-१३६॥ लावण्यजलधौ लक्ष्म्याश्छाया इव सहोदिताः । मधुस्वच्छन्दतासीम्नो मान्मथीरिव दीर्घिकाः ॥ १६-१३७॥ कामकीर्तिपताकाभिः स ताभिः प्रत्यवेक्षितः । आत्मानममृतोदन्वदन्तस्स्थितममन्यत ॥ १६-१३८॥ सुप्रभातमभूत् तासां सुदिनं च तमोपहम् । भवदोषार्यमा यासां देवो दृष्टिपथं गतः ॥ १६-१३९॥ रत्नशैलनिभांस्तस्य भुजान् कटकभूषितान् । उपधास्यन्ति यास्तासां श्रेयसी भवितव्यता ॥ १६-१४०॥ सर्वस्वमिव पुण्यानां साम्राज्यमिव सम्पदाम् । समाजमिव सिद्धीनां स तद्यौवतमग्रहीत् ॥ १६-१४१॥ भुजमन्दरवेगेन चक्रभ्रमवता विभुः । मथितात् दानवाम्भोधेरमृतं तदविन्दत ॥ १६-१४२॥ मणिपरुवकसम्पन्माननीयस्तनीनां मनसिजवपुषेव स्वेन सङ्कल्पितानाम् । सकलजगदभिख्यासारसीम्नां स तासां स्वयमजुषत सिद्धिं स्वप्रसादप्रसूताम् ॥ १६-१४३॥ पुरमथ गमयित्वा भूषितं यादवाग्र्यैः- शतसमधिकसङ्ख्यं षोडशस्त्रीसहस्रम् । अवनितनयभीतान् प्रीणयन् आदितेयान्- परिणयनविलम्बं पद्मनाभः प्रसेहे ॥ १६-१४४॥ दिवि भुवि च समिद्धं दीपरूपेण रूढै- स्त्रिभुवनविभवानामङ्कुरैरेकरूपैः । जनितनिगमसख्यं दानवीनां विलापै- र्नरकवधदिनं तन्नाथपूजार्हमासीत् ॥ १६-१४७॥ ऐरावतप्रतिनिधीनथ षट्सहस्रं स्तम्बेरमान् पृथुलदन्तचतुष्कभाजः । काम्भोजवाजिनियुतानि च सत्रि- सप्तान्यभ्यानयन्निजपुरं नरकस्य भृत्यैः ॥ १६-१४६॥ उद्गम्य दुर्गजलधेरुदयाद्रिकल्पं तुङ्गं विहङ्गमपतिं त्वरयाऽधिरोहन् । उल्लासहेतुरभवत् यदुवीरभास्वान् वैमानिकप्रणयिनीवदनाम्बुजानाम् ॥ १६-१४७॥ ॥ इति कवितार्किसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये नरकवधो नाम षोडशः सर्गः ॥

॥ पारिजातानयनं नाम सप्तदशः सर्गः १७॥

आतपत्रमथ तत् प्रचेतसो मन्दरस्य मणिश‍ृङ्गमुन्नतम् । सावरोधमपि सात्त्वतां पतिं लीलयैव गरुडो वहन् ययौ ॥ १७-१॥ तं क्षिपन्तमधिकेन रंहसा मारुतस्य मनसोऽपि शीघ्रताम् । वालखिल्यसुकृतं विपक्त्रिमं प्राणमैक्षत बहिश्चरं प्रभुः ॥ १७-२॥ लोकतः खगरथेन मध्यमा- दुत्पतन्तमवनम्य माधवम् । निर्जराः स्तुतिभिरभ्यपूजयन् पुष्कलाभिरपि पुष्पवृष्टिभिः ॥ १७-३॥ पाञ्चजन्यनिनदोपहूतया पर्यचारि परितोषनिघ्नया । भक्तिभारनतया सदोन्नतः स्वर्गिणां परिषदा यदूद्वहः ॥ १७-४॥ प्राप्य यादवपतिस्त्रिविष्टपं देवमातुरुपनीतकुण्डलः । अग्रजेन हरिणा हरिः स्वसं(यं) भावितेन समभाव्यतोचितम् ॥ १७-५॥ भागधेयपरिपाकतस्तदा वासवो वसतिमभ्युपागतम् । देवदानवसमानदैवतं पर्युपास्त परिकल्पितार्हणः ॥ १७-६॥ तत्र संमद (त)वतीभिरञ्जसा लोकपालमहिषीभिरर्चिताम् । देहिनीमिव जयश्रियं निजां बह्वमंस्त दयितां बलानुजः ॥ १७-७॥ सप्रसादमभिनन्द्य सन्नतान् नाकिनो नरकभीतिवर्जितान् । कृत्यशेषविधये कृती भुवः प्रत्यपद्यत निवृत्तिपद्धतिम् ॥ १७-८॥ स्वप्रभावविनिवृत्तसाध्वसां सोऽतिपत्य नगरीं सुपर्वणाम् । पुष्पधन्वन इवोपकारि(र्य)कां प्रैक्षतोपवनसम्पदं पुरः ॥ १७-९॥ वर्तते दशशतेक्षणोऽपि सन् एकचक्षुरिव यन्निरीक्षणे । तत्र दत्तनयनो वियद्वने विश्वदृष्टिरनघो विसिष्मिये ॥ १७-१०॥ दर्शयंस्तदनु रामणीयकं नन्दनस्य वसुदेवनन्दनः । इत्युवाच मधुरस्मितेक्षणां प्रेयसीं प्रणयपेशलाक्षरम् ॥ १७-११॥ पुण्यकृद्भिरभिकाङ्क्षितं त्वया पौरुहूतमनुभूतमास्पदम् । अस्य सम्पदमनेकशाखयत् प्रेक्ष्यतामिदमिहान्यदद्भुतम् ॥ १७-१२॥ अञ्चितस्मितमकेवलेक्षणं भङ्गुरभ्रु परिवर्तिताननम् । किञ्चिदत्र तरलाक्षि तावकीं (कं) नन्दनं नयनवृत्ति (त्त)मर्हति ॥ १७-१३॥ विश्वमेतदवधेन जेष्यतः षट्पदज्यधनुषो (सुमनो?)धनुर्भृतः । अत्र नित्यमृतुभिस्सहोदितैः षड्विधं बलमिवैकतां गतम् ॥ १७-१४॥ ऐकमुख्यममरेन्द्रतुष्टये संश्रितैरिह वसन्तपूर्वकैः । शोभते सुनयने गुणैरिव स्वानुरूपफलसम्पदाहिता ॥ १७-१५॥ जम्बुचूतरसजग्धिरञ्जितैः स्निग्ध- कण्ठि कलकण्ठनिस्स्वनैः । त्यक्तगेहद(ग)मनाय निष्पतन् पुष्पकेतुरिह घुष्यते ध्रुवम् ॥ १७-१६॥ अर्दितान् मकरकेतुसायकै- रत्र देवि दयितान् पदाश्रितान् । मुद्रयन्ति चकितान् सुरस्त्रियः पत्रभङ्गमकरैः स्तनार्पितैः ॥ १७-१७॥ कैश्चिदत्र कृतिभिः कृतास्पदैः निर्ममैर्मनसिजो निरस्यते (निगृह्यते)। सम्भवन्त्युपवने वनेऽपि वा सावधानमनसां समाधयः ॥ १७-१८॥ पल्लवैरधरकान्तिरंशतः स्मेरकुड्मलरुचा स्मितं च ते । वल्लरीभिरिह दोर्लतागुण- श्चोरितानि निहितानि वा त्वया ॥ १७-१९॥ वादितेषु विहगेष्वनुक्षणं मञ्जु गायति च षट्पदव्रजे । मारुतेन चतुरेण नर्तिता लास्यमत्र परिचिन्वते लताः ॥ १७-२०॥ मन्थरश्वसनसौरभोल्बणा वल्लरीः स्फुरितपल्लवाधराः । मन्मथेन क्रतुसङ्गमात् इमा निर्वृता इव निशामयाद्भुताः ॥ १७-२१॥ केलिशैलमणिमेखलापदा- दुद्गतामिह तमालवाटिकाम् । पश्य नन्दनभुवः सुमध्यमे रोमराजिमिव मध्यसंश्रिताम् ॥ १७-२२॥ सम्भ्रमेण वनपालदारिकाः सामिलङ्घि(म्भि)तपरागरोधसम् । आलवालवलयेषु शाखिनां वाहयन्ति मकरन्दवाहिनीम् ॥ १७-२३॥ चक्रवाकमिथुनोदितस्तनी वीक्ष्यतामिह विहारवापिका । पुष्परेणुरुचिरा मधुश्रियः पुत्रिकेव पुरुहूतसंमता ॥ १७-२४॥ दिव्यपद्मवदना मणिप्रभा दीर्घिकेयमसिताब्जलोचना । अन्तरिक्षमणिदर्पणान्तरे बिम्बितेव भवती विभाव्यते ॥ १७-२५॥ अप्सरस्सु निखिलास्वलक्षितां रूपसम्पदमसौ तवाद्भुताम् । पश्यतीव पुरुहूतवापिका भृङ्गतारकितपद्मलोचना ॥ १७-२६॥ बिभ्रती त्वदभिलापचेतसोः स्वादुतां प्रसदनं च शाश्वतम् । दृष्टिरुत्पलवनं दिशत्वसौ दीर्घिकापयसि दीर्घलोचने ॥ १७-२७॥ शोणकुड्मलमुखी सरोजिनी शोभते हरितपत्रशालिनी । संवृता त्रिदशपादपैरसौ शारिकेव मणिपञ्जरस्थिता ॥ १७-२८॥ व्याहृतिक्षमदशातिवर्तिनीं विप्लुताम्बुज(म्बर)रुचिं रजःकणैः । सेवते मधुमदेन मोहितः पुष्पितां भ्रमर एष पद्मिनीम् ॥ १७-२९॥ एष चात्र समया सरोजिनी- मेकतानयति चित्तचक्षुषी । पादपैरभि(रुप)गतश्चतुर्विधैः पारिजात उदधीन्द्रसम्भवः ॥ १७-३०॥ पद्मरागरमणीयपल्लवं पश्य कोमलहरिन्मणिच्छदम् । पुष्पभूतवरशिल्पभूषणं तप्तहेमरुचिरत्वचं(त्विषं)तरुम् ॥ १७-३१॥ नम्रतामुपगतः फलैरसौ वल्गुभृङ्गविरुतैरभिष्टुवन् । आर्द्रभावसुभगो विभाव्यते कामकिङ्कर इवोचितक्रियः ॥ १७-३२॥ अक्षदामरचनोचितैः फलै- र्देवतानुगुणपुष्पसम्पदा । वल्कलैश्च वसनैश्च विन्दते वीतरागधृतरागहृद्यताम् ॥ १७-३३॥ त्वत्सगन्धतुलसीसहोदरः पुण्य एष पुरुहूतपादपः । प्राणिनां यदवलोकनक्षणे पूर्वजातिषु भवत्यनुस्मृतिः ॥ १७-३४॥ एष कल्पलतिकापरिष्कृतः प्रत्यवेक्षयति पल्लवारुणः । सागरेन्द्रसुतया समन्वितं धाम कौस्तुभमयूखरञ्जितम् ॥ १७-३५॥ पश्य जालकितपल्लवाधरै- र्मौक्तिकैरमृतबिन्दुनिर्मलैः । सूचितस्मितरुचिं सुरद्रुमं बालचन्द्रमणिराजसोदरम् ॥ १७-३६॥ अस्य नूनममृताधिकैः फलैः सेवितैरनुदिनं दिवौकसाम् । न प्रसक्तिरपवर्गनन्दथौ न क्षुधा न च जरा न च व्यथा ॥ १७-३७॥ त्वामिह त्रिदिवदर्शनागतां मञ्जरीभिरवनम्य भूरिभिः । मानयत्ययमसौ सुरद्रुमो मन्मथोपवनदेवतामिव ॥ १७-३८॥ द्वारकापरिषदं प्रयास्यतो दूरवर्त्मपथिकस्य मे दृशा । प्रातराशवदिहास्य भुज्यते सप्तलोकतिलकस्य चारुता ॥ १७-३९॥ गाढबद्धनयना त्वमीहसे कामधेनुसहजन्मनि द्रुमे । नूनमस्य मणिभूभृता सह स्थापनं निजनिवेशनिष्कुटे ॥ १७-४०॥ व्युत्थितेषु विमुखेषु वा स्वयं निर्निमेषनयनेषु नाकिषु । त्वद्विवक्षितमतः परं कथं पुष्पमस्य बिभृयात् पुलोमजा ॥ १७-४१॥ शङ्खपद्मसुरपादपादिभिःश्श् श्लाघितां त्रिदिवतो गुणाधिकाम् । माननीयचरिता मया सह द्वारकां त्वमधिवत्स्यसि प्रिये ॥ १७-४२॥ दुग्धसिन्धुदुहितुः सहोदरे वासमेयुषि वदान्यपादपे । शक्रदारवदनेऽपि दुर्लभां लप्स्यते तव विहारभूः श्रियम् ॥ १७-४३॥ इत्थमादिकविना समीरिता साऽन्वभावि किल सत्यभामया । सामरस्यमिव तेन जग्मुषी सौकुमार्यसुभगा सरस्वती ॥ १७-४४॥ योजितोऽथ यदुवंशकेतुना ख्यातकीर्तिरमृतापहारतः । उत्क्षिपन् खगपतिःसुरद्रुमं पक्षपङ्क्ति विपिने न्यवीविशत् ॥ १७-४५॥ एतमश्रुतचरं पुरन्दरः शुश्रुवान् क्षणमुदन्तमैश्वरम् । भीतिकोपसमवायरूपया दोलयेव समकृष्यत द्विधा ॥ १७-४६॥ अप्रतिक्रियमपि प्रभोरिदं चेष्टितं प्रतिचिकीर्षता तदा । मन्युरेव शतमन्युना महान् आगृहीतमनसाऽभ्यमन्यत ॥ १७-४७॥ दीप्तदृष्ट्यचिररश्मिसन्तति- र्वज्रघोषपरुषो मरुत्सखः । चित्रचापशरवर्षवांस्ततः प्रत्यदृश्यत मरुत्वदम्बुदः ॥ १७-४८॥ न्यस्तकर्बुरकुथोत्तरं निजं वारणेन्द्रमधिरुह्य वासवः । नैकधातुमति रौप्यभूधरे शोभते स्म निजरत्नशैलवत् ॥ १७-४९॥ अप्रतर्क्यवृजिनोत्थमासुरं भावमास्थि(श्रि)तवता वलद्विषा । दुर्जयोऽपि विजिगीषितो विभुः सस्मितः समरसंमुखोऽभवत् ॥ १७-५०॥ देवराजयदुराजयोरिदं द्वैरथं प्रतिभयं दिदृक्षवः । वेधसा सह सनन्दनादय- स्त्यक्तसंयमधियोऽवतस्थिरे ॥ १७-५१॥ भीषणप्रलयमेघसन्निभं कृष्णमेघमथ मेघवाहनः । आपतन् असुरभेदकं(नं)क्षणा- दाचकर्ष ऋजुरोहि(पि)तं धनुः ॥ १७-५२॥ चक्रपाणिविजयाय चक्रितात् भीमघोषदलिताखिलश्रुतेः । वज्रपाणिधनुषः शरोर्मयः सम्बभूवुरुदधेरिवोर्मयः ॥ १७-५३॥ वज्रिणः शरगणः समापतन् वाहने खगपतौ मुरद्विषः । तस्य तेजसि बभूव भस्मसात् तूलराशिरिव कालपावके ॥ १७-५४॥ प्लावितो विशिखवृष्टिभिस्तदा जम्भभेदि(वैरि)जलदप्रसू(हे)तिभिः । अन्वदीपि गरुडः प्रतापवान् आज्यसिक्त इव वह्निराध्वरः ॥ १७-५५॥ वृत्रहन्तुरचमत्क्रियामिमां विश्ववित् स्वविषये विभावयन् । पश्यति स्म विबुधेषु काश्यपिः पन्नगेष्विव पराक्रमं क्षमम् ॥ १७-५६॥ तस्य देवपृतनाविधूतये जृम्भमाणवपुषो महौजसः । अप्रभूतमभवज्जगत्त्त्रयं बिभ्रतस्त्रिजगदेकदम्पती ॥ १७-५७॥ तुङ्गपक्षतिशताङ्गशालिनो भीमनागघटिताकृतेरभूत् । वाहतां च वहतः सपत्तितां सैन्यताऽस्य सुरसैन्यवेधिनः ॥ १७-५८॥ पारिजातपवनोर्मिबृंहितै- र्वासुकिप्रभृतिभिर्महोरगैः । गाढतां हरिरथस्य बिभ्रतः सारथिश्च तुरगाश्च साहसम् ॥ १७-५९॥ गाढदीप्तगरलानलोष्मला तार्क्ष्यभूषणभुजङ्गफूत्कृतिः । पीतनिर्भरसुधारसोन्मदाः पाकशासनचमूरमूमुहत् ॥ १७-६०॥ अप्रतर्क्यतरसो गरुत्मतः पक्षवेगपवनेन ताडिताः । आत्मकङ्कटमपोह्य वज्रिणं बभ्रमुर्दशसु दिक्षु मारुताः ॥ १७-६१॥ तस्य पक्षमरुता निवर्तितै- र्वाहिनी दिविषदामशेषतः । वृत्रशासनशरासनच्युतैः प्रत्यविध्यत शरैरजिह्मगैः ॥ १७-६२॥ वैनतेयनखरैर्विदारितो बाह्यमान्तरमपि त्यजन् मदम् । शोणितैर्विरुरुचे सुरद्विपः श्वेतशैल इव धातुनिर्झरैः ॥ १७-६३॥ क्ष्वेडितेन मुषिताशयानिव प्लोषितानिव दृशा प्रदीप्तया । दारितानिव पतत्रमारुतैः निर्जरान् अतनुतारुणानुजः ॥ १७-६४॥ स्वासु दिक्षु समवस्थितास्तदा दिष्टवञ्चितधियो दिवौकसः । तोयदा इव युगान्तभास्करं सन्निकृष्य समवृण्वताच्युतम् ॥ १७-६५॥ नाजिघांसदपराधिनोऽपि तान् नाकनायकगणान् (भटान्)जनार्दनः । आनृशंस्यमथवा न भज्यते तस्य संश्रितजनेषु जातुचित् ॥ १७-६६॥ तेषु शिक्षणपरः शिलीमुखान् प्राहिणोत् प्रभुरमर्मभेदिनः । अङ्कुशेन निशितेन हस्तिपो दुर्मदान् प्रशमयन्निव द्विपान् ॥ १७-६७॥ तं समेत्य निरपायतेजसं सप्तसप्तिमिव तारकाग्रहैः । सद्भिरेव विबुधैरसत्समा काऽपि दुर्ग्रहदशाऽन्वभूयत ॥ १७-६८॥ अष्टभिश्च हरितामधीश्वरै- रर्यमप्रभृतिभिश्च संहतैः । वृष्णिवीरशरखण्डितायुधै- र्विह्वलैरजनि वीतशक्तिभिः ॥ १७-६९॥ अक्रमात् दश दिशोऽवलोकयन् दत्तदृष्टिरभितः क्रमात् वृषा । स्रस्तकार्मुकशिरस्त्रकञ्चुकां प्रेक्ष्य देवपृतनामदूयत ॥ १७-७०॥ अस्त्रशस्त्रविनिपातमोहितान् अर्दितान् असुरवैरिसायकैः । सत्रपेव सपदि त्रपा जहौ दैन्यमीलितदृशो दिवौकसः ॥ १७-७१॥ अप्सरोनयनतोयकज्जलैः शोणितैश्च विभुना सुपर्वणाम् । आत्मकीर्तिसुधया विशोधिते चित्रमम्बरतले व्यलिख्यत ॥ १७-७२॥ पञ्चवक्त्रवदनस्थमामिषं प्राप्तुकाम इव बालवञ्चकः । प्रस्थितामभिनिवेशवान् पुनः प्रत्यपद्यत धृतिं पुरन्दरः ॥ १७-७३॥ वज्रमात्तमरिहन्तृ जिष्णुना विष्णुना च युधि चक्रमुद्यतम् । दृष्टवन्ति भुवनानि जज्ञिरे कम्पितानि कलुषाणि च (तत्)क्षणात् ॥ १७-७४॥ तौ परस्परजिगीषयोद्यतौ वीक्ष्य निष्प्रतिमवीर्यवैभवौ । व्योमभित्तिलिखितैरिव स्थितं व्यक्तविस्मयभयैः सुरासुरैः ॥ १७-७५॥ कस्य केन परिभूतिरापतेत् कश्च वेद रणवर्तनीमिति । सन्दिहानमनसे(सै)व तत्क्षणं मध्यसीम्नि विजयश्रिया स्थितम् ॥ १७-७६॥ प्रेषितां हरिहयेन भीषणां(?) ह्रादिनीं हृतवति त्रिधामनि । लोलिता निववृते परस्परं लोकपालपृतना पराङ्मुखी ॥ १७-७७॥ कान्दिशीकजितकाशिनोरिमां व्यापृतिं विबुधवृष्णिवीरयोः । प्रेक्ष्य दुर्मदविवेकयोरिव प्रस्थितेव चकिताऽमरावती ॥ १७-७८॥ तं तथा समरदैन्यविप्लुतं शान्तदर्पमयथापुरं स्थितम् । व्यक्तनृत्तहृदयं वलद्विषं वीक्ष्य विश्वमखिलं व्यलज्जत ॥ १७-७९॥ व्रीडया तरलितैर्विलोचनै- र्वेपमानकमलाकरोपमः । सन्नतः क्षणमवैक्षि वासवः सापहासमिव सत्यभामया ॥ १७-८०॥ यादवेन्द्रविबुधेन्द्रयोस्तदा रत्नयोरिव तुलाधिरूढयोः । गौरवेण ददृशे समुन्नति- र्लाघवेन च नतिस्तदद्भुतम् ॥ १७-८१॥ यत् प्रभौ नरकमर्दनेऽभवत् देवदर्पदमने ततोऽधिकम् । पुष्यति स्म मकरन्दमेदुरं पुष्पवर्षममृतोद्भवस्तरुः ॥ १७-८२॥ इत्यनाकलितपूर्वसत्कृतिं वृक्षमात्रकलहोल्बणं विभुः । निर्जिगाय मिषतां दिवौकसां आत्तशस्त्रममरावतीश्वरम् ॥ १७-८३॥ दीप्यमानमनघेन तेजसा देवकीसुतमवेक्ष्य देवताः । अस्त्रजालमवधूय सिद्धिदान् अञ्जलीन् अबिभरुः कराम्बुजैः ॥ १७-८४॥ सोऽथ संयति पलायनोन्मुखः पाकशील इव पाकशासनः । सत्यया विहसितोऽपि सत्त्ववान् प्रत्यबोधि परमेष्ठिनं पुनः ॥ १७-८५॥ धिक् प्रमादमदिरां विमोहिनीं धिक् परिग्रहविशेषमीदृशम् । धिक् च मे त्रिदशराजतामिति स्वं जगर्ह मघवा(न्)मुहुर्मुहुः ॥ १७-८६॥ तेन तत्र विहगेन्द्रवाहनो वारणादवनतेन बिभ्यता । निर्जितेन हरिणा हरिः स्वयं पर्यवैक्षि शरणं प्रियासखः ॥ १७-८७॥ तुष्टुवे च पुरुषं पुरुष्टुतं (पुरःस्थितं) प्राञ्जलिः परिबृढो दिवौकसाम् । रक्तभावविगमोज्ज्वलं मुखं राहुमुक्तमिव चन्द्रमुद्वहन् ॥ १७-८८॥ शक्र एष शरणं प्रपद्यते भक्तजीवित ! भवन्तमीश्वरम् । मित्रभावसमुपागतं जनं न त्यजेयमिति नाथ मन्यसे ॥ १७-८९॥ मातरं त्रिजगतां तव प्रियां मानुषीति मनुते स्म मद्वधूः । तेन नूनमनुभूतमीदृशं दैन्यमेतदवशोदितं मया ॥ १७-९०॥ निर्जितोऽहमजितेन यत् त्वया लम्भितोन्नतिरनेन न त्रपे । न ह्यजय्यमिह किञ्चिदस्ति ते सर्वनेतुरतिरिक्तमात्मनः ॥ १७-९१॥ अस्तु, मा स्म भवदित्यनन्यया वीक्षया जगदिदं नियच्छता । नाथ ! निष्प्रतिघतेजसा त्वया नन्वयं मम पराजयो जयः ॥ १७-९२॥ आत्मघातिभिरहंमतिग्रहात् मादृशैस्त्वदितरेषु रागिभिः । अव्यवस्थितजयेतरक्रमं द्यूतमेतदघृणैर्निषेव्यते ॥ १७-९३॥ आधिकारिकपदेषु ते वयं स्वेषु यावदधिकारमाहिताः । प्रापितास्तव परं पदं त्वया निर्विशेम निविशेमहि त्वयि ॥ १७-९४॥ न क्षिपेदपि तृणं समीरण- स्त्वत्प्रयुक्तमनलो न निर्दहेत् । न प्रजापशुपती न चेतरे त्वद्विपक्षमभिरक्षितुं क्षमाः ॥ १७-९५॥ अग्रजे मयि दिवौकसां पितुः पुत्रभावमुपसेदुषा त्वया । मानितोऽहमवमानितः स्वयं वानरानुचरितैः स्वचेष्टितैः ॥ १७-९६॥ मद्विधा विषमवृत्तिशालिनः शान्तघोरसमयातिलङ्घिनः । पोषयन्ति भवतः क्षमानिधेः प्रायशः प्रहसनोचितं रसम् ॥ १७-९७॥ अस्मदिष्टमनघास्त्रिविष्टपं दुःखमिश्रमवधार्य दुर्गतिम् । त्वत्पदं परमनन्यचेतसः संश्रयन्ति निरपायमाश्रयम् ॥ १७-९८॥ अल्पमस्थिरमपायदन्तुरं स्वर्गसौधमवधीर्य सूरयः । निस्तरन्ति जगदेकहेतुना सेतुनेव भवता भवार्णवम् ॥ १७-९९॥ त्वत्पदैकदृढभक्तिरूपया मुक्तिवासरविभातसन्ध्यया । क्षीयते जगति कस्यचित् प्रभो ! मोहसन्ततिमयी महानिशा ॥ १७-१००॥ देशकालगणनातिलङ्घिभिः मातुमागमगणेन वाञ्छितैः । भूषितो गुणविभूतिसागरैः त्वत्समस्त्वमितरे मिथस्समाः ॥ १७-१०१॥ का कथा तव समेऽधिकेऽपि वा हीन इत्यपि क एव गण्यते । मेरुसर्षपनिदर्शनं च ते मा स्म भूत् त्वदितरस्य चात्मनः ॥ १७-१०२॥ भूतभव्यभवदात्मनः प्रभो ! यन्निदानमखिलस्य शाश्वतम् । यत् प्रविश्य न पुनर्निवर्तते यत् परं पदमुशन्ति तद्भवान् ॥ १७-१०३॥ जातिवर्णरचनाविचित्रितं विश्वचित्रमुदमीलयद्भवान् । आत्मभित्तिनियतस्थिराश्रय- स्तूलिकां त्रिगुणलक्षणां वहन् ॥ १७-१०४॥ अप्रयच्छति दुरत्ययक्रमे त्वय्यशेषजगदेकधातरि । इष्टमन्यदुभयं च मिश्रितं कस्य केन किमिवोपपद्यते ॥ १७-१०५॥ आयतन्त भुवनान्यशेषत- स्त्वय्यतस्त्वमनुपाधिरीश्वरः । वर्धनीयविभवा वयं पुनः त्वत्प्रदिष्टपुरपत्तनेश्वराः ॥ १७-१०६॥ जन्मकर्मभिरसौ निबध्यते तानि यस्तव न वेत्ति तत्त्वतः । त्वत्कथामृतरसं पिबन्ति ये ते भवेयुरपुनस्स्तनन्धयाः ॥ १७-१०७॥ कथ्यते चिदचिदन्तरात्मनः शास्त्रशुद्धहृदयैर्मनीषिभिः । सृष्टिसंहरणरक्षणेषु ते विश्वरूप ननु कर्मकर्तृता ॥ १७-१०८॥ आकुमारमनुभावमीदृशं नाथ लोकविदितं तव क्षिपन् । हन्त नूनमहिमांशुमण्डलं तस्करस्तमसि गोप्तुमिच्छति(मुद्युतः?)॥ १७-१०९॥ पक्षपातपरिहारशुद्धया पश्यति प्रणिदधानया धिया । यत्पृषन्ति निगमाः स्पृशन्ति तं त्वत्प्रभावमनपायमात्मवान् ॥ १७-११०॥ मानुषत्वमनुगच्छता त्वया मोहितैस्त्वमवधीर्यसे जनैः । तेन नस्त्रिगुणतन्त्रचेतसा- मागतेयमसमीक्ष्यकारिता ॥ १७-१११॥ शर्वरीदिवसवत् विघूर्णयन् (विघूर्णते) स्वापजागरदशा विधेरपि । किं पुनस्तदितरस्य तन्मया मोहबोधविवशेन भूयते ॥ १७-११२॥ योऽसि सोऽसि च यथा तथाऽसि च त्वां त्वमेव खलु वेत्सि वा न वा । तस्य ते न खलु तत्त्ववेदिनो वारिधेरिव वयं तटस्थिताः ॥ १७-११३॥ त्वत्प्रतीपचरणात् दिवौकसां दानवायितवतां त्वयाऽधुना । स्थान एव परिभूतिराहिता नासुरो न च सुरो गुणान्तरे ॥ १७-११४॥ अर्चनीयचरणाम्बुजे भव- त्याततायिपदवीमुपेयुषाम् । न्यस्तशस्त्रपरिकर्मणामसौ निष्कृतिस्त्वदुपसत्तिरेव नः ॥ १७-११५॥ किं तदस्ति कुशलेषु यन्न ते तच्च किं त्वदितरेषु यत् तव । ईदृशस्य भवतः किमीदृशा तस्थुषा त्रियुग ! जग्मुषाऽपि वा ॥ १७-११६॥ अल्पसत्त्वमवलेपयन्त्रितं बल्बजेषु बहुमानशालिनम् । त्वत्कृपैकपरिहार्यविप्लवं प्रत्यवेक्षणपदं प्रतीहि माम् ॥ १७-११७॥ मृष्यतां मम विभो व्यतिक्रमः वि(प्र)स्मृतत्वदुपकारपद्धतेः । क्षुद्र (रुद्र)कोपविवशस्य देहिनः कस्य नाम न भवत्यपक्रिया ॥ १७-११८॥ त्रातुमेव शरणागतान् सुरान् आसुरान् अभिजिघांसता त्वया । रागरोषरहितात्मना स्वयं दैत्यशत्रुरिति नाम गृह्यते ॥ १७-११९॥ त्वद्गृहीतगुणसूत्रसन्दितान् दारुपुत्रनयतः प्रवर्तिनः । निर्गुणानपि निसर्गकिङ्करान् स्वीकुरुष्व कृपया स्वयैव नः ॥ १७-१२०॥ वासवस्य वचनं निशम्य तत् भावशुद्धिपरिकर्मिताक्षरम् । दीनगुप्तिजननीं पुनर्दया- मन्वविन्ददरविन्दलोचनः ॥ १७-१२१॥ उद्धृतं च विभुना सुदर्शनं त्राणदं त्रिदिवसद्मनामभूत् । तस्य दृप्तदमनेन दीव्यतः शिक्षणैकनियतं हि शासनम् ॥ १७-१२२॥ आह चैनमनघेन चक्षुषा शोधयन् अमृतसिन्धुशोभिना । स्वादुसूनृतगभीरया गिरा पारितोषिकमिवार्पयन् प्रभुः ॥ १७-१२३॥ भद्रमस्तु भवते दिवस्पते ! निर्जराश्च निरपायमासताम् । आत्मचौर्यदुरिताकरत्यजां माऽपहार्षुरसुराः पदानि वः ॥ १७-१२४॥ मा स्म भैष्ट मयि गोप्तरि स्थिते भावितानि भविकानि सन्तु वः । वीतदानवपराभवाश्चिरं त्रातुमर्हथ सुरास्त्रिविष्टपम् ॥ १७-१२५॥ मन्त्रपूतमनुपप्लवं हवि- र्यायजूकपरिषन्निषेवि(वेदि?)तम् । अन्तरात्मनि निविष्टमन्तरा विन्दत स्थिरसुधारसान्तरम् ॥ १७-१२६॥ जन्मतोऽपि भवतां महीयसा- माप्तबन्धुरदितेरहं सुतः । देवकीतनयभावतोऽपि मे सैव सम्प्रति सहोदरत्वधीः ॥ १७-१२७॥ आयुधानि पुनरक्षतानि वः सन्तु सत्त्वमपि दैत्यसूदनम् । पालयन्तु बलिनो जगत्त्रयीं ते भवन्त उपपन्नपौरुषाः ॥ १७-१२८॥ इत्यनाविलमनोज्ञया गिरा निर्मलां निजदयामिवोद्वमन् । सौम्यदृष्टिरकरोत् सुधाभुजः पर्यवस्थितधृतीन् परः पुमान् ॥ १७-१२९॥ ते च तेन गरुडं नियच्छता गम्यतामिति गभीरमीरिताः । अद्यजातवदनन्यवत्सले प्रश्रिताः सुमनसः प्रतस्थिरे ॥ १७-१३०॥ गृह्यतां तरुरसाविति स्वयं भामया भगवता च भाषिते । आगमिष्यति पुनस्त्वया सहे- त्याह दानवरिपुं दिवस्पतिः ॥ १७-१३१॥ शान्तगर्वगरले दिवस्पतौ सन्निवेश्य सुरलोकसम्पदम् । आप्तुमैच्छदनुजीविरक्षितां स्वां पुरीमथ सुपर्णवाहनः ॥ १७-१३२॥ आत्माधिकारमनुमत्य दिशापतीनां वज्रं प्रदिश्य पुनरप्यनघं मघोने । दिव्यद्रुमप्रतिगतिं च परं वि(पुनर्वि)धास्यन् दत्ताभयो दनुजशत्रुरवाप तुष्टिम् ॥ १७-१३३॥ अथ पदविनिकीर्णमन्दारवन्दारुवृन्दारक- स्तुतिशतबहुमानसत्यापितेहः स सत्यापतिः । अमरसमरवेगविख्यातदाक्ष्येण तार्क्ष्येण गां प्रतिजिगमिषितां(षता)पुरीं त्रातुमन्वक् समन्वग्रहीत् ॥ १७-१३४॥ पश्यत्यारादनिमिषगणे पारिजातापहारात् स्रस्ताकल्पामिव यदुपतिः स्थापयन् स्वर्गलक्ष्मीम् । आशापालैरवनतपदस्त्यक्तलज्जैरभीक्ष्णं रामत्रातां खगपतिरथो राजधानीं प्रतस्थे ॥ १७-१३५॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये पारिजातानयनं नाम सप्तदशःसर्गः ॥

॥ स्वर्गावतरणमार्गवर्णनं नाम अष्टादशः सर्गः १८॥

अथात्मचिन्तानुचरेण यास्यन् विहङ्गराजेन विभुः पुरीं स्वाम् । उवाच पत्नीं (लक्ष्मीं)दशनांशुलक्षात् वमन्निवाऽऽनन्दममान्तमन्तः ॥ १८-१॥ सत्ये ! समीक्षस्व विपारिजातां वृत्तेन हीनामिव वेदविद्याम् । निशामिव प्रोषितशीतभानुं नारीमनाथामिव नाकलक्ष्मीम् ॥ १८-२॥ आलम्बिता नम्रमुखी भवत्या हस्तेन रक्ताङ्गुलिपल्लवेन । वदान्यवृक्षस्य विभाति शाखा वक्तुं वयस्येव रहः प्रवृत्ता ॥ १८-३॥ सुपर्णवेगानिलविप्रकीर्णैः सुरद्रुमैरन्तरितः सुमेरुः । आलक्ष्यते कालवशेन भूयः प्ररूढ(सूत)लूनैरिव पक्षजालैः ॥ १८-४॥ निसर्गकल्याणतया प्रतीतं(दीप्तं) सर्वोत्तरं तत्त्वमिवैकमाद्यम् । अमुं प्रिये नूनमतन्द्रितानि ज्योतींषि भक्त्या परियन्त्यजस्रम् ॥ १८-५॥ वितानवान् व्योमतलेन मेरु स्तारागणैराहितमौक्तिकेन । निविश्य मध्येक्षितिभद्रपीठं गङ्गोदकैराद्रियतेऽभिषेकम् ॥ १८-६॥ सहस्रभानुप्रमुखैः समन्ता ज्ज्योतिर्गणैरस्य विघूर्णमानैः । महीभृतामग्रसरस्य मन्ये नीराजनं विश्वसृजा प्रयुक्तम् ॥ १८-७॥ प्रख्यातधाम्नामपि दिक्पतीनां प्रासादवासादरमाक्षिपन्तः । अध्यासिता योगिभिरस्य नित्यं राजन्त्यमी रत्नगुहाविशेषाः ॥ १८-८॥ परिस्फुरन्त्याः क्षितिपद्ममध्ये पार्श्वेषु हेमाचलकर्णिकायाः । पश्य प्रिये रत्नविशेषचित्रां कृशोन्नतां केसरशैलपङ्क्तिम् ॥ १८-९॥ वलीविभङ्गैरिव वर्षभेदै- स्त्रिभिर्विभक्तं त्रिदशानुभाव्यैः । सन्दृश्यते सागरमेखलाया सुमध्यमे मध्यमिदं धरण्याः ॥ १८-१०॥ अभञ्जनीयं प्रथिमानमाप्तां स्थानेष्वरैराकलितामहार्यैः । चराचराणां प्रभवेन धार्यां चक्राकृतिं पश्य समुद्रनेमिम् ॥ १८-११॥ विकल्पितानि त्रिदिवेन भूमौ वर्षाणि दिव्यानि विलोकयेथाः । द्वन्द्वैरिह द्वन्द्वविषादमुक्तै- र्निर्विश्यते यौवनमेकरूपम् ॥ १८-१२॥ इलावृतान्तां नि(न्तान्नि?)षधादवाचीं विलङ्घ य हृद्यां हरिवर्षसीमाम् । खगेश्वरः संश्रितहेमकूटं निनीषते किम्पुरुषास्पदं नः ॥ १८-१३॥ वपुः शुभं वाजिमुखाङ्गनानां वक्त्रं च युञ्जन्निह किन्नरीणाम् । स्त्रीरत्नसृष्टिं विदधे विधिश्चेत् त्र्यक्षः कथं पञ्चशरस्य जेता ॥ १८-१४॥ दिदृक्षमाणस्य ममैष देशान् सव्यापसव्येन गतिक्रमेण । अमोघवृत्तिर्गगने गरुत्मान् विचेष्टते चित्तमिव द्वितीयम् ॥ १८-१५॥ निपत्य चोत्पत्य च लङ्घयन्ती निम्नोन्नतान् वर्षविभागदेशान् । छाया समेन (समेव)स्वपथेन यान्तं तरस्विनं तार्क्ष्यमिवातिशेते ॥ १८-१६॥ महीयसो वेगवशेन मध्ये सीमन्तयन्नेष शरत्पयोदान् । यदृच्छया सम्भृतचामरश्रीः सन्दृश्यते देवि तवौपवाह्यः ॥ १८-१७॥ वियत्पयोधिं तरतां विशालं विमानदीप्तेन गरुत्मता नः । इयं पुरः शैलवनोपपन्ना विश्वम्भरा भाति विलोमगेव ॥ १८-१८॥ शरद्धनस्तोम इवोपसीदन् सन्दृश्यते (किं दृश्यते)किन्नरनाथशैलः । सन्ध्याविहारच्युतसंहतात्मा शम्भोरिवोद्धूलनभस्मराशिः ॥ १८-१९॥ सुधायमानां धनदस्य सौधे स्वाभाविकीमस्य गिरेरभिख्याम् । पर्याकुलैर्विष्णुपदीतरङ्गै- राम्रेडयन्तीव हराट्टहासाः ॥ १८-२०॥ अमुष्य दीप्तोन्नतदन्तभूम्नो नक्षत्रमालार्चि(ञ्चि ?)ततुङ्गमौलेः । पादेषु भान्ति स्फटिकाः प्रभूताः नाकद्विपस्येव नखेन्दुबिम्बाः ॥ १८-२१॥ उदग्रवज्रव्रणकर्कशानां पर्याप्तसारेण भुजार्गलानाम् । अनेन विख्यापितविक्रमं तद् रक्षः पुरा रामशरव्यमासीत् ॥ १८-२२॥ अयं वनैः श्यामनितम्बभागो गौरः स्वयं गैरिकसम्भृतश्रीः । वलाहकग्राह्यगुणान्तरीयं मदारुणं व्यञ्जयते मदा(मा)र्यम् ॥ १८-२३॥ अस्मिन् धनाधीश्वरराजधान्या- माकर्णितं हैमवतीसखेन । त्वत्कीर्त्युपघ्नं श‍ृणु किन्नरीणां गृहेगृहे किन्नरकण्ठि गीतम् ॥ १८-२४॥ निशम्य दिव्यद्रुमसम्भवानां नूनं रवं नूपुरमञ्जरीणाम् । उड्डीयमानाः प्रतियन्त्यमी त्वां मञ्जुस्वराः मानसहंसदाराः ॥ १८-२५॥ इतो हिरण्यप्रमुखैः प्र(प्रमुखोप)भुक्ता शोणाधरे शोणितराजधानी । आदौ समुत्खातपुनर्निखातैः कैलासश‍ृङ्गैरिव भाति सौधैः ॥ १८-२६॥ मृदङ्गनादेन मृगाङ्कमौलिं प्रसादयन् पालयतीह दैत्यान् । बलेरपत्यं बलिनां विजेता बाणासुरो बाहुसहस्रशाली ॥ १८-२७॥ रामास्त्ररन्ध्रोदितहंसयूथं क्रौञ्चं गिरिं लक्षय दूरलक्ष्यम् । पीतां पुनः श्रोत्रपथेन काले भागीरथीं जह्नुमिवोद्वमन्तम् ॥ १८-२८॥ अमुष्य दूरादसिताक्षि ; दृष्टिं दिव्ये गिरौ दातुमिहार्हसि त्वम् । मरुद्गणेन ह्यमुनोन्नतेन स्वाहारसम्भूतिरमन्थि सिन्धुः ॥ १८-२९॥ विलग्नदैत्येश्वरशोणितानां वैकुण्ठकेयूरजुषां मणीनाम् । अयत्नशाणोपलतामपुष्यन् आर्द्राः सुधाबिन्दुभिरस्य कूटाः ॥ १८-३०॥ लक्ष्मीसुधासञ्जननाय तूर्णं विमथ्नता वेगमनेन दत्तम् । आवर्तभेदैरधुनाऽप्यगाधै- रर्थापयन्त्यम्बुनिधेर्महौघाः ॥ १८-३१॥ अमोघबाणस्य मुनेरशोष्ये फेनायमानानि यशःपयोधौ । गतागतैर्हंसकुलान्यमूनि च्छायापथं सञ्जनयन्त्यपूर्वम् ॥ १८-३२॥ धृतिक्षमं देवि सुरस्रवन्त्याः सिद्धाश्रितं शम्भुमिव द्वितीयम् । परिष्कृतिं भारतवर्षसीम्नः प्राप्ता वयं पर्वतसार्वभौमम् ॥ १८-३३॥ अनुप्रविष्टं गिरिजासखीभिः पर्यन्तसंस्तम्भितभूतवर्गम् । अदूरतश्चैत्ररथात्प्रभूतं वैहारिकं पश्य वनं पुरारेः ॥ १८-३४॥ अभङ्गुरैराहतयोरनङ्गः श‍ृङ्गारदिग्धैरिह चित्रपुङ्खैः । अभिन्नमन्योन्यलयादकार्षीत् देहं द्वयोरर्धसमीक्ष्यभेदम् ॥ १८-३५॥ दिवा महानीलमयूखजालै- र्नक्तं प्रकाशेन महौषधीनाम् । पश्यन्त्यमुष्मिन् परिवृत्तिशून्यं कालं सदा कर्बुरमादितेयाः ॥ १८-३६॥ अलुप्तमेघद्युतिरिन्द्रनीलै- र्वज्रैरसौ नित्यतटित्प्रकाशः । प्रवृत्तगङ्गास्तनितो दधाति प्रावृड्गुणान् प्रीणितनीलकण्ठः ॥ १८-३७॥ अमुष्य मूर्धन्युपपत्य निम्नै- श्चतुर्दिशं विष्णुपदी प्रयाति । चतुर्भिरुन्मीलितराशिभेदा वेधोमुखैर्वेदमयीव विद्या ॥ १८-३८॥ सरित्सहस्रैरभिगम्यमाना शिलोच्चयैरन्तरिता दधाति । प्रवालमुक्ताप्रभृतेः प्रसूतिः पत्नी पयोधेरियमानुरूप्यम् ॥ १८-३९॥ त्रयीमिव क्षालितविश्वपङ्कां त्रैलोक्यलक्ष्म्या इव सत्त्वशुद्धिम् । तपोधनाः सर्व इमां भजन्ते धर्मस्य निश्रेणिमिव प्रभूताम् ॥ १८-४०॥ प्रख्यातगोत्रप्रभवेऽपि नित्यं परिग्रहे भूयसि वर्तमाने । त्वयैव मां वेत्ति कलत्रवन्तं नाथं नदीनामनयैव लोकः ॥ १८-४१॥ पतद्ग्रहे तिष्ठति रुक्मशैले धर्मद्रवैरात्मभुवाऽर्च्यमानः । अस्याः प्रसूतिः परमस्य पुंसः पादो नभस्सागरपारदृश्वा ॥ १८-४२॥ त्रिभिस्त्रिलोकीमनघैः स्वपूरैः तारागणाम्रेडितशीकरौघैः । विमार्जयन्ती वृजिनात् पुनीते विष्णोरियं विक्रमवैजयन्ती ॥ १८-४३॥ अभुग्नभागान्तरितैः पयोभिः सम्भिद्यमानैरियमन्तरेषु । नगेन्द्रमूर्धन्युपयाति शोभां नक्षत्रमालेव गजेन्द्रकुम्भे ॥ १८-४४॥ स्रोतोभिरस्याः परिपूर्यमाणः सुधामयं सिन्धुमिवाऽऽदधानैः । अपां पतिर्नित्यमबिन्धनेन ज्वालावता नूनमशोषितोऽभूत् ॥ १८-४५॥ भगीरथप्रार्थितसिद्धिमेनां पृथक्प्रवाहां पृथिवीं पुनानाम् । भस्मीकृतानां सगरात्मजानां प्राहुः सुधां प्रापितदेवभावाम् ॥ १८-४६॥ स्थानानुरूपं प्रसृतैः प्रवाहै- र्महद्भिरेषा मधुरावदातैः । प्रालेयशैलात् प्रथितानुभावा प्रवर्तते वागिव वश्यवाचः ॥ १८-४७॥ उदीरितास्तार्क्ष्यजवानिलेन त्वन्नूपुरान्नूनमधीतनादाः । भवन्त्यमी स्वागतवादिनस्ते भागीरथीसैकतराजहंसाः ॥ १८-४८॥ प्रदीयते सुन्दरि दूरकृष्टै- र्दिव्येन ते शेखरसौरभेण । मयूरपिञ्छातपवारण- श्रीर्मन्दाकिनीहेमसरोजभृङ्गैः ॥ १८-४९॥ वहन्नसौ काञ्चनपद्मरेणून् व्योमापगावीचिविहारशीलः । विलुप्तपत्राङ्कुरमानने ते स्वेदोद्गमं न क्षमते समीरः ॥ १८-५०॥ अस्याः समीरैरपनीतगन्धा- न्यलक्तकैरङ्कितसैकतानि । स्वैरोपभोगं सुरसुन्दरीणां विवृण्वते तीरलतागृहाणि ॥ १८-५१॥ रहस्त्वदाश्लेषरसोत्सुकस्य त्वदेकदृष्टेरपि विश्वदृष्टेः । वियन्नदी लोचनयोरसौ मे विहन्ति लक्ष्यान्तरपक्षपातम् ॥ १८-५२॥ दिव्यं बदर्याश्रममेतदन्ते देवैः स्तुतं दक्षिणतः प्रतीयाः । निःश्रेयसं दर्शयतीव वृत्त्या नारायणो यत्र नरेण सार्धम् ॥ १८-५३॥ निवृत्तरागैः परिचर्यमाणो नाथः स्वयं नाकनिकेतनानाम् । धन्यै(अन्यै)रनन्यैरनुपालनीयं धर्मं निजं धारयतीह शुद्धम् ॥ १८-५४॥ तृतीयवर्णप्रभवे निजाङ्गे स्त्रीरत्नमुत्पाद्य विहारयोगी । इहाऽऽत्मसम्मोहनलालसाना- मपत्रपामप्सरसामकार्षीत् ॥ १८-५५॥ अन्यच्च दूरादनघं तदीयं प्राग्दक्षिणं भाति तपोवनाग्र्यम् । भजन्ति यस्मिन् पदयोरमुष्य न्यासं शुभं निश्चितयोगलक्ष्याः ॥ १८-५६॥ अत्र स्थितं श्रान्तिजुषां मुनीनां छायालकृष्णाजिनपल्लवेन । वैरोचनेर्दानजलावसेकात् वर्धिष्णुना वामनपादपेन ॥ १८-५७॥ इमानि च प्रेयसि तापसाना- मेकान्तहृद्यानि तपोवनानि । इहैकपादस्थितिमेतदीयां धर्मो युगे धारयतीव तुर्ये ॥ १८-५८॥ तमो निगीर्णे सकृदेव पुंसा- मासीदतामाश्रमहव्यवाहाः । इहौषधाख्या(दी)नि हवींषि भुक्त्वा धूमोपलक्ष्यं ध्रुवमुद्वमन्ति ॥ १८-५९॥ निजाश्रमेभ्यः प्रतिनिर्जिहानाः दूरादमी दर्शितपूर्णकुम्भाः । सत्याशिषः सम्प्रति साधुवाक्यै- रभ्यर्चयन्त्याहितवह्नयस्त्वाम् ॥ १८-६०॥ समीपवृक्षेष्विह बद्धनीडाः शिक्षोपपन्नां श्रुतिमुद्गृणन्तः । शकुन्तयः शोणमुखा भजन्ते सब्रह्मचर्यं सह तीक्ष्णधीभिः ॥ १८-६१॥ धर्मस्य सम्भूतिरिवाग्रतस्ते सान्दीपि(प?)नेराश्रमभूमिरेषा । अधीतिनो यत्र मम त्रिवेद्या- मन्तः(मास)स्थिरालोक इवान्तरात्मा ॥ १८-६२॥ समग्ररत्नौघमिवाब्धितोयं तारागणैराप्तमिवान्तरिक्षम् । विशङ्कटं विन्ध्यहिमाद्रिमध्यं पुण्यं प्रिये भूषितमेतदार्यैः ॥ १८-६३॥ पितृक्रियानिर्वृतजामदग्न्यं क्षिप्तैनसां क्षेत्रमिदं कुरूणाम् । समेयुषां संयुगदीक्षयैतत् देहत्यजां दक्षिणतो न पन्थाः ॥ १८-६४॥ सव्ये भवत्याः सरयूसमेता रम्येयमाभाति पुरी रघूणाम् । दयाविपाकेन चराचराणां दिव्यं पदं यत्र दिदेश रामः ॥ १८-६५॥ तमालषण्डैस्तमसेव दृ(सृ?)ष्टै- र्वामेतरो वामविलोचने नः । वसुन्धराकुन्तलकान्तिचोरैः कान्तैरसौ भाति कलिन्दशैलः ॥ १८-६६॥ दिवाकरेणात्र बिलेषु नूनं बन्दीकृतानां बहुलक्षपाणाम् । छायाविशेषैः प्रचितैस्तदर्हा- माप्यायनामारचयन्ति वृक्षाः ॥ १८-६७॥ इतः प्रभूतात् पितुराव्रजन्ती कालिन्द्यसौ कालियदोषमुक्ता । समेत्य सख्येव सुरस्रवन्त्या सरित्पतिं शुद्धिमती प्रयाति ॥ १८-६८॥ स्वमूलशैलस्य विभाति श‍ृङ्गे धातूपरक्ते सवितुस्सुतेयम् । महावराहस्य महीव पूर्वं दंष्ट्राङ्कुरे दानवशोणिताङ्के ॥ १८-६९॥ यमस्वसुस्तन्वि यथार्थनामा मान्या समीपे मधुरा विभाति । सुपर्वणां यत्र सभां सुधर्मां भूमेरहं भूषणतामनैषम् ॥ १८-७०॥ पिबत्यसौ पश्चिमदक्षिणाशां नूनं खगेशोऽयमनूनवेगः । विलोकितानामिह न व्यवस्था नेदीयसां देवि दवीयसां वा ॥ १८-७१॥ त्रयीमयस्तन्वि तवौपवाह्यः कालक्रमादापन(त)तो धरण्यां (ण्याः)। सामाभिरामध्वनिभिः समन्तात् पक्षानिलैर्मार्जयतीव दोषान् ॥ १८-७२॥ आ पश्चिमादम्बुनिधेरवन्ध्या शरत्प्रसूतैः क्षितिरस्य सस्यैः । दिवौकसां दर्शितभागधेया दिशत्यसौ लोचनदिष्टवृद्धिम् ॥ १८-७३॥ सरित्प्रवाहैर्व्यतिकीर्यमाणैः सङ्कल्पयोनेरिव शिल्पभेदैः । पश्य प्रिये त्वं परिवृत्य किञ्चित् दिव्योपमान् जानपदान् विशेषान् ॥ १८-७४॥ तवैष जीर्णश्चलयन् पुरस्तात् विद्युन्मयीं वेत्रलतां प्रतन्वीम् । बिभर्ति शुद्धो धृतकञ्चुकश्रीः प्रायः प्रतीहारपदं पयोदः ॥ १८-७५॥ आदाय शालिस्तबकान् अदूरात् प्राप्ता शुकश्रेणिरसौ विभाति । त्वदागमप्रीतशरत्प्रयुक्ता वैहायसी वन्दनमालिकेव ॥ १८-७६॥ आरक्तफुल्लैररविन्दिनीनां सूनैरमी नूतनसूर्यकल्पैः । त्वत्कान्तिमाध्वीमनुभूय रक्तै- र्नेत्रैरिवाभान्ति समुद्रदाराः ॥ १८-७७॥ करेणुकाभिः सह गाहमानाः पयः प्रसन्नं शरदापगानाम् । अमी निमीलन्नयनाः कपोलै- राविर्मदैराविलयन्ति नागाः ॥ १८-७८॥ स एष सप्तच्छदरेणुजालैः क्रीडन्निवालिम्पति गन्धवाहः । वन्यद्विपानां व्रजतां प्रतीपं मदप्रवाहैर्मलिनान् कपोलान् ॥ १८-७९॥ अभिन्नवर्णा गृहिणीव भव्या वेलाटवी वारिनिधेर्विभाति । नित्यानुभूतामपि नव्यबुद्ध्या रसैरसौ निर्विशतीव हृष्यन् ॥ १८-८०॥ तरङ्गवेगात् तरलाम्बुधारी गृह्णात्यसौ गारुडरत्नवर्णः । वसुन्धरावारिरुहस्य पार्श्वे सिद्धोदयां श्यामलपत्रशोभाम् ॥ १८-८१॥ विभाति पर्यन्तमही पयोधेः फेनैरसौ वीचिकरप्रकीर्णैः । अभ्यर्चितानां त्रिदशातिथीना- माहारशेषैरिव पर्युदस्तैः ॥ १८-८२॥ प्रवालवह्नौ परिदीप्यमाने मुञ्चन्त्यसौ मौक्तिकलाजवर्षम् । अमुष्य वेला धृतवेपथुस्ते वैवाहिकीं स्मारयति स्म वेलाम् ॥ १८-८३॥ स्वसम्भवं सम्प्रति पारिजातं दृष्ट्वा चिरप्रोषितसन्निवृत्तम् । आलिङ्गनार्थीव तरङ्गहस्तान् आविर्मणीन् उन्नमयत्युदन्वान् ॥ १८-८४॥ अहीन्द्रनिश्वासमरुत्प्रणुन्नै- रावर्तसम्भेदिभिरेष फेनैः । उपायनं दित्सुरिवाम्बुधिस्ते मुक्तातपत्राणि मुहुः प्रसूते ॥ १८-८५॥ वेलाचलादर्भकपञ्चवक्त्रान् विहङ्गपातेन जिघृक्षमाणान् । निमज्जनोन्मज्जनवेगभूम्ना मातङ्गयादांसि विलोभयन्ति ॥ १८-८६॥ प्रवालमुक्तामणिभिः प्रदिष्टैः प्रत्याहृतैः पत्रलताङ्कुराद्यैः । अन्योन्यभूषापरिवृत्तिलीलां करोत्यसौ कूल(तीर)भुवा पयोधिः ॥ १८-८७॥ वर्णं महानीलमणिप्रकाशैः स्मितद्युतिं मौक्तिकचन्द्रिकाभिः । बिम्बाधरं विद्रुमभङ्गभेदैः व्यनक्त्यसौ तन्वि तवाम्बुराशिः ॥ १८-८८॥ विवृण्वती बाडबवह्निदीप्तिं विद्योतते विद्रुमपङ्क्तिरेषा । देवेन सम्पीडितयोस्त्रिधाम्ना दैत्येन्द्रयोरान्त्रपरम्परेव ॥ १८-८९॥ महावराहस्य खुराद्रिघातैः क्षुण्णः प्रविद्धो रघुवीरबाणैः । विसंस्थुलद्वीपतयोपलक्ष्यै- र्वीरव्रणैरेष विभाति रूढैः ॥ १८-९०॥ सम्भृत्य तोयं सहसोज्जिहानान् सेन्द्रायुधान् पश्य घनान् सनादान् । उदन्वता दुर्जयमन्तरिक्षं जेतुं प्रवृत्तानिव तस्य पुत्रान् ॥ १८-९१॥ अपां तरङ्गैरयमन्तरङ्गै- राप्लावयिष्यन् समये धरित्रीम् । समीनयूधस्तनुते सरस्वान् सन्नाहगन्धीनि गतागतानि ॥ १८-९२॥ असौ परप्रेमपदं स्वभावा- दापूर्यमाणो महता रसेन । आत्मेव दृष्टः सहसा प्रजाना- मदर्शनेच्छामितरेषु दत्ते ॥ १८-९३॥ गरुत्मतः कम्पितदिव्यवृक्षं पक्षानिलं पातुमुपेत्य नागाः । वितन्वतेऽबालमणिप्रकाशै- रसूर्यबालातपमन्तरिक्षम् ॥ १८-९४॥ मरुद्भिराघूर्णितसाद्रिनागै- र्वेगोद्भवैरस्य विमथ्यमानः । उत्क्षिप्तशङ्खप्रकरापदेशात् भूयः सुधामुद्गिरतीव सिन्धुः ॥ १८-९५॥ दोधूयमानं विविधोर्मियोगात् छायागरुत्मन्तमवेक्ष्य भीताः । आवर्तशैलीमभिनेतुमिच्छ- न्त्यङ्गैरमी कुण्डलितैर्भुजङ्गाः ॥ १८-९६॥ सफेनहासो जटिलः प्रवालै- रुद्वर्तयन् ऊर्मिभुजैर्भुजङ्गान् । विडम्बयत्येष निसर्गभीमः कस्यापि कल्पान्तनटस्य लीलाम् ॥ १८-९७॥ अशेषतः सोऽयमचिन्त्यभूमा कुम्भीकुमारेण निपीतवान्तः । सिष्णासया सम्पततोऽपि दृष्ट्वा द्विजाधिपान् वेपत इत्यवैमि ॥ १८-९८॥ प्रदर्शितात्मभ्रमणेन नूनं प्रत्यायितां मन्दरनर्तकेन । सव्यापसव्यैर्भ्रमणैस्तरस्वी रम्यामसौ पुष्यति रासलीलाम् ॥ १८-९९॥ तैस्तैरसौ निर्मथितो विधूतः सङ्क्षोभितो बन्धनपीडनाद्यैः । प्रसादगाम्भीर्यनिधिः प्रथिम्ना क्षमान्वयं नोज्झति शीतलात्मा ॥ १८-१००॥ विमथ्य विश्राणितमेतदीयं दैत्यद्विषा देवि मरुत्वदाद्याः । सारं पिबन्तस्त्रिदशाः कदाऽपि द्राघीयसीं नानुभवन्ति निद्राम् ॥ १८-१०१॥ कलत्रवन्तं पुरुषं पुराणं कपालिनं चन्द्रकलावतंसम् । ऐरावताद्यैः प्रचितान् अकार्षीत् वैमानिकान् एष महावदान्यः ॥ १८-१०२॥ इदं जगद्दर्शिततारतम्यं यद्भ्रूलतालास्यविशेषनिघ्नम् । प्रजापतीनां जननीमजन्यां तामेष देवीमनघामसूत ॥ १८-१०३॥ वराय दत्वा निरवद्ययूने कन्यामसौ कौस्तुभयौतकं च । महोत्सवे वाहनभोजनाद्यै- रानर्च देवान् इतरान् यथार्हम् ॥ १८-१०४॥ जगन्त्यशेषाणि यदेकदेशे पर्यङ्कतां तस्य गतः प्रथिम्ना । अलङ्घनीयं महिमानमन्यै- र्भजत्यसौ भावितशेषभावः ॥ १८-१०५॥ अनर्घमाद्यं हरिनीलरत्नं लक्ष्मीदृशा नित्यनिदर्शनीयम् । नभःप्रतिच्छन्दनिभेन नून- मन्तर्गतं व्यञ्जयति स्वधाम्ना ॥ १८-१०६॥ मधुद्विषो वर्णमुषां मणीनां त्रासव्यपायेऽपि तिरोहितानाम् । उदन्तमाख्यातुमिवोर्मिमाली करान् असौ कर्षति वीचिहस्तैः ॥ १८-१०७॥ पश्यामि सौहार्दवतां तवाक्ष्णा तरङ्गनिम्नोन्नतलङ्घनेन । उद्वर्तितानां महसां मणीना- मूर्ध्वं प्रसर्पन्तमिवोर्मिमन्तम् ॥ १८-१०८॥ अन्वेषयन् दित्सितदक्षिणोऽह- माचार्यसान्दीपिनिसूनुवृत्तम् । आविष्टशङ्खासुरसन्निवेशं प्राञ्चं महाशङ्खमिहान्वविन्दम् ॥ १८-१०९॥ यादोनिधाने यदुराजधान्याः सम्प्राप्तये सेतुरिहोपकॢप्तः । रामेण सीतापतिना निबद्धे लङ्कापथे लाघवमादधाति ॥ १८-११०॥ अमूनि कैलासनिभान्यदूरात् सिद्धाङ्गनासेव्यलतागृहाणि । पुण्यानि सत्ये पुलिनानि सिन्धो- श्चिरेण दृष्टिं चरितार्थयन्ति ॥ १८-१११॥ तटप्रदेशेषु तरङ्गहस्तैः प्रसारयन् सम्प्रति फेनपङ्क्तीः । सभाजनार्थं तनुते भवत्याः प्रायः पदन्यासपटीमुदन्वान् ॥ १८-११२॥ विलङ्घयन् व्योमपथेन सिन्धुं त्वद्दर्शने दीप्तकुतूहलानाम् । रथस्तवासौ त्वरयाऽतिशेते मनोरथं विष्णुपदीवधूनाम् ॥ १८-११३॥ सुरद्रुमस्त्वद्विरहालसानां तवागमं सूचयितुं सखीनाम् । मधुव्रतीनां मधुरैः प्रणादैः प्रियंवदं प्रेषयतीव गन्धम् ॥ १८-११४॥ विजित्य सङ्ख्ये नरकं सनाकं प्रत्यागतं मां प्रतिगन्तुकामाः । पौराः प्रहर्षोपनतैः प्रणादै- रम्भोनिधेरन्तरयन्ति घोषान् ॥ १८-११५॥ विधाय तार्क्ष्यं गगनाब्धिपोतं सार्धं मया देवि समाव्रजन्तीम् । प्रत्युद्गतेव प्रतिभाति भव्या दूरादियं द्वारवती पुरी त्वाम् ॥ १८-११६॥ निबद्धजैत्रध्वजपङ्क्तिरम्या पुष्पैरसौ पूरि(जि)तराजमार्गा । सदामजाम्बूनदतोरणश्रीः सौधत्विषा सूचयतीव हर्षम् ॥ १८-११७॥ पदे परस्मिन्निव नित्यमस्यां शुद्धेन सत्त्वेन विभूषितायाम् । धर्मस्य वासाः प्रथिताः पृथिव्यां सरित्पतौ गोष्पदवद्भवन्ति ॥ १८-११८॥ स्वरश्मिनिष्पादितसूर्यभेदा- मर्चिर्मुखैरञ्चि(र्चि)तभव्यभागाम् । निवृत्तिधर्मे नियतस्थितीनां नैश्श्रेयसीं पद्धतिमाहुरेनाम् ॥ १८-११९॥ सौधोपरुद्धत्रिदिवावकाशां छायासमाक्रान्तभुजङ्गलोकाम् । पुरीमिमां भूषितसिन्धुमध्यां कुत्र स्थितां वेत्सि कुतोमुखां वा ॥ १८-१२०॥ उदन्वता खातवती समन्ता- दयत्नवप्रायिततुङ्गवेला । न शक्यते सात्यकिना सनाथा नाथैः सुराणामपि जेतुमेषा ॥ १८-१२१॥ प्राकारचक्रं यदुराजधान्याः पश्यैतदुत्तुङ्गमसूर्यलङ्घ्यम् । यद्भावमेवं भजते यथार्थं सङ्कोचमृच्छन्निव चक्रशैलः ॥ १८-१२२॥ निर्मुक्तशेषोरगनिर्विशेषै- र्निकेतनैरुन्नमितान्तरिक्षम् । उदग्रतालध्वजमेतदग्रे सीमान्तरं सीरभृतो गुरोर्नः ॥ १८-१२३॥ अभौमसम्भाव्यविभूतियोगं हैमं सुरत्नैरचिरोपनीतैः । अनुत्तमादुत्तरमार्यधाम्नः ख्यातं त्वया गेहमिदं मदीयम् ॥ १८-१२४॥ प्रतीक्षमाणान् अधिचन्द्रशालं पश्य त्वया शिक्षितचारुलास्यान् । त्वत्केशहस्तस्वजनैः कलापै- र्गोपानसीश्छादयतो मयूरान् ॥ १८-१२५॥ आहारभेदैरुचितैर्भवत्या संरक्षितानां तनयाभिमानात् । श‍ृणु त्वदालोकनतर्षभाजां प्रजल्पितं पञ्जरशारिकाणाम् ॥ १८-१२६॥ सीमन्तमुक्तामणिसन्निकर्षात् प्रसूतिचित्रीकृतशुक्तिरम्याः । अमी पुरस्तात् भवतीसखीना- मन्तर्मुदामञ्जलयः स्वदन्ते ॥ १८-१२७॥ मायाधिकेन विधिना मनसेव सृष्टै- राभाति यादवगृहैरनघा पुरीयम् । नाभागनाहुषनलादिनराधिपाना- माजानसम्पदपहास(वलेप)मिवाऽऽदधानैः ॥ १८-१२८॥ नित्यं धनेशनगरीं निधिभिः प्रभूता- माखण्डलेन महिताममरावतीं च । प्रत्येकधामविभवैः परिभूय दृप्ता सौधैरियं प्रहसतीव सुधावदातैः ॥ १८-१२९॥ इत्यालपन्तमथ तार्क्ष्यरथेन कृष्णं हेमाद्रिणा हरितशैलमिवोपनीतम् । पौराः समीक्ष्य मुदिताः सह वल्लभाभिः पद्मावृतां दिवमकुर्वत दृष्टिपातैः ॥ १८-१३०॥ प्रत्युद्गतप्रियसखीजनदत्तहस्तां सत्यां त्रयीमयरथादवतारयिष्यन् । नाथस्तदा नगरमध्यनभःप्रदेशा- दासीदति स्म निजसौधसमीपरथ्याम् ॥ १८-१३१॥ व्यतिकरितसुवेलां विश्वकर्मप्रसूतिं लवणजलधिगुप्तामाप लङ्कामिवान्याम् । धनपतिबहुमान्यां धर्मसेतुर्यदूनां दुरधिगमसमीपां द्वारकां राजधानीम् ॥ १८-१३२॥ विजयिनमुपयातं वीक्ष्य सत्यासहायं व्यतनुत मुदितेव द्वारका वन्दिकृत्यम् । अमरतरुसमीरैः प्रेषितैराहृताना- मुपवनमधुपानामुन्मदानां प्रणादैः ॥ १८-१३३॥ स्तुतिशतमुखराभिः स्वर्गनेतुः स जेता सविनयमनुयातः सत्यभामासखीभिः । निजमगमदगारं निर्विशन् प्रेयसीनां स्मरशरशयितानां मन्दमभ्युत्थितानि ॥ १८-१३४॥ अभिगतमुषया तदाऽनिरुद्धं बलितनयेन बलीयसा निरुद्धम् । यदुपरिषदि सर्वलोकदर्शी कलहरुचिः कथयाम्बभूव योगी ॥ १८-१३५॥ बाणाभिख्यं बलिसुतमथो बद्धबन्धुं जिगीषुः सेनोत्थानं सुमहति पुरे श्वस्तनं घोषयित्वा । चिन्तारूढत्रिभुवनहितश्चिन्तनीयो मुनीनां वासागारं प्रभुरधिगतो वासतेयीं निनाय ॥ १८-१३६॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयये महाकाव्ये स्वर्गावतरणमार्गवर्णनं नाम अष्टादशस्सर्गः ॥

॥ प्राबोधिकं नाम एकोनविंशः सर्गः १९॥

नित्यप्रबुद्धमपि निर्मलया स्वदृष्ट्या निद्राणवत् दरनिमीलितनेत्रपद्मम् । प्राबोधिकीभिरुपसेदुरितीव वाग्भिः स्वाधीनमर्त्यतनयं(वपुषं)श्रुतिवन्दिनस्तम् ॥ १९-१॥ यामिन्यपैति यदुनाथ विमुञ्च निद्रां उन्मेषमृच्छति तवोन्मिषितेन विश्वम् । जातः स्वयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्तनधिया धरणीतले त्वम्(ऽस्मिन्)॥ १९-२॥ अश्रान्तसन्ततिभिराभरणप्रकाशैः आरात्रिकं प्रमुखयन्त्य इवोपचारम् । इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां पद्माननाः पदनिवेशनधन्यहस्ताः ॥ १९-३॥ वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं दौवारिकास्तव गृहीतसुजातवेत्राः । निर्गच्छतः प्रविशतश्च निशामयन्तो नाथ त्वदेकहृदया न भजन्ति तन्द्रीं (न्द्राम्)॥ १९-४॥ विश्वैकतीर्थभजनेन विशुद्धिमन्तो निद्रोज्झिता निगमसीम्नि निशात्यये च । वैतानिकान् विधिवशेन विहृत्य वह्नीन् पुण्याशयाः परिचरन्ति पुरोधसस्ते ॥ १९-५॥ निद्रावशेन निभृतेक्षणमुत्थितानां द्वित्राणि मन्थरपदान्यपगत्वरीणाम् । काले गृहीतमुचिते रशनाः कथञ्चित् मौनव्रतं जहति मुग्धवधूजनानाम् ॥ १९-६॥ सन्त्यज्यते तरलमौक्तिकजालदृश्यैः तारागणैस्त्रिदशवर्त्म तमालनीलम् । पद्मापतेरमृतनिर्मथनावसाने दुग्धाम्बुराशिपृषतैरिव रूपमग्र्यम् ॥ १९-७॥ नाथ स्फुरन्त्युपयति द्युमणिप्रकाशे न ज्योतिरिङ्गणगणा न च तारकाद्याः । तेजस्विनोऽपि तमसैव समृद्धिमन्तः त्वत्सन्निधौ मुषितभास इव त्वदन्ये ॥ १९-८॥ आनर्तितान् सललितं दिवसावसाने वाचालरत्नवलयैर्निजहस्ततालैः । निद्रालसान् मृगदृशो गृहनीलकण्ठान् आवासयष्टिशिखरादवरोहयन्ति ॥ १९-९॥ नृत्यन्त्युदीरितघनस्तनितामकाण्डे नेदीयसीं तव निशम्य विभातनान्दीम् । चित्रातपत्रपरिमण्डलचारुबर्हाः श‍ृङ्गारयोनिशरपत्ररुचो मयूराः ॥ १९-१०॥ निर्गत्य चित्रगरुतो निलयान्तरेभ्यः तारस्वनास्तरुणविद्रुमताम्रचूडाः । रत्नाङ्कणेषु रमणीभिरवेक्ष्यमाणाः क्रीडारणं विदधते कृकवाकुवर्याः ॥ १९-११॥ प्राप्तास्तुलां हरितकोमलबाह्यपत्रैः किञ्चित्परिस्फुरितशोणमुखैः सरोजैः । वामभ्रुवां वलयपङ्क्तिषु सञ्चरन्त्यो मञ्जु क्वणन्ति मणिपञ्जरशारिकास्ते ॥ १९-१२॥ प्रत्यक्षिते तमसि यास्यति विप्रकर्षं सञ्छन्नभानुमति सम्प्रति जीवलोके । गङ्गायमानसलिलं निजरश्मियोगात् सिष्णासयेव सितभानुरुपैति सिन्धुम् ॥ १९-१३॥ प्रत्यूषघर्मसमयेन समग्रधाम्ना शोषं व्रजत्यमृतरश्मिमयूखपूरे । अह्नाय कैश्चिदभिघातमवाप्नुवत्य- स्ताराः प्रयान्ति विलयं तनुबुद्बुदाभाः ॥ १९-१४॥ पत्युस्त्विषां प्रजहतः प्रथमाब्धितल्पं सन्ध्यासरोरुहदृशः प्रथमोत्थितायाः । सीमन्तिते तिमिरकुन्तलमध्यभागे सिन्दूरराजिरिव भाति मयूखरेखा ॥ १९-१५॥ ज्योत्स्नापदेशमवधूय सितोत्तरीयं स्तोकावशेषितसदाभरणप्रबन्धा । अङ्गीकरोत्यरुणभावितमङ्गरागं प्राची दिशा दिनपतिं परिभोक्तुकामा ॥ १९-१६॥ निर्णिज्य सम्प्रति निशाङ्गनिवेशलग्नं कालेयपङ्कमिव सन्तमसं कलङ्कम् । क्षोणीभृतामरुणदीधितयोऽनुरक्ताः पादान् अलक्तकरसैरिव रञ्जयन्ति ॥ १९-१७॥ प्रादुर्भविष्यति चराचरजन्तुवर्गे प्राप्ताऽरुणेन विधुना तमसा च वेला । आभाति भावितपरस्परलेशयोगा मायाविपक्तिरिव लोहितशुक्लकृष्णा ॥ १९-१८॥ उन्निद्रपद्मनयनः सुभगोत्पलाभः सम्भावितो मुनिगणैरुपपन्नबोधैः । रागोत्तरां श्रियमवाप्य रथाङ्गशोभी जातः स एष समयो जगदेकसेव्यः ॥ १९-१९॥ नीतः श्रमं निहतरात्रिवरूथिनीकः चन्द्रातपत्रविनिपातविलुप्तभूमा । प्रत्यूषवैरिविभवेन पराहतात्मा कालप्रतीक्ष इव गच्छति कामवीरः ॥ १९-२०॥ योऽसौ जनस्य दिशतीव सुधानिधानं जातध्वनिः श्रुतिषु जागरदुन्दुभिस्ते । मन्ये स एव मदनस्य निशाचरस्य स्वच्छन्दसौप्तिकनिवृत्तिमभिव्यनक्ति ॥ १९-२१॥ अन्तर्बहिश्च तमसा परिमुच्यमाने जागर्यया जगति सम्प्रति दीप्यमाने । पञ्चायुधश्चिरपरिश्रमशान्तिमिच्छन् निद्रामुपैति हृदयेषु नितम्बिनीनाम् ॥ १९-२२॥ अग्रे भवन् गुरुरिव स्वयमानकानां आदिष्टसम्पदिव कन्धरया तवैषः । व्यक्तप्लुतेन निनदेन विशुद्धवर्णः प्रस्तौति नाथ निगमान् प्रतिबोधशङ्खः ॥ १९-२३॥ मुग्धाः स्वमुष्टिपरिमेयमनोज्ञमध्याः पर्यायचापलतिका इव पञ्चबाणः । प्रास्थानिकप्रणयदुर्विनयोपशान्त्यै प्रत्यक्षयन् प्रतिनिवर्तयतीव यूनः ॥ १९-२४॥ अन्तश्चकासदसितोत्पलमङ्कयोगात् (लक्षात् ) भासोन्मदेव परिमीलिततारकार्धा । निष्पीतकान्तिमकरन्दरसं प्रतीच्यां नीहारभानुचषकं निदधाति सन्ध्या ॥ १९-२५॥ दृष्ट्वा निमीलितवतीं नियतिप्रभावात् आत्मप्रियां कुमुदिनीमवधूतधामा । च्योतत्तुषारनयनोदकबिन्दुरिन्दुः प्रस्थानमिच्छति महत् प्रतिपन्नदैन्यः ॥ १९-२६॥ भोक्तुं दिवं निजवियोगविलुप्तदीप्तिं प्रागेव तीव्ररुचिना प्रहितेव सन्ध्या । मालिन्ययोगमपनीय करावमर्शैः प्रायो यथार्हमनुलिम्पति कुङ्कुमेन ॥ १९-२७॥ अर्धेन पाटलमनूरुकरानुषङ्गात् अर्धान्तरेण मणिमेचकमन्तरिक्षम् । अस्पृष्टतामधिरोहति निस्तमस्कं संवीतपीतवसनेन तुलां त्वयैव ॥ १९-२८॥ पद्मापदाम्बुरुहयावकपिङ्गभासा (धाम्ना) भासा नितान्तमुदयान्तरितस्य भानोः । आरज्यते गगनमद्य जगत्प्रसूतेः नाभीसरोरुहभुवा रजसेव गात्रम् ॥ १९-२९॥ दग्धुं तमो दनुजवृन्दमिवाम्बुराशेः उत्तस्थुषो मधुरिपोरिव तिग्मधाम्नः । उन्मेषिणी सुमनसामुदिता पुरस्तात् चक्रप्रभामनुकरोति मरीचिमाला ॥ १९-३०॥ दृष्टिद्वयं नियतकालमिदं प्रजानां एका निमीलति तयोरितराऽप्यलक्ष्या । तत्तादृशोस्तव दृशोर्युगपत्प्रबोधात् आलोकयोगमनघं भजतां त्रिलोकी ॥ १९-३१॥ प्राचीनशैलविषये प्रचुरांशुरेखां सन्ध्यादशामरुणरागघृतावसिक्ताम् । कालो निधाय सृजतीव शनैस्तदन्ते तिग्मद्युतिं त्रिभुवनैकमहाप्रदीपम् ॥ १९-३२॥ पर्याप्तरश्मिनिकरेण सुवृत्तभूम्ना सूर्येन्दुबिम्बयुगलेन समस्थितेन । आभाति कालवणिजा परिकल्प्यमाना नक्तन्दिवक्षणतुलेव नभस्स्थलश्रीः ॥ १९-३३॥ नैशं तमः क्षिपति नन्दितचक्रवाके पद्मान् प्रबोधयति भावितमित्रभावे । दृष्टिं प्रसाद(ध)यति दर्शितसत्पथेऽस्मिन् दोषोल्बणा कुमुदिनी बहुमानशून्या ॥ १९-३४॥ पादस्पृशां दिशति भूमिभृतां प्रकाशं सत्त्वं समेधयति सद्भिरुदीरितार्घ्यः । तेजोगणानपि तिरस्कुरुते स्वदीप्त्या चक्रप्रियस्त्वमिव सम्प्रति चण्डभानुः ॥ १९-३५॥ आजानपाण्डरतनुः परभागमृच्छन् नीलाम्बरद्युतिमुषा निजलाञ्छनेन । स्फीताकृतिः परिगतो मदरागलक्ष्म्या वीर त्वदग्रज इवैष विभाति चन्द्रः ॥ १९-३६॥ सन्ध्योपरागसमयं प्रतिलभ्य पुण्यं स्नातुं निशा गगनसौधतलावतीर्णा । आरक्तरूपमवलम्बयता कराग्रं पत्या सह प्रविशतीव परं समुद्रम् ॥ १९-३७॥ देव त्वयीव दिवसागमजागरूके संरक्तविश्वमुदयं सवितर्युपेते । अस्तं शनैरभिपतन् भजते मृगाङ्कः त्वद्वैरिवारवनितावदनेन्द्ववस्थाम् ॥ १९-३८॥ राजाऽस्तमेति सुहृदा मदनेन सार्धं दीनाकृतिः कुमुदिनी दृढबद्धकोशा । वैरी समेति विषमाश्व इतीव भीता छायाच्छलेन भजते गगनं त्रियामा ॥ १९-३९॥ आमृश्य रात्रिमरुणोदयजातपुष्पां प्राप्तानुताप इव सत्पथलङ्घनेन । ज्योत्स्नांशुकं द्विजपतिः परिधाय नूनं व्रीडानतो विशति वारिनिधिं विवर्णः ॥ १९-४०॥ अभ्येति भानुरुदयाद्रिमसह्यतेजाः स्थातुं स एष समयो न ममेति पश्यन् । प्रायः समाश्रयति पाशभृताऽभिगुप्तं तारापतिश्चरमसागरतोयदुर्गम् ॥ १९-४१॥ मूले मनाग् भवति मुञ्चति पूर्वभागं शैथिल्यमृच्छति तमालरुचिस्त्रियामा । आकृष्यते चरमशैलवने विहर्तुं सीरायुधेन यमुनेव सुधांशुनेयम् ॥ १९-४२॥ प्रस्थानकालभजनात् परितोषितेन ज्योत्स्नात्मिकां हरिवधूसहजेन दत्ताम् । प्रायेण नाकवनितानखदीप्तिलघ्वीं शेषापटीं चरमभूभृदसौ बिभर्ति (दधाति)॥ १९-४३॥ सूक्ष्माभिरामनिजदीधितिसूत्रलम्बी पर्यन्तलग्नतिमिरालकदर्शनीयः । सिन्दूररञ्जित इवैष विभातलक्ष्म्याः सीमन्तमौक्तिकमणिः प्रतिभाति चन्द्रः ॥ १९-४४॥ प्रालेयरूषितमिदं प्रथमेतराब्धौ मग्नैकदेशमनुयाति मृगाङ्कबिम्बम् । मानच्छिदां मकरकेतनसायकानां शाणोपलं चिरनिघर्षणकर्शितार्धम् ॥ १९-४५॥ आदौ वराभमुदितं शरपाण्डु मध्ये पश्चान्मधूकपरिधूसरमिन्दुबिम्बम् । सम्पद्यते पुनरदृश्यतमामवस्थां कालार्पितं करजचिह्नमिव क्षपायाः ॥ १९-४६॥ नैशं तमिस्रमरुणेन विलुप्तसारं निश्शेषयन् अयमुदेति मयूखमाली । सत्सेवनेन पुरतो मुषितैकदेशं विद्यावतां वृजिनराशिमिवान्तरात्मा ॥ १९-४७॥ उद्गच्छता पुरुषकेसरिणेव पूष्णा काले तमो विदलितं करजैः प्रवालैः । गाढं हिरण्यकशिपोरिव गात्रमन्यत् सन्ध्याच्छलेन रुधिरं क्षरतीव सान्द्रम् ॥ १९-४८॥ प्राप्तोदयस्य तपनस्य तवेव धाम्ना क्षिप्तो गुहान्तरनिरुद्ध इवान्धकारः । विश्वावलोकननिरोधवियातवृत्तेः अत्याहितस्य परिपाकमिवैष भुङ्क्ते ॥ १९-४९॥ मग्ना चिरं महति सन्तमसाम्बुराशौ दंष्ट्राभिरामरुचिना दिवसागमेन । उत्क्षिप्यते दनुजशोणितलोहितेन प्रायो वराहवपुषा विभुनेव भूमिः ॥ १९-५०॥ निद्रामपास्य तमसा च दृशो निरोधं प्रत्यङ्मुखं प्रथमतः प्रथयन् प्रकाशम् । निःश्रेयसप्रतिपदेन निजेन धाम्ना विश्वं समाधिरिव दर्शयते विवस्वान् ॥ १९-५१॥ आशापरीतमविवेकमिवान्धकारं शङ्काशतास्पदमलक्षितसर्वतत्त्वम् । निर्धूय सम्प्रति निशामिव बाह्यविद्यां तत्त्वावसाय इव भाति विभातकालः ॥ १९-५२॥ निर्विश्य चन्द्रसितपद्मरसं निशात्मा लोलम्बजातिरभितो लुलितान्यपुष्पा । त्वद्वक्त्रचन्द्रनिरपायरसान् इदानीं पद्मान् उपैति परितोषितराजहंसान् ॥ १९-५३॥ नात्यन्ततः कुमुदिनी प्रतिपन्ननिद्रा नातीव बोधमुपयाति सरोजिनी च । एतेन नूनमनयोरविशेषदृश्या नाथानुवृत्तिनियतेव भवत्यवस्था ॥ १९-५४॥ पर्यस्यता सुरभिपद्मपरागजालं पक्षानिलेन परिधूननसम्भवेन । सन्धुक्षयन्ति मकरध्वजहव्यवाहं शान्तं पुनःपुनरमी सरसीषु हंसाः ॥ १९-५५॥ कालोत्थिताः स्थितिभृतो गुणयन्त्रितत्वात् दानोदकार्द्रकरपुष्करदर्शनीयाः । सम्भावयन्त्यभिमुखाः समयोपयातान् भृङ्गान् वनीपकजनानिव वारणेन्द्राः ॥ १९-५६॥ गञ्जामुपेत्य मदकुञ्जरगण्डपालिं मत्तान् समीक्ष्य मधुपान् परिघूर्णमानान् । शुद्धानि हन्त कुमुदानि तमस्यपेते भूयस्तदन्वयभयादिव सङ्कुचन्ति ॥ १९-५७॥ सत्त्वक्क्षमाधिकतया शयिताः पृथिव्यां निद्रामयीं व्यपगमय्य निजामविद्याम् । निस्सङ्गवृत्तिनियताः स्थिरसंयमार्हाः मुञ्चन्ति सम्प्रति मदं मुदिता गजेन्द्राः ॥ १९-५८॥ सैन्या(शैब्या)दयस्तव हयाः समये प्रबुद्धाः चत्वार एव निगमास्तव मूर्तिमन्तः । आवर्तयन्त्यतनुहेषितवीचिभेदैः वैरात्रिकं (वैभातिकं)वटुभिरध्ययनं प्रवृत्तम् ॥ १९-५९॥ आयोधने विहरणेऽप्यवधानवन्तः प्राज्यैः परिच्छदपरिष्करणोपचारैः । संयोजयन्ति रथयोगविदः शताङ्गं तार्क्ष्यं द्वितीयमिव सारथयस्त्वदीयम् ॥ १९-६०॥ निद्रावशेषविगमेऽपि मदानुषङ्गात् मन्दं दृशौ मुकुलयन्ति मदावलेन्द्राः । एषामनूरुकिरणैररुणीकृतानां सप्तस्रुतां भवति सान्ध्यपयोदलक्ष्मीः ॥ १९-६१॥ आकृष्य (आलक्ष्य)दूरमवरोधगृहादमुष्मात् स्वाभाविकं वदनमारुतसौरभं ते । अम्भोरुहां गुणमपत्रपयन् समीरो मन्दं परिभ्रमति मन्दिरदीर्घिकासु ॥ १९-६२॥ आघूर्णितानि मृदुना पवनेन पद्मा- न्यावेदयन्ति मदलेशमयीमवस्थाम् । निर्गच्छतां तव च वारवधूजनानां निद्रावशेषकलुषाणि विलोचनानि ॥ १९-६३॥ रेणूत्कराः सरसिजोत्पलकैरवाणां कुर्वन्त्यनूरुतिमिरेन्दुरुचिप्रकाशाः । प्रायः समुद्रतरुणीपरिकर्मभूतां चर्चां नवीनघुसृणागुरुचन्दनानाम् ॥ १९-६४॥ अध्यासितं कुमुदतल्पमपोह्य काले पद्मोत्पलानि शनकैः श्रियमाव्रजन्तीम् । संवीजयन्त्यलघुचामरदर्शनीयैः पक्षैः स्वयं परिजना इव राजहंसाः ॥ १९-६५॥ प्रत्यूषलक्षणरसायनसम्प्रयोगात् प्रालेयरश्मिमहसा जरसेव मुक्ताः । पद्मोत्पलप्रभृतिभिः परिकर्मवत्यो गृह्णन्ति यौवनदशां गृहदीर्घिकास्ते ॥ १९-६६॥ औद्यानिकीषु सुमनस्स्वनवाप्तपूर्वं नूनं सरोरुहवनेषु च नूतनेषु । आदित्सते वदनमारुतसौरभं ते शय्यानिकाय्यमभितो विहरन् समीरः ॥ १९-६७॥ अर्च्यस्य सम्प्रति सतामवगाढतीर्था मन्ये प्रगृह्य नलिनी मकरन्दमर्घ्यम् । व्यक्तद्विरेफनिनदा विहिताभिमुख्या पत्युस्त्विषां प्रणयतीव करप्रसारम् ॥ १९-६८॥ ज्योत्स्नासखीं कुमुदिनीं भ्रमरः प्रहृष्यन् निर्विश्य नित्यपरिशुद्धरुचिं निशायाम् । रागादुपैति नलिनीं रजसाऽभिजुष्टां किं नाम नाचरति मन्मथहस्तवर्ती ॥ १९-६९॥ सन्ध्याछलेन पुरुषोत्तम साम्प्रतं ते सैवाधुना (पूर्वोदिता ?)भृगुसुता तमसां निहन्त्री । भूयस्समुत्थितवती धृतपुण्डरीका भोगाय सागरगृहाद्भुवनैकयूनः ॥ १९-७०॥ चन्द्रातपत्रिदिवशैवलिनीप्रवाहे मग्नोत्थितां कमलिनीमुपसेवमानाः । प्रत्यग्रभिन्नमुकुलप्रसृतैः परागैः उत्थापयन्त्यगुरुधूपमिवोत्पलिन्यः ॥ १९-७१॥ पौरन्दरीं दिशमनूरुनिबद्धरागां दृष्ट्वा तथा परिणमत्यपरा दिशाऽपि । स्त्रीणां गतानुगतिकप्रतिपत्तिभाजां ख्यातं ततो भवति कामितकामिनीत्वम् ॥ १९-७२॥ निद्रायते कुमुदिनी चिरसम्प्रबुद्धा सुप्ता प्रबोधमुपयाति सरोजिनी च । यामेषु वृत्तिमनयोरधिगम्य नूनं शिष्यायितं त्वदवरोधनितम्बिनीभिः ॥ १९-७३॥ मित्रस्य लुप्ततमसोऽप्यतिरागभाजः सम्प्रेक्षणं मम न युक्तमितीव मत्वा । मीलत्यसौ कुमुदिनी सह तारकाभिः प्राप्तं व्रतं तदिह राजपरिग्रहाणाम् ॥ १९-७४॥ आमोदयोगमवशात् सहसाऽऽश्रयन्ते पत्युस्त्विषां तव च पादनिषेवणेन । क्षिप्तास्त्वया हृदि गृहीतशुचः क्षितीन्द्राः स्वान्तर्निविष्टमधुपाश्च सरोजकोशाः ॥ १९-७५॥ आविस्स्मितैरमृतसिन्धुतरङ्गकल्पैः आकेकरप्रियतमाजनदृष्टिभोग्यैः । त्वत्सौखशायनिकसूरिगणेन सार्धं निर्वेशयोगमुपयाम निरीक्षणैस्ते ॥ १९-७६॥ अधिगतनिलयानामौपवाह्यद्विपानां मदपयसि वितन्वन् मज्जनोन्मज्जनानि । प्रवहति पवमानः स्पन्दयन् मन्दमन्दं परिणमदरुणिम्नः पङ्कजारण्यकोशान् ॥ १९-७७॥ उपवनमधुपानामुन्मदस्वैरगीतैः तनुमरुदुपदिष्टैश्चारुलास्यैर्लतानाम् । दरविलुलितदानैर्दन्तिनां कर्णतालैः समयसमुचितं ते भाति सङ्गीतकृत्यम् ॥ १९-७८॥ हरति रतिविहारैरर्धविस्रंसितानां युवजनहृदयानि श्रान्तपञ्चायुधानि । उपहितगुणमारादुत्थिताभिर्वधूभिः कुटिलनियमिताग्रं गुम्भनं चूलिकानाम् ॥ १९-७९॥ क्षितिरियमवधूतध्वान्तनीलोत्तरीया विकसितमुखपद्मा व्यक्तसन्ध्याङ्गरागा । अभिमतकरदाना निर्व्यपेक्षा त्वदन्यैः अनुभवितुमिव त्वां दर्शयत्यात्मरूपम् ॥ १९-८०॥ मधुन इव दयायास्सामरस्यं दधानैः कमलवनमनन्यां कान्तिमध्यापयद्भिः । फणिपतिरमणीयं देव पर्यङ्कमुज्झन् परिणमय शुभं नः पावनैरक्षिपातैः ॥ १९-८१॥ दिनमुखमिति नाम श्रावितःसूतपुत्रै- रभजत जितनिद्रो जागरं यादवेन्द्रः । सरिदप(शरदुप)गमकाले साधु संरक्षणार्थं मुनिभिरिव स एव स्तूयमानो मुकुन्दः ॥ १९-८२॥ धनमिव निगमानां धर्ममुत्तम्भयिष्यन् त्रिजगदनुविधेयं(यः?)कर्म निष्पाद्य सान्घ्यम् । सितगुणपरिधानैः सेवितो मन्त्रिमुख्यैः अलमकुरुत नाथो हैममास्थानपीठम् ॥ १९-८३॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये प्राबोधिकं नाम एकोनविंशःसर्गः ॥

॥ उषाविवाहो नाम विंशः सर्गः २०॥

अथोपहूतैः पुरुहूतजेता सेनेश्वरैरप्रतिमानवीर्यैः । अभीषुभिः सूर्य इवाभिदीप्तः कुबेरगुप्तां ककुभं प्रतस्थे ॥ २०-१॥ प्रयाणतूर्यध्वनिरस्य भूयान् घर्मान्तजीमूतरवानुकारी । अनर्तयद्धर्ममयूरमाद्यं प्राप्तस्थितिं पादयुगेन भूम्याम् ॥ २०-२॥ नभः पृथिव्योरुपदिष्टकम्पे नाथस्य यात्रापटहप्रणादे । उषेतरासां नयनं चकम्पे वामेतरं बाणपुराङ्गनानाम् ॥ २०-३॥ तस्येन्दुबिम्बं सितमातपत्रं भास्वान् मणीन्द्रो महनीयतेजाः । ताराश्च मुक्तावलया(यो?)विरेजुः शिखी रथाङ्गाकृतिरात्मधाम्नः ॥ २०-४॥ अग्रे मुकुन्दस्य तदग्रजन्मा दैत्यैस्समं जन्यविहारमिच्छन् । अवाहयद्यादवभूपतीनां वरूथिनीं शम्बरवैरिपूर्वाम् ॥ २०-५॥ कथञ्चिदुत्क्षिप्तकरेण सोढं भुग्नाग्रभोगं भुजगेश्वरेण । आसन्नभारात्ययजातहर्षा विश्वम्भरा सैन्यभरं विषेहे ॥ २०-६॥ प्रस्थानभाजि प्रथमे यदूनां पृथ्वी स्वयं तद्बलरेणुलक्षात् । भारावतारप्रियवादलुब्धा प्रायो ययौ पद्मभुवस्सकाशम् ॥ २०-७॥ अशेषतश्छादयता दिगन्तान् आरोहता भूमिभृतां च मूर्ध्नः । प्रायेण सेनारजसा स्वमेव प्रादुष्कृतं लाघवमुल्बणेन ॥ २०-८॥ रथादिघोषैरथ शार्ङ्गपाणेः कल्पात्ययैकार्णवनादकल्पैः । वित्रासितेव त्रिदशारिलक्ष्मीः इयेष गन्तुं यदुवीरदुर्गम् ॥ २०-९॥ अथ क्षणादात्मभुवं प्रयान्तं परिष्कृतं पञ्चभिरायुधाग्र्यैः । आशाबलेन स्वयमुत्तराशा प्रायः प्रतीयाय जगत्प्रतीक्ष्यम् ॥ २०-१०॥ पुरं ततः शोणितपूर्वमग्रे ददर्श दैत्याधिपदर्पहन्ता । खगेन्द्रपक्षानिलतीव्रघातात् त्रासादिवोत्कम्पितकेतुहस्तम् ॥ २०-११॥ पुरोपकण्ठे पुरभिन्नियोगात् प्राकारभावं प्रमथा भजन्तः । प्रलम्बहन्तुः प्रसमीक्ष्य वेगं भीताः पलायन्त भृशार्तनादाः ॥ २०-१२॥ इतस्ततस्सम्पततां यदूनां व्यक्तानुबन्धं बिरुदैरुदारैः । सुरद्विषः शुश्रुवुरेकतानं कलध्वनिं काञ्चनकाहलीनाम् ॥ २०-१३॥ कशाग्रसंस्पर्शममृष्यमाणैः समीरवेगैः समरावलिप्ताः । उदग्रहेषामुखरैस्तुरङ्गैः वृष्ण्यन्धका वैरिपुरीमवृण्वन् ॥ २०-१४॥ उद्वेलवेगान् स्तनतो गभीरं और्वप्रतिच्छन्दविदीप्तदृष्टीन् । अचोदयन् दानववप्रभङ्गे स्तम्बेरमान् सागरपोतकल्पान् ॥ २०-१५॥ प्राकारभङ्गे प्रसभं प्रयुक्ताः दम्भोलिभीमायतदन्तकाण्डाः । ऊर्ध्वप्रवृत्तैर्निजहस्ततालैः (नालैः) उत्तम्भयामासुरिवान्तरिक्षम् ॥ २०-१६॥ असह्यवेगैः सहसा बलौघै- राक्रम्यमाणा बलिना यदूनाम् । प्रचुक्षुभे दैत्यपुरी प्रभूता संवर्तभिन्नेव समुद्रवेला ॥ २०-१७॥ यथार्थशौर्या यदुवीरयोधाः स्थानानि चित्तानि च दानवानाम् । व्यकम्पयन् विक्रमसत्कथानां सिद्धान्तभागैरिव सिंहनादैः ॥ २०-१८॥ जहार चित्तानि बिभेद सौधान् श्रोत्राण्यरीणां बधिरीचकार । अनन्यशब्दं च जगद्वितेने घोरस्तदा यादवसैन्यधोषः ॥ २०-१९॥ विमथ्यमानात् स्वपुराद्यदूनां मन्थाचलेनेव महाबलेन । विनिष्पपात त्रिदशारिनेता काले समुद्रादिव कालकूटः ॥ २०-२०॥ स रोषरूक्षो बहुदीप्तहेतिः दिशो दिधक्षन्निव दैत्यवह्निः । कृष्णाम्बुवाहप्रमुखं प्रतस्थे तापच्छिदा तेन शमं प्रयास्यन् ॥ २०-२१॥ सरित्पतीनामिव सन्निपाते वार्ष्णेयदैतेयबलोदधीनाम् । अदभ्रसङ्घोषमभूतपूर्वं युगान्तसंवादि बभूव युद्धम् ॥ २०-२२॥ बलद्वयक्षुण्णमहीतलोत्थं रजस्तदा संवृतसर्वलोकम् । अकल्पयत् स्वेतरतत्त्वलोपात् अपञ्चभूतामिव विश्वसृष्टिम् ॥ २०-२३॥ प्रथीयसा सूक्ष्मनिरन्तरेण क्षौमाभिरामेण परागभूम्ना । प्रच्छन्नसेनाङ्गतया तदानीं आसीज्जयश्रीरवकुण्ठितेव ॥ २०-२४॥ रजोनुबन्धादभिसंवृताङ्गी भास्वत्करस्पर्शमनश्नुवाना । निवारिताशाविततिस्तदाऽऽसीत् नभस्स्थली नाकिभिरप्यदृश्या ॥ २०-२५॥ रणाख्यदर्शे रजसोत्थितेन प्रच्छाद्यमाने तमसेव भानौ । निस्त्रिंशधारासलिले निमग्नाः शुद्धिं परामन्वभवन् सुयोधाः ॥ २०-२६॥ असृक्छटासारवशात् ध्वजिन्या रजस्समेते तमसि प्रशान्ते । सत्त्वानुरूपं विदधे प्रमोदं समान् मिथस्सम्मुखयन् प्रकाशः ॥ २०-२७॥ ततो हरस्त्रातुमानाः स्वभक्तं दत्ताभयं दानवसार्वभौमम् । अनुद्रुतो भूतगणैरनन्तैः प्रत्युद्ययौ विश्वपतिं प्रकुप्यन् ॥ २०-२८॥ तमुन्मदोदग्रवृषाधिरूढं सिताचले मेरुमिव ज्वलन्तम् । शरैः प्रतिप्रास्थित शार्ङ्गधन्वा देवं सुधासूतिकलावतंसम् ॥ २०-२९॥ शिलीमुखैः शौरिधनुर्विमुक्तैः विस्मारितान् पूर्वविकत्थनानि । पलायमानान् प्रमथान् अशेषान् मेने पशूनेव पतिः पशूनाम् ॥ २०-३०॥ आस्वादनीं दानवशोणितानां अकुण्ठितामद्रिविदारणेऽपि । अनाहतास्त्रो युधि शम्बरारिः संस्तम्भयामास गुहस्य शक्तिम् ॥ २०-३१॥ क्लेशादिदोषैरपराहतेन क्रीडामनुष्येण जनार्दनेन । ज्वरे निरस्ते गिरिशप्रयुक्ते वीतज्वरं विश्वमिदं बभूव ॥ २०-३२॥ अथ प्रयुक्तान् असुरेन्द्रगुप्त्यै प्रसह्य वह्नीनपि पञ्च जित्वा । अजृम्भयद् भावितजृम्भणास्त्रो वृषध्वजं विष्णुरचिन्त्यभूमा ॥ २०-३३॥ शरव्यभूतत्रिपुरेऽप्यमोघं शूलायुधे शौर्यमवेक्ष्य शौरेः । पुरन्दरप्रत्युपरोधजातं व्ययोजयन् विस्मयमादितेयाः ॥ २०-३४॥ बाणः सहस्रेण भुजैः स(प्र)माद्यन् आत्मानुरूपैरसुरैः समेतः । असह्यशस्त्रास्त्रबलो बलादीन् प्रत्यग्रहीत् प्रत्ययितप्रभावान् ॥ २०-३५॥ स वज्रनिर्घोषनिभाट्टहासो गात्रेण रुन्धन् गगनावकाशम् । उदग्रधन्वा शरवृष्टिमुग्रां उत्पातजीमूत इवोज्जगार ॥ २०-३६॥ शरासनैरर्धसहस्रसङ्ख्यैः योद्धुं प्रवृत्तो युगपत्प्रकृष्टैः । प्रतिद्रुतान् प्रार्दयत प्रकुप्यन् एकः समस्तानपि यादवाग्र्यान् ॥ २०-३७॥ अथ क्षणादन्तरितान्तरिक्षा वात्या विहङ्गेन्द्रविहारजाता । अलातचक्रप्रतिमान् अकार्षीत् बाणाशनीन् बाणघनप्रसूतान् ॥ २०-३८॥ गरुत्मतः पक्षमरुत्प्रचारात् दूरीकृतो वारुणनागपाशैः । उषासहायः सरथः सधन्वा जग्राह दैतेयबलस्य पार्ष्णिम् ॥ २०-३९॥ विनिघ्नतो दैत्यबलौघमग्रे चापाभियोगो युधि शम्बरारेः । चकार चक्रीकृतचन्द्रलेखं शम्भोश्शिरःकम्पमनन्यलभ्यम् ॥ २०-४०॥ रामोऽपि लङ्काधिपतेस्समानान् मुसल्यवृत्तीन् मुसलेन भिन्दन् । चमत्कृतिं चक्रधरस्य कुर्वन् आदत्त सङ्ग्रामविहारमग्र्यम् ॥ २०-४१॥ उदग्रश‍ृङ्गोल्बणबाहुभूम्ना सञ्चारिकैलासनिभेन तेन । अमृष्यता क्षिप्रमकारि सैन्यं नागाधिपेनेव वनं नलानाम् ॥ २०-४२॥ स लाङ्गलाकर्षणनिर्विचेष्टान् निष्पिष्य नागान् निषधप्रमाणान् । रणक्षितिं शोणितमांसपङ्कैः आमग्ननिस्पन्दरथान् अकार्षीत् ॥ २०-४३॥ हलायुधोत्क्षिप्तरथौघपूर्णं समीक्ष्य देवाः सहसाऽन्तरिक्षम् । आशङ्क्य दैतेयबलोपयानं दृढार्गलां देवपुरीमकुर्वन् ॥ २०-४४॥ प्रभुश्च किञ्चित् प्रथयन् अमर्षं क्रीडोचितान् प्रेक्ष्य कृताभियोगान् । विव्याध बाणानुचरान् अयोध्यः शार्ङ्गोदधेरूर्मिनिभैः शरौघैः ॥ २०-४५॥ अदृष्टतूणीरमनुप्लवान्यैः अग्राह्यसन्धानविमोक्षबाणम् । अमंसतैनं स्थिरचापचक्रं प्रत्येकमात्माभिमुखं प्रतीपाः ॥ २०-४६॥ निषङ्गदत्ताग्रकरे मुरारौ निर्भिद्य दैत्यान् भुवमाविशन्तः । लक्ष्याणि दूरादलभन्त बाणाः रसातलस्थैरपि दानवेन्द्रैः ॥ २०-४७॥ न सेहिरे शार्ङ्गपयोदजातां नाराचवृष्टिं दनुजेन्द्रयोधाः । अमोघवाचा कविना प्रयुक्तां अन्तर्वतीं सूक्तिमिवानभिज्ञाः ॥ २०-४८॥ यतोयतो दानवसैन्यमासीत् ततस्ततो दैत्यचमूरपायात् । गतानि तेजस्तमसोरिवाऽऽरात् आशाविकल्पेन तयोरभूवन् ॥ २०-४९॥ अशूरसन्दर्शनतापशान्त्यै स्वहेतिधारागृहमाश्रयन्तीम् । विहारयामासुरिव स्ववृत्त्या वीरश्रियं वृष्णिकुलप्रवीराः ॥ २०-५०॥ कृपाणभिन्नद्विपकुम्भमुक्ता मुक्ताः पतन्त्यो रणवप्रभूमौ । प्ररोहतां वीरयशस्तरूणां बीजान्यभूवन् बहुधा विकीर्णाः ॥ २०-५१॥ द्विपाचलेभ्यः शरवृष्टिपातैः आपातितानां रुधिरापगानाम् । अकल्पयन् योधमुखेन्दुकॢप्ताः कौमुद्वतीं सम्पदमट्टहासाः ॥ २०-५२॥ अदृश्यतान्योन्यविलूनशीर्षै- रारब्धमन्योन्यकृतप्रशंसैः । अनेकरूपैकसुराङ्गनाप्तैः अपास्तवैरं रणरङ्गनृत्तम् ॥ २०-५३॥ प्रयोजितैः प्राणतृणैः प्रगल्भा रथ्याभिगम्येषु रणापणेषु । क्षणप्रभालोलतरैरविन्दन् यावद्युगान्तानि यशोधनानि ॥ २०-५४॥ कृतापदानाः कृशजीविताशाः स्वनाथनामाङ् क जयोक्तिमन्तः । जयश्रियं दोष्णि निवेशयन्तः कीर्ंइत दिगन्तावसथामकुर्वन् ॥ २०-५५॥ अमोघशस्त्रास्त्रतरङ्गभीमे वैरोपसन्दर्शितबाडबाग्नौ । विकत्थनं संयति विक्लवानां वीरोदधौ गोष्पदवद्विलिल्ये ॥ २०-५६॥ जिगीषुभिर्जीवितसंशयाख्या दोलाऽधिरूढा दृढवैरबन्धा । अदूरतो यादवमर्षवेगं (गात्)(यावदमर्षवेगं) मिथः प्रतिक्षेपशतानि चक्रे ॥ २०-५७॥ शरप्रयोगोचितविप्रकर्षं सम्पादयिष्यन्त्यपराङ्मुखानाम् । प्रशंसनीयानि बभूवुराजौ पश्चात्प्रयातानि धनुर्धराणाम् ॥ २०-५८॥ प्रतीपवृत्त्या प्रतिगृह्य शूराः शत्रुप्रयुक्तां शरवृष्टिमुग्राम् । त्रिविष्टपानोकहपुष्पवृष्टिं वैमानिकैरन्वभवन् विमुक्ताम् ॥ २०-५९॥ तस्मिन् अघच्छेदिनि धर्मयुद्धे कायत्यजां कृष्णसमीक्षितानाम् । सुहृद्द्विषद्भेदवतां समोऽभूत् स्वर्गापवर्गान्तगतिः सुपन्थाः ॥ २०-६०॥ बभूव कीर्त्या धृतकेतकश्रीः निस्त्रिंशधाराधरपङ्क्तिनीला । रणस्थली यादवदानवानां आकालिकी प्रावृडिवास्त्रवर्षैः ॥ २०-६१॥ अलङ्घनीया रथवारणाद्यैः आसागरादप्रतिघप्रवाहाः । उदग्रभूभृत्प्रभवाः पृथिव्यां उत्तस्थिरे शोणितशैवलिन्यः ॥ २०-६२॥ ज्वलत्प्रतापानलजातदीप्तिः समिद्वती सैन्ययुगस्य लीला । जयश्रिया वीरपतिंवराया वैवाहिकी सम्पदिवाबभासे ॥ २०-६३॥ अमर्षवैश्वानरधूमलेखां अन्योन्यसंहारनिशां कृपाणीम् । अवेक्ष्य मृत्योर्भ्रुकुटीमनन्दन् वीराः स्वविक्रान्तिशिरीषमालाम् ॥ २०-६४॥ मनस्विनः संयति वीरशय्या- मभूषयन् प्रीतिकृतः शिवानाम् । सुखावहाः स्वर्गविलासिनीनां विहारशय्यामपि वीरलोके ॥ २०-६५॥ समाश्रितैराहवसत्रदीक्षां कुर्वद्भिरन्योन्यमिवोपकारम् । अलभ्यत श्लाघितमप्सरोभिः दैत्यैर्मनुष्यैरपि देवभूयम् ॥ २०-६६॥ पर्यस्तपादं पतितैः पृथिव्यां वज्राहतैरद्रिगणैरिवान्यैः । द्विपेन्द्रयूथैर्द्रुतसर्पिणीनां द्वीपायितं शोणितवाहिनीनाम् ॥ २०-६७॥ हतावशिष्टा दनुजेन्द्रभृत्याः प्रद्युम्नविक्रान्तिभयान्निवृत्ताः । तत्केतुचिह्नस्मरणेन बिभ्युः निशाम्य दृष्टीर्निजवल्लभानाम् ॥ २०-६८॥ स्वकोपचापेन ततः प्रणुन्नो महेश्वरानुग्रहसंहितात्मा । अतीत्य मौर्वीमिव दैत्यसेनां बाणः स्वयं शौरिबलं विवेश ॥ २०-६९॥ व्यभज्यत व्याप्तहयोर्मिजालं बलं यदूनां बलिनन्दनेन । एकेन पर्याप्तभुजाद्रिभूम्ना नाथो नदीनां नलसेतुनेव ॥ २०-७०॥ अस्त्राणि तेन प्रहितानि तूर्णं विहारभूम्ना वितथानि कृत्वा । युगान्तसूर्यायुतयोगदीप्तं रामानुजन्मा जगृहे रथाङ्गम् ॥ २०-७१॥ अथाच्छिनद्भीषणसत्त्वसारां भुजाटवीं भूतपतेस्समक्षम् । चक्रेण सङ्कल्पनिभेन कृष्णः किं वा विधौ वैरिणि केन रक्ष्यम् ॥ २०-७२॥ अवृण्वत क्ष्मां हरिचक्रलूना महत्तरा बाणभुजाः पतन्तः । महेन्द्रहस्तप्रहितेन पूर्वं वज्रेण भिन्ना इव सानुमन्तः ॥ २०-७३॥ अमर्त्यशत्रोरवलेपहेतौ बहिर्द्वये बाहुवने विलूने । दयाधनः (घनः)संयति दैत्यहन्ता प्रदीप्तमस्त्रं प्रतिसञ्जहार ॥ २०-७४॥ अनीकिनीमाश्रितदीर्घनिद्रां बाणो निकृत्तामपि बाहुपङ्क्तिम् । अजातखेदो बुबुधे न नूनं विपद्भिरश्रान्तधियो हि वीराः ॥ २०-७५॥ अशान्तदर्पस्त्वसुरो भुजाभ्यां विकृष्टधन्वा विससर्ज बाणान् । तदैनमन्वीक्ष्य निहन्तुमैच्छत् जन्योद्धतं दैत्यमनन्यजन्यः ॥ २०-७६॥ ततस्तमव्याहतदिव्यशक्तिं मध्याह्नमार्ता(र्त)ण्डविदीप्तहेतिम् । पश्यन् मुकुन्दं प्रतिबोधभूम्ना जयोक्तिपूर्वं गिरिशो जगाद ॥ २०-७७॥ मैवं प्रभो मत्परिवारभूतं बलेस्सुतं बाधितुमर्हसि त्वम् । मयैष रक्ष्यो दनुजस्त्वयाऽपि स्वभक्तबुद्ध्यैव समीक्षणीयः ॥ २०-७८॥ त्वमादिदेवः त्रियुगस्त्रिधामा शुद्धामशुद्धां च विभाव्य सृष्टिम् । अकर्मतन्त्रैरवतारभेदैः क्रीडस्यनन्तैरपि जन्तुजातैः ॥ २०-७९॥ अयं स ते वेदमयो गरुत्मान् वेदैरशेषैरपि वेद्यसे त्वम् । विभागमृच्छन्त्यमरास्त्वदन्ये शाखैकदेशेषु शकुन्तकल्पाः ॥ २०-८०॥ सिसृक्षतस्ते भुवनानि सप्त प्रसादतो नाथ बभूव वेधाः । संहर्तुकामस्य तवैव कोपात् अहं त्वया दत्तनिजाधिकारः ॥ २०-८१॥ अविक्रियश्चेष्टयसि त्वमेको विश्वानि भूतानि विहारशक्त्या । अचेष्टमानप्रकृतीन्ययांसि स्थाता(स्वतोऽ)ऽप्ययस्कान्त इवाभिमुख्यात् ॥ २०-८२॥ अलङ्घ्यमायागुणजालभीतान् अनन्यचित्तान् अनुकम्पमानः । स्वदत्तयैव स्वपदाब्जभाजा भक्त्या स्वयं तारयसे भवाब्धिम् ॥ २०-८३॥ भारावताराय भुवोऽवतीर्णं भवन्तमन्तर्हितदिव्यभावम् । संस्थापयन्तं नियमेन धर्मं धर्मं परं वेदविदो विदुस्त्वाम् ॥ २०-८४॥ विधाय दैत्यप्रकृतीन् अशेषान् नामावशेषान् नरलोकपालान् । करिष्यसि त्वं करुणार्द्रचेताः नाथ क्षितिं नावमिवास्तभाराम् ॥ २०-८५॥ दयाक्षमाभ्यामिह दीव्यसि त्वं लक्ष्मीमहीभ्यामिव लालितात्मा । तत् क्षम्यतामस्य मदेकभक्तेः आजानतः स्वात्मचमत्क्रियेयम् ॥ २०-८६॥ नाथो यदूनामिति भूतनाथे स्वभक्तरक्षामभियाचमाने । अतर्कितप्रत्युपकारलेशा- माकस्मिकीमाद्रियतानुकम्पाम् ॥ २०-८७॥ प्रविश्य देहं पुनरुत्पतन्त्या स्वमौलिभाजेव सुरस्रवन्त्या । वाचा मनः प्रीतिमिवोद्वमन्तं शौरिस्तदा शूलिनमित्युवाच ॥ २०-८८॥ तवैष भक्तो मम चेति मन्ये क्षान्तस्ततो नित्यमसौ मयाऽपि । न चास्ति बन्धोरपि साम्पराये वीरव्रतं धारयतोपकारः ॥ २०-८९॥ विहारनृत्तानि वितन्वतस्ते वल्गुध्वनिं वादयिता मृदङ्गम् । भजत्वविच्छिन्नधृतिर्भवन्तं दत्ताभयो दैत्यपतिर्मयाऽसौ ॥ २०-९०॥ अथान्वमंस्त त्रिजगन्नियन्ता पत्युः पशूनां प्रणयानुरोधात् । बाणावरोधप्रमदाजनानां स्थायीनि मङ्गल्यविभूषणानि ॥ २०-९१॥ ततोऽसुरेन्द्रः प्रणिपातपूर्वं जगत्परित्राणरतं जगाद । उषानिरुद्धान्वयतः समीक्ष्याः भृत्या वयं प्रीतधिया त्वयेति ॥ २०-९२॥ हिरण्यरत्नानि हिरण्यपूर्वैः बलादुपात्तान्युपदाय बाणः । निरोधखिन्नावुचितोपचारैः आनर्च सस्नेहमुषानिरुद्धौ ॥ २०-९३॥ सम्बन्धिभावप्रतिपत्तिभाजा सन्धाय बाणेन स सत्यसन्धः । उषापतेर्यौतकलाभलक्ष्या(क्षा)त् जेता जहारैव विपक्षलक्ष्मीम् ॥ २०-९४॥ हरेण दत्तां हरिणाऽपि बाणः स्थिरीकृतामप्रतिघामभीतिम् । तनुत्रयन् वर्जितलेखवैरः शमान्वितामास्थित शम्भुसेवाम् ॥ २०-९५॥ यथार्थनामानमथानिरुद्धं कृत्वा सभार्यं कृतकृत्यचेताः । सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपतिः पुरीं स्वाम् ॥ २०-९६॥ देवाः सहस्रनयनं दनुजेन्द्रमन्ये निर्धूतमानमनघेन निशामयन्तः । कूपोदकप्रभवकूर्मनयेन जातां अस्वामिकप्रभुपरिग्रहबुद्धिमौज्झन् ॥ २०-९७॥ नीतस्त्रिलोकपतिना निजराजधानीं भूयः प्रजात इव पौरजनैः प्रतीतः । दैत्येश्वरस्य सुतया सहितः स रेमे रागाधिको रतिपतेरनघः कुमारः ॥ २०-९८॥ अथ तमुषासहायमुपयातमुपायनवान् जनपदपत्तनप्रभृतिकादुपगम्य जनः । उपचरति स्म सम्यगुपपन्नधृतिर्बहुधा यदुनगरे विवाहविजयोत्सवयन्त्रितधीः ॥ २०-९९॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये उषाविवाहो नाम विंशस्सर्गः

॥ पौण्ड्रकादिवधो नाम एकविंशः सर्गः २१॥

वासुदेव इति नाम दधानः पौण्ड्रकस्तदनु भूरिमदान्धः । मानुषत्वकवचान्तरितेन स्पर्धते स्म हरिणा हतचित्तः ॥ २१-१॥ हेतिपञ्चकमधारयत श्री- वत्सकौस्तुभमुखानि च मूढः । ऐश्वराणि चरितानि च पूर्वा- ण्यात्मनः स्वयमजूघुषदाप्तैः ॥ २१-२॥ इन्द्रजालकुहनादिषु दाक्ष्यात् ईश एष इति मोहितलोकः । अध्यशेत भुजगेश्वरशय्यां आरुरोह विहगेन्द्रविवर्तम् ॥ २१-३॥ अन्वहं च महतीं वनमालां माल्यकृद्भिरुपकल्प्य बभार । नामधेयमदिशत् सचिवानां नाकनायकविशेषनिरूढम् ॥ २१-४॥ बद्धकृत्रिमभुजान्तरयुग्मं शस्यमानमनुजीविजनेन । विश्वकर्तुरवतार इति स्वं बह्वमंस्त बधिरो निगमेषु ॥ २१-५॥ इत्थमीश्वरविडम्बनरूपं नाटकीयमनुरुध्य विहारम् । शोच्यतामपि परावरविद्भिः हास्यतामपि जगाम जगद्भिः ॥ २१-६॥ मस्तकस्थितदुरत्ययमृत्योः तस्य दूत उपसृत्य जगाद । कृत्यशेषविनिवेशितचित्तं निर्भयो नृपतिसंसदि नाथम् ॥ २१-७॥ कृष्णकृष्ण गदतो गिरमर्थ्यां संश‍ृणुष्व महतीमिह मत्तः । अप्रमत्तमतिभिस्सह मित्रैः आप्तवाक्यमवधीर्य न सिद्धिः ॥ २१-८॥ अस्ति कश्चिदवधारितभूमा पूरुषः श्रुतिगणेषु पुराणः । स क्षितिं परिगृहीतविहारः पौण्ड्रकत्वमधिगम्य भुनक्ति ॥ २१-९॥ तस्य नित्यनिरुपाधिकभूम्नो विश्वभोक्तुरधिगम्य तितिक्षाम् । भुज्यते नियतकर्मविपाकैः युष्मदादिभिरिला बहुभागा ॥ २१-१०॥ अर्थतत्त्वमिदमश्रुतपूर्वं श‍ृण्वताऽत्र(द्य)भवताभवितव्यम् । निश्चलीकृतहिताहितसीम्ना जिष्णुना यदुकुलस्य विभूत्यै ॥ २१-११॥ आदिशत्यखिललोकनियन्ता त्वामसौ भजनसौहृदनिघ्नः । ईशितव्यगणनालिखितस्त्वं मा कृथा वितथमीश्वरमानम् ॥ २१-१२॥ बाह्यवर्त्मनि परावरतत्त्व- व्यत्ययेन विनिवृत्तसतत्वे । चित्तवृत्तिमधिरोप्य विमूढाः श्रेयसो हि बहिरेव भवन्ति ॥ २१-१३॥ ईश्वरस्त्वमसि चेत् कुत एवं न(स)त्वदग्रज इति प्रमितिः स्यात् । द्वौ युवां परम इत्यपि दुःस्थं कस्ततो विषम एव न चान्यः ॥ २१-१४॥ अर्थवादकुहनाभिरपि स्वान् ईश्वरान् विगणयन्ति सुरेन्द्राः । निष्प्रमाणजनुषो जनवादात् कःस्विदीश इति विश्वसिति स्वम् ॥ २१-१५॥ गोपिकाभिरपि कर्मभिरास्तां बद्ध एव यदि मुक्तिविधाता । अदूभुतस्थितिरनान्तरबाह्यः सप्तमस्तु समयोऽयमपूर्वः ॥ २१-१६॥ इष्ट एव तु मदीश्वरभावः त्वन्मुखैर्न खलु शक्यनिरोधः । मत्सुखादिषु कथं विशयानैः मत्परत्वमपदं प्रतिषेध्यम् ॥ २१-१७॥ नामधेयमनपायि मदीयं त्यज्यतां प्रथय दासतया वा । चिह्नधारणमनेन गतार्थं कल्पनेन कथमीश्वरभावः ॥ २१-१८॥ तादधीन्यनियमं यदि बुद्ध्वा सोऽहमित्यनुबुभूषसि तत् स्यात् । अन्यथा तु निगृहीतिरलङ्घ्या राजभावतृषितैरिव भृत्यैः ॥ २१-१९॥ पाप्मनां तमसि पातयितॄणां आत्मचौर्यमधिराजपदस्थम् । चोदितेन नियतोऽपि हृतात्मा चोरदण्डमवशादुपयाति ॥ २१-२०॥ अभ्युपेतबडिशामिषनीतिं प्राप्तुमिच्छुरधिकारमयोग्यम् । इष्टमर्थमनवाप्य वराकः प्रत्यवैति सहसा परतन्त्रः ॥ २१-२१॥ नापराध्यति क एव नियत्या पण्डितस्तु विनिवृत्य समिन्धे अस्ति चाद्य शरणागतिरर्थ्या मत्परस्य तव जीवितुमिच्छोः ॥ २१-२२॥ इत्युदीरितवति प्रणिधौ तं प्रत्युवाच विहसन् प्रभुराद्यः । पथ्यमद्य वचनं तव मन्ये यद्ब्रवीषि चिरलिप्सितमेतत् ॥ २१-२३॥ उग्रसेनभृतका वयमेते नेशितार इति विभ्रमवन्तः । सम्प्रति त्वदुपदेशमहिम्ना भावयेमहि तवेश्वरभावम् ॥ २१-२४॥ त्वय्यनीश्वरमतिं न च कुर्मः त्वं परोऽसि नियमेन परस्मात् । त्वां दिदृक्षव इमे वयमाशु त्वत्पदं गतभियः प्रतियामः (म )॥ २१-२५॥ त्वादृशं प्रमितिमत्तमदृष्ट्वा त्वय्यनादरवतामतिलोके । यामिमां वदसि वाचमनूचीं भागधेयमिव पक्वमिदं नः ॥ २१-२६॥ द्रक्ष्यते शरणमेत्य विभुस्ते क्षेप्य(प्स्य?)ते च न मयैव न चक्रम् । गच्छ शीघ्रमभिधत्स्व तमीशं त्वामुपैति कुकुरध्वजिनीति ॥ २१-२७॥ आत्तहेतिरपसर्पनिवृत्तौ चिन्तिताप्तमधिरुह्य सुपर्णम् । प्रास्थित प्रतिबलावसथाय प्राणितत्रिदशभूतिरनन्तः ॥ २१-२८॥ साहसैकरसिकेन ततोऽसौ पौण्ड्रकेण युयुधे यदुवीरः । तत्सखित्वमुपगम्य च पार्ष्णिं गृह्णता सपदि काशिनृपेण ॥ २१-२९॥ तत्र वैरिपृतने समकालं पूर्वपश्चिमतया प्रपतन्त्यौ । भावयन्नुभयतोमुखभावं प्रत्यविध्यदधिसायकधन्वा ॥ २१-३०॥ वैरिसैन्यविततेषु समन्तात् दिङ्मुखेषु सममेव पृषत्कैः । तस्य दीप्तरुचिभिर्विनिपेते मध्यगस्य किरणैरिव पूष्णः ॥ २१-३१॥ विद्विषौ युगपदुत्थितवन्तौ सागराविव विलिङ्घितवेलौ । रूपिणी इव रजस्तमसी द्वे सत्त्ववृत्ति(मूर्ति?)रनघः स जघान ॥ २१-३२॥ अस्तमेवमनयद् यदुभास्वान् तावुभौ जगदुपद्रवहेतू । पूर्वतश्च परतश्च भवन्तौ दुर्ग्रहाविव दुरासददीप्तिः ॥ २१-३३॥ तस्य तावुभयतो निपतन्तौ भग्नबाहुविटपायुधपुष्पौ । जग्मतुः पृथुकभावविहार- क्षिप्यमाणयमलार्जुनकक्ष्याम् ॥ २१-३४॥ नामचिह्नवसनाभरणाद्यैः नाथसम्पदनुकारनिरूढैः । पौण्ड्रकस्थितिमवाप्य सृगालो- ऽप्यन्वभूत् किल गतिं च तदीयाम् ॥ २१-३५॥ विद्विषां विहितवीरगतीनां द्वारकोपगमितैर्द्विरदाद्यैः । कौरवाध्युषितभागविभक्तेः(क्तैः) आहितप्रतिभरा क्षितिरासीत् ॥ २१-३६॥ पातितेषु विमतेष्विति नाम प्राप्य यादवपुरं परमेष्ठी । प्रेयसीभिरविभक्तरसाभि- र्वीतरागसुभगो विजहार ॥ २१-३७॥ जीवयुक्तमितरच्च विचित्रं द्यूतमर्पितपणं विदधानः । भाविभारतमहाहवसिद्धेः सूचनं वितनुते स्म शुभंयुः ॥ २१-३८॥ तोषितत्रिनयनस्य नृशंसः काशिराजतनयस्य पुरोधाः । कल्पिताहुतिरजीजनदुग्रां कालवह्निपदवीमिव कृत्याम् ॥ २१-३९॥ साऽभिपत्य यदुवीरसकाशं हेतिराजविभवेन हताशा । जन्मधामनि निजे नियमस्थं जञ्जपूकमभिसृत्य जघान ॥ २१-४०॥ निर्ददाह नगरीमथ काशीं विस्फुलिङ्ग इव माधवदीप्तेः । यादवग्रसनकौतुकवत्या कृत्यया सह (स च)रथाङ्गकृशानुः ॥ २१-४१॥ स्यन्दनद्विरदवाजिपदाति- प्राज्यसौधपरिपाटिसमृद्ध्या । चक्रवह्निविभवेन तदाऽभूत् चन्द्रशेखरविलेपनभूमा ॥ २१-४२॥ क्षेत्रमेतदविमुक्तसमाख्यं मुक्तियोग्यमुपसृष्टमयोग्यैः । इत्यवेक्ष्य दहनेन तदर्हां संस्क्रियामिव चकार सुदृष्टिः ॥ २१-४३॥ अप्रशान्तरुषमद्भुतदीप्तं दग्धवैरिपुरमायुधराजम् । निर्जराः प्रतिनिशामयमानाः बिभ्यति स्म जगदुश्च जयोक्तिम् ॥ २१-४४॥ दैवतैरपि चतुर्मुखमुख्यैः दत्तसत्कृतिरसौ जितकाशी । इष्टनिर्वहणनिर्वृतचित्तं विष्टरश्रवसमभ्युपपेदे ॥ २१-४५॥ आसुरप्रकृतिकेषु निरस्ते- ष्वेवमेभिरनुपालितसख्यः । वानरो भुजबलेन बबाधे दुर्मतिर्जगदिदं द्विविदाख्यः ॥ २१-४६॥ भूधरान् उदहरद् भुजशाली प्रक्षिपंश्च नगराणि ममर्द । क्षोभयन् जलनिधीन् अनुवेलं प्लावयंश्च वसुधां प्रजहर्ष ॥ २१-४७॥ अन्यवीररहितामिव मत्वा वारिराशिरशनामवलिम्पन् । आत्मनः सदृशमाद्रियतैकं धेनुकप्रमथनेन नियुद्धम् ॥ २१-४८॥ एकदा हलधरस्य विहारे सम्पतन् अमितचापलचेष्टः । द्वारकोपवनपादपभेदी विश्वतः किलकिलां विततान ॥ २१-४९॥ तालकेतुयुवतीर्विहरन्तीः त्रासयन् मुखविकारविशेषैः । क्रीडनोपकरणानि विभिन्दन् क्ष्वेडितानि विदधे विधिलूनः ॥ २१-५०॥ तं प्रवृत्तकपिकृत्यमदूरात् बाधितप्रतिबलो बलदेवः । जङ्गमस्फटिकभूधरकल्पो रुक्मशैलरुचिरं निरुरोध ॥ २१-५१॥ वानरेण सुहृदा दनुजानां यातुधानसमरप्रथितेन । प्रेषितां द्रुमशिलोच्चयवृष्टिं निष्पिपेष मुसलेन हलास्त्रः ॥ २१-५२॥ आपतन् अपसरन्नपि भेजे ग्राह्यतामिव च दुर्ग्रहतां च । अग्रतोऽभवदलक्ष्यत पश्चात् अप्रतर्क्यरभसो हरिवीरः ॥ २१-५३॥ तौ परस्परगवेषितरन्ध्रौ कामपालकपिसैनिकपालौ । योजितोद्धतकरौ युयुधाते दर्पदारुणदिशागजसत्तौ ॥ २१-५४॥ तं प्रलम्बदमनः प्लवगेन्द्रं विप्लुतं पुनरपि प्लवमानम् । कालपाशनिगृहीतमरातिं कल्पमानमभवाय विवेद ॥ २१-५५॥ सव्यदक्षिणपरिक्रमणाभ्यां द्रागलातमयचक्रनिरीक्ष्यः । आततान हलपाणिमदूरा- दग्निसालवलयस्थमिवारिः ॥ २१-५६॥ तं गृहीतगरुडानिलवेगं सर्वतो युगपदेव समीक्ष्य । लाङ्गली जलधिलङ्घनदक्षं लाघवेन लघयन् विचचार ॥ २१-५७॥ अन्धकारमिव तं प्रतिरुन्धन् अर्यमेव मुसली निजदीप्त्या । दिङ्मुखान्यकलुषाणि वितन्वन् विश्वदृष्टिविभवाय बभूव ॥ २१-५८॥ घूर्णिताकुलितकौरवधाम्ना लाङ्गलेन ललितोद्धतलीलः । यूथनाथमवरुध्य कपीनां मौलिघातमवधीन्मुसलेन ॥ २१-५९॥ वज्रपाणिमहिताद्भुतभूम्ना वानरेण निहतेन स रामः । व्याचकार विनताभयदाता पूर्वरामचरितं पुनरुक्तम् ॥ २१-६०॥ धर्ममर्मभिदि दैवविपाकात् उद्धृते द्विविदनामनि शल्ये । रेवतीरमणरेचितखेदा नाकिनश्च मुनयश्च ननन्दुः ॥ २१-६१॥ त्रासितेषु विबुधेषु तदग्रे पीतवन्तममृतं बलभद्रः । प्रापयत् प्लवगमुख्यमितीव स्वर्गिभिस्सह सुधाशनभावम् ॥ २१-६२॥ भूतले हलधराहितगुप्तौ सारभूतसुभटग्रहणेन । उञ्छवृत्तिरुदरभ्भरिरासीत् तादृशेन तपसैव कृतान्तः ॥ २१-६३॥ एवमीषदवरोपितभारां भावयन् भुवमतोषयदार्यान् । पूर्वदेवजनितान् अभिनिघ्नन् पूर्वजेन सहितो यदुनाथः ॥ २१-६४॥ भार्गवादिभिरबाधितभूम्नां निर्ममेष्वपि निकारपराणाम् । सौभहंसडिभिकप्रभृतीनां सूदनैरलघयच्च धरित्रीम् ॥ २१-६५॥ उग्रसेनविनिवेशितराज्यां उन्नमय्य यदुवंशविभूतिम् । तस्य दिग्विजयकौतुकमाद्यः सप्तलोकतिलको विततान ॥ २१-६६॥ तन्नियोगमथ शेखरयित्वा स्वप्रशासनवशंवदविश्वः । यावदुक्तनियताखिलवृत्तीन् यादवान् उपनिनाय सुधर्माम् ॥ २१-६७॥ आत्मकल्पितधृतेरथ राज्ञः सन्निधौ सचिवपीठनिविष्टः । मन्त्रणाय महतो यदुमुख्यान् सम्मुखान् प्रतिननन्द मुकुन्दः ॥ २१-६८॥ अभजत नरपालमुग्रसेनं बहुमनुते स्म यदूंस्तथाऽपि तुङ्गः । क्वचिदभिलपने विभक्तिशक्त्या स्वगुणविभूतिगुणीभवन्निवैकः ॥ २१-६९॥ अधिगुणहरिवंशवीरसङ्गात् अपचितवासवसङ्गमाभिलाषा । अतिशयरुचिरां वहन्त्यभिख्यां अचकमतेव सभा(सदा)तदाधिराज्यम् ॥ २१-७०॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये पौण्ड्रकादिवधो नाम एकविंशःसर्गः ॥

॥ द्विग्विजयो नाम द्वाविंशः सर्गः २२॥

अथ देवानिवाऽऽहूतान् नरदेवान् अभाषत । देवदानवसामान्यदैवतं देवकीसुतः ॥ २२-१॥ एष वः क्ष्मापतिः शास्ति विधातेव प्रजापतीन् । महेन्द्र इव धर्मेण सुधर्मामास्थितः स्वयम् ॥ २२-२॥ शेखरीकृतभूभारः शेषत्वेन विभोः स्थितः । वेदयत्ययमार्योऽपि मित्रभूतान् अमित्रजित् ॥ २२-३॥ वयं भवन्तो ये चान्ये महान्तः सर्व एव ते । विश्वगुप्तौ जगत्कर्त्रा विनियुक्ता विभूतयः ॥ २२-४॥ तदस्माभिरवस्थेयं धर्मवर्त्मनि शाश्वते । बिभ्यद्भिरनघादेशात् वज्रादिव समुद्यतात् ॥ २२-५॥ द्विषन्तः ख्यातनामानो नामशेषास्तथाऽप्यसौ । समुद्रवसना विष्वक् तामसैरवकुण्ठिता ॥ २२-६॥ अंसकस्तूरिका भूमिर्भवतां बाहुशालिनाम् । अजुगुप्सापदं न स्यादसद्वृत्तिमलीमसा ॥ २२-७॥ शङ्कितप्रचयः शेषः शूत्रणां शुष्मणामिव । आयतौ सुखमिच्छद्भिर्न युक्तः क्षन्तुमीश्वरैः ॥ २२-८॥ अतस्त्राणाय साधूनां दुष्कृतां दमनं क्षमम् । कडङ्करीयरोधो हि कलमोत्सेधकारणम् ॥ २२-९॥ पुष्यतां पाण्डरं छत्त्रं पुण्डरीकमिव श्रियः । धर्मोऽधर्मश्च नान्योऽस्ति रक्षणोपेक्षणे(णात्)भुवः ॥ २२-१०॥ पूर्वपूर्वनरेन्द्राणामुच्छिष्टमपि मेदिनी । सोमपीथिनयात् ग्राह्या स्वधर्माध्वरमास्थितैः ॥ २२-११॥ अविवेकविभावर्यां धर्ममार्गमपङ्किलम् । द्रष्टुं दीप इव न्यस्तो नायकेन नयागमः ॥ २२-१२॥ अवलम्ब्य जगद्धातुर्हस्तमागमविग्रहम् । स्वयमुद्धरताऽऽत्मानं स्वैरं पातालपातिनम् ॥ २२-१३॥ व्यसनासारवेगानां वारणं न प्रकल्प(ल्प्य)ते । उपदेशैरनार्याणामुत्तानच्छत्रसन्निभैः ॥ २२-१४॥ पण्डितप्रहतेनैव सत्पथेन सदोदिताः । विषमेषु स्खलन्तोऽपि न दुर्गतिमवाप्स्यथ ॥ २२-१५॥ भूपरिक्रमणादन्या भवतामतिभास्वताम् । तमसामिव शूत्रूणां निरासे कीदृशी क्रिया ॥ २२-१६॥ जिगीषूणां च युष्माकं न जेतव्यपदे स्थितम् । कौरवैरनुकूलानां विपाकैरिव कर्मणाम् ॥ २२-१७॥ अवरोध्याः स्वयं दक्षैरक्षिपद्भिरनेहसम् । करिणां कर्णडोलाभिः कम्पिता इव सम्पदः ॥ २२-१८॥ नीतिपद्धतिरक्षोभ्या भवद्भिरधिगम्यताम् । नियता स्वर्गसौधस्य निश्श्रेणिरिव शाश्वती ॥ २२-१९॥ खलत्यागः सुहृत्प्राप्तिरितीदं कवचद्वयम् । वहध्वं मन्त्रदेहस्य भेदं परिजिहीर्षवः ॥ २२-२०॥ धातूनामिव कोपेषु प्रकृतीनामचेतसाम् । पातुमर्हथ पर्याप्तं प्रसादनरसायनम् ॥ २२-२१॥ अनीतिमदिरां त्यक्त्वा लोभादिविषदूषिताम् । अगदङ्कारमादद्ध्वं प्रज्ञाऽमृतमनुत्तमम् ॥ २२-२२॥ लुलिताशेषसन्मार्गं लोकवेदविरोधिनम् । परित्यजत दुर्मानं पाषण्डमतजीवितम् ॥ २२-२३॥ गुणशैलाग्रमारोप्य शनैरात्मानमात्मना । नित्यशङ्कितविभ्रंशं निध्यायत शुभंयवः ॥ २२-२४॥ त्रिविधानि विधेयानि सम्पत्सु च विपत्सु च । करणानीव मित्राणि गोपायत गुणग्रहात् ॥ २२-२५॥ अप्रशान्तेषु विस्रम्भमतिशङ्कां सुहृत्सु च । नीतिसन्दंशिना ऋद्धेः समुद्धरत कण्टकौ ॥ २२-२६॥ सपञ्चाङ्गेन मन्त्रेण नीतिमाहात्म्यनिर्विषाम् । नियच्छत निजाङ्गेषु भुजङ्गीमिव सम्पदम् ॥ २२-२७॥ अवधीरयताधर्म्यामर्थकामैकसाधिकाम् । नृशंसप्रेयसीं नीतिं नारीहृदयदारुणाम् ॥ २२-२८॥ प्रमादसप्तकं त्यक्त्वा प्रबुध्योपायसप्तकम् । अङ्गसप्तकसम्पत्त्या जयत द्वीपसप्तकम् ॥ २२-२९॥ अरातिगणकूटस्थान् आदौ जयत दुर्जयान् । अपदक्रोधलोभादीन् अशेषार्थविरोधिनः ॥ २२-३०॥ आन्तरेण बलेनैव द्विविधां वहत क्षमाम् । यस्य सत्त्वेऽप्यसत्त्वेऽपि गतार्थं षड्विधं बलम् ॥ २२-३१॥ न शापो नाभिचरणं न वह्निर्न विषं तथा । नास्त्राणि न च शस्त्राणि यथा तीक्ष्णतमा क्षमा ॥ २२-३२॥ विपक्षजातिभाजोऽपि क्षुद्रान् अनपकुर्वतः । सुपर्ण इव भूनागान् उपेक्षध्वं तरस्विनः ॥ २२-३३॥ कृपणान् क्षममाणोऽपि महासत्त्वो न दैन्यभाक् । मृगेन्द्र इव भिन्नेभः स्वदंष्ट्रालेहिनः खगान् ॥ २२-३४॥ देवान् अतिशयानानां दैत्यदानवरक्षसाम् । विनिपातनिदानानि स्वयमन्वीक्ष्य सुख्यत ॥ २२-३५॥ यशःप्राणहरान् घोरान् व्यामोहविषपादपान् । समीक्षाशाणघृष्टेन द्यत शास्त्रेण शस्त्रिणः ॥ २२-३६॥ श्रुतशी(शा)लिभिरुक्तानि दुरुत्सेकज्वरातुराः । अप्रियाण्यपि पथ्यानि मा जिहासत जातुचित् ॥ २२-३७॥ कलिसन्धिसमाघ्रातं त्यजन्तः कर्म कर्बुरम् । सदसत्प्रेक्षणे स्यात सर्वतो दत्तदृष्टयः ॥ २२-३८॥ पल्लवोपमकौमारे प्रसूनोपमयौवने । स्थिरं फलमुपादद्ध्वं जङ्गमे जीवितद्रुमे ॥ २२-३९॥ मिषतां मीलतां वाऽपि द्रुतं धावति जीविते । अनघं तनुत क्षेम्यमान्तरं धनमक्षयम् ॥ २२-४०॥ अकालनियतोच्छ्रायमतिसूर्येन्दुपावकम् । क्षात्त्रं क्षपितजाड्यं वः क्षमं तेजः समेधितुम् ॥ २२-४१॥ असम्प्लावितसप्ताब्धिरत्रिलोकीतमोपहा । अदिक्सूतसुधालिप्तिर्यस्य कीर्तिः स किम्प्रभुः ॥ २२-४२॥ सुधां सुमनसो यस्य स्वादयन्ति यशोमयीम् । स राजा वृद्धिमाप्नोति क्षीयते न च कालतः ॥ २२-४३॥ त्यक्तसान्त्वेन कठिनान् विद्रावयत तेजसा । अयसस्तापसेकाभ्यामवस्था कादृशी भवेत् ॥ २२-४४॥ प्रसाधितदिशो युष्मान् विमुक्तान्यमहीभृतः । सम्पदः प्रतिपत्स्यन्ते सरितः सागरानिव ॥ २२-४५॥ स एष पुरतो याता प्राज्ञः परिमृशन् पथः । सङ्कल्प इव युष्माकं सात्यकिःसत्यविक्रमः ॥ २२-४६॥ परिवारेण सम्पन्नस्त्यक्तकोशश्च कार्यतः । नन्दकोऽयमनिस्त्रिंशः सम्मतो मम शत्रुजित् ॥ २२-४७॥ जैत्रं ध्वजमिवोदग्रमेनमाहितलक्षणम् । अनुयात दिशो जेतुमस्त्रवेदमिवापरम् ॥ २२-४८॥ वनसिंहनयाद् गुप्तिर्मानतर्कक्रमादपि । परस्परपुरस्कारात् भवित्री भवतामिह ॥ २२-४९॥ अपि युष्माभिरेतावदहङ्कारग्रहोज्झितैः । अङ्गीकृतममुह्यद्भिरातुरैरिव भेषजं (भोजनम्)॥ २२-५०॥ इति सूक्तिसुधां पीत्वा शौरिवक्त्रेन्दुनिस्सृताम् । सहसा नरदेवास्ते सौमनस्यं प्रपेदिरे ॥ २२-५१॥ तदुक्तिं शुकवत् सर्वे सँल्लपन्तः परस्परम् । प्रहर्षमदधुस्तस्य प्रविष्टा नीतिपञ्जरम् ॥ २२-५२॥ तृषितैरिव ते श्रोत्रैः सम्भू(भृ)तश्रुतिसौरभाम् । पपुः प्रियहितां तस्य परिशुद्धां सरस्वतीम् ॥ २२-५३॥ असन्देहविपर्यासामसङ्कीर्णहिताहिताम् । त्रयीमिव गिरं तस्य मानयन्ति स्म ते नृपाः ॥ २२-५४॥ अथ यादवयूथेन सहितः संयुगप्रियः । सात्यकिः प्रचितोत्तंसः प्रतस्थे भर्तुराज्ञया ॥ २२-५५॥ धर्मगुप्तिकृतादेशः स मेने मधुवैरिणा । अपृथक्त्वमिवापन्नमन्यदायुधपञ्चकम् ॥ २२-५६॥ स्वकेतुकल्पनापूर्वं नियुक्तं हरिणा स्वयम् । तमेव तादृशाकारं तममन्यन्त यादवाः ॥ २२-५७॥ स वीरः शासनं भर्तुः शिरस्त्राणमिवोद्वहन् । अमन्यत जितप्रायाः सह दिक्पतिभिर्दिशः ॥ २२-५८॥ पयोधिं तर्णकपदं पर्वतं सिकतामयम् । पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ २२-५९॥ प्रयाणपटहस्तस्य प्रलयाम्बुदडम्बरः । नूनमानर्तयामास भुवं सह पयोधिभिः ॥ २२-६०॥ प्रयान्ती पृतना सद्यः प्रणादैर्द्यामपूरयत् । वैरिवासकसज्जानां गणैरप्सरसामपि ॥ २२-६१॥ अधिरुह्य रथं जैत्रं स बभौ तार्क्ष्यसन्निभम् । जिगीषितदिशाचक्रश्चक्रपाणिरिवापरः ॥ २२-६२॥ दिव्यदुन्दुभिघोषेण पुष्पवर्षेण भूयसा । अशरीरिजयोक्त्या च तेन जज्ञे जितं जगत् ॥ २२-६३॥ स विष्णुरिव विक्रान्त्या बलिध्वंसोद्यतो बली । सुषुवे त्रिषु लोकेषु कीर्ंइत त्रिपथगामिव ॥ २२-६४॥ ततो बुद्बुदफेनाभैः प्रचितां छत्रचामरैः । निनाय पृतनां प्राचीं गङ्गामिव भगीरथः ॥ २२-६५॥ पृतनासागरौघेन पालयन् सागराम्बराम् । वीरो वेतसवृत्तीनां न भङ्गमभिसन्दधे ॥ २२-६६॥ महद्भिरपि तत्सैन्ये सम्पतद्भिः सुहृद्बलैः । न वृद्धिरभवद् दृश्या वर्षतोयैरिवाम्बुधौ ॥ २२-६७॥ अशोभत पताकाग्रैरग्रहस्तैरनीकिनी । निर्दिश्य गणयन्तीव जेतव्यविषयान् निजैः ॥ २२-६८॥ तमीदिवसयोस्तत्र पृथिव्याकाशयोरपि । समपद्यत तादात्म्यं सैन्यरेणुसमुत्थितम् ॥ २२-६९॥ असूचीमुखभेद्यं तत् अचन्द्रार्कप्रतिक्रियम् । रुरोध द्विषतां दृष्टिं रजसा जनितं तमः ॥ २२-७०॥ अप्रतीपमरुत्क्षिप्तः परागः प्रसरन् पुरः । आसन्नविनिपातानां वैवर्ण्यमदिशत् द्विषाम् ॥ २२-७१॥ धूमकम्बलसान्द्रेण रेणुना गगनस्थली । नमन्तीं सैन्यभारेण शनैरनुजगाम गाम् ॥ २२-७२॥ पृथिवीं वर्धयन्तीव पृतना खण्डयन्त्यपि । परागैः पूरयामास खातं सगरजन्मनाम् ॥ २२-७३॥ ध्वजपल्लविता सेना शस्त्रपुष्पा परागिणी । बभौ चञ्चूर्यमाणेव मृत्योरुपवनस्थली ॥ २२-७४॥ सा नूनमनुकुर्वाणा सिन्धुपत्न्यौ सितासिते । कुटिलप्रतिकूलर्द्धि(र्द्धिः)कूलङ्कषगतिर्ययौ ॥ २२-७५॥ विश्वतःप्रसृतिस्तस्या बभूव बहुपद्धतेः । वाहबन्धनकीलानामपर्याप्तवनद्रुमा ॥ २२-७६॥ अविच्छिन्नगुणांश्चक्रे निस्त्रासान्निजसेनया । हारानिव भुवः शुद्धान् अग्रहारान् परार्पितान् ॥ २२-७७॥ अनाश्रमपदासन्नामभीषितकृषीवलाम् । अनैषीन्महतीं सेनामविरुन्धानगोपनीम् ॥ २२-७८॥ स्वदेशादविशेषेण स्वीकृते शत्रुमण्डले । न योधा जगृहुस्तत्र किञ्चिदस्वामिसम्मतम् ॥ २२-७९॥ विहारास्तस्य जन्येषु विमतानेव निघ्नतः । समं ददृशिरे देवैस्तत्तज्जानपदैरपि ॥ २२-८०॥ अदीनसत्त्वः शत्रूणां दीनसंरक्षणव्रती । अन्वकम्पत धात्रीभिरुपनीतान् स्तनन्धयान् ॥ २२-८१॥ अदृष्टसैन्यरजसामबाणस्पर्शवेदिनाम् । पश्यन् क्वचिदमित्राणां स जिह्राय पलायनम् ॥ २२-८२॥ स मिथश्शौर्यसङ्घर्षादरातीन् अभिनिघ्नतः । पुनरुद्दीपयामास सत्कारेण गरीयसा ॥ २२-८३॥ क्रोधपावकदीप्तानां हेतीनां यदुपुङ्गवाः । विदधुस्तत्र वैरिस्त्रीबाष्पतोयेन सेचनम् ॥ २२-८४॥ निहतप्रतिमातङ्गदन्तत्सरुपरिष्कृतान् । द्विषतां मौलिशाणेषु खड्गान् मुहुरशातयन् ॥ २२-८५॥ शस्त्रधाराधरैस्तत्र विक्रमारण्यबर्हिणीम् । विपुले भुजशैलाग्रे वीरश्रियमनर्तयन् ॥ २२-८६॥ नियतं हेतयस्तेषां निपीते वह्निवारिणी । निदधुः शत्रुनारीणां चित्तेषु नयनेषु च ॥ २२-८७॥ अलभन्त क्षणात् तेषां पुरतः परिपन्थिनः । धनुषा नमता स्वर्गं वपुषा तु वसुन्धराम् ॥ २२-८८॥ घूर्जरान् पारशीकांश्च प्रागेव भृतकीकृतान् । अपश्चात्पदविन्यासान् अकरोदग्रयायिनः ॥ २२-८९॥ मध्यदेशं वशीकृत्य योगीव प्रथमं मनः । प्रत्यन्तबहिरक्षाणि त्याजितार्थान्यथा(र्थानि सोऽ)करोत् ॥ २२-९०॥ गृहीतचरमाभ्भोधीन् गरुत्मानिव जग्रसे । धन्विनस्तुरगोपेतान् विमुखान् भुजगानिव ॥ २२-९१॥ यदवस्तत्र निस्त्रासा यवनैः स्तनयित्नुभिः । शैला इव दधुर्भीमां शरवृष्टिमुदीरिताम् ॥ २२-९२॥ रक्तचन्दनदिग्धास्ते यशोभिः स्रग्विणस्तदा । जयश्रीपरिरम्भार्थं नैपथ्यमिव भेजिरे ॥ २२-९३॥ कपिचूषिततालभैः कृत्तैर्यवनमूर्धभिः । ददृशे कालभृत्यानां दत्तपिण्डेव मेदिनी ॥ २२-९४॥ पीते यवनसैन्याब्धौ तत्कोपबडबाग्निना । शकाद्याः शरणं जग्मुः शङ्कातङ्केनसात्यकिम् ॥ २२-९५॥ प्रवाळपल्लवास्तीर्णां रत्नपुष्पौघकर्बुराम् । विहारपदवीं मेने वेलामपरवारिधेः ॥ २२-९६॥ प्रचेतसाऽपि दुष्प्रापैः प्रवालमणिमौक्तिकैः । तं पोतवणिजस्तत्र प्रभूतैः पर्यतोषयन् ॥ २२-९७॥ निर्धूतनिगमांस्तत्र नैगमान् अपरान्तजान् । स वैद्य इव दुर्व्याधीन् दुर्जयान् अजयद् विभुः ॥ २२-९८॥ विहरन् वारुणीभाजा स वीरो विजयश्रिया । बभूव बर्बरस्त्रीणां परिदेवनदेशिकः ॥ २२-९९॥ उदनह्यन्त वार्ष्णेयाः कुन्तलान् समरश्लथान् । प्रवाळैरपराम्भोधेरान्त्रैरिव समुद्धृतैः ॥ २२-१००॥ ततो विलुलितम्लेच्छः पश्चिमोदधिवेलया । अनिलप्रेयसीमाशाममनुष्यपदं ययो ॥ २२-१०१॥ हारीतहरितैस्तत्र महार्घैर्मणिराशिभिः । गृहीतैरन्वगृह्यन्त तेन पोतोपजीविनः ॥ २२-१०२॥ पश्चिमां दिशमाक्रम्य प्राङ्मुखं रथमास्थितम् । विपरीतगतिं सूर्यमुदीच्यास्तमजानत ॥ २२-१०३॥ स कृष्णवर्त्मविहृतिर्युगान्त इव संयुगे । अमित्रलोकमदहत् दीप्तहेतिगणोल्बणः ॥ २२-१०४॥ अनभ्रविद्युत्प्रतिमाः सायकास्तस्य धन्विनः । अभवन् हूणनारीणामश्रुवर्षपुरस्सराः ॥ २२-१०५॥ द्विषतो देवदृश्येषु रणरङ्गेषु दीव्यतः । ताण्डवं ग्राहयामास निपातितशिरोधरान् ॥ २२-१०६॥ अपरस्परसापेक्षान् अतूणीरप्रकाशकान् । अशंसत् प्रतियोधानप्यवधीरितजीवितान् ॥ २२-१०७॥ महान्तो मण्डलं चेरुर्मध्येप्रतिबलं द्विपाः । प्रलयोदन्वदावर्ते भ्रमन्त इव पर्वताः ॥ २२-१०८॥ तत्र सैन्यरजश्चक्रे प्रतीचीरपि वाहिनीः । असमाहितबुद्धीनां चित्तवृत्तीरिवाऽऽविलाः ॥ २२-१०९॥ त्रासमुक्तं पुनस्तत्र सिन्धुकाम्भोजयोषिताम् । अश्रुबिन्दुभिराबन्धि मौक्तिकस्तनमण्डनम् ॥ २२-११०॥ अकृष्टपच्यघुसृणामच्छिन्नौघमहापगाम् । अघर्मग्लपितारण्यामनघां भुवमन्वभूत् ॥ २२-१११॥ अश्वीयखुरनिष्पिष्टभूधरक्षोदभूयसा । राजवीथीसमां चक्रे रजसा वालुकां नदीम् ॥ २२-११२॥ ग्रामणेरिव तैस्तस्य सैनिकैरवरोधिताः । स्त्रियः पुरुषधर्माणः स्त्रीत्वमेवोपलम्भिताः ॥ २२-११३॥ बलेन महताऽऽस्कन्द्य मैनाकपितरं गिरिम् । प्रलयोदन्वदारोहमाकालिकमलम्भयत् ॥ २२-११४॥ समाजमिव शैलानां विश्वरूपमिव प्रभुम् । उत्तम्भनमिव व्योम्नः स निदध्यौ सकौतुकम् ॥ २२-११५॥ श्वशुरं भूतनाथस्य स्कन्दमातामहं गिरिम् । प्रसूतिं सर्वरत्नानां पृथिवीधेनुतर्णकम् ॥ २२-११६॥ गृहीतास्त्याजितत्रासा मेनापतिवनौकसः । मार्गमादिदिशुस्तस्य वह्नेरिव समीरणाः ॥ २२-११७॥ तमारुह्य निरैक्षन्त जिघृक्षन्त इवान्धकाः । विकल्पितरवीन्द्वग्नीन् मेरुकैलासमन्दरान् ॥ २२-११८॥ ददृशे (ददर्श)गगनं तत्र दिवाऽपि व्यक्ततारकम् । गौरीहारमणिप्रख्यैर्गङ्गानिर्झरशीकरैः ॥ २२-११९॥ सुभगां किन्नरीणां च स्वगुणामोदमेदुराम् । गीतिं निशामयामासुः(स)गजशार्दूलकर्षणीम् ॥ २२-१२०॥ गुहासु यमिनां मेने सैन्यघोषमश‍ृण्वताम् । श‍ृण्वतामपि सिंहानां समं सामिनिमीलनम् ॥ २२-१२१॥ अपश्यत् तत्र(श्यंस्तत्र)दूरस्थमन्तिकस्थमिवोन्मुखः । कैलासं किन्नरेन्द्रस्य कीर्तिकन्दमिवोत्थितम् ॥ २२-१२२॥ चमरान् सिंहशाबांश्च गन्धनाभिमृगानपि । जगृहुस्तत्र वार्ष्णेयाः प्रियासम्प्रीणनार्थिनः ॥ २२-१२३॥ गुञ्जाहारभृतः श्यामा बर्होल्लासितकुन्तलाः । प्रवालवसनाः प्रेक्ष्य जहसुः शबराङ्गनाः ॥ २२-१२४॥ शिखरांसपरिष्कारैः सैन्यद्विपमदैर्बभौ । कल्कितः क्ष्माभृतां नाथः कस्तूरीस्थासकैरिव ॥ २२-१२५॥ श्रुत्वा गिरिगुहानूक्तं तत्सैन्यगजगर्जितम् । अपि सिंहाः पलायन्त वन्यद्विरदभेदिनः ॥ २२-१२६॥ प्रदीप्तरत्नशिरसं प्रालेयपरिपाण्ड(ण्डु)रम् । प्रदक्षिणं व्यतीयाय शेषयित्वा महीधरम् ॥ २२-१२७॥ अथ कस्तूरिकामोदैरधिवासितभूधरान् । यशसाऽऽवास्य नेपालान् यदुवीरः स्वदेशयत् (न् )॥ २२-१२८॥ पर्वतेन्द्रप्रतिनिधीन् प्रागुत्तरमहीधरान् । सुप्रतीकविषाणाग्रैरवैक्षत गवाक्षितान् ॥ २२-१२९॥ द्वीपपर्वतदुर्गेषु द्विपसिंहनिभान् द्विषः । सङ्ग्राममृगयास्थायी जग्राह च जघान च ॥ २२-१३०॥ प्रभञ्जन इवाम्भोदान् पक्षीन्द्र इव पन्नगान् । प्राच्यान् प्रच्यावयामास पञ्चवक्त्र इव द्विपान् ॥ २२-१३१॥ शोषितप्राच्यजलधिः शौर्यबाडबवह्निना । ससर्ज तद्वधूचित्तेष्वशोष्यं शोकवारिधिम् ॥ २२-१३२॥ यदूनां हेतयस्तत्र शत्रुशोणितपाटलाः । प्रतापज्वलनज्वालासम्पदं प्रतिपेदिरे ॥ २२-१३३॥ कृपाणिकाभिः कुकुराः कम्पिताभिरकम्पयन् । द्विषतां तद्वधूनां च चित्तदक्षिणलोचने ॥ २२-१३४॥ विजह्रुर्यादवास्तत्र विबुधस्त्रीवरप्रदाः । शराणां लक्षदातारः शत्रुसम्मतविक्रमाः ॥ २२-१३५॥ (यादवास्तत्र शत्रूणां कृत्तेषुं (षून्)नूनमप्रतीन् । आशातधान्वा दृश्येषु शिरोजालेषु सायकान् ॥ (अधिज्यधन्वा व्यकिरत् शिरोजातेषु सायकान् ) विक्रमप्रभवे तेषां विजयश्रीस्वयंवरे । वन्दिकृत्यं द्विषश्चक्रुरप्सरोभिः स्वयंवृताः ॥ २२-१३६॥ रमापतिपदोत्पन्नां रत्नाकरपतिंवराम् । पुण्यां सरितमासीदत् पुरभिन्मौलिमालिकाम् ॥ २२-१३७॥ स मेने जाह्नवीं यान्तीमर्थमेकमिवार्णवम् । प्रवाहैर्बहुधा भिन्नैर्भाषाभिरिव भारतीम् ॥ २२-१३८॥ कृपाणधारातीर्थेन शोधयित्वा कृतागसः । त्रिदिवं प्रापयामास वङ्गांस्त्रिपथगान्तरे ॥ २२-१३९॥ विक्षिपन् भुवि निस्त्रिंशो वक्त्रपुष्पाणि वैरिणाम् । रणरङ्गनटस्यास्य सूत्रधार इवाभवत् ॥ २२-१४०॥ सैन्यदन्तिमदोपेतैः शत्रुस्त्रीबाष्पकज्जलैः । गङ्गां रविसुतां चक्रे यशसा तां च तन्मयीम् ॥ २२-१४१॥ आत्तसारा द्विषस्तत्र मुक्तास्तेन महीयसा । अदृश्यन्त यथापूर्वं दन्तिभुक्तकपित्थवत् ॥ २२-१४२॥ पृथुवीचिगणां तीर्त्वा पृथिवीसहजां नदीम् । बाधिताशेषगौडेन बलेनार्णवमाद्रवत् ॥ २२-१४३॥ अलभन्त महीपालाः पुरतस्तस्य निर्भयाः । नतेन धनुषा नाकं वपुषा च वसुन्धराम् ॥ २२-१४४॥ विशन्तो वाहिनीं तस्य त्रिस्रोतसमिवापराम् । त्रिदिवं प्रत्यपद्यन्त प्रतियोधा निरागसः ॥ २२-१४५॥ कुटिलान् प्रगुणीकृत्य स्वनामाक्षरभूषितान् । जङ्गमान् दर्शयामास जयस्तम्भान् महीतले ॥ २२-१४६॥ शालीनिव सतस्त्रातुं तत्र तत्र प्ररोहतः । यवसौघनिभान् याप्यान् उज्जहार यदूद्वहः ॥ २२-१४७॥ प्रतापाग्निं पुरस्कृत्य भुव(भूय)स्सागरवाससः । वेलावलयसम्पन्नं करं जग्राह तत्र सः ॥ २२-१४८॥ पुरन्दरसमः पूर्वं जित्वा पौरन्दरीं दिशम् । दीक्षितः सत्परित्राणे दक्षिणाभिमुखोऽभवत् ॥ २२-१४९॥ उपदीकृत्य सर्वस्वमुपसन्नयदूद्वहाः । प्राचीमविकलामृद्धिमुत्कलाः प्रतिपेदिरे ॥ २२-१५०॥ प्रहितानथ कालिङ्गैः पन्थानमुपरुन्धतः । रुरोध सिंहनादेन यदुसिंहः स सिन्धुरान् ॥ २२-१५१॥ स तान् गैरिकरक्ताङ्गान् सप्तधा स्रुतनिर्झरान् । जङ्गमानिव विन्ध्यादीन् जगृहे गन्धहस्तिनः ॥ २२-१५२॥ प्रतियुध्य परिश्रान्तान् गृहीत्वा गजयोधिनः । चक्रलिङ्गधरांश्चक्रे कालिङ्गान्किङ्करीकृतान् ॥ २२-१५३॥ स तेषामपि सामन्तान् आहूतान् विन्ध्यदुर्गतः । दक्षान् द्विरदशिक्षायां चक्रे निजनिषादिसात् ॥ २२-१५४॥ वैरिवारणमूर्धन्यैर्मौक्तिकैर्लाजतां गतैः । रणाग्निर्दर्शयामास व्यूढां तेन जयश्रियम् ॥ २२-१५५॥ दारितद्विरदांस्तत्र सिंहानिव महाजवान् । ननन्द स्वभटान् दृष्ट्वा नखरश्रितमौक्तिकान् ॥ २२-१५६॥ विपक्षान् भूभृतस्तत्र कुर्वता निर्विचेष्टितान् । देवो हरिहयस्तेन द्विरूपत्वमिवान्वभूत् ॥ २२-१५७॥ अपर्युषितपानीयामनघस्रोतसं शुभाम् । गङ्गामिव विभक्ताङ्गीं प्राप गोदावरीं ततः ॥ २२-१५८॥ अशालीनमनस्त्वेऽपि स्वाश्रितत्राणमिच्छताम् । आन्ध्राणामात्मदातॄणां ददावभयदक्षिणाम् ॥ २२-१५९॥ पतिरक्षणतुष्टानां स्वगुणग्रथिताक्षरैः । आन्ध्रेश्वरपुरन्ध्रीणां सङ्गीतैः प्रत्यनन्द(न्द्य)त ॥ २२-१६०॥ आद्यं द्रमिडदेशानां तुण्डीरमथ मण्डलम् । विवेश भूषितं यूपैर्वेधसो वाजिमेधिकैः ॥ २२-१६१॥ क्षिप्तदोषः स तं देशं क्षीरसिन्धुगुणाधिकम् । शुद्धधर्मपरिष्कारं श्वेतद्वीपममन्यत ॥ २२-१६२॥ परित्यक्तपथांस्तत्र स काञ्चीकटकत्यजः । आहूय स्थापयामास धर्म्यान् धर्मधुरन्धरः ॥ २२-१६३॥ प्रलोभयन्तीं ललितैस्ततः प्रथमलक्षितैः । दर्शनीयेषु चोलेषु दिदृक्षामन्ववर्तत ॥ २२-१६४॥ अथ कन्यां कवेरस्य ददर्श कनकाश्रिताम् । अपदिष्टनदीरूपाममृतस्येव देवताम् ॥ २२-१६५॥ उदारलहरीलास्यां ललितावर्तरासिकाम् । रसिकः प्रैक्षत नदीं रङ्गपर्यन्तनर्तकीम् ॥ २२-१६६॥ रथसेतुनिरुद्धा सा रत्नाकरमनोरथात् । अवरुह्य जगामेव सह्यस्य पितुरन्तिकम् ॥ २२-१६७॥ दक्षिणापथगङ्गायाः स तस्या दिव्यसम्पदः । ददौ रविसुताश्लेषं दानवर्षेण दन्तिनाम् ॥ २२-१६८॥ जननीमिव तां लक्ष्म्याः पाथोनिधिपतिव्रताम् । नियमैरुचितैर्भेजे निगमख्यातवैभवाम् ॥ २२-१६९॥ यशोभिस्सह चोलानामिक्षुनिष्यन्दसम्मितं (निभम्)। पयः सह्यपयस्विन्याः पपुर्यादवयूथपाः ॥ २२-१७०॥ जहसुर्जागरूकास्ते जङ्घालगुणशालिनाम् । दृष्ट्वा द्रमिडयोधानामवस्कन्दमनोरथम् ॥ २२-१७१॥ त्रिविष्टपनिभांस्तत्र दृष्ट्वा जनपदान् बहून् । अचमत्कारमन्येषु भूमिभागेष्वधत्त सः ॥ २२-१७२॥ तत्र दर्पममित्राणां मित्राणामपि साध्वसम् । अखण्डयदपर्यायात् अत्याखण्डलविक्रमः ॥ २२-१७३॥ रङ्गमात्मभुवस्तत्र रम्यनिर्माणमातृकाम् । अनन्तपीठिकारूढमभ्यर्च्य मुदितो ययौ ॥ २२-१७४॥ दिवाऽपि दीपसापेक्षं गहनं संश्रितान् गजैः । स चोरांश्चूर्णयामास चोलपाण्ड्योपघातिनः ॥ २२-१७५॥ रम्यपत्तनसम्बाधां रत्नसैकतशोभिनीम् । व्यलोकयत सम्प्रीतो वेलाविपिनपद्धतिम् ॥ २२-१७६॥ मैनाकमहसा दीप्तं सेतुसीमन्तितोदकम् । दमितं रघुवीरेण ददर्शाब्धिं स दक्षिणम् ॥ २२-१७७॥ परिखां प्रेक्ष्य लङ्कायाः पयोधिं प्रजहर्ष सः । ताराभूषितदेहस्य त्रिदिवस्येव दर्पणम् ॥ २२-१७८॥ सहसोत्पततां तत्र धन्विनो लघुविक्रमाः । उदधिं दन्तिनक्राणां कुम्भरत्नै(क्तै)रपूरयन् ॥ २२-१७९॥ गगनं च निरालम्बमगाधं च महोदधिम् । वीक्ष्य ते बह्वमन्यन्त हनूमन्तं गतागतम् ॥ २२-१८०॥ स भेजे सरितां पत्युः पुलिनं वृष्णिपुङ्गवः । आसीदविधवा गङ्गा प्रसन्ने यत्र राघवे ॥ २२-१८१॥ व्यलोकत च विस्मेरो लङ्कागोपुरमुत्तरम् । रघुवीरशरव्रातपरिकल्पितजालकम् ॥ २२-१८२॥ परिभूतरवस्तस्य सैन्यघोषेण सागरः । अधिकं क्षोभमापन्नस्त्रासभिन्न इवाभवत् ॥ २२-१८३॥ तमालान् प्रतिमातङ्गत्रासादालानमण्डलान् । ममृदुर्नूनमावार्य मदान्धा गन्धसिन्धुराः ॥ २२-१८४॥ नलसेतुं ततो नीत्वा दृष्टमुक्तानदीमुखः । वीरो विश्रमयामास दुर्निवारां वरूथिनीम् ॥ २२-१८५॥ कृतव्यावर्तनास्तत्र केतकीरेणुरूषिताः । द्विषः स्कन्धांश्च दुधुवुर्हयास्तुमुलहेषिताः ॥ २२-१८६॥ धनुषा शार्ङ्गभीमेन सामिविष्फारितेन सः । लज्जितोदधिघोषेण लङ्काद्वीपमकम्पयत् ॥ २२-१८७॥ प्रतापदूतवशगाः प्राज्यरत्नोपहारिणः । अजीवन् यदुसिंहस्य पादमाश्रित्य सिंहलाः ॥ २२-१८८॥ महतीमुपदां तेषां द्विपरत्नादिशालिनीम् । स सङ्गृह्य पुनश्चक्रे न मनः सेतुबन्धने ॥ २२-१८९॥ द्विरदान् सिंहलेन्द्रस्य द्विचतुर्दन्तशोभिनः । पोतभूतांस्त्रिकूटस्य पोतानीतान् अमन्यत ॥ २२-१९०॥ यशोरत्नाकरस्तस्य बभौ पाण्ड्यसमर्पितैः । सैन्यकञ्चुकपर्याप्तैर्मुक्तापुलिनमण्डलैः ॥ २२-१९१॥ सोमवंशभुवां तत्र भूभृतां यदुपुङ्गवः । सयूथ्यभावमुद्भाव्य शङ्काज्वरमपानुदत् ॥ २२-१९२॥ स मारुतिपदन्यासादञ्चिताग्रामधित्यकाम् । प्रभुः प्रदक्षिणीचक्रे महेन्द्रस्य महीभृतः ॥ २२-१९३॥ उपभुक्ता बभौ तेन मलयस्य वनस्थली । सैन्यसम्मर्दसम्भूतैरेलाचन्दनसौरभैः ॥ २२-१९४॥ पतगेन्द्रध्वजत्रासात् भ्रष्टकुण्डलितात्मनाम् । जगृहुर्यादवास्तत्र फणारत्नानि भोगिनाम् ॥ २२-१९५॥ पृतनां तस्य सम्प्रेक्ष्य पृषद्भावितसागराम् । मानमात्मनि तत्याज मलयाश्रमतापसः ॥ २२-१९६॥ मरुतस्तत्र नागानां मृदितैलासुगन्धयः । चन्दनद्रुमसक्तानां प्रीतिकोपकृतोऽभवन् ॥ २२-१९७॥ पटीरस्कन्धविषयास्तत्र तेषां भुजङ्गमाः । अभजन्त फणारत्नैरवातक्षोभ(क्षेप)दीपताम् ॥ २२-१९८॥ मुक्ताभरणभूयिष्ठा रत्न(क्त)चन्दनरञ्जिता । चकाशे यादवी सेना सतारेव पितृप्रसूः ॥ २२-१९९॥ निदाघमिव पर्जन्यो निरासे सात्यकिः परम् । प्रयुक्तैरग्रतो नागैः प्रावृषेण्यैरिवाम्बुदैः ॥ २२-२००॥ युगपत् प्रत्यविध्यन्त युद्धे तस्य शरैर्द्विषः । अपाङ्गैश्च सुरस्त्रीणामसितोत्पलमेचकैः ॥ २२-२०१॥ शस्त्रकेलिं परित्यज्य स्वकान्ताकेशभङ्गुराम् । जगृहुः केरलास्तत्र जैत्रमस्त्रमिवाञ्जलिम् ॥ २२-२०२॥ अदूरावस्थितो रामस्तत्र वृष्णिवरूथिनीम् । शशङ्के विस्मयाविद्धः सप्तार्णवसमाहृतिम् ॥ २२-२०३॥ भुग्नभागस्ततः सह्यस्तदाक्रमणयन्त्रितः । प्रणिनंसुरिवाबोधि पर्यस्तशकटोपमः ॥ २२-२०४॥ अग्रस्कन्धेन गोकर्णं महेन्द्रमपि मूलतः । अवस्कन्द्य यदुश्रेष्ठः स्कन्धावारं न्यवीविशत् ॥ २२-२०५॥ जित्वा सह्याश्रितं वीरो जामदग्न्य इवापरः । दूरमुत्सारयामास द्विषद्बलमहार्णवम् ॥ २२-२०६॥ चारुचन्दनसम्पन्नशैलस्तनमनोहराम् । बुभुजे दक्षिणामाशां मौक्तिकाकरमेखलाम् ॥ २२-२०७॥ तत्र वेलानिलोद्धूतराजतालरवान्वितम् । स्वर्गीतं स्वादु शुश्राव भुजङ्गस्त्रीमुखोदितम् ॥ २२-२०८॥ चोलकेरलपाण्ड्यानां पश्यन् अनुगतिं प्रभुः । चकार पुनराधानं धर्म्यं हुतभुजामिव ॥ २२-२०९॥ कालदृष्टिकरालाभिरुल्काभिरिव हेतिभिः । दुर्मदद्विरदोदग्रान् त्रासयामास तौलुवान् ॥ २२-२१०॥ खेटकर्परगूढाङ्गान् कीलयित्वा शरैर्द्विषः । स्थलकूर्मैरिवाकीर्णं चकार रणभूतलम् ॥ २२-२११॥ शरैरभ्यर्चितास्तेन कोङ्कणाः समराङ्कणे । पुष्पवृष्टिभिरानर्चुस्तमेव त्रिदशीकृताः ॥ २२-२१२॥ कु पिताः कोङ्कणस्त्रीणां गण्डूषमधुगर्भितान् । बभञ्जुरमितामोदान् वकुलान् वृष्णिकुञ्जराः ॥ २२-२१३॥ प्रमादानिव तान् सप्त देशान् अतिपतन् प्रभुः । स ममर्द महाराष्ट्रं सैन्यदक्षिणभागतः ॥ २२-२१४॥ अपश्यद् ऋश्यमूकान्ते शेषमौलिमणिप्रभाम् । रामसायकरन्ध्रेण निस्सरन्तीं नभस्स्पृशम् ॥ २२-२१५॥ कामक्रोधाविवास्कन्द्य सह्यविन्ध्यौ समाहितः । विजिग्ये विषमांस्तत्र विषयान् सत्त्वमास्थितः ॥ २२-२१६॥ चापघोषेण निर्भिन्नचक्रवालाद्रिसन्धिना । कुञ्जलीनान् द्विषस्तत्र दिवाभीतान् अभे(भी)षयत् ॥ २२-२१७॥ अवन्ध्यतपसा विन्ध्यः स्तम्भितः कुम्भजन्मना । यदुपुङ्गवमातङ्गैर्वर्धमान इवाभवत् ॥ २२-२१८॥ सूर्यरोधितरुच्छन्नां असूर्यम्पश्यवीचिकाम् । सोमवंश्याः सुधां तत्र पपुः सोमसमुद्भवाम् ॥ २२-२१९॥ तेषां विहरतां तत्र शिञ्जिनीबद्धरावणाम् । कार्तवीर्यजलक्रीडां कथयन्ति स्म तापसाः ॥ २२-२२०॥ नगरीं हेहयेन्द्रस्य कारार्पितदशाननाम् । नलादीनां च शिथिलां सनिर्वेदमदर्शयन् ॥ २२-२२१॥ रथवाजिपदक्षुण्णविन्ध्यमस्तकरेणुभिः । रेवामाचामयामास रिपुस्त्रीबाष्पवर्धिताम् ॥ २२-२२२॥ ववृधे समरस्तत्र सुभग(ट?)स्वर्गसङ्क्रमः । सिद्धगन्धर्वयूथानां चित्तताण्डवदेशिकः ॥ २२-२२३॥ स्फुलिङ्गैः खड्गनिष्पिष्टदन्तदम्भोलिसम्भवैः । आसीत् द्विरदमेघानामचिरद्युतिकल्पना ॥ २२-२२४॥ सव्यालमृगसङ्कीर्णा रम्यतुङ्गरथद्रुमा । विससर्प चमूस्तत्र विन्ध्यवन्येव जङ्गमा ॥ २२-२२५॥ तालद्वयसजङ्घाग्र्याः कुम्भैरुत्तम्भिताम्बराः । गर्जितैस्त्रासयामासुर्गजा वनमतङ्गजान् ॥ २२-२२६॥ बलयन्त्रणया तत्र गृहीतैर्विपिनद्विपैः । व्यवर्धयत तां सेनां विन्ध्यपादैरिवोन्नतैः ॥ २२-२२७॥ यूथैर्द्विरदशैलानां कनत्कदलिकावनैः । अन्तरं पूरयामास विन्ध्यनीहारभूभृतोः ॥ २२-२२८॥ अरातिवनितानेत्रैरश्रुधाराधरैरिमाम् । वीरो वसुमतीमित्थं विदधे देवमातृकाम् ॥ २२-२२९॥ धर्मयूपनिभैस्तस्य जयस्तम्भैः समन्ततः । प्ररूढाद्भुतरोमाञ्चा प्रत्यभासत मेदिनी ॥ २२-२३०॥ जिताशेषविपक्षस्य बद्धमुक्तावभासिनी । अभवत् ककुभां तस्य कीर्तिः श्रवणभूषणम् ॥ २२-२३१॥ इति ग्राह्यकराश्चक्रे हरितो हरितोषकृत् । वीरः सुरभिणा स्वेन यशसाऽऽवासिताम्बराः ॥ २२-२३२॥ हृतसर्वस्वदीनानां व्रीडामपनुदन्निव । अदिशत् क्षौममाशानां यशोभिर्हंसलक्षणैः ॥ २२-२३३॥ स चक्रवत् परिक्रम्य क्षमाचक्रमरिन्दमः । क्षपयित्वा रिपून् सर्वान् शौरिपार्श्वं पुनर्ययौ ॥ २२-२३४॥ सैन्यसिन्धुपथस्तस्य स्थलीशेषितकण्टकः । विदधे विस्मयोन्निद्रप्रीतिकण्टकितां भुवम् ॥ २२-२३५॥ तमेवमखिलामाशां परिक्रम्योदयस्थितम् । प्रद्योतनसमं पौराः प्रहृष्टाः प्रत्युपासत ॥ २२-२३६॥ सैन्यघोषसमाहूतौ ततो हरिहलायुधौ । तमभ्याजग्मतुर्दूरादुग्रसेनपुरोगमौ ॥ २२-२३७॥ ददृशे सात्यकिस्तत्र राममुख्यैः सराजकः । अन्यैः सह दिशापालैराखण्डल इवापरः ॥ २२-२३८॥ अभिवन्द्य स तान् वन्द्यान् अभिव्यक्तपराक्रमः । तदनुप्लवभावेन प्राविशत् द्वारकां पुरीम् ॥ २२-२३९॥ प्रस्थितौ परिमेयानि पश्चादुपचितानि सा । जग्रसे यदुसैन्यानि जगन्तीव हरेस्तनुः ॥ २२-२४०॥ अष्टासु दिक्षु विभवैरुपसङ्गृहीतैः यक्षास्पदप्रहसनी यदुराजधानी । सत्यानुभाववसुदेवसुतप्रसत्त्यै सम्भूतदिक्पतिविभूतिरिवाबभासे ॥ २२-२४१॥ अभ्यर्च्य पूर्वविभवादधिकैः प्रदिष्टैः नाकाधिपानिव नवोपहृतान् नरेन्द्रान् । धर्मानुपालननियोगनिरूढचित्तान् प्रास्थापयत् प्रतिदिशं प्रथमो यदूनाम् ॥ २२-२४२॥ मणिमकुटसहस्रैर्वासुदेवस्य भूपाः पदसविधनिषण्णां पादुकामर्चयित्वा । प्रतिययुरुपलब्धैः पारिजातप्रसूनैः सुरभयितुमुपेत्य स्वावरोधान् प्रसाद्यान् ॥ २२-२४३॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये द्विग्विजयो नाम द्वाविंशःसर्गः

॥ भूभारहरणं नाम त्रयोविंशः सर्गः २३॥

अथाधिकारच्यवनात् य इन्द्राः पञ्चाभवन् पाण्डुसुताः पृथिव्याम् । जयार्थिनस्ते जगदेकनाथं प्रपेदिरे सत्त्वधनाः सदाराः ॥ २३-१॥ तमोपहैस्तत्त्वविदामृषीणां वाक्यैस्त्रिवेदीमनुसञ्जिहानैः । कृ ष्णं यथावत् कृतिनो विदन्तः तस्याभवन् प्राणसमाः सखायः ॥ २३-२॥ तदाश्रयास्तत्प्रणिधेयकृत्याः तेनैव नाथेन सदा सनाथाः । अपारयन् योगिभिरप्यजय्यान् बाह्यान्तरान् जेतुमरातिवर्गान् ॥ २३-३॥ प्रतिक्रियाः प्राग्भवदुष्कृतानां प्राणोपरोधेऽपि निरुद्धपापाः । धीरास्त्रिलोकीसुहृदः प्रसादात् विपाकरम्या विपदः प्रसेहुः ॥ २३-४॥ अलङ्घयन् विश्वपतेः प्रसादात् वृत्तिं पराचीमिव वीतरागाः । अरातिभिश्छद्मविधिप्रवीणैः आपादितामग्निजलादिपीडाम् ॥ २३-५॥ कलिङ्गनीतिं कलहैकतानां कर्णं च पार्थेन निबद्धवैरम् । आस्थाय दुश्शासनपूर्वजन्मा धर्मोत्तरान् जेतुमियेष पार्थान् ॥ २३-६॥ स राजसूयक्रतुधर्मपत्नीं भीमेन गाण्डीवभृता च मान्याम् । द्यूतच्छलप्रापितदासभावां साध्वीं मुधा पर्यभवत् सभायाम् ॥ २३-७॥ अनन्यनाथां स्थितिमाप्नुवत्या नाथः स्वसम्बोधननामगर्भम् । शुश्राव दूरान्तरितोऽपि शौरिः प्राक्रोशनं पार्थपतिव्रतायाः ॥ २३-८॥ मिथ्याविचारान्मिषतां गुरूणां प्रभुः सतां पाण्डवधर्मपत्नीम् । दुश्शासनव्याकुलितोत्त(तान्त)रीया- मक्षय्यकौशेयवतीमकार्षीत् ॥ २३-९॥ अवाप्तुकामाः प्रबलैरमित्रैः अक्षच्छलेनापहृतं स्वराज्यम् । निक्षिप्तकर्तव्यभरा बभूवुः सत्त्वाधिकाः सात्वत(सात्त्विक)यूथनाथे ॥ २३-१०॥ स्वातन्त्र्यगन्धद्विरदाङ्कुशेन स्वेनैव शीलेन विनीयमानः । अनन्यलभ्यं प्रतिलम्भितोऽभूत् प्रभुः स्वयं पाण्डवदूतभावम् ॥ २३-११॥ स तादृशीमाद्रियत त्रिधामा प्रेष्यक्रियां प्रेषितदेववृन्दः । ननु प्रभूणां निरपेक्षभूम्नां प्रसाधनं भक्तजने गुणत्वम् ॥ २३-१२॥ अपि प्रभूतानुगुणक्रियाभ्यः श्लाघापदं तत्त्वविदां बभूव । अनन्यतन्त्रस्य विभोस्तदेतत् नाथोचितं नन्तृषु पारतन्त्रयम् ॥ २३-१३॥ तपस्यतः पुत्रसमुद्भवार्थं मार्गागतं मोचयतः पिशाचम् । अजन्मनो जन्मभृतश्च शौरेः स्वामित्वसंवादि बभूव दूत्यम् ॥ २३-१४॥ सरोषसीरायुधहेतिशक्त्या साचीकृतां कौरवराजधानीम् । अद्यापि गङ्गासलिलप्रवाहे प्रक्रान्तपातामिव सम्प्रपेदे ॥ २३-१५॥ खद्योतवत् दर्शितखञ्जदीप्तीन् प्रज्ञादृशो भूमिभृतः सभायाम् । प्राप्तोदयो भानुरिव त्रिधामा प्रच्छादयामास कुरून् स्वधाम्ना ॥ २३-१६॥ तदागमेन प्रतिपन्नहर्षाः तद्दर्शनेनाऽऽहितपारवश्याः । अतर्कितप्रस्मृतवैरबन्धाः वृत्तिं द्विषन्तो विदधुर्यथार्हम् ॥ २३-१७॥ उलूखले भक्तगुणे च बद्धं गुणोत्तरे गोपवधूस्तने च । इयेष बन्धुं जगदेकबन्धुं दुर्योधनो दुस्त्यजमृत्युपाशः ॥ २३-१८॥ प्रकाशयन् किञ्चिदिवाप्रमेयः प्रभावमात्मीयमनन्यवेद्यम् । मुहुः प्रतीपाचरणोत्सुकानां मोघाशतां मूढधियामकार्षीत् ॥ २३-१९॥ स्ववेदितं संसदि धार्तराष्ट्रे सन्धित्सतो धर्मसुतस्य वाक्यम् । अनाददाने मुरभिन्निवृत्तः सानुग्रहो विग्रहमन्वमंस्त ॥ २३-२०॥ नरांशजुष्टेन धनञ्जयेन रथी भवन् सारथिरात्मना च । धनुर्भृता तोत्त्रभृता च भेजे पृथक्त्वमैक्यं च यथाप्रमाणम् ॥ २३-२१॥ रथाधिरूढं च रथं च रक्षन् यथार्थतो दर्शयति स्म यन्ता । त्रय्यन्तचिन्तानिरपेक्षमीशः तत्तादृशं तत्त्वविभागमाद्यम् ॥ २३-२२॥ पुरःस्थिते गोप्तरि विश्वहेतौ पश्चादवस्थायिनि तत्प्रवर्त्ये (तन्नियम्ये)। अनन्ययोगात् स रथो बभार प्राधीतवेद्यां प्रणवप्रवृत्तिम् ॥ २३-२३॥ प्रभुर्बभौ प्रग्रहतोत्त्रपाणिः कालात्मना भावितपाशदण्डः । यदा, तदा देवगणेन मेने शान्तं बलं शान्तनवप्रधानम् ॥ २३-२४॥ धुरन्धरः स्वर्गनिकेतनानां धुर्योत्थितैर्धूसरितो रजोभिः । रराज मध्ये रथयूथपानां गोष्ठे पशूनामिव गोपवेषः ॥ २३-२५॥ समुद्रसङ्घातनिभे नृपाणां सैन्यद्वये संयति सम्प्रवृत्ते । अस्थानकारुण्यवशान्निवृत्तं धनञ्जयं वीतशुचं वितेने ॥ २३-२६॥ फलादपि स्वादुतमप्ररोहं प्रोत्साहने सख्युरिवोद्यतः सः । जगद्धितार्थाय जगौ दयावान् अन्यैरविज्ञेयमनन्यधर्मम् ॥ २३-२७॥ चिरन्तनस्नेहदयादिमूलं चिन्तार्णवं निस्तरतो दुरन्तम् । किरीटिनः केशवसूक्तिरासीत् कालोचिता काचन पोतपात्री ॥ २३-२८॥ अभङ्गुरैर्धौतफलानुषङ्गात् विद्याशरैर्विश्वगुरोरुपात्तैः । विवेकधन्वा विषमान् अजैषीत् अन्तस्स्थितान् जिष्णुररातिसङ्घान् ॥ २३-२९॥ उपघ्नभूतां श्रुतिवल्लरीणा- मुपास्त तुष्यन् उपदेशमुद्राम् । नखांशुभिः क्षिप्ततमःकलङ्कां नाथस्य पार्थो नतपूर्वभागः ॥ २३-३०॥ विभक्तसामान्यविशेषधर्मा प्रादुर्बभूवोपनिषत् प्रभोर्या । स एव तां व्यासमुनिः समीचीं पर्यग्रहीत् भारतवेदवक्ता ॥ २३-३१॥ अभञ्जनीयां परधर्मसत्तां (क्तां) अनश्वरीं भारतसूर्यदीप्तिम् । विदुः श्रुतीनामनघां वयस्यां गीतामसम्मूढजनाविगीताम् ॥ २३-३२॥ कपिध्वजस्तस्य विभोरपश्यत् तदर्पितं चक्षुरवाप्य दिव्यम् । विरिञ्चि(ञ्च)पूर्वैरपि दुर्निरीक्षं विश्वाश्रयं रूपमशेषमूर्तेः ॥ २३-३३॥ तस्मिन् अभिव्याप्तसमस्तलोके स तत्स्वरूपेण विकल्प्यमाने । विडम्बितान् गोपुरधारिबिम्बैः देवान् विभोरैक्षत दिव्यदेहे ॥ २३-३४॥ प्रख्यातदीक्षं प्रणतार्तिभङ्गे पार्थस्तदा दैत्यरिपुं प्रपन्नः । विनाशयामास बलं रिपूणां विपत्प्रतीकारपरेण सख्या ॥ २३-३५॥ स्वहस्तपद्माञ्चिततोत्त्रपाशः स्वच्छन्दलीलासहधर्मचारी । गतागतैरप्रतिमैः स चक्रे जयश्रियो जैत्ररथेन डोलाम् ॥ २३-३६॥ सविस्मयः संयति सव्यसाची तत्तादृशा सारथिना समेतः । मनोजवानां निजसायकाना- मग्रेसरं स्यन्दनमन्वपश्यत् ॥ २३-३७॥ यथा नियच्छत्ययमिन्द्रियाश्वान् जीवाश्रये देहरथे निबद्धान् । तथाऽर्जुनस्यन्दनधुर्यनेता बभूव नान्येन निदर्शनीयः ॥ २३-३८॥ यदेकदेशे निखिलं तदन्यत् त(य)द्देहभागेषु च संविभक्तम् । रथैकदेशे तमवेक्ष्य पार्थः प्राबुद्ध तं सारथिमप्रतर्क्यम् ॥ २३-३९॥ निवर्तितं वैरिजनोपमर्दात् न्यस्तं रथे चक्रमुपाददानः । नतप्रतिज्ञानुपरोधहेतोः आत्मप्रतिज्ञामजहात् स्वतन्त्रः ॥ २३-४०॥ द्विषत्प्रयुक्तं दुरपोहमस्त्रं भुजान्तरालेन विभुः प्रतीच्छन् । विधाय वैकल्पिकवैजयन्तीं प्रच्छादितं प्राणयति स्म पार्थम् ॥ २३-४१॥ निवेशितां तस्य पदे च पूजां निशाम्य गङ्गामिव चन्द्र(शम्भु)मौलौ । अनन्यसामान्यममंस्त सख्युः सङ्कोचवैदेशिकमीश्वरत्वम् ॥ २३-४२॥ दिवाकरेऽनस्तमितेऽतिगाढं तमः सृजंस्तामसमोहनार्थम् । प्रपन्नरक्षाप्रतिपन्नदीक्षः सत्याभिसन्धं विदधे सखायम् ॥ २३-४३॥ सुरैरशेषैरपि जातरोषैः स दुर्जयान् भीष्ममुखान् जिगाय । सहायशक्त्या युधि सव्यसाची किं दुष्करं केशवमाश्रितानाम् ॥ २३-४४॥ स्वप्नः किमासीदथवेन्द्रजालं बभूव गन्धर्वपुरी किमेषा । इतीव शङ्कां विदधे प्रलीना पताकिनी कौरवपाण्डवानाम् ॥ २३-४५॥ आकृष्टदेवासुरसाम्परायैः ओजस्विनां शस्त्रभृतामुदन्तैः । प्रायस्तदा प्रत्यवहारलीलां आकालिकीं विश्वभुगन्वभुङ्क्त ॥ २३-४६॥ जिघांसुरष्टादश सम्पतन्तीः अक्षौहिणीरद्भुतभीमरूपाः । स्वतन्त्रयामास मिथः प्रतीपान् सूत्रावसक्तानिव दारुमर्त्यान् ॥ २३-४७॥ कृषीवलः स्थावरजङ्गमानां क्षेत्रे कुरूणां समकालपाकान् । अनीकशालीन् भुजशालिवर्गैः फलोपपन्नान् प्रभुरित्यलावीत् ॥ २३-४८॥ निस्तीर्य सङ्ग्राममहासमुद्रं संसारपोतेन परेण सख्या । धनञ्जयस्तत्पदमेव भेजे निर्धूतनीहारदिवाकराभः ॥ २३-४९॥ द्रौणिस्तदा सौप्तिकमाददा(धा)नः कृपेण सार्धं कृतवर्मणा च । हताहितैः पाण्डुसुतैरवाप्तं सैन्यावशेषं शमयाम्बभूव ॥ २३-५०॥ इत्थं दशाष्टौ च निपात्य भूमा- वक्षौहिणीरद्भुतभीमरूपाः । सतां पतिः सत्त्वसमृद्धिरोगात् (योगात्) उल्लाघितामातनुतेव पृथ्वीम् ॥ २३-५१॥ विभुः स्वसङ्कल्पहतान् विनिघ्नन् धर्मैकतानेन धनञ्जयेन । प्रतोदसन्दंशिकयोदहार्षीत् पाञ्चालकन्यापरिभूतिशल्यम् ॥ २३-५२॥ परास्त्रविस्रंसितमुत्तरायाः पद्मासनाद्यैरपि पूजितेन । गङ्गाधरण्योः प्रभवेन गर्भं पस्पर्श पादेन परावरेशः ॥ २३-५३॥ विप्लोषितं द्रौणिशरेण बालं सञ्जीवयन् पादरजः प्रभावात् । वधूकृतक्षुद्रशिलाविशेषं रामानुजो राममिवान्वकार्षीत् ॥ २३-५४॥ तस्य श्रुतिश्रेणिशिरोधृतानां स्पर्शः प्रजेशादिभिरीप्सितोऽभूत् । परीक्षिदुत्थानपरीक्षितानां अघच्छिदामङ्घ्रिरजःकणानाम् ॥ २३-५५॥ अजातदीनां (अजस्तदानीं)कालस्य दीप्तामिव खड्गरेखाम् । विपक्षसंहारमहाभुजङ्गीं वेणीं प्रियैः संय(श)मयाम्बभूव ॥ २३-५६॥ पितामहाय प्रततान पार्थः शरप्रयुक्तं शयनं यदग्र्यम् । योगासनं योजितचित्तधैर्यं तदेव पर्याप्तगुणं तदाऽऽसीत् ॥ २३-५७॥ विन्यस्य धर्मतनये विजयाधिकारं सख्याऽर्जुनेन यशसेव धनुर्धराणाम् । दध्मौ स दैत्यमथनो युधि पाञ्चजन्यं वृष्ण्यन्धकादिपरिशेषितभूमिभारः ॥ २३-५८॥ प्रत्यानिनाय रथमात्तजयः स जन्यात् धन्यावलोकनधनञ्जयदर्शनीयः । सारथ्यसंविदवधीरितहेतिजुष्टः सेनापरागपरिधूसरकुन्तलश्रीः ॥ २३-५९॥ आलिङ्ग्य गाढमवगाढरसं रणाब्धौ वीरव्रणैः कृतविभूषणमिन्द्रसूनुम् । अन्यावतारपरिकल्पनकेलिलोभात् ऐक्यं निनाय निजमंशमिवान्यनिष्ठम् ॥ २३-६०॥ रणभुवि शरतल्पे लीलया शायितेन स्वपदसमुदितायाः सूनुना सिद्धसिन्धोः । अनतिचिरविलम्बादाप्तकामं धरित्रीं कलिमिव शमयिष्यन् ख्यापयामास धर्मान् ॥ २३-६१॥ अप्रत्यूहितसार्वभौमविभवैरभ्यर्चितः पाण्डवैः प्रत्यावृत्ति(त्त)महोत्सवेन मुदितां प्राप्तः पुरीं द्वारकाम् । प्रत्यक्षं प्रथयाम्बभूव विहरन् प्रीतः प्रियाभिः समं शुद्धः सामपदागमैरधिगतां स्वाधीनतां श्रीपतिः ॥ २३-६२॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये भूभारहरणं नाम त्रयोविंशः सर्गः ॥

॥ भोगाभ्युदयो नाम चतुर्विंशः सर्गः २४॥

अथ निजविभवादजातशत्रौ प्रशमितशत्रुबले निवेश्य भूमिम् । परिचरणफलं प्रभुः प्रयच्छन् अमितगुणाभिररंस्त वल्लभाभिः ॥ २४-१॥ क्रतुविधिनियतोऽप्यकर्मवश्यः परिचितकामरसोऽपि वीतरागः । नगरवसतिरप्यशेषवासः कथमिव केन विभुः स वर्णनीयः ॥ २४-२॥ अनुगमितमिदं स्वदाररक्षां अनघमनोभवतन्त्रमाननीयम् । निरुपधिकरसस्य नेतुरासीत् नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥ २४-३॥ श्रुतिशतमहिते पदे परस्मिन् सितजलधौ रविमण्डले च सिद्धाम् । बहुमतिमतिशय्य सा बभासे नरकरिपोरवरोधभूमिरग्र्या ॥ २४-४॥ निधिगणमुखवान्तनिष्कराशिः प्रचितगुणा मणिभिः स्यमन्तकाद्यैः । प्रमुदितमहिषीगणेन चक्रे यदुनगरी विभुना निवासभूमिः ॥ २४-५॥ अविकलविभवस्य विश्वमूर्ते- रधिवसनं यदुवीरराजधान्याम् । अनुदिनमनपायिनीं प्रतिष्ठा- मभिलषतामनुचिन्तनीयमासीत् ॥ २४-६॥ सह मुनिभिरुपास्त धर्ममाद्यं व्यवहरणानि ददर्श वेदविद्भिः । अरमत च वधूजनैर्यथार्हं बहुतनुरक्रमतो विचित्रशक्तिः ॥ २४-७॥ अपि युगपदवाप्तनैकदेहैः उपनतयोगबलैः स्वकर्मनिघ्नैः । धृतबहुवपुषा जगद्विधात्रा जितकरणेन तु भुज्यते तदर्थः ॥ २४-८॥ यदुपतिरधिरूढचन्द्रशालः सह दयिताभिरनन्यमानसाभिः । जलनिधिमभितः प्रदर्शयंस्ताः निजमिव धाम निवेदयाम्बभूव ॥ २४-९॥ निजपदमनपायमाश्रितानां प्रभुरपवर्गदशामिव प्रयच्छन् । अमितबहुगुणामनन्यलभ्यां अतनुत कामपि सम्पदं प्रियाणाम् ॥ २४-१०॥ स्वयमुदवसिते स्ववासधन्ये त्रिषु भुवनेषु समामिवाद्भुतानाम् । अतनुत समवायमात्मयोगात् अतिशयिनीमथवा विभुः समृद्धिम् ॥ २४-११॥ विधिसदनमुखेष्वदृष्टपूर्वां प्रथितपरस्परसम्मतिं समृद्धिम् । यदुपतिदयितागृहेषु पश्यन् मुदमभजद्भुवि नारदो मुनीन्द्रः ॥ २४-१२॥ ललितरुचिषु कल्पवृक्षपोतैः उपवनराजिषु तस्य सञ्चरिष्णोः । अदधुरवयवैर्मुदं मुरारेः अनुकृतपुष्पफलादिकैस्तरुण्यः ॥ २४-१३॥ अधिगतकुसुमापचायलीलः प्रमदवनानि विभूषयन् स्वधाम्ना । प्रजनितमदनो मनस्विनीभिः गुणसुरभिः सुरभिः स्वयं स मेने ॥ २४-१४॥ परिपणमिव मन्मथोत्सवानां प्रथमविकस्वरपद्मदर्शनीयम् । अनुदितबहुविभ्रमं वधूनां अभिनवयौवनमन्वभुङ्क्त नाथः ॥ २४-१५॥ अमृतमयपयःपरिप्लुतानां विषमगुणेषु विहारवापिकानाम् । कमलकुवलयादिषु प्रियाणां मुखनयनस्मितकान्तिमभ्यनन्दत् ॥ २४-१६॥ अवितथमहिमा निजप्रसादात् अनघमनोरथतोषितासु तासु । स्वपरिजनतया सुरैर्नियुक्ताः निरदिशदप्सरसो निदेशभाजः ॥ २४-१७॥ बहिरुपनगरं बलानि दृष्ट्वा सह यदुभिः समये निवर्तमानम् । ददृशुरधिगवाक्षमेकचित्ताः रथतुरगादिषु रामपश्चिमं तम् ॥ २४-१८॥ विधिवदनुविधाय देवयात्रां प्रतिपुरवीथिपरिक्रमेण दृश्यम् । पतिमनुददृशुस्तमेव दूरात् अचरमदेवमनन्यदेवतास्ताः ॥ २४-१९॥ बहुविधमुपहारजातमग्र्यं सुरपतिभिः स्वयमाहृतं मुकुन्दः । अपि गगनचरैरदृष्टपूर्वं सममवरोधजनस्य संविभेजे ॥ २४-२०॥ उपचितशिखरे वदान्यरत्नैः उचितगुहाश्रितहंसतूलतल्पे । बहुरिव स बभौ विहारशैले प्रतिमणिभित्तिविभक्तचारुबिम्बः ॥ २४-२१॥ युगपदखिलमादरेण साक्षात् युवतिजनस्य निदर्शयन् मुकुन्दः । असकृदुपगमय्य चित्रशालाः अनघसमाधिदशामिवाऽऽततान ॥ २४-२२॥ अनितरमनसां स्ववल्लभानां नरकजिता निरपायवैभवेन । भवभयविनिवारिणी स्वभक्तिः ललितविहारमुखेन लम्भिताऽभूत् ॥ २४-२३॥ प्रमुदितविबुधाहृतप्रकॢप्तैः कनकसरोजवनैरलङ्कृतानाम् । अतिशयमवरोधदीर्घिकाणा- मधिसुरसिन्धु समीक्षितं निदध्यौ ॥ २४-२४॥ विहरति वनिताजने तदीयैः अपलपितामवलोकनप्रभावैः । पुनरपि हरिनीलरत्नभासा दधुरसितोत्पलसम्पदं सरस्यः ॥ २४-२५॥ स्थिरधृतिमधिरोप्य रत्नडोलां गुणघटितामिव माधवः स्वमायाम् । अगमयत गतागतान्यभीक्ष्णं सुकृतजुषः स्वयमङ्गनाः स्वतन्त्रः ॥ २४-२६॥ रुचिरकनकश‍ृङ्गवक्त्रवान्तैः प्रतितनु कुङ्कुमवारिभिः प्रसिञ्चन् । अजनयदनुरागयोगमन्त- र्बहिरपि तोयविहारतो वधूनाम् ॥ २४-२७॥ नवमणिपरिकल्पितेषु नाथः कमलवनान्तरकेलिमन्दिरेषु । श्रिय इव सुदृशो गृहीतपद्माः हृदि निदधे पुरुषोत्तमः प्रतीतः ॥ २४-२८॥ दिशिदिशि मकरन्दवर्षदिग्धां विविधपरागविभक्तचूर्णचित्राम् । भुवमभजत साकमङ्गनाभिः पुल(चुल)कितदृष्टिषु पुष्पमण्डपेषु ॥ २४-२९॥ अनुविहितमहोत्सवो यथार्हं वितरणतोषितवन्दिबन्धुवर्गः । परिणयनविधिं लतावधूना- मतनुत चूतवरैः प्रियार्पितानाम् ॥ २४-३०॥ सुतबहुमत(ति)भागिनां शुकाना- मुपहृतदिव्यरसोपभोगभाजाम् । श्रुतिमधुरगिरां स्वशिक्षिताना- मतिशयसिद्धिमदर्शयत् प्रियाभ्यः ॥ २४-३१॥ अनुकृतनिजशक्तिभिः प्रियाभिः सह गुणबन्धविभक्तसन्निवेशैः । मुहुरिह निपतद्भिरुत्पतद्भिः करणवशैरिव कन्दुकैरदीव्यत् ॥ २४-३२॥ निजयुवतिषु यद्यपि त्रिधामा नयनपिधानविहारमाजहार । न तदनुचरितं तथाऽपि ताभिः त्रिभुवनदृष्टिनिरोधशङ्किनीभिः ॥ २४-३३॥ श्रुतिविहितमवन्ध्य(र्ज)यन् स्वधर्मं प्रतिदिनमन्यपरो यदा बभूव । तदुपचरणतस्तदाऽपि (स चापि?)तासां समजनयत् प्रियभोगमेव कालः ॥ २४-३४॥ मणिपरुवकमञ्जुलस्तनीभिः मधुसमयापगमे वराङ्गनाभिः । सितमणिविहितान् स यन्त्रधारा- व्यतिकरशीतलितान् अभुङ्क्त सौधान् ॥ २४-३५॥ स्फटिकसदनदीप्तिदत्तहस्तां मुरभिदसेवत सादरं सदारः । अपजलदनिशोदितस्य शोभां हलधरकान्तिभृतस्तुषारभासः ॥ २४-३६॥ अगुरुभिरसितैरनूरुगौरैः नवघुसृणैरपि निर्विवेश नाथः । हिमऋतुमवरोधसुन्दरीणां स्तनपरिरम्भसमर्पितैर्विलिप्तः ॥ २४-३७॥ अनलशकटिकाभिरप्यजय्यं शिशिरसमीरणमञ्जसा जिगाय । अविरलपरिरम्भलम्भनीयैः स्तनकलशोष्मभिरात्मवल्लभानाम् ॥ २४-३८॥ उपनिषदुपदेशसाभिलाषैः उपचरितो मुनिभिः सनन्दनाद्यैः । रतिपतिसमयस्थितो वधूनां ललितकलागमदेशिको बभूव ॥ २४-३९॥ कलमधुरगिरां कलाप्रसङ्गात् अतिमदनोपनिषत् परं रहस्यम् । प्रियहितरुचिराक्षरं प्रियाणां श्रुतिषु चकर शिखामणिः श्रुतीनाम् ॥ २४-४०॥ निरुपधिकनिजप्रभावगर्भं परिषदि विश्वपतिः प्रियासहायः । किमपि निशमयाम्बभूव गीतं प्रमुदितकिन्नरदम्पतिप्रयुक्तम् ॥ २४-४१॥ मृदुकरतललीलया मृदङ्गान् असमयनर्तितनीलकण्ठयूथान् । ध्वनयति दयिते विडूरभूमेः श्रियमिव ताः पुलकोद्गमैरपुष्यन् ॥ २४-४२॥ करकमलपरिग्रहेण धन्यां वरतनुसंसदि वादयन् विपञ्चीम् । अविदितगमनाय गायकैः स्वैः उपरतगीतिभिरुन्मुखैः सिषेवे ॥ २४-४३॥ श्रुतिमधुसुभगैरदीनहृद्यैः श्रुतघननादशिखण्डिनीगणश्रीः । मधुरिपुवनिताजनः समाजे ध्वनिभिरमाद्यत दिव्यदुन्दुभीनाम् ॥ २४-४४॥ सललितकरणाङ्गहारहृद्यं सह दयिताभिरुदारदिव्यनाट्यम् । अनुदिनमनिमेषदर्शनीयं जितमधुरप्सरसां ददर्श नृत्यम् ॥ २४-४५॥ अभिनयमभिनन्द्य नर्तकीनां स्वयमुपदिष्टमलङ्घितोपदेशम् । पुनरपि मुदितस्तमेव युञ्जन् अविदितपूर्वमिवाऽऽदरादपश्यत् ॥ २४-४६॥ प्रतियुवतिगृहीतनैकरूपः प्रणयवतीभिरनन्य इत्युपेतः । अपहृतमणिपादुकः कयाचित् पदमपि गन्तुमशक्नुवन्निवासीत् ॥ २४-४७॥ अनवहिततया सखीसमक्षं द्रुतमुपहूय समाख्ययेतरस्याः । मु(रु)षितमनसमद्भुतैर्विलासैः इदमपि नाम तवेत्युवाच मुग्धाम् ॥ २४-४८॥ समुचितदिनलङ्घनं सपत्न्याः परिपणितं स्वयमभ्युपेत्य नाथः । स्मितमधुरमुखो जितः कयाचित् विवश इवाक्षविहारतो बभूव ॥ २४-४९॥ अनुगतनिजबिम्बमेनमन्या मणिमुकुरस्थमवेक्ष्य मन्दहासम् । न खलु तदवलोकनाय पश्चात् व्यतनुत साचिविधिं तदेकतृप्ता ॥ २४-५०॥ पुलकिनि कुचकुड्मले परस्याः कथमपि साध्वसकम्पिताग्रहस्तः । स्थिरचरजगदेकदिव्यशिल्पी विषमतमं विलिलेख पत्रभङ्गम् ॥ २४-५१॥ मृदुसुरभिसुजातबन्धुराभिः प्रणिदधदग्रनिबद्धपङ्कजाभिः । मुहुरसितदृशां स्वकण्ठयोग्यां भुजलतिकाममिमीत मालिकाभिः ॥ २४-५२॥ अभजत स च ताश्च दूतिकानां अमृतपरिप्लुतभेषजायमानैः । प्रतिदिनमिदमादिमं प्रमोदं प्रणयविरोधसितासितैर्वचोभिः ॥ २४-५३॥ निजपदपरिचारकाङ्क्षिणीभिः कतिषु भवेषु समर्चिताङ्घ्रिपद्मः । प्रतिविधिमभजत् प्रसाधिकावत् प्रियपरिकर्मविधानतः स तासाम् ॥ २४-५४॥ निजसमुदयसम्भवैर्निशायां प्रणयपयोनिधिवीचिकाविसर्पैः । प्रणतिभिरिव विभ्रमैः प्रियाणां बहुमतिभेदमवाप यादवेन्दुः ॥ २४-५५॥ शरदुपगमशोधिता इवाऽऽपः तुहिनकरोदयनिर्मला इवाशाः । मुरभिदुपगमप्रशान्तखेदाः प्रतिययुरुन्मनसस्तमायताक्ष्यः ॥ २४-५६॥ अमृतमयमिवोदधिं तमुच्चैः अनुसखि लोचनशुक्तिभिः पिबन्त्यः । अवशनियतचित्तवृत्तिमेकां अदधुरदृष्टपरस्परामवस्थाम् ॥ २४-५७॥ स्मरजनकतनुः स्वदर्शिनीनां ननु विरहः सुदृशां निमेष एव । इति किल विगणय्य विश्वकर्ता नियतमकल्पयदप्सरस्त्वमासाम् ॥ २४-५८॥ अनुचरबहुमानमाप्तुकामैः अवसरबिद्भिरनुस्मृतात्मरक्षैः । अनुदिनमुपनीतमादितेयैः अमृतमपाययत प्रियाः प्रतीतः ॥ २४-५९॥ प्रियवचनशतैरुदारवादी रहसि मनुश्श्रुतिरञ्जकैर्विचित्रैः । मुखकमलमधूपमैः प्रकामं मदमुदिता इव मानिनीरकार्षीत् ॥ २४-६०॥ अतिशयितगुणैः प्रियोपभोगात् वसनविभूषणमालिकादिभिस्ताः । मुदमधिकतमां दधुस्तरुण्यः प्रणयरसो हि रसप्रकर्षहेतुः ॥ २४-६१॥ अभिलपनमनस्क्रियातिपाति- न्यनुबुभुजे यदुपुङ्गवेन तासाम् । अतिशयमितरेतरं प्रयच्छ- न्त्यभिनवयौवनसम्पदप्रकम्प्या ॥ २४-६२॥ अजनिषत कुतो नु भागधेयात् त्रिभुवनमङ्गलदीपिकाः शुभाङ्ग्यः । यदुपतिसहधर्मचारिणीभिः सुखमनघं भुवि याभिरन्वभावि ॥ २४-६३॥ अधिभुजगपति श्रियोपभुक्तं युगपरिपाकविहारिणं युवानम् । नरपतिबहुमानतो नताङ्ग्यः सुलभमिवान्वभवन् स्वतल्पभाजम् ॥ २४-६४॥ शकयुवतिकपोलपाण्डराभैः शशिशकलैरिव नागवल्लिपत्रैः । स्मरसुभटयशोनिभैरनन्दत् युवतिजनोपहृतैस्तदर्पितैस्ताः ॥ २४-६५॥ जगदुपजननादिजातभूम्नः क इव वधूजनमोहनो विहारः । कथमिव स कुतश्च कीर्तनीयः प्रथितमनोभवतन्त्रपारदृश्वा ॥ २४-६६॥ यतिभिरनुबुभूषितः स ताभिः यदुपतिरद्भुतरूपवेषशीलः । निरुपधिकरसामृतौघसिन्धुः सततमपूर्वमपूर्वमन्वभावि ॥ २४-६७॥ हरिपरिचरणेन तोषितानां हरिणदृशां विभवं विभावयन्तः । अपजहसुरवाप्तसंयमाः स्वान् अपरिमितान् अणिमादिसिद्धिभेदान् ॥ २४-६८॥ सरित इव मृगीदृशस्तमेकं महितगुणौघमहोदधिं भजन्त्यः । अबिभरुरनपायमैकरस्यं मुनिगणितश्च स एव मुक्तभोगः ॥ २४-६९॥ अनुभवरसतो जगत्प्रसूतेः अपचितसुप्तिसुषुप्तिसम्भवास्ताः । वितमसि विषये स्थिता इवासन् विरतिविहीनविहारजागरेण ॥ २४-७०॥ प्रतिदिनमितरेतरानुगुण्यात् प्रचितमयोगवियोगसम्प्रयोगैः । रसमधिकमवापुरायताक्ष्यः प्रणयिनि शार्ङ्गिणि भागधेयभूम्ना ॥ २४-७१॥ रविरुचिरमणिप्रदीपकेषु स्फुरदसितागुरुधूमधूपितेषु । सह युवतिगणैः (जनैः)क्षणोपमेयां अनयत वासगृहेषु वासतेयीम् ॥ २४-७२॥ पुलकितवपुषां सवेपथूनां घनरसभावितघर्मबिन्दुभाजाम् । श्लथमिव सुदृशाममुष्टिमेयं चिकुरमगुम्भयदद्भुतं चिरेण ॥ २४-७३॥ स्ववधूरवधूतभौमभावाः स्वदमानाः स्वयमात्मनैव तृप्तः । अनुभूय न तृप्यति स्म नाथः तमपि प्रेमविलीनचेतसस्ताः ॥ २४-७४॥ चपलप्रतिकूलतीक्ष्णरूक्षाः स्त्रिय इत्यागमिकैर्निदर्शितार्थः । प्रथितो यदुवीरवल्लभाभिः परिवादोऽयमपाकृतः पृथिव्याम् ॥ २४-७५॥ शरणागतसर्वपापमोक्षे कृतसङ्कल्पमिहानुभूय कृष्णम् । परितोऽपि तथाविधानुभूतिः स्मरलब्धा प्रतिलम्भिता प्रियाभिः ॥ २४-७६॥ अनघामनपायभक्तिरूपां अनुभूतिं यदुवीरवल्लभानाम् । अनुकर्तुमपि प्रवर्तमानैः अवशैरेव समाहितैरभावि ॥ २४-७७॥ उदधौ बहवो रमा बभूवुः यदि वैकैव गृहीतनैकरूपा । इति नाम विमर्शमादधानाः दयिताः प्रेक्ष्य ननन्द देववन्द्यः ॥ २४-७८॥ अजितस्य विशालतुङ्गभूम्ना भुजमध्येन पयोधरैश्च तासाम् । इतरेतरसंवृतत्वमासीत् परिरम्भे परितो मिथस्समत्वम् ॥ २४-७९॥ परिहासकुतूहली प्रियाणां विहितद्यूतविहारकौतुकानाम् । उभयत्र जयं जगाद पृष्टः कितवस्थेयपदे निवेशितस्सन् ॥ २४-८०॥ स्वयमादिकविः प्रकल्पिताभिः प्रणयोल्लङ्घनरौक्ष्यमुत्तितीर्षुः । प्रहसन् बहुशः प्रहेलिकाभिः मतिमौढ्यं विदधे मनस्विनीनाम् ॥ २४-८१॥ एकीभवद्भिरयुतैरपि मन्मथानां यत्कान्तिबिन्दु(सिन्धु)पृषतानुकृतिर्न शक्या । सम्प्रेक्ष्य तं यदुपतिं यमिनोऽपि नूनं स्त्रीभावमेव मनसा बिभराम्बभूवुः ॥ २४-८२॥ कृष्णानुभूतिविभवेन कृतार्थभावाः तद्वल्लभास्त्रिदशमातृतयाऽचकासुः । यत्पादपङ्कजपरागजुषां शशंसुः जन्माद्भुतं जगति गुल्मलतादिकानाम् ॥ २४-८३॥ श्यामो बभूव किमसौ सुदृशां कटाक्षैः श्यामास्तदन्वयवशादथवा तरुण्यः । ताभिः किमस्य ववृधे महिमा महीयान् तासामनेन यदि वेति बुधैः शशङ्के ॥ २४-८४॥ अग्राम्यमेव परिहासरसं वितेने नाश्लीलमाह न मृषा न च मर्मभेदि । धर्माविरुद्धविभवोचितकामकामः स्त्रीणां वरेण बुभुजे वरदो वरस्त्रीः ॥ २४-८५॥ ताराभिरिन्दुरिव भानुरिव प्रभाभिः युक्तो वशाभिरिव वारणयूथनाथः । विद्याभिरात्मविदिवाभ्यधिकं विरेजे योगेश्वरो युवतिभिस्सह मोदमानः ॥ २४-८६॥ पायम्पायं प्रेयसः कान्तिमाध्वीं माद्यन्तीभिर्मञ्जुलालापिनीभिः । प्रत्येकोक्तिश्लाघनप्रीणिताभिः प्रायो भोगाः पर्यवाह्यन्त ताभिः ॥ २४-८७॥ करणव्यपायसमये पुनर्भवं विनिवर्त्य शाश्वतसुखं प्रदास्यता । स्वपदानुभूतिरुदपादि तादृशी सुदृशां स्वसम्मति(सन्मति?)भृतां गदाभृता ॥ २४-८८॥ तद्गतेन मनसा विवशानां तन्मयीकृतधियामिव तासाम् । अप्रलुप्तरहसामभजेतां स्वप्नजागरदशे अविशेषम् ॥ २४-८९॥ श्रियमनपायिनीं वसुमतीमिव दत्तकरां सह महिषीगणेन विभुरेक इवानुभवन् । यदुभिरनन्त-तार्क्ष्य-पृतनेशनिभैस्सहितो निजपदमस्मरन्निह निवासमरोचयत ॥ २४-९०॥ उपचितचित्रधर्ममुपशान्तविपक्षभयं मुदितवधूजनः स मुखरं निगमध्वनिभिः । बहुविधरत्नशालि बहुमान्यसमग्रगुणं वलयसमं भुजस्य वसुधावलयं बुभुजे ॥ २४-९१॥ अनितरजनलभ्यां प्रीतिमासेदुषीभिः सुचिरमनुबभूवे स्वर्गमोक्षातिशायी (दिदायी)। निरुपधिकरसाब्धिं निर्विशन्तीभिराद्यः (द्यं) कुलयुवतिभिरित्थं कोऽपि श‍ृङ्गारभूमा ॥ २४-९२॥ सहजबलसमेतः शक्रपूर्वैरजय्यः समुदितविषमास्त्रस्तादृशानन्दहेतुः । अविदित(तथ?)रचनेन स्वेन पार्थाय गीतः स्वयमजनि स कामः कोऽपि धर्माविरुद्धः ॥ २४-९३॥ स्वपदनलिनभाजां स्वर्गमोक्षौ यथार्हं करणविगमकाले कल्पयिष्यन् क्रमेण । मधुरिपुरिह नूनं मन्दपुण्यैरलभ्यौ समतनुत विहारैस्तावुभौ सम्प्रयुक्तौ ॥ २४-९४॥ नारीदृष्ट्या नियमितधियो नाकनाथेश्वरत्वं सम्भोगे च प्रवणमनसः शाश्वतं ब्रह्मचर्यम् । अत्रैकस्यां पुरि निवसतः सर्वलोकाधिकत्वं निध्यायन्तस्त्वरितमतरन् दुस्तरां तस्य मायाम् ॥ २४-९५॥ आसीदेवं परिणतमधिद्वारकं द्वापरान्ते व्यासप्रख्याविभजनभवद्वेदशाखोपमानाम् । चिन्तातीतं यदुपतिमनःप्रीतिचिन्तामणीना- मेकं तासां भवरसभुजां भाग्यमेकातपत्रम् ॥ २४-९६॥ गुरुभिरनघचित्तैराहितोदारभूमा सुरभितरसमेतत् सूनृतं वेङ्कटेशः । व्यतनुत यदुवीरप्रीतिमिच्छन् प्रभूतां कविकथकमृगेन्द्रः क्षेमदं काव्यरत्नम् ॥ २४-९७॥ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये भोगाभ्युदयो नाम चतुर्ंविंशः सर्गः ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटनाथाय वेदान्तगुरवे नमः ॥ Compiled by Seshadri
% Text title            : Yadavabhyudayam Mahakavyam
% File name             : yAdavAbhyudayamahAkAvyam.itx
% itxtitle              : yAdavAbhyudayaM mahAkAvyam
% engtitle              : yAdavAbhyudayaM mahAkAvyam
% Category              : vishhnu, krishna, mahAkAvya, sAhitya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Compiled by Seshadri
% Indexextra            : (References 1, 2, 3, 4, 5, 6, 7)
% Latest update         : August 14, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org