यादवाभ्युदयं महाकाव्यम्
ध्यानम् ।
श्रीकृष्णाय परस्मै परब्रह्मणे नमः ।
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै ।
मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥
श्रीमच्छीतांशुवंशे जनितगुणनिधेर्दिव्यलीलाप्रबन्धम् ।
श्रीमद्वेदान्तसूरेर्भणितसुरुचिरं यच्चरित्रं प्रशस्तम् ॥
सूक्तं शृङ्गारशान्त्यादिबहुरसयुतं सज्जनानां निधानम् ।
तद्वन्दे काव्यरत्नं कलिमलहरणं श्रीचिदानन्दरूपम् ॥
यादवाभ्युदयं काव्यं वेङ्कटेशेन निर्मितम् ।
श्रीकृष्णचरितं पुण्यं सर्वलोकमनोहरम् ॥
वन्देय वेदान्तगुरोः पदाब्जं सन्देहमोहक्षपणार्थवित्यै ।
मन्देतरा भक्तिरुदेतु विद्वद्वृन्दे च वृन्दावनदैवते च ॥
॥ कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयमहाकाव्यम् ॥
॥ प्रथमः सर्गः १॥
वन्दे वृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १-१॥
यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः ।
यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥ १-२॥
शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि ।
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥ १-३॥
वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।
अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥ १-४॥
स कविः कथ्यते स्रष्टा रमते यत्र भारती ।
रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥ १-५॥
तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् ।
न दोषायैतदुभयं न गुणाय च कल्पते ॥ १-६॥
प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।
न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥ १-७॥
विहाय तदहं व्रीडां व्यासवेदार्णवामृतम् ।
वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ १-८॥
क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।
एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ १-९॥
जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।
परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥ १-१०॥
यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।
सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥ १-११॥
समवर्धत तद्वंशः उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १-१२॥
बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ ।
यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १-१३॥
नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥ १-१४॥
शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे ।
यथावत् साधकस्येव यावदर्था सरस्वती ॥ १-१५॥
वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १-१६॥
विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता(रा)॥ १-१७॥
निदेशं तस्य राजानो न शेकुरतिवर्तितुम् ।
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥ १-१८॥
तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।
भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥ १-१९॥
यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः ।
समानगणनालेख्ये निस्समानैर्निषद्यते ॥ १-२०॥
देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः ।
ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्षदैः ॥ १-२१॥
स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।
न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ १-२२॥
अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः ।
अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥ १-२३॥
शराणां शात्रवाणां च सन्धानेन महौजसः ।
तस्य निर्धूतलक्षेण द्विः कचिन्नाप्यभृयत ॥ १-२४॥
युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।
दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ १-२५॥
यशःप्रसूनसुरभिर्यदुसन्तानपादपः ।
बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥ १-२६॥
वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः ।
जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥ १-२७॥
आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः ।
सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥ १-२८॥
तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः ।
जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ १-२९॥
स विष्णुरिव लोकानां तपनस्तेजसामिव ।
समुद्र इव रत्नानां सतामेकाश्रयोभवत् ॥ १-३०॥
प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः ।
रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥ १-३१॥
अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः ।
ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥ १-३२॥
स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् ।
व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥ १-३३॥
अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः ।
यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥ १-३४॥
कयाचिदशरीरिण्या वाचा व्यवसितायतिः ।
देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥ १-३५॥
स कालातिबलः कंसः कालनेमिरनेहसा ।
सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥ १-३६॥
एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।
प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥ १-३७॥
विदितं भवतां देवाः! विश्वरूपेण विष्णुना ।
महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥ १-३८॥
अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः ।
असङ्खथैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥ १-३९॥
अत आलोचितजगद्धितैः सुरगणैः स्वयम् ।
(अतः स्वयं सुरगणैरालोचितजगद्धितैः?)
न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥ १-४०॥
इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।
अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥ १-४१॥
पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः ।
दुग्धोदधिशयं देवं दुरमेत्याभितुष्टुवुः ॥ १-४२॥
त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥ १-४३॥
अनन्याधीनमहिमा स्वाधीनपरवैभवः ।
दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥ १-४४॥
स भवान् गुणरत्नौघैर्दीप्यमानो दयाम्बुधिः ।
तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥ १-४५॥
त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदम्परैः ।
निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥ १-४६॥
अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।
वितथा वेदपान्थानां यत्रसायङ्गृहा गतिः ॥ १-४७॥
नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः ।
पुत्रैः पितृमतः क्रिडा कथं ते केन वर्ण्यते ॥ १-४८॥
नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।
पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥ १-४९॥
ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥ १-५०॥
निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।
निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥ १-५१॥
अनाविलधियामन्तश्चिन्तामणिरिव स्फुरन् ।
दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥ १-५२॥
संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।
त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥ १-५३॥
दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।
समग्रगुणसम्पन्नः तारकस्त्वं प्लवो महान् ॥ १-५४॥
अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।
निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥ १-५५॥
अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।
सङ्कल्पसचिवः काले (लः)शक्तिलेशः स तावकः ॥ १-५६॥
यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते)।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥ १-५७॥
त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् ।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥ १-५८॥
यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।
तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥ १-५९॥
त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् ।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥ १-६०॥
अनन्यरक्षाव्रतिनं चातकव्रतचारिणः ।
भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥ १-६१॥
अनिदम्पूर्वनिद्राणामनस्तमयभानुमान् ।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥ १-६२॥
त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥ १-६३॥
सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।
जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥ १-६४॥
सदैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः ।
अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥ १-६५॥
ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥ १-६६॥
पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया ।
स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसम्पदम् ॥ १-६७॥
सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् ।
स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥ १-६८॥
आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।
अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥ १-६९॥
उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।
शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥ १-७०॥
स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥ १-७१॥
श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥ १-७२॥
स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् ।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥ १-७३॥
अनपायं तमादित्यमक्षयं तारकाधिपम् ।
अपारममृताम्भोधिममन्यन्त दिवौकसः ॥ १-७४॥
अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥ १-७५॥
तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।
निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥ १-७६॥
त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् ।
तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥ १-७७॥
चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् ।
हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥ १-७८॥
जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥ १-७९॥
यदि न त्वरते नाथ भारव्यपनये भवान् ।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥ १-८०॥
करुणाधीनचित्तेन कर्णधारवती त्वया ।
माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥ १-८१॥
रशनारत्नरूपेण पयोधिरशना त्वया ।
प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥ १-८२॥
कंसप्रभृतिभिः सेयं शल्यैरिव समुद्धृतैः ।
चिरं भवतु ते पृथ्वी शेषमूर्तेश्शिखण्डकः ॥ १-८३॥
प्रबोधसुभगैः स्मेरैः प्रसन्नैः शीतलैश्च नः ।
कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥ १-८४॥
त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि ।
विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥ १-८५॥
इत्थं वदति देवानां समाजे वेधसा सह ।
ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥ १-८६॥
तनुमध्या विशालाक्षी तन्वी पीनपयोधरा ।
मायेव महती तस्य वनितारत्नरूपिणी ॥ १-८७॥
आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः ।
अयत्नलब्धां बिभ्राणा मायुरच्छत्रसम्पदम् ॥ १-८८॥
प्रियसन्दर्शनानन्दजनितैरश्रुबिन्दुभिः ।
न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥ १-८९॥
प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् ।
दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥ १-९०॥
विपदञ्च जगादैषा विपञ्चीमधुरस्वना ।
विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ॥ १-९१॥
अथ तान् भव्यया वाचा भगवान् प्रत्यभाषत ।
प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥ १-९२॥
मा भैषुरसुरानीकात् भवन्तो मदुपाश्रयाः ।
मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥ १-९३॥
अवतार्य भुवो भारमवतारो ममामराः ।
अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥ १-९४॥
यावदिष्टभुजो यावदधिकारमवस्थिताः ।
परिपालयत स्वानि पदानि विगतापदः ॥ १-९५॥
दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः ।
भृयोऽपि लघुतां प्राप्तां भुवमुल्लाघितामिव ॥ १-९६॥
दैतेयमृगसङ्घाते मृगयारसभागिभिः ।
भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥ १-९७॥
इति ताननघादेशः समादिश्य जनार्दनः ।
अवधीरितदुग्धाब्धिर्मधुरायां मनो दधे ॥ १-९८॥
आश्वास्य वागमृतवृष्टिभिरादितेयान्
दैतेयभारनमितां पृथिवीं च देवीम् ।
प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां
पद्मापतिः प्रणिदधे समयं दयायाः ॥ १-९९॥
साधूनां स्वपदसरोजषट्पदानां
धर्मस्य स्थितिमनघां विधातुकामः ।
यद्गर्भे(र्भो)जगदखिलं स एव गर्भो
देवक्याः समजनि देवदेववन्द्यः ॥ १-१००॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
यादवाभ्युदये महाकाव्ये प्रथमः सर्गः ॥
॥ श्रीकृष्णावतारवर्णनं नाम द्वितीयः सर्गः २॥
अथागमानामनघेन भूम्ना
धर्मस्य पूर्णेन धनागमेन ।
दिवौकसां दर्शयता विभूतिं
देवी बभौ दौहृदलक्षणेन ॥ २-१॥
शृङ्गारवीराद्भुतचित्ररूपं
गर्भे त्रिलोकै कनिधिं वहन्त्याः ।
परावरक्रीडितकर्बुराणि
द्वेधाऽभवन् दौहृदलक्षणानि ॥ २-२॥
अशेषवेदैरधिगम्यभूम्ना
सिद्धेन सिद्धैश्च निषेवितेन ।
अमानुषी नूनमभूदयत्नात्
कृष्णेन केनापि रसायनेन ॥ २-३॥
शतह्रदाबन्धुरया स्वकान्त्या
सञ्चारिजाम्बूनदबिम्बकल्पा ।
त्रय्यन्तसिद्धेन रसायनेन
कालेन भेजे कलधौतलक्ष्मीम् ॥ २-४॥
मयूरपिञ्छद्युतिभिर्मयूखै-
स्तत्कान्तिरन्तर्वसतस्त्रिधाम्नः ।
श्यामा बहिः मूलसिता बभासे
मङ्गल्यरत्नाङ्कुरपालिकेव ॥ २-५॥
काले बभासे वसुदेवपत्न्याः
कर्पूरलिप्तेव कपोलशोभा ।
शशिप्रभा सप्तमगर्भकान्तिः
च्युतावशिष्टेव शनैरुदीर्णा ॥ २-६॥
नवेन्दुनिष्यन्दनिभश्चकाशे
वर्णः प्रतीकेषु मधुद्रवाङ्ग्याः ।
अन्तः स्थितेन प्रथमेन पुंसा
प्रवर्तितं सत्त्वमिवावदातम् ॥ २-७॥
करम्बिता किञ्चिदिव प्रसृप्तै-
स्तेजोभिरन्तर्वसतस्त्रिधाम्नः ।
मरीचिभिः स्वैरभवत् प्रजानां
मङ्गल्यरत्नाङ्कुरपालिकेव ॥ २-८॥
तस्याः सुधोल्लासजुषः कटाक्षाः
सङ्क्षुब्धदुग्धोदधिसौम्यभासः ।
जगत्त्रयीसौधविलेपनार्हां
वितेनिरे वर्णसुधामपूर्वाम् ॥ २-९॥
रक्षाविधौ राक्षसदानवानां
कारागृहे कंसनियोगभाजाम् ।
सम्पश्यमाना सकृदीक्षिता वा
सङ्क्षोभयामास मनांसि सैषा ॥ २-१०॥
भुक्ता पुरा येन वसुन्धरा सा
स विश्वभोक्ता मम गर्भभूतः ।
इति ध्रुवं सूचनमाचरन्ती
तत्तादृशं नाटितकं ततान ॥ २-११॥
समाधिसुक्षेत्रकृषीवलानां
सन्तोषसस्योदयमेघकान्त्या ।
चकास तस्याः स्तनचूचुकाभा
गर्भत्विषा गाढमिवानुलिप्ता ॥ २-१२॥
कस्तूरिकाकाम्यरुचिस्तदीया
रम्या बभौ चूचुकरत्नकान्तिः ।
तद्गर्भसन्दर्शनलोलुपाना-
मन्तर्दृशामञ्जनकल्पनेव ॥ २-१३॥
परावरणां प्रभवस्य पुंसः
प्रकाशकत्वं प्रतिपद्यमानाम् ।
अभावयन् भावितचेतसस्तां
विद्यामयीं विश्वपितामहीञ्च ॥ २-१४॥
लिलेख विश्वानि जगन्त्यभिज्ञा
लीलाहृते चित्रपटे यथार्हम् ।
प्रायः प्रजानां पतयः प्रतीताः
यन्मातृकाः स्वेषु विधिष्वभूवन् ॥ २-१५॥
निराशिषां पद्धतिमाददाना
नैःश्रेयसीं नीतिमुपघ्नयन्ती ।
पुण्याशया पूर्वयुगप्ररोह-
मियेष देवी भुवने विधातुम् ॥ २-१६॥
अनाप्तपूर्वं किमपेक्षितं ते
किं वोपदद्यामथवाऽधुनेति ।
(किं भुक्तपूर्वेष्वधुनोपदद्याम् ।)
वयस्यया(ऽ)भावविदाऽनुयुक्ता
न किञ्चिदित्येव जगाद नाथा ॥ २-१७॥
अनादरे देवि सखीजनानां
कथं न दूयेत दया तवेति ।
उपह्वरे संल्लपिता मनोज्ञै-
रालोकनैरुत्तरमाचचक्षे ॥ २-१८॥
अशेत सा काममजातनिद्रा
मातुं प्रवृत्तेव पदानि चक्रे ।
अध्यास्त लोकानवधीरयन्ती
भद्रासनं भावितपारमेष्ठ्या ॥ २-१९॥
परिक्रमप्रेक्षितभाषिताद्यै-
रन्यादृशैराप्तविभावनीयैः ।
मदोपपन्ना मदलालसा वा
जि(जा)तश्रमा वेति जनैः शशङ्के ॥ २-२०॥
शेषे शयानां गरुडेन यान्तीं
पद्मे निषण्णामधिरत्नपीठम् ।
हयाननैराश्रितवन्दिकृत्यां
स्वामाकृतिं स्वप्नदृशा ददर्श ॥ २-२१॥
अन्तःस्थितं यस्य विभोरशेषं
जगन्निवासं दधती तमन्तः ।
तदात्मनो विश्वमपश्यदन्त-
स्तर्कातिगं तादृशमद्भुतं नः ॥ २-२२॥
सुरासुराधीश्वरमौलिघातात्
विशीर्णजाम्बूनदवेत्रशृङ्गम् ।
आलक्ष्यसन्तोषमलक्ष्यमन्यै-
रनीकनेतारमवैक्षताऽऽरात् ॥ २-२३॥
त्रिलोकम(मा)ङ्गल्यनिधेस्त्रिवेद्याः
सञ्जीवनीं वाचमुदीरयन्ती ।
नियोगयोग्यान् अनघप्रसादा
नाकौकसां नामभिराजुहाव ॥ २-२४॥
यदृच्छया यादवधर्मपत्नी
यामाह धर्मेषु परावरेषु ।
अदृष्टपूर्वापरयापि वाचा
प्रतिश्रुता नूनमभावि तस्याः ॥ २- २५॥
क्रियामुपादित्सत विश्वगुप्त्या
कृतापराधेऽपि कृपामकार्षीत् ।
मुनीन्द्रवृत्त्या मुखरीभवन्ती
मुक्तिक्षमां वक्तुमियेष विद्याम् ॥ २-२६॥
सतां चतुर्वर्गफलप्रसूतौ
नारायणे गर्भगते नताङ्गी ।
अभङ्गुरामुन्नतिमाश्रयन्ती
सर्वस्य साऽदित्सत सर्वमेका ॥ २-२७॥
कृशोदरी कार्श्यमतीत्य काले
केनापि धाम्ना कृतवृद्धियोगा ।
परामभिख्यां क्रमशः प्रपेदे
ताराभिनन्द्या तनुरैन्दवीव ॥ २-२८॥
निगूढमन्तर्दधता निविष्टं
पद्मापरिष्कारमणिं प्रभूतम् ।
मध्येन तस्याः प्रचितेन काले
मञ्जूषया रूप्यभुवा बभूवे ॥ २-२९॥
शनैश्शनैस्तामुपचीयमानां
दर्शान्तदीप्तामिव चन्द्रलेखाम् ।
अन्तःस्थकृष्णामवलोकयन्तः
चक्रुश्चकोरायितमात्मनेत्रैः ॥ २-३०॥
मयि स्थिते विश्वगुरौ महीयान्
मा भूत् भुवो भार इतीव मत्वा ।
सखीजनानामवलम्ब्य हस्तान्
सञ्चारलीलां शनकैश्चकार ॥ २-३१॥
मुकुन्दगर्भा मुकुरेषु देवी
नापश्यदात्मानमवाप्तभूषा ।
नाथत्विषा नन्दकदर्पणेना-
दिदृक्षताऽऽत्मानमदृश्यमन्यैः ॥ २-३२॥
स्रजः प्रभूता न शशाक वोढुं
दूरे कथा रत्नविभूषणानाम् ।
भविष्यति क्षोणिभरापनोदे
प्रत्यायनं प्राथमिकं तदासीत् ॥ २-३३॥
दिवौकसो देवकवंशलक्ष्मीं
विलोक्य तां लोकनिधानगर्भाम् ।
विभूतिमग्रेसरवेदवादाः
व्याचख्युरस्या विविधप्रकाराम् ॥ २-३४॥
पतिः ससत्त्वामपि तत्प्रभावा-
ददुःखशीलां समये भवित्रीम्(अवलोक्यदेवीम्)।
सुखैकतानां अवलोक्य देवीं(समये भवित्रीं)
स्वसम्पदं सूचयतीति मेने ॥ २-३५॥
पितृत्वमासाद्य सुरासुराणां
पितामहत्वं प्रतिपत्स्यमानः ।
अनन्तगर्भामवलोक्य देवी-
मतुष्यदन्येषु गताभिलाषः ॥ २-३६॥
तापोपशान्तिं जगतां दिशन्ती
सन्ध्याऽपरा साधुजनप्रतीक्ष्या ।
तामीदृशीं विश्वपितुः प्रसूतिं
संवेदयन्तीव समाजगाम ॥ २-३७॥
सुवर्णपीताम्बरवासिनी सा
स्वधामसञ्छादितसूर्यदीप्तिः ।
उपासनीया जगतां बभासे
मुरद्विषो मूर्तिरिव द्वितीया ॥ २-३८॥
प्रसक्तपातारमाम्बुराशौ
रक्तोरुबिम्बो रविरस्तशैलात् ।
दिनान्तनागेन दृढप्रणुन्नं
मनश्शिलाशृङ्गमिवाबभासे ॥ २-३९॥
निमज्जता वारिनिधौ सवित्रा को
नाम जायेत करग्रहीता ।
तदेति सम्भावनयैव नूनं
(इतीव सम्भावनयाऽन्तरिक्षे)
दूरादुदक्षेपि कराग्रमुच्चैः ॥ २-४०॥
स्फुरत्प्रभाकेसरमर्कबिम्बं
ममज्ज सिन्धौ मकरन्दताम्रम् ।
सन्ध्याकुमार्या गगनाम्बुराशेः
क्रीडाहृतं क्षिप्तमिवारविन्दम् ॥ २-४१॥
फणामणिप्रेक्ष्यखरांशुबिम्बः
सन्ध्यासुपर्णीमवलोक्य भीतः ।
तापाधिको वासरपन्नगेन्द्रः
प्रायेण पातालबिलं विवेश ॥ २-४२॥
प्रदोषरागारुणसूर्यलक्षा-
द्दिशागजो दृप्त इवातिघोरः ।
कालोपनीतं मधुना समेतं
(अभुङ्क्त मन्ये कबलं पयोधिः ॥ २)
मन्ये पयोधिः कबलं न्य(न्व)भुङ्क्त)॥ २-४३॥
तदा तमः प्रोषितचन्द्रसूर्ये
दोषामुखे दूषितसर्वनेत्रम् ।
वियोगिनां शोकमयस्य वह्ने-
राशागतो धूम इवान्वभावि ॥ २-४४॥
सतारपुष्पा धृतपल्लवश्रीः
प्रच्छायनीरन्ध्रतमःप्रताना ।
विश्वाभिनन्द्या ववृधे तदानीं
वैहायसी कापि वसन्तवन्या ॥ २-४५॥
अलक्ष्यत श्यामलमन्तरिक्षं
ताराभिरादर्शितमौक्तिकौघम् ।
निवत्स्यतो विश्वपतेरवन्यां
कालेन भृत्येन कृतं वितानम् ॥ २-४६॥
अभृङ्गनादप्रतिपन्नमौना
निमेषभाजो नियतं(ता)वनस्थाः ।
दूरं गते स्वामिनि पुष्करिण्य-
स्तत्प्राप्तिलाभाय तपो वितेनुः ॥ २-४७॥
निमीलितानां कमलोत्पलानां
निष्पन्नसख्यैरिव चक्रवाकैः ।
विमुक्तभोगैर्विदधे विषण्णै-
र्विबोधवेलावधिको विलापः ॥ २-४८॥
तमिस्रनीलाम्बरसंवृताङ्गी
श्यामा बभौ किञ्चिदतीत्य सन्ध्याम् ।
प्राचीनशैले समयान्निगूढं
समुद्यता चन्द्रमिवाभिसर्तुम् ॥ २-४९॥
निशाकरेण प्रतिपन्नसत्त्वा
निक्षिप्तदेहेव पयोधितल्पे ।
जगत्समीक्ष्या जहती च कार्श्यं
प्राची दिशा पाण्डरतामयासीत् ॥ २-५०॥
तमःप्रसङ्गेन विमुच्यमाना
गौरप्रभा गोत्रभिदाभिनन्द्या ।
विधूदयारम्भविशेषदृश्या
प्राची दिशाऽभासत देवकीव ॥ २-५१॥
अपत्यलाभं यदुवीरपत्न्या
महोदधौ मग्नसमुत्थितेन ।
तद्वंशमान्येन समीक्ष्य पूर्वं
प्राप्तं प्रतीतेन पुरोधसेव ॥ २-५२॥
क्ष्वेलोपमे सन्तमसे निरस्ते
सोमं सुधास्तोममिवोद्वमन्ती ।
दुग्धोदवेलेव दुदोह लक्ष्मी-
माशा मनोज्ञाममरेन्द्रमान्या ॥ २-५३॥
तमस्समाक्रान्तिवशेन पूर्वं
जज्ञे निमग्नैरिव भूतधात्र्याम् ।
ततस्तुषारांशुकरावगूढै-
रुत्तभ्यमानैरिव शैलशृङ्गैः ॥ २-५४॥
दिशस्तदानीमवनीधराणां
सगैरिकैः पारदपङ्कलेपैः ।
चकाशिरे चन्द्रमसो मयूखैः
पञ्चायुधस्येव शरैः प्रदीप्तैः ॥ २-५५॥
समुन्नमन्ती कुटिलायतात्मा
शशाङ्कलेखोदयदृश्यकोटिः ।
वियोगिचेतोलवने प्रवीणा
कामोद्यता काञ्चनशङ्कुलेव ॥ २-५६॥
तमांसि दुर्वारबलः स कालः
प्रायो विलोप्तुं सहसा दिशां च ।
मनांसि कामश्च मनस्विनीनां
प्रायुङ्क्त शैत्याधिकमर्धचन्द्रम् ॥ २-५७॥
करेण सङ्कोचितपुष्करेण
मदप्रतिच्छन्दकलङ्कभूमा ।
क्षिप्त्वा तमश्शैवलमुन्ममज्ज
मग्नो दिशानाग इवेन्दुरब्धेः ॥ २-५८॥
मदोदयाताम्रकपोलभासा
शक्रस्य काष्ठा शशिना चकाशे ।
उदेयुषा व्यञ्जयितुं त्रिलोकीं
नाथस्य सा नाभिरिवाम्बुजेन ॥ २-५९॥
समीपतः सन्तमसाम्बुराशेः
बभार शङ्खाकृतिरिन्दुबिम्बः ।
पित्तोपरागादिव पीतिमानं
दोषाविलप्रोषितदृष्टिदत्तात् ॥ २-६०॥
कृशोदरीलोचनकृष्णलक्ष्मा
रात्र्याः समिद्धोदयराग इन्दुः ।
कस्तूरिकाकुङ्कुमचित्रितात्मा
कर्पूरविन्यास इवान्वभावि ॥ २-६१॥
प्रसादमन्तःकरणस्य दाता
प्रत्यक्षयन् विश्वमिदं प्रकाशैः ।
तमश्च रागं च विधूय चन्द्रः
सम्मो(सन्मो)दनं सत्त्वमिवोल्ललास ॥ २-६२॥
निशाकरो वारिधिनिःस्वनानां
निष्पादकः कुन्दरुचिश्चकाशे ।
उदेष्यतश्चक्रभृतो नियोगात्
प्रादुर्भवन् प्रागिव पाञ्चजन्यः ॥ २-६३॥
मृगेण निष्पन्नमृगाजिनश्रीः
स्वपादविक्षेपमितान्तरिक्षः ।
मुरद्विषो वामनमूर्तिभाजः
पर्यायतामन्वगमच्छशाङ्कः ॥ २-६४॥
जिगाय शङ्खाश्रितशैवलाभ-
श्चारुद्युतेश्चन्द्रमसः कलङ्कः ।
उदीयमानस्य महोर्मियोगात्
सामिच्युतं सागरमूलपङ्कम् ॥ २-६५॥
उदेत्य तुङ्गादुदयाद्रिशृङ्गात्
तमोगजान् अग्रकरेण निघ्नन् ।
निशाकरस्तन्मदलेपलक्ष्मा
सिताभिशुः सिंहदशामयासीत् ॥ २-६६॥
निशीथलक्ष्म्या इव पुण्डरीकं
निर्वेशसिन्धोरिव फेनचक्रम् ।
तमन्ववैक्षन्त विलासतन्त्राः
तारामणीनामिव सूतिशुक्तिम् ॥ २-६७॥
उदारतारागणबुद्बुदौघ-
श्चन्द्रेण सम्पन्नसुधाप्रसूतिः ।
अशेषदृश्यामधिगम्य लक्ष्मी-
मालोकदुग्धोदधिराबभासे ॥ २-६८॥
प्रकाशयन् विश्वमिदं यथावत्
चन्द्रोदयोद्दीपितसौम्यतारः ।
आसीन्निशीथो जगतः प्रभता-
दन्धस्य दैवादिव दृष्टिलाभः ॥ २-६९॥
विशोधिताद्विष्णुपदात् क्षरन्ती
विष्वङ्मुखी सागरवृद्धिहेतोः(तुः)।
तमोमयीं सूर्यसुतां निगीर्य
ज्योत्स्नानदी शोणमपि व्यमुञ्चत् ॥ २-७०॥
प्रियामुखैस्तोयमधु प्रदिष्टं
पीत्वा नवं प्रीत इवाम्बुराशिः ।
समेत्य चन्द्रद्युतिनर्तकीभि-
स्तरङ्गितं ताण्डवमाततान ॥ २-७१॥
कलङ्कचित्रीकृतमिन्दुखण्डं
तमःसमध्यासितसत्त्वकल्पम् ।
अशुष्कशैवालमिवाबभासे
सिद्धापगासैकतमर्धदृश्यम् ॥ २-७२॥
स्वमध्यसम्पन्नविशुद्धधामा
श्यामा च सा देवकनन्दनी च ।
तमः क्षिपन्त्यौ जगतां त्रयाणा-
मन्योन्यसंवादमिवान्वभूताम् ॥ २-७३॥
शाखावकाशेषु कृतप्रवेशै-
श्चन्द्रातपैराश्रितचारकृत्यैः ।
हतावशिष्टानि तमांसि हन्तुं
स्थानं तदाक्रान्तममृग्यतेव ॥ २-७४॥
पराकृतध्वान्तनिकायपङ्कैः
पर्याप्ततारागणफेनपुञ्जैः ।
अशोभत द्यौरसमायुधस्य
यशःप्रवाहैरिव चन्द्रपादैः ॥ २-७५॥
ददानया दिक्सरितां प्रसादं
प्रसक्तहंसागमया स्वकान्त्या ।
अपाकृतध्वान्तघनप्रवृत्त्या
शरत्त्विषा चन्द्रिकया चकाशे (बभासे)॥ २-७६॥
कलावता कामविहारनाट्ये
कालोचितं कल्पयतेव नर्म ।
अमोघमायापलितङ्करण्यः
प्रायो दिशां दीधितयः प्रयुक्ताः ॥ २-७७॥
कदम्बमालाभिरधीतलास्यः
कल्याणसम्भूतिरभूत् प्रजानाम् ।
प्रियोदयस्फीतरुचो रजन्याः
सन्तोषनिःश्वासनिभः समीरः ॥ २-७८॥
प्रयेण हंसैरवधूतसङ्गा
चारुस्मिता सम्भृतभृङ्गनादा ।
सर्वोपभोग्ये समये प्रसुप्तं
कुमुद्वती कोकनदं जहास ॥ २-७९॥
कलङ्कलक्षेण समैक्षि काचित्
कस्तूरिकापत्रविशेषकान्तिः ।
सुधांशुबिम्बव्यपदेशदृश्ये
मुग्धे रजन्या मुखपुण्डरीके ॥ २-८०॥
तलेष्ववेपन्त महीरुहाणां
छायास्तदा मारुतकम्पितानाम् ।
शशाङ्कसिंहेन तमोगजानां
लूनाकृतीनामिव गात्रखण्डाः ॥ २-८१॥
तमस्तरङ्गानवसादयन्त्या
समेयुषी चन्द्रिकया महत्या ।
श्यामा बभौ सान्द्रनवोत्पलश्रीः
सुरस्रवन्त्येव कलिन्दकन्या ॥ २-८२॥
स्वविप्रयोगव्यसनान्निपीतं
भृङ्गापदेशेन कुमुद्वतीभिः ।
सुधाभिराप्लाव्य करस्थिताभिः
प्रच्यावयामास विषं सुधांशुः ॥ २-८३॥
चकाशिरे पत्रकलासमृद्ध्या
व्योमोपमे वारिणि कैरवाणि ।
कलङ्कदृश्यभ्रमराणि काले
स्वनाथ(नाथेन)साधर्म्यमुपागतानि ॥ २-८४॥
(सरिन्मुखैस्तोयमधु प्रदिष्टं
पीत्वा नवं प्रीत इवाम्बुराशिः ।)
सरिन्मुखोपाहृतमम्बुराशिः
पीत्वेव तोयं मधु जातहर्षः ।
चकार चन्द्रप्रतिबिम्बितानां
करग्रहैः कामपि रासलीलाम् ॥ २-८५॥
प्रसादभाजोरुभयोरभता-
मुभावनिर्धार्यमिथोविशेषौ ।
नभःस्थले शीतरुचिः सतारे
सकैरवे तत्प्रतिमा च तोये ॥ २-८६॥
नभस्तुषारांशुमयूखयोगात्
तमिस्रया मोक्षमविन्दतेव ।
अतृष्यतः(अविद्यया)तत्त्वविदो निशाया-
मन्तर्मुखं चित्तमिवात्मयोगात् ॥ २-८७॥
सहोदिता चन्द्रमसा बभासे
ज्योत्स्ना पयोधेरुपजातरागा ।
तदातने सञ्जननेऽपि शौरेः
सहायिनी सागरसम्भवेव ॥ २-८८॥
प्रबुद्धताराकुमुदाब्धिचन्द्रे
निद्राणनिःशेषजने निशीथे ।
स तादृशो देवपतेः प्रसूतिं
पुष्यन् बभौ पुण्यतमो मुहूर्तः ॥ २-८९॥
भागेन पूर्वेण तमोमयेन
प्रकाशपूर्णेन च पश्चिमेन ।
तदा निशीथः स सतां प्रसत्त्यै
संसारमुक्त्योरिव सन्धिरासीत् ॥ २-९०॥
प्रागेव जातेन सितेन धाम्ना
मध्योपलक्ष्येण च माधवेन ।
प्रकामपुण्या वसुदेवपत्न्या
सम्पन्नसाम्येव निशा बभासे ॥ २-९१॥
सह प्रतिच्छन्दशशाङ्कभेदैः
सरस्वतां ताण्डविनस्तरङ्गाः ।
अवेक्ष्य शौरेरवतारवेलां
सन्तोषनिघ्ना इव सम्प्रणेदुः ॥ २-९२॥
अवादितोदीरितवाद्यघोषं (तूर्यनादं)
दिशाभिराम्रेडितदिव्यगीतम् ।
सतामुपस्थापितसत्त्वलास्यं
सङ्गीतमङ्गल्यमभूत् तदानीम् ॥ २-९३॥
प्रदीपितैः कंसगृहेषु दीपै-
स्तापैश्च भावेषु तपोधनानाम् ।
अलभ्यत क्षिप्रमलब्धभङ्गै-
रहेतुनिर्वाणदशानुभूतिः ॥ २-९४॥
अजः स्वजन्मार्हतयाऽनुमेने
यामष्टमीं यादवभावमिच्छन् ।
द्वितीयया भावितयोगनिद्रा
साऽभूत् तदानीं प्रथमा तिथीनाम् ॥ २-९५॥
अथ सितरुचिलग्ने सिद्धपञ्चग्रहोच्चे
व्यजनयदनघानां वैजयन्त्यां जयन्त्याम् ।
निखिलभुवनपद्मक्लेशनिद्रापनुत्यै
दिनकरमनपायं देवकीपूर्वसन्ध्या ॥ २-९६॥
अवतरति मुकुन्दे सम्पदामेककन्दे
सुरभितहरिदन्तां स्वादुमाध्वीकदिग्धाम् ।
अभजत वसुदेवस्थानमानन्दनिघ्नै-
रमरमिथुनहस्तैराहितां पुष्पवृष्टिम् ॥ २-९७॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये श्रीकृष्णावतारवर्णनं नाम द्वितीयः सर्गः ॥
॥ श्रीकृष्णस्य नन्दगृहप्राप्तिवर्णनं नाम तृतीयः सर्गः ३॥
अथ जगन्ति बभूवुरनाविला-
न्यतिमिरा हरितः प्रचकाशिरे ।
अभजदेव निशा दिवसश्रियं
जननभाजिनि देवदिवाकरे ॥ ३-१॥
ननृतुरप्सरसो दिवि नन्दिताः
किमपि गीतमगीयत किन्नरैः ।
श्रुतिसुखैः समतोषयत स्वनै-
रमरदुन्दुभिरानकदुन्दुभिम् ॥ ३-२॥
दशसु तत्र दिशास्वशरीरिणी
जयजयेति बभूव सरस्वती ।
अजितमेकमगोचरयत् स्वयं
स्वरसवृत्तिरसावसुरान्तकम् ॥ ३-३॥
अनतिवेलसमीरणचोदितैः
शिशिरशीकरशीभरिताम्बरैः ।
जलधरैरभितो दिवि दध्वने
सुरगजैरिव सूचितमङ्गलैः ॥ ३-४॥
ववुरथो मरुतस्त्रिदशाङ्गना-
वदनसौरभसारभूतः शुभाः ।
मुदितनिर्जरमुक्तसुरद्रुम-
प्रसववृष्टिमधुद्रवमेदुराः ॥ ३-५॥
मधुरिपोरवतारमहोत्सवे
मुमुदिरे मधुरापुरदेवताः ।
यदभिगन्तरि भक्तजने वरं
ददुरशेषमतन्द्रितचेतसः ॥ ३-६॥
अवदधानधियो मुनयस्तदा
यदनधीतमधीतवदञ्जसा ।
निगमजातमशेषमवेक्ष्य त-
न्निरविशन्निव मुक्तिमयीं दशाम् ॥ ३-७॥
प्रसदनं शरदागमसम्भवं
नभसि मासि नदीभिरुपाददे ।
महितयोगविदां मतिभिः समं
श्रुतिभिरप्यनुपप्लवनीतिभिः ॥ ३-८॥
निखिलचेतनमानसनिःसृताः
कलुषताः समुदे(पे)त्य किल क्षणात् ।
विविशुरम्भ इव स्वयमापगाः
जलनिधेरिव भोजपतेर्मनः ॥ ३-९॥
असुरवीरगृहाणि पृथग्विधै-
रशुभशंसिभिरानशिरे मुहुः ।
अमरराजपुरेषु जजृम्भिरे
शुभनिमित्तशतानि पुनःपुनः ॥ ३-१०॥
चरमतश्च ऋणादिव देवकीपति-
रमुच्यत शृङ्खलतः स्थिरात् ।
निखिलबन्धनिवर्तकसन्निधौ
विगलनं निगलस्य किमद्भुतम् ॥ ३-११॥
उदितमात्मनि देवकसम्भवा
दनुजभेदनमङ्कगतं दधौ ।
कमपि काञ्चनभूभृदधित्यका
हरिहयोपलशृङ्गमिवाद्भुतम् ॥ ३-१२॥
विधृतशङ्खरथाङ्गगदाम्बुजः
शबलितः शुभया वनमालया ।
पितुरसूत मुदं पृथुकस्तदा
जलधिडिम्भनिभो जननीधृतः ॥ ३-१३॥
पितरमब्जभुवामनपायिनं
प्रियतमाङ्कगतं परिपश्यता ।
स विभुरानकदुन्दुभिना महान्
अवितथैः स्वगुणैरभितुष्टुवे ॥ ३-१४॥
प्रणिपतामि भवन्तमनन्यधी-
रखिलकारणमाश्रिततारणम् ।
अनुगमादनिदम्प्रथमा गिरः
किमपि यत्पदमेकमधीयते ॥ ३-१५॥
विषमकर्मविपाकपरम्परा-
विवशवृत्तिषु देहिषु दुस्तरम् ।
करुणया तव देव कटाक्षिताः
कतिचिदेव तरन्ति भवार्णवम् ॥ ३-१६॥
त्वदनुभावमहोदधिशीकरै-
रवशपातिभिराहितशक्तयः ।
अवधिभेदवतीमुपभुञ्जते
स्वपदसम्पदमब्जभवादयः ॥ ३-१७॥
श्रुतिकिरीटशुभाश्रयविग्रहः
परमसत्त्वनिधिः प्रतिपद्यसे ।
जगदनुग्रहमारुतचोदितो
विविधरूपतरङ्गविकल्पनाम् ॥ ३-१८॥
त्वयि न देव यदायतते न त-
ज्जगति जङ्गममन्यदथापि वा ।
इति महिम्नि तव प्रमिते परं
विभजने विविधैः स्थितमागमैः ॥ ३-१९॥
अखिललोकपितुस्तव पुत्रता-
महमयाचमनन्यमनोरथः ।
वरद वाञ्छितदानधृतव्रते
त्वयि तदेवमयत्नमपच्यत ॥ ३-२०॥
अवनिभारनिराकरणार्थिनां
क्रतुभुजामभिलाषमवन्ध्ययन् ।
जितरिपूणि बहूनि दयानिधे
विहरणानि विधातुमिहार्हसि ॥ ३-२१॥
दनुजमोहनदोहलिना त्वया
सहजलाञ्छनसंवरणं क्षमम् ।
तदधुना शमयन् मम साध्वसं
यवनिकामधिगच्छ यथेप्सितम् ॥ ३-२२॥
इति सभीतमवेक्ष्य दयानिधिः
स्मितमुखो वसुदेवमभाषत ।
त्वमसि मे जनकः किमिहान्यथा
किमपि तात मुधा कथितं त्वया ॥ ३-२३॥
इयममर्त्यपितुस्तव गेहिनी
दिविषदां जननी मम चानघा ।
अभिमतं युवयोरनवग्रहं
समयभावि मयैव समर्थ्यते ॥ ३-२४॥
यदि बिभेषि भजामि मनुष्यता-
मथ च मां नय नन्दगृहं क्षणात् ।
दुहितरं च समानय तस्य तां
गतभयो भव दूरगते मयि ॥ ३-२५॥
अथ निशम्य नियोगमभङ्गुरं
मधुजितो मधुराक्षरमन्थरम् ।
हितमिदं प्रतिपद्य तमाददे
गुरुतरं कृपया लघुतां गतम् ॥ ३-२६॥
तुहिनभानुदिवाकरलोचनं
निगमनिःश्वसितं स्वसुतस्य तत् ।
अनुबभूव मुहुर्मुहुरादरा-
दनघमाननमानकदुन्दुभिः ॥ ३-२७॥
श्रुतिसुगन्धितदाननचन्द्रिका-
मुषितमोहतमा मुनिसन्निभः ।
अधिजगाम स तन्मयतां क्षणा-
दनिमिषत्वमुत प्रतिसन्दधे ॥ ३-२८॥
जिगमिषुः स दिशो दश यादवः
सकृदवैक्षत साध्वसविह्वलः ।
अनघवैभवमर्भकमुद्वहन्
अमितगुप्तिनिरुद्धगतौ गृहे ॥ ३-२९॥
विजघटे सहसैव कवाटिका
व्रजमथ व्रजतो यदुभूभृतः ।
उपलकल्पमशेरत रक्षकाः
सरणिमादिदिशुर्गृहदेवताः ॥ ३-३०॥
क्षरदसूनिव यामिकरक्षकान्
मुषितमञ्जुगिरः शुकशारिकाः ।
यदुकुलेन्दुरपश्यदमीलितान्
परिजनानपि चित्रगतानिव ॥ ३-३१॥
उपयतो विशिखां सदनान्तरात्
कुवलयाभकुमारतनुत्विषा ।
शतमखोपलमेचकया द्रुतं
शमितसन्तमसा हरितो बभुः ॥ ३-३२॥
श्रुतिमयो विहगः परितः प्रभुं
व्यचरदाशु विधूतनिशाचरः ।
अनुजगाम च भूधरपन्नगः
स्फुटफणामणिदीपगणोद्वहः ॥ ३-३३॥
दिनकरोपमदीधितिभिस्तदा
दनुजदेहविदारणदारुणैः ।
परिगतः किल पञ्चभिरायुधै-
र्यदुपतिः प्रजहावसहायताम् ॥ ३-३४॥
प्रगुणमिन्दुनिवेदितपद्धति-
र्यदुकुलेन्दुरथो यमुनानदीम् ।
परमपूरुषमक्षतपौरुषः
पतगराज इवाशु वहन् ययौ ॥ ३-३५॥
तनुतरङ्गपृषत्कणशीतलः
सुरभिकैरवसौहृदवासितः ।
अभिसमेतमसेवत मारुतो
यमुनया प्रहितो यदुपुङ्गवम् ॥ ३-३६॥
पवनकम्पितपल्लवपाणिका
प्रहितपुष्पभरा पदवीमुखे ।
उपजुहाव किल भ्रमरस्वनै-
र्यदुपतिं यमुनोपवनस्थली ॥ ३-३७॥
निमिषितासितनीरजलोचना
मुकुलिताब्जमुखी सवितुः सुता ।
ललितदीनरथाङ्गयुगस्वना
कुहकदैन्यमशोचदिव प्रभोः ॥ ३-३८॥
विकचकैरवतारकिताकृतिं
तनुमतीमिव शारदयामिनीम् ।
त्वरितमम्बुनिधेरभिसारिकां
तरितुमैहत सत्यसमीहितः ॥ ३-३९॥
भवति किं नु भविष्यति वा किमि-
त्यनवधारितशौरिविहारया ।
चकितयेव विरोचनकन्यया
विधुतवीचिकरं किल विव्यथे ॥ ३-४०॥
घनतमःपरिपाकमलीमसै-
र्गुरुभिरूर्मिगणैरनुपप्लुतः ।
अतिततार दिनाधिपतेः सुता-
मनघयोगमना इव संसृतिम् ॥ ३-४१॥
यदुपतेर्यमुना त्वरितं यतः
प्रतियतश्च समर्पितपद्धतिः ।
स्वयममर्त्यमदावलमज्जनी
चरणलङ्घ्यजला समजायत ॥ ३-४२॥
अजनि पश्चिमतो भृशमुन्नता
रविसुता पुरतः स्थलशेषिता ।
अधिरुरोह पदं किमसौ हरेः
प्रतिययौ यदि वा पितरं गिरिम् ॥ ३-४३॥
अकृतसेतुमनाकलितप्लवां
जननसिन्धुदृढप्लवमुद्वहन् ।
रविसुतामतिलङ्घ्य रमापतिं
सपदि घोषसमीपमुपानयत् ॥ ३-४४॥
अथ कयाचन कारणनिद्रया
विवशसुप्तजनं व्रजमाविशत् ।
धनदपत्तनसम्पदि यत्र सा
स्वसुतमग्र्यमसूयत रोहिणी ॥ ३-४५॥
उपगते वसुदेवसुतेऽन्तिकं
नरकवैरिणि नन्दकुटुम्बिनी ।
अरणिसम्भवपावकसङ्गमा-
दभजताध्वरवेदिरिव श्रियम् ॥ ३-४६॥
न्यधित नन्दवधूसविधे सुतं
द्रतमुपादित गोपकुमारिकाम् ।
अथ निनाय च देवकनन्दनी-
शयनमानकदुन्दुभिराशु ताम् ॥ ३-४७॥
अनवबुद्धजनार्दनकन्यका
विनिमयस्त्वथ भोजगणेश्वरः ।
दृषदि तामभिहन्तुमपातयत्
प्रतिजघान च सा चरणेन तम् ॥ ३-४८॥
नृपतिराशु पदा निहतस्तया
निपतितोदितकन्तु(न्दु)कवद्भवन् ।
दवसमादृतशैलनिभः क्रुधा
दरनिमीलितदृष्टिरदूयत ॥ ३-४९॥
उदपतत् दिवमुग्रघनस्वना
युवतिरूपयुगात्ययशर्वरी ।
असुरघातिभिरष्टभिरायुधै-
रलघुभिश्चपलाभिरिवाश्रिता ॥ ३-५०॥
अथ च भोजनियन्तुरयन्त्रिता
दनुजहन्तुरुदन्तमुदैरिरत् ।
पटु गभीरमुदारमनाकुलं
हितमविस्तरमर्थ्यमविप्लवम् ॥ ३-५१॥
अहमशेषसुरासुरमोहनी
यवनिका मधुकैटभमर्दिनः ।
प्रबलशुम्भनिशुम्भनिषूदने
प्रणिहिता हतया तव किं मया ॥ ३-५२॥
वसति नन्दगृहे विबुधद्विषां
दमयिता वसुदेवसमुद्भवः ।
अयमसौ तव नाशयितेति सा
दरमुदीर्य जगाम यथेप्सितम् ॥ ३-५३॥
मधुहिरण्यनिभो मधुरापति-
र्दिनहुताशनदीनदशां गतः ।
श्वसितजल्पितवेपितहुङ्कृतै-
ररतिमायतभीतिरसूचयत् ॥ ३-५४॥
जडमतिः स जनार्दनमायया
विहसितस्त्रपया जनितव्यथः ।
अपकृतं वसुदेवममोचयत्
दयितया सह दीनविलापया ॥ ३-५५॥
किमपि चिन्तितमागतमन्यथा
किमिदमित्यवशादुपजातया ।
विषविदूषितयेव मनीषया
मुहुरदूयत मोहविचेष्टितः ॥ ३-५६॥
अविषये विपदामसुरान्तके
पुनरियेष निकारपस्म्पराम् ।
नियतिरेकमुखी दुरतिक्रमा
कृतधिया किमुताऽऽविलचेतसा ॥ ३-५७॥
परिबभूव चुकोप विसिष्मिये
परिजहास हरिं प्रजगर्ज च ।
परिणतेन भवान्तरवासना-
ऽऽग्रहगुणेन भजन् भवितव्यताम् ॥ ३-५८॥
क्वचन धामनि कंसनिवेदिते
सभयमानकदुन्दुभिरावसत् ।
स्मृतिगतेन सुतेन सजीविता
दिनशतानि निनाय च देवकी ॥ ३-५९॥
विगतकन्यकया च यशोदया
नियतिसम्भृतनिर्भरनिद्रया ।
चिरसमागतजागरयाऽन्तिके
हरिरपत्यमदृश्यत धन्यया ॥ ३-६०॥
यदवबुद्धनिराकुलनीतिभि-
र्मुनिगणैरधुनाऽपि विमृग्यते ।
तदिदमागममौलिविभूषणं
विधिवशादभवत् व्रजभूषणम् ॥ ३-६१॥
अनघवत्समनाकुलधेनुकं
प्रचुरदुग्धमचोरभयोद्भवम् ।
व्रजमनामयविश्वजनं विभुः
कृतयुगास्पदकल्पमकल्पयत् ॥ ३-६२॥
अजनि गोपगृहेषु मनोरमै-
रमितकान्तिभिरप्सरसां गणैः ।
यदनुभूतिरसेन समेष्यतः
शरणयादवशैशवयौवने ॥ ३-६३॥
सुरमहीसुरतोषणमादरात्
नवमुपादित नन्द उदारधीः ।
तरलगोपगणागमसङ्कुलं
तनयजन्ममहोत्सवमद्भुतम् ॥ ३-६४॥
अधिचकार वदान्यमणेः श्रियं
व्यधित कल्पतरोरनुकल्पताम् ।
अ(व्य)जनयच्च सुतप्रसवोत्सवे
महति मेघविकत्थनमोघताम् ॥ ३-६५॥
निधिमनन्तमिव स्वयमुत्थितं
निरवधिं निजभागमिवोदितम् ।
व्रजभुवः प्रतिलभ्य रमापतिं
जहसुरैन्द्रमसारतरं पदम् ॥ ३-६६॥
पुत्रं प्रसूय तपसा पुरुषं पुराणं
कालं चिरं विधिवशात् कृतविप्रकर्षौ ।
शङ्काकलङ्कितधियावपि दम्पती तौ
तद्वैभवस्मरणशान्तरुजावभूताम् ॥ ३-६७॥
नन्दसद्मनि नवेन्दुसन्निभौ
वासमेत्य वसुदेवनन्दनौ ।
वृद्धिमापतुरनेहसा स्वयं
स्वादुभोगजननीं सुपर्वणाम् ॥ ३-६८॥
॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये श्रीकृष्णस्य नन्दगृहप्राप्तिवर्णनं नाम तृतीयः सर्गः ॥
॥ काव्यरत्ने निर्बाधगोचारणं नाम चतुर्थः सर्गः ४॥
मनीषितं कैतवमानुषस्य
श्रुत्वा भयक्रोधपरिप्लुतात्मा ।
कंसश्चिरं प्राग्भवकालनेमि-
श्चिन्तार्णवे मग्न इवावतस्थे ॥ ४-१॥
स दुर्दमान् आसुरसत्त्वभेदान्
नेता समाहूय नृशंसचेताः ।
प्रस्थापयामास परैरधृष्यं
नन्दास्पदं नाथविहारगुप्तम् ॥ ४-२॥
कदाचिदन्तर्हितपूतनात्मा
कंसप्रयुक्ता किल कापि माया ।
निद्रापराधीनजने निशीथे
व्रजं यशोदाकृतिराविवेश ॥ ४-३॥
स्तन्येन कृष्णः सह पूतनायाः
प्राणान् पपौ लुप्तपुनर्भवायाः ।
यदद्भुतं भावयतां जनानां
स्तनन्धयत्वं न पुनर्बभूव ॥ ४-४॥
निशम्य तस्याः परुषं निनादं
रूक्षं यशोदा रुदितं च सूनोः ।
ससम्भ्रमावेगमुपेत्य भीता
तमग्रहीद् दुर्ग्रहमागमानाम् ॥ ४-५॥
नन्दश्च तीव्रेण भयेन सद्यः
समेत्य पश्यन् अनघं कुमारम् ।
तेनैव तस्य त्रिजगन्नियन्तुः
प्रायुङ्क्त रक्षां परमार्थवेदी ॥ ४-६॥
गोपाश्च सम्भूय गुहोपमाक्षीं
स्वघोषनिर्हादितविश्वघोषाम् ।
गतासुमैक्षन्त निशाचरीं तां
भीमाकृतिं भै(भी)मरथीमिवान्याम् ॥ ४-७॥
परश्वधैस्तत्क्षणशातितैस्तां
विच्छिद्य विन्ध्याचलसानुकल्पाम् ।
अनःप्रवृत्त्या बहिराशु निन्युः
क्रव्याद्बलिं प्राज्यमिव क्षिपन्तः ॥ ४-८॥
ग्रहादिदोषान् अपहन्तुकामा
गोप्तुः सतां गोपतयः समेताः ।
सुवर्णसूत्रग्रथिताभिरामां
पञ्चायुधीमाभरणं बबन्धुः ॥ ४-९॥
रम्याणि रत्नानि रथाङ्गपाणे-
राकल्पतां नूनमवाप्नुवन्ति ।
तदङ्गसंस्पर्शरसात् प्रकामं
रोमाञ्चितान्यंशुगणैरभूवन् ॥ ४-१०॥
स शायितः क्षेमविदा जनन्या
पर्यङ्किकायां प्ररुदन् कुमारः ।
चिक्षेप तुङ्गं शकटं पदाभ्यां
गाढाभिघातेन गिरीन्द्रसारम् ॥ ४-११॥
विदारितस्तस्य पदाग्रयोगात्
विकीर्यमाणो बहुधा पृथिव्याम् ।
शब्दायमानः शकटाख्यदैत्यः
सङ्क्षोभयामास जगन्त्यभीक्ष्णम् ॥ ४-१२॥
यदृच्छयोत्क्षिप्तपदे कुमारे
शैलोपलक्ष्ये शकटे निरस्ते ।
सरोजगर्भोपमसौकुमार्यं
पस्पर्श तत्पादतलं यशोदा ॥ ४-१३॥
अथाङ्गणे जानुपदाग्रहस्तै-
श्चक्रायुधे चङ्क्रमणप्रवृत्ते ।
प्रायो धरित्री परिषस्वजे तं
सापत्रपा सान्द्ररजश्छलेन ॥ ४-१४॥
निर्व्याजमन्दस्मितदर्शनीयं
नीराजितं कुण्डलरत्नभासा ।
नन्दस्तदानीं न जगाम तृप्तिं
मुग्धाक्षरं प्रेक्ष्य प्रेक्ष्य मुखं तदीयम् ॥ ४-१५॥
विश्वानि विश्वाधिकशक्तिरेको
नामानि रूपाणि च निर्मिमाणः ।
नामैकदेशग्रहणेऽपि मातु-
र्बभूव कृष्णो बहुमानपात्रम् ॥ ४-१६॥
तरङ्गितानुश्रवगन्धमादौ
तस्याद्भुतं संलपितं सखीभिः ।
वर्णस्वरादिव्यवसायभूम्ना
शिक्षाविदां शिक्षणमग्र्यमासीत् ॥ ४-१७॥
तमीषदुत्थाय निलीनमारात्
सम्प्रेक्ष्यदन्ताङ्कुरचारुहासम् ।
सनातनीं दृष्टिमनन्यदृष्टिः
सानन्दमालोकत नन्दपत्नी ॥ ४-१८॥
पदैस्त्रिभिः क्रान्तजगत्त्रयं तं
भव्याशया भावितबालभावम् ।
करेण सङ्गृह्य कराम्बुजाग्रं
सञ्चारयामास शनैर्यशोदा ॥ ४-१९॥
स्खलद्गतिं द्वित्रपदप्रचारात्
जानुक्रमे जातरुचिं कुमारम् ।
भुग्ने समावेश्य वलग्नभागे
स्तन्यं मुदा पाययते स्म धन्या ॥ ४-२०॥
क्रमेण भूयोऽपि विहारकाङ्क्षी
नन्दस्य दारैरभिनन्द्यमानः ।
नित्यानुभूतं निगमान्तभृङ्गै-
र्निजं पदाब्जं निदधे पृथिव्याम् ॥ ४-२१॥
स सञ्चरन् साधुजनप्रतीपै-
र्मा भुज्यतां सेयमितीव मत्वा ।
चक्रादिभिः पादसरोजचिह्नै-
रामुद्रयामास महीमनन्यैः ॥ ४-२२॥
आलम्ब्य मातुः करपल्लवाग्रं
शनैः शनैः सञ्चरतो मुरारेः ।
बभार चित्रामिव पत्ररेखां
धन्या पदन्यासमयीं धरित्री ॥ ४-२३॥
अकर्मनिघ्नो भुवनान्यजस्रं
सङ्कल्पलेशेन नियम्य दीव्यन् ।
प्रचारितः प्रस्नुतया जनन्या
पदेपदे विश्रममाचकाङ्क्ष ॥ ४-२४॥
सुरप्रसूनैः सुरभीकृताना-
मारोहणान्यङ्गणवेदिकानाम् ।
तमारुरुक्षुं तरलाङ्घ्रिपद्मं
धातारमारोहयदाशु धात्री ॥ ४-२५॥
तलेषु तस्याङ्गणपादपानां
तालानुकूलेषु गतागतेषु ।
व्रजस्थिताः स्वर्गसदामशृण्वन्
दूरोदितान् दुन्दुभितूर्यनादान् ॥ ४-२६॥
य एष लोकत्रयसूत्रधारः
पर्यायपात्राणि चराचराणि ।
आनर्तयत्यद्भुतचेष्टितोऽसौ
ननर्त खेलं(लन्)नवनीतकाङ्क्षी ॥ ४-२७॥
गृहेषु दध्नो मथनप्रवृत्तौ
पृषत्कणैरुत्पतितैः प्रकीर्णः ।
निदर्शयामास निजामवस्थां
प्राचीं सुधाशीकरयोगचित्राम् ॥ ४-२८॥
त्रस्यन् मुकुन्दो नवनीतचौर्यात्
निर्भुग्नगात्रो निभृतं शयानः ।
निजानि निःशब्ददशां ययाचे
बद्ध्वाञ्जलिं बालविभूषणानि ॥ ४-२९॥
आरण्यकानां प्रभवः फलाना-
मरण्यजातानि फलान्यभीप्सन् ।
विस्रंसिधान्याञ्जलिना करेण
व्याधात्मजां विश्वपतिः सिषेवे ॥ ४-३०॥
सुजातरेखात्मकशङ्खचक्रं
ताम्रोदरं तस्य करारविन्दम् ।
विलोकयन्त्याः फलविक्रय(यि)ण्या
विक्रेतुमात्मानमभूद्विमर्शः ॥ ४-३१॥
अ(आ)पूरयत् स्वादुफलार्पणेन
क्रीडाशिशोर्हस्तपुटं किराती ।
रत्नैस्तदा कौस्तुभनिर्विशेषै-
रापूरितं तत्फलभाण्डमासीत् ॥ ४-३२॥
मुहुः प्रवृत्तं नवनीतचौर्ये
वत्सान् विमुञ्चन्तमदोहकाले ।
उलूखले कुत्रचिदात्तपुण्ये
बन्धुं सतां बन्धुमियेष माता ॥ ४-३३॥
आनीतमग्रे निजबन्धनार्थं
दामाखिलं संहितमप्यपूर्णम् ।
निरीक्ष्य निर्विण्णधियो जनन्याः
सङ्कोचशक्त्या स बभूव बन्ध्यः ॥ ४-३४॥
बद्धं तथा भावयतां मुकुन्द-
मयत्नविच्छेदिनि कर्मबन्धे ।
तपस्विनी तत्क्रतुनीतिराद्या
सव्रीडमारण्यकथासु तस्थौ ॥ ४-३५॥
उलूखले प्रग्रथितेन दाम्ना
निबद्धमास्राविललोलनेत्रम् ।
सहासमैक्षन्त जनाः समन्ता-
दालानितं नागमिवानभिज्ञाः ॥ ४-३६॥
अनादराकृष्टमुलूखलं तत्
यावर्जुनौ शैलनिभौ बभञ्ज ।
बभूवतुर्ब्रह्मसुतस्य शापा-
न्मुक्तौ मुनेर्यक्षवरौ तदा तौ ॥ ४-३७॥
शापावधिं ब्रह्मसुतेन दत्तं
सम्प्राप्य तौ शौरिसमागमेन ।
देहेन दिव्येन विदीप्यमानौ
स्तुत्वा हरिं धाम समीयतुः स्वम् ॥ ४-३८॥
अदृष्टपूर्वं भुवि पूतनादे-
रुदन्तमुत्पातमुदीक्षमाणाः ।
समेत्य गोपाः सह माधवेन
वृन्दावनं सत्वरमभ्यगच्छन् ॥ ४-३९॥
येनौषधीनामधिपं पुरस्ता-
दाह्लादहेतुं जगतामकार्षीत् ।
तेनैव दध्यौ मनसा वनं तत्
कृष्णो गवां क्षेमसमृद्धिमिच्छन् ॥ ४-४०॥
अनुग्रहाब्धेरिव वीचिभेदै-
राप्याययामास शुभैरपाङ्गैः ।
वनं पृथिव्या इव यौवनं तत्
गोप्ता सतां गोधनवंशचन्द्रः ॥ ४-४१॥
आसीन्निषेव्या पृथिवी पशूनां
पुण्ड्रेक्षुरम्याणि तृणान्यभूवन् ।
तस्मिन्नरण्ये तरुभिः प्रपेदे
कल्पद्रुमाणामनुकल्पभावः ॥ ४-४२॥
अदृष्टपूर्वैरधिकां विशेषै-
रालक्ष्य वन्याममरेन्द्रमान्याम् ।
नन्दोपनन्दप्रमुखैर्ननन्दे
नाकाधिरूढैरिव नाथभूम्ना ॥ ४-४३॥
दैत्यैस्तृणावर्तमुखैरयत्ना-
न्मुहुर्निरस्तैर्मुदितो मुकुन्दः ।
अभुङ्क्त रामेण सहाद्भुतं तत्
पुण्यं वनं पुण्यजनेन्द्रमान्यम् ॥ ४-४४॥
सपक्षकैलासनिभस्य गोपा
बकस्य पक्षान् अभितो बबन्धुः ।
वने तदन्यानपि घोरवृत्तीन्
क्षेप्तुं प्रवृत्ता इव केतुमालाः ॥ ४-४५॥
पुरस्कृतं मङ्गलगीतवाद्यैः
पंउसः प्रसत्त्यै जगतां प्रसूतेः ।
कयाऽपि तत्र स्पृहयाऽन्वतिष्ठन्
कन्याव्रतं किञ्चन गोपकन्याः ॥ ४-४६॥
निशात्यय(ये)स्नानसमुद्यतानां
निक्षिप्तमाभीरकिशोरिकाणाम् ।
कूलादुपादाय दुकूलजालं
कुन्दाधिरूढो मुमुदे मुकुन्दः ॥ ४-४७॥
स चैकहस्तप्रणतिं विधून्वन्
क्षौमार्थिनीनां हरिरङ्गनानाम् ।
अन्योन्यहस्तार्पणसम्प्रवृत्त-
मासां जहासाञ्जलिमप्यपूर्वम् ॥ ४-४८॥
स चाऽऽत्मचण्डातकमात्रभाजां
क्षौमार्थिनीनां स्वयमर्थ्यमानैः ।
अनन्यहस्तार्पणसम्प्रवृत्तै-
स्तासां जहासाञ्जलिभिस्तदीयैः ॥ ४-४९॥
प्रसुप्तमुद्बोधयता परत्वं
वीरश्रियो विभ्रममण्डनेन ।
नीलादिनिर्वेशनिधानधाम्ना
नाथो बभासे नवयौवनेन(वयसा नवेन)॥ ४-५०॥
विहारपर्वक्रमचारु शौरेः
कल्यं वयः कामगृहीतियोग्यम् ।
मनोभिरास्वाद्यतमं प्रपेदे
माधुर्यमिक्षोरिव मध्यभागः ॥ ४-५१॥
समाश्रितां विभ्रमसैन्यभेदैः
कान्त्या स्वया कल्पितचारुवप्राम् ।
व्रजस्त्रियः कृष्णमयीं व्यजानन्
क्रीडार्गलां क्षेमपुरीमपूर्वाम् ॥ ४-५२॥
वंशस्वनो वत्सविहारपांसुः
सन्ध्यागमस्तस्य च वन्यवेषः ।
आयाति कृष्णे व्रजसुन्दरीणा-
मासीच्चतुःस्कन्धमनङ्गसैन्यम् ॥ ४-५३॥
अनुश्रवाणामवतंसभूतं
बर्हावतंसेन विभूषयन्ती ।
अदिव्यया चर्मदृशैव गोपी
समाधिभाजामभजत् समाधिम् ॥ ४-५४॥
कलापिनां कल्पितमाल्यभावैः
पत्रैस्तदा पत्रलदेहकान्तिम् ।
अवाप्य सञ्चारितमालमाद्यं
छायात्मतां प्रापुरिवास्य गावः ॥ ४-५५॥
वितन्वता मान्मथमिन्द्रजालं
पिञ्छेन तापिञ्छनिभो बभासे ।
अनेकरत्नप्रभवेन धाम्ना
शारात्मना शैल इवैन्द्रनीलः ॥ ४-५६॥
मुहुः स्पृशन्ती मुमुदे यशोदा
मुग्धाङ्गनामोहनवांशिकेन ।
मनीषिणां माङ्गलिकेन यूना
मौलौ धृतां मण्डनबर्हमालाम् ॥ ४-५७॥
कृतास्पदा कृष्णभुजान्तराले
प्रालम्बबर्हावलिराबभासे ।
विशुद्धहेमद्युतिरब्धिकन्या
श्यामायमानेव तदङ्गकान्त्या ॥ ४-५८॥
साचीकृतानि प्रणयत्रपाभ्यां
व्यावृत्तराजीवनिभानि शौरिः ।
सभ्रूविलासानि ददर्श तासां
वक्त्राणि वाचालविलोचनानि ॥ ४-५९॥
निरङ्कुशस्नेहरसानुविद्धान्
निष्पन्दमन्दालसनिर्निमेषान् ।
वंशेन कृष्णः प्रतिसम्बभाषे
वार्ताहरान् वामदृशां कटाक्षान् ॥ ४-६०॥
अशिक्षितं तुम्बुरुनारदाद्यै-
राभीरनाट्यं नवमास्थितेन ।
जगे सलीलं जगदेकधाम्ना
रागाब्धिना रञ्जयतेव विश्वम् ॥ ४-६१॥
अपत्रपासैकतमाश्रितानां
रागोदधौ कृष्णमुखेन्दुनुन्ने ।
हस्तावलम्बो न बभूव तासा-
मुत्पक्ष्मणामुत्कलिकाप्लुतानाम् ॥ ४-६२॥
अयन्त्रितस्वैरगतिः स तासां
सम्भावितानां करपुष्करेण ।
प्रस्विन्नगण्डः प्रणयी चकाशे
मध्ये वशानामिव वारणेन्द्रः ॥ ४-६३॥
विमोहने वल्लवगेहिनीनां
न ब्रह्मचर्यं बिभिदे तदीयम् ।
सम्पत्स्यते बालकजीवनं तत्
सत्येन येनैव सतां समक्षम् ॥ ४-६४॥
स्वसम्भवं कृष्णमवेक्षमाणो
बन्धुप्रसूतं च बलं व्रजेशः ।
निसर्गमैत्र्या नियतैकभावौ
न्ययुङ्क्त तौ वत्सकुलानि गोप्तुम् ॥ ४-६५॥
अनन्यतन्त्रः स्वयमेव देवान्
पद्मासनादीन् प्रजनय्य रक्षन् ।
स रक्षकः सीरभृता सहाऽऽसीत्
नेता गवां नन्दनियोगवर्ती ॥ ४-६६॥
कथं व्रजेच्छर्करिलान् प्रदेशान्
पद्भ्यामसौ पल्लवकोमलाभ्याम् ।
इति स्नुतस्तन्यरसा यशोदा
चिन्तार्णवे न प्लवमन्वविन्दत् ॥ ४-६७॥
विहारवित्रासितदुष्टसत्त्वौ
मृगेन्द्रपोताविव धीरचेष्टौ ।
बभूवतुः शाश्वतिकेन भूम्ना
बालौ युवानाविव तौ बलाढ्यौ ॥ ४-६८॥
सिन्दूरितौ वत्सपरागजालैः
सितासितौ बालगजाविव द्वौ ।
उदारलीलावुपलक्ष्य गोप्यः
सर्वास्तदाऽनन्यवशा बभूवुः ॥ ४-६९॥
गोपायमाने षुरुषे परस्मिन्
गोरूपतां वेदगिरो भजन्त्यः ।
भव्यैरसेवन्त पदं तदीयं
स्तोभप्रतिच्छन्दनिभैः स्वशब्दैः ॥ ४-७०॥
अबालिशो बालिशवत् प्रजानां
प्रख्यापयन् आत्मनि पारतन्त्र्यम् ।
न्यदर्शयत् विश्वपतिः पशूनां
बन्धे च मोक्षे च निजं प्रभुत्वम् ॥ ४-७१॥
आत्मोपमर्देऽप्यनुमोदमाना-
दात्माधिकं पालयतश्च वत्सान् ।
गावस्तदानीमनघामविन्दन्
वात्सल्यशिक्षामिव वासुदेवात् ॥ ४-७२॥
योऽसावनन्तप्रमुखैरनन्तै-
र्निर्विश्यते नित्यमनन्तभूमा ।
वैमानिकानां प्रथमः स देवो
वत्सैरलेलिह्यत वत्सलात्मा ॥ ४-७३॥
महीयसा मण्डितपाणिपद्मं
दध्यन्नसारेण मधुप्लुतेन ।
दृष्ट्वा ननन्दुः क्षुधयाऽन्वितास्तं
वत्सानुचर्यासु वयस्यगोपाः ॥ ४-७४॥
स्वादूनि वन्यानि फलानि तैस्तैः
स्निग्धैरुपानीय निदर्शितानि ।
रामाय पूर्वं प्रतिपाद्य शेषैः
स पिप्रिये सादरभुज्यमानैः ॥ ४-७५॥
ताभ्यां तदा नन्दनिदेशिताभ्यां
रक्षावतीं रामजनार्दनाभ्याम् ।
विशेषभोग्यामभजत् विभूतिं
वृन्दावनं व्यापृतधेनुवृन्दम् ॥ ४-७६॥
अगाधकासारमहीनशष्प-
मतीक्ष्णसूर्यं तदचण्डवातम् ।
प्रच्छायनिद्रायितधेनुवत्सं
प्रौढे निदाघेऽपि बभूव भोग्यम् ॥ ४-७७॥
न व्याधिपीडा न च दैत्यशङ्का
नासीत् गवां व्याघ्रभयं च तस्मिन् ।
स्वबाहुकल्पेन बलेन सार्धं
नारायणे रक्षति नन्दलक्षमीम् ॥ ४-७८॥
निरीतयस्ते निरपायवाञ्छाः
निःश्रेयसादप्यधिकप्रमोदाः ।
प्रपेदिरेऽपूर्वयुगानुभूतिं
गोपास्तदा गोप्तरि वासुदेवे ॥ ४-७९॥
वत्सानुचर्याचतुरस्य काले
वंशस्वनैः कर्ण(श्रोत्र)सुधां विधातुः ।
गतागतप्राणदशामविन्दन्
गोपीजनास्तस्य गतागतेषु ॥ ४-८०॥
आघ्रातवर्त्मानमरण्यभागे-
ष्वारण्यकैराश्रितधेनुभावैः ।
केनापि तस्यापहृतं किरीटं
प्रत्याहरन् प्रैक्षत पत्रिनाथः ॥ ४-८१॥
देवस्य दुग्धोदशयस्य दैत्या-
द्वैरोचनाद्व्यालभुजोपनीतः ।
कृष्णस्य मौलौ कृतबर्हचूडे
न्यस्तः किरीटो निबिडीबभूव ॥ ४-८२॥
समाहितैरग्निषु यायजूकै-
राधीयमानानि हवींषि भोक्ता ।
भक्तैकलभ्यो भगवान् कदाचित्
पत्नीभिरानीतमभुङ्क्त भोज्यम् ॥ ४-८३॥
कराम्बुजस्पर्शनिमीलिताक्षान्
आमर्शनैराकलितार्धनिद्रान् ।
वत्सान् अनन्याभिमुखान् स मेने
प्रह्वाकृतीन् भक्तिभरावनम्रान् ॥ ४-८४॥
रोमन्थफेनाञ्चितसृक्विभागै-
रस्पन्दनैरर्धनिमीलिताक्षैः ।
अनादृतस्तन्यरसैर्मुकुन्दः
कण्डूयितैर्निवृतिमाप वत्सैः ॥ ४-८५॥
सिषेविरे शाद्वलितान् प्रदेशान्
कृष्णस्य धाम्ना मणिमेचकेन ।
वसुन्धरायामपि केवलायां
व्यापारयन्तो वदनानि वत्साः ॥ ४-८६॥
नवप्रसूताः स तदा वनान्ते
पयस्विनीरप्रतिमानदोहाः ।
परिभ्रमश्रान्तपदान् अदूरात्
प्रत्यागतान् पाययते स्म वत्सान् ॥ ४-८७॥
निविश्य मूलेषु वनद्रुमाणां
निद्रायितानां निजतर्णकानाम् ।
अङ्गानि गाः सादरमालिहन्ती-
रमंस्त सम्भाव्यगुणाः स्वमातुः ॥ ४-८८॥
स नैचिकीः प्रत्यहमातपान्ते
प्रत्युक्तघोषा इव वत्सनादैः ।
मधूनि वंशध्वनिभिः प्रयच्छन्
निनाय भूयोऽपि निवासभूमिम् ॥ ४-८९॥
समाव्रजन् विश्वपतिर्व्रजान्तं
गोभिः समं गोपविलासिनीनाम् ।
उल्लासहेतुः स बभूव दूरा-
दुद्यन् विवस्वानिव पद्मिनीनाम् ॥ ४-९०॥
निवर्तयन् गोकुलमात्तवंशो
मन्दायमाने दिवसे मुकुन्दः ।
प्रियादृशां पारणया स्वकान्त्या
बर्हावृतं व्यातनुतेव विश्वम् ॥ ४-९१॥
बालं तरुण्यस्तरुणं च बाला
स्तमन्वरज्यन्त समानभावाः ।
तदद्भुतं तस्य विलोभनं वा
तस्यैव सर्वार्हरसात्मता वा ॥ ४-९२॥
अवेदिषातां पृथुकौ पितृभ्यां
तारुण्यपूर्णौ तरुणीजनेन ।
वृद्धौ पुरावृत्तविशेषविद्भिः
क्लृप्तेन्द्रजालाविव रामकृष्णौ ॥ ४-९३॥
अथापदानं मदनस्य दातु-
मादातुमालोकयतां मनांसि ।
नवं वयो नाथसमं प्रपेदे
गुणोत्तरं गोपकुमारिकाभिः ॥ ४-९४॥
अनङ्गसिन्धोरमृतप्रथिम्ना
रसस्य दिव्येन रसायनेन ।
महीयसीं प्रीतिमवाप तासां
योगी महान् यौवनसम्भवेन ॥ ४-९५॥
विजृम्भमाणस्तनकुड्मलानां
व्यक्तोन्मिषद्विभ्रमसौरभाणाम् ।
मधुव्रतत्वं मधुराकृतीनां
लेभे लतानामिव वल्लवीनाम् ॥ ४-९६॥
अतिप्रसङ्गादवधीरयन्त्या
प्राचीनया संयमितो नियत्या ।
पाञ्चालकन्यामिव पञ्चभुक्तां
धर्मः सतीरादृत तादृशीस्ताः ॥ ४-९७॥
दिशागजानामिव शाक्वराणां
शृङ्गाग्रनिर्भिन्नशिलोच्चयानाम् ।
स तादृशा बाहुबलेन कण्ठान्
निपीड्य लेभे पणितेन नीलाम् ॥ ४-९८॥
करेण दम्भोलिकठोरतुङ्गान्
देहान् पृथून् दानवदुर्वृषाणाम् ।
विमृद्य नूनं विदधे मुकुन्दः
प्रियास्तनस्पर्शविहारयोग्याम् ॥ ४-९९॥
आत्मीयपर्यङ्कभुजङ्गकल्पौ
अक्षेप्यरक्षापरिघौ पृथिव्याः ।
नीलोपधानीकरणात् स मेने
भूयिष्ठधन्यौ भुजपारिजातौ ॥ ४-१००॥
रागादिरोगप्रतिकारभूतं
रसायनं सर्वदशानुभाव्यम् ।
आसीदनुध्येयतमं मुनीनां
दिव्यस्य पुसो दयितोपभोगः ॥ ४-१०१॥
अनुद्रुता नूनमनङ्गबाणैः
सुलोचना लोचनभागधेयम् ।
प्रत्यग्रहीषुः प्रतिसन्निवृत्तं
त्यक्तेतरैरक्षिभिरात्मना च ॥ ४-१०२॥
व्रजोपकण्ठे विबुधानुभाव्यो
गोपीजनैरात्मगुणावदातैः ।
समावृतो नन्दसुतश्चकाशे
तारागणैरिन्दुरिवान्तरिक्षे ॥ ४-१०३॥
हत्वा सयूथं तृणराजषण्डे
रामाच्युतौ रासभदैत्यमुग्रम् ।
अतोषयेतां भृशमात्मभृत्यान्
स्वाद्यैः सुधापिण्डनिभैः फलौघैः ॥ ४-१०४॥
कदाचिदासादितगोपवेषः
क्रीडाकुले गोपकुमारवृन्दे ।
स्कन्धेन सङ्गृह्य बलं बलीयान्
दैत्यः प्रलम्बो दिवमुत्पपात ॥ ४-१०५॥
पपात भृमौ सहसा स दैत्य-
स्तन्मुष्टिना ताडितशीर्णमौलिः ।
महेन्द्रहस्तप्रहितेन पूर्वं
वज्रेण निर्भिन्न इवाचलेन्द्रः ॥ ४-१०६॥
स्ववाससा क्लृप्तकलङ्कलक्षमीः
कान्त्या दिशश्चन्द्रिकयेव लिम्पन् ।
रराज रामो दनुजे निरस्ते
स्वर्भानुना मुक्त इवोडुराजः ॥ ४-१०७॥
विनैव रामेण विभुः कदाचित्
सञ्चारयन् धेनुगणं सवत्सम् ।
वनश्रिया दूरविलोभिताक्षः
कञ्चित् ययौ कच्छमदृष्टपूर्वम् ॥ ४-१०८॥
यदृच्छया चारितधेनुचक्रः
कूलान्तिके विश्वजनानुकूलः ।
कलिन्दजां कालियपन्नगस्य
क्ष्वेलोद्गमैः कज्जलितां ददर्श ॥ ४-१०९॥
विषाग्निना मुर्मुरितप्रताने
वैरोचनीतीरवनावकाशे ।
अहीन्द्रमास्कन्दितुमध्यरुक्षत्
काष्ठाकृतिं कञ्चन नीपवृक्षम् ॥ ४-११०॥
मधुद्रवैरुल्बणहर्षबाष्पा
रोमाञ्चिता केसरजालकेन ।
पत्राङ्कुरैश्चित्रतनुश्चकाशे
कृष्णाश्रिता शुष्ककदम्बशाखा ॥ ४-१११॥
निपत्य सङ्क्षिप्तपयोधिकल्पे
महाह्रदे मन्दरपोतरम्यः ।
विषव्यपोहादमृतं विधातुं
स्वादूदयं क्षोभयति स्म सिन्धुम् ॥ ४-११२॥
कृताहतिः कृष्णनिपातवेगा-
दानद्धरूपा विततैस्तरङ्गैः ।
सर्पापसारौषधिसम्प्रयुक्ता
भेरीव सा भीमतरं ररास ॥ ४-११३॥
प्रसक्तकृष्णद्युतिभिस्तदीयैः
पृषत्कणैरुत्पतितैः प्रतूर्णम् ।
अदृश्यताऽऽद्योतितमन्तरिक्षं
पीतान्धकारैरिव तारकौएघैः ॥ ४-११४॥
उदग्रसंरम्भमुदीक्ष्य भीता-
स्तार्क्ष्यध्वजं तार्क्ष्यमिवाऽऽपतन्तम् ।
प्रपेदिरे सागरमाश्रितौघाः
काकोदराः कालियमात्रशेषाः ॥ ४-११५॥
अथाम्भसः कालियनागमुग्रं
व्यात्ताननं मृत्युमिवोज्जिहानम् ।
भोगेन बध्नन्तमपोह्य शौरिः
प्रह्वीकृतं तत्फणमारुरोह ॥ ४-११६॥
सद्यो महानीलमयीं मुकुन्दः
सपद्मरागामिव पादपीठीम् ।
क्रामन् फणां कालियपन्नगस्य
ग्रस्तोदितो भानुरिवाबभासे ॥ ४-११७॥
फणामणीनां प्रभयोपरक्ते
खेलन् बभौ चक्रिणि चक्रपाणिः ।
प्रदोषसिन्दूरितमम्बुवाहं
प्राचेतसो नाग इवोपमृद्नन् ॥ ४-११८॥
प्रणेमुषां प्राणभृतामुदीर्णं
मनो विनेष्यन् विषमाक्षवक्त्रम् ।
अकल्पयत् पन्नगमर्दनेन
प्रायेण योग्यां पतगेन्द्रवाहः ॥ ४-११९॥
तद्भोगवृन्दे युगपन्मुकुन्द-
श्चारीविशेषेण समैक्षि नृत्यन् ।
पर्याकुले वीचिगणे पयोधेः
सङ्क्रान्तबिम्बो बहुधेव चन्द्रः ॥ ४-१२०॥
तदुत्तमाङ्गं परिकल्प्य रङ्गं
तरङ्गनिष्पन्नमृदङ्गनादम् ।
प्रशस्यमानस्त्रिदशैरकार्षी-
दव्याहतामारभटीमनन्तः ॥ ४-१२१॥
एकेन हस्तेन निपीड्य वालं
पादेन चैकेन फणामुदग्राम् ।
हरिस्तदा हन्तुमियेष नागं
स एव संसारमिवाश्रितानाम् ॥ ४-१२२॥
स पन्नगीनां प्रणिपातभाजां
द्रवीभवन् दीनविलापभेदैः ।
प्रसादितः प्रादित भर्तृभिक्षां
किमस्य नः (नु)स्यादपदं दयायाः ॥ ४-१२३॥
लोलापतच्चरणलीलाहतिक्षरितहालाहले निजफणे
नृत्यन्तमप्रतिघकृत्यं तमप्रतिममत्यन्तचारुवपुषम् ।
देवादिभिःसमयसेवादरत्वरितहेवाकघोषमुखरै-
र्दृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ॥ ४-१२४॥
हरिचरणसरोजन्यासधन्योत्तमाङ्गः
शमितगरुडभीतिः सानुबन्धः स नागः ।
युगविरतिदशायां योगनिद्रानुरूपां
शरणमशरणः सन् प्राप शय्यां तदीयाम् ॥ ४-१२५॥
विविधमुनिगणोपजीव्यतीर्था
विगमितसर्पगणा परेण पुंसा ।
अभजत यमुना विशुद्धिमग्र्यां
शमितबहिर्मतसम्प्लवा त्रयीव ॥ ४-१२६॥
अवधूतभुजङ्गसङ्गदोषा
हरिणा सूर्यसुता पवित्रिता च ।
अपि तत्पदजन्मनः सपत्न्या
बहुमन्तव्यतरा भृशं बभूव ॥ ४-१२७॥
॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
काव्यरत्ने निर्बाधगोचारणं नाम चतुर्थः सर्गः ॥
॥ इन्द्रपूजारम्ब पञ्चमः सर्गः ५॥
ततः समानीतरसालपाकः
संवीजयन् पाटलगन्धवाहैः ।
निरूढमल्लीविभवो निदाघः
सीरायुधं शौरिसखं सिषेवे ॥ ५-१॥
अबिभ्रतीनां कुचकुम्भकक्ष्या-
मालिप्तकर्पूरहिमोदकानाम् ।
स सुभ्रुवां देहगुणेन यूना-
मासीत् वसन्तादपि माननीयः ॥ ५-२॥
विहारयूना भजता स्वयं तत्
व्रजाङ्गनाविभ्रमकिङ्करत्वम् ।
नितान्तधन्याः स्वगुणैरभूवन्
निर्विश्यमाना ऋतवः क्रमेण ॥ ५-३॥
कृतावसेका इव कृष्णगीतै-
र्वनद्रुमा वर्धिततुङ्गशृङ्गाः ।
अयत्नलब्धानि गवां बभूवुः
स्थायीनि वर्षातपवारणानि ॥ ५-४॥
बभञ्ज वातः प्रबलो न वृक्षान्
न तिग्मरश्मिः सलिलं तताप ।
ददाह वन्यां न च तत्र दावः
संरक्षिता यत्र गवां स देवः ॥ ५-५॥
गावो महिष्यश्च गभीरनादाः
सञ्चारिताः शार्ङ्गभृता यथार्हम् ।
कलिन्दकन्यामवगाह्य काले
घर्मापदा सम्पदमेव भेजुः ॥ ५-६॥
गतेऽपि भूयिष्ठगुणे वसन्ते
गोपाः सुखं चारितगोधनास्ते ।
कलिन्दजानूपसमीपभाजः
कालं कठोरातपमत्यनैषुः ॥ ५-७॥
वितेनिरे जङ्गमधामकल्पै-
रनोभिरध्यासितचत्वराणि ।
निदाघवर्षानुगुणानि गोपाः
स्थानानि गोवत्सगुणोचितानि ॥ ५-८॥
अकालकाल्येन परेण पुंसा
साम्यं गतानामिव वल्लवीनाम् ।
सुखाय सर्वे समया वभूवुः
स्वैः स्वैरविच्छिन्नगुणैर्विशेषैः ॥ ५-९॥
सुधाप्लवस्वैरसखीमभिख्यां
वनाश्रिते वर्षति कृष्णमेघे ।
मध्यन्दिनेऽप्याददिरे विहारान्
गावः प्रकामं गतघर्मतापाः ॥ ५-१०॥
तापापहन्तुः स्वपदाश्रितानां
तत्तादृशा तस्य समीक्षणेन ।
न तस्य गोपाध्युषितस्य जज्ञे
वनस्य वातातपवह्निपीडा ॥ ५-११॥
प्रसाधिताः पाटलपुष्पजालैः
प्रच्छायनिद्राशमितोपतापाः ।
दिनावसानस्नपनेन शीता
गोप्यः प्रियैर्निर्विविशुर्निशीथान् ॥ ५-१२॥
निदाघतैक्ष्ण्यादिह दुष्टसत्त्वाः
क्षोभं गवां कुर्युरतिक्षुधार्ताः ।
इतीक्षमाणः सहजेन सार्धं
व्यधत्त नाथो मृगयाविहारम् ॥ ५-१३॥
प्रसक्तगङ्गायमुनानुषक्त्या
भासा तयोराहितगाढमोहाः ।
अयत्नलभ्योपगमास्तदाऽऽसन्
व्यालाः क्षणादर्भकवेधयोग्याः ॥ ५-१४॥
अनुप्रयातैरिव देवमाया-
मच्छेदनीयैरपि दिग्गजानाम् ।
वनं तदन्तर्गतसत्त्वजातं
पाशैरवारुन्धत वत्सपालाः ॥ ५-१५॥
अनन्तलीलोचितभूमिकाप्तै-
रावेदितान् वेदवनेचरेन्द्रैः ।
पथः समास्थाय गृहीतचापा
गुप्तस्थितिं गोपसुता वितेनुः ॥ ५-१६॥
क्षणादनिर्धार्य निदानभेदं
दत्तापहासैर्वनदेवताभिः ।
मृगायितं तत्र मृगेन्द्रमुख्यैः
सिंहायितं गोकुलसारमेयैः ॥ ५-१७॥
परिस्फुरत्कृत्रिमसत्त्वजातैः
प्रसारितैः श्यामपटैर्वनान्ते ।
स्वयं तिरोधाय तदर्हशब्दा
गोपा मृगान् गूढचराश्चकर्षुः ॥ ५-१८॥
शतावरीदामनिबद्धमूर्ध्नः
शार्ङ्गध्वनित्रासितसिंहयूथान् ।
अनीकनाथप्रमुखानकार्षी-
दग्रेसरान् व्याधतनूननन्तः ॥ ५-१९॥
विमुक्तपाशा मधुवैरिभृत्यै-
र्जिह्वालदुर्दर्शकरालवक्त्राः ।
निपेतुरन्योन्यविमुक्तरोषाः
श्वानो वराहेषु निशातदंष्ट्राः ॥ ५-२०॥
सम्भूय गोपाः प्रसभं प्रयुक्तैः
सत्त्वानि वन्यानि समग्रसत्त्वाः ।
गुहामुखाम्रेडिततीव्रघोषैः
कोलाहलैराकुलयाम्बभूवुः ॥ ५-२१॥
अमृष्यतो मानुषसिंहनादं
गिरीन्द्ररौधैरपि दुर्निरोधान् ।
बभञ्ज दृप्तो बलभद्रसिंहः
सिंहान् द्विपेन्द्रानिव दुर्निवारः ॥ ५-२२॥
गुञ्जाकलापप्रतिनद्धकेशै-
रागुल्फमालम्बितपिञ्छजालैः ।
निषङ्गिभिश्चारुपृषत्कचापै-
र्गुप्तो बभौ गोपसुतैर्मुकुन्दः ॥ ५-२३॥
आक्रान्त्यकम्पेषु नगेषु धैर्यं
शौर्यक्रमं श्वापदविक्रमेषु ।
अशिक्षयत् क्षेमविदात्मभृत्यान्
विहारगोपो मृगयापदेशात् ॥ ५-२४॥
आदाय लूनानि मुकुन्दबाणैः
शृङ्गाणि शीघ्रं वनकासराणाम् ।
शार्ङ्गप्रमाणानि शनैरकार्षु-
स्तैरेव चारूणि धनूंषि बालाः ॥ ५-२५॥
मनुष्यमांसस्पृहया सरोषं
गुहान्तरादुत्पतितुं प्रवृत्तान् ।
शिलीमुखैः कीलितशैलकण्ठान्
कृष्णस्तदा केसरिणश्चकार ॥ ५-२६॥
नवाहृतैर्नाथपरिष्क्रियार्हां
गुञ्जास्रजं गोपकुमारवीराः ।
विभिन्नवन्यद्विपकुम्भमुक्तै-
र्मुक्ताफलैरन्तरयाम्बभूवुः ॥ ५-२७॥
शराहतानां विपिने मृगाणा-
मार्द्राहृतैश्चर्मभिरात्तहर्षाः ।
अकल्पयन् आस्तरणानि गोपाः
संवेशयोग्यानि सहायिनीनाम् ॥ ५-२८॥
अभिन्नपार्श्वेष्ववकाशभेदात्
भिन्नस्थितीन् भीतिमपोह्य वत्सान् ।
निरस्तसिंहेषु गुहागृहेषु
न्यवीविशन् नाथनियोगभाजः ॥ ५-२९॥
आयातयामैरचिरप्रतापात्
सुमृष्टपाकैरधिशल्यशृङ्गम् ।
मांसैर्मृगाणां मधुनाऽवसिक्तै-
र्नन्दस्य भृत्या विपिने ननन्दुः ॥ ५-३०॥
निवेद्यमानान् वनदेवताभिः
सङ्गृह्य वन्यान् उपदाविशेषान् ।
समं सुहृद्भ्यः सहसा विभेजे
रामानुरोधेन रमासहायः ॥ ५-३१॥
त्राणं सतां दुष्कृतिनां विनाशं
तन्वन्नभीष्टं मृगयाच्छलेन ।
स्वच्छन्दचर्यानुगुणं गवां त-
च्चक्रे वनं शान्तमृगावशेषम् ॥ ५-३२॥
निसर्गकारुण्यतरङ्गवृत्त्या
निर्वैरतां नैगमगोपदृष्ट्या ।
सम्प्रापिताः प्रापुरिवैकजात्यं
केचिद्गवां केसरिदन्तिमुख्याः ॥ ५-३३॥
विधून्वता धूलिकदम्बरेणून्
धाराकदम्बाङ्कुरकारणेन ।
निन्युः श्रमं निर्झरबिन्दुभाजा
नभस्वता नन्दसुतानुयाताः ॥ ५-३४॥
अमर्त्ययक्षेश्वरधामभाजोः
आरामयोरेकमिवावतारम् ।
प्रशान्तघर्मातिशयं प्रभावात्
वृन्दावनं नन्दसुतो वितेने ॥ ५-३५॥
दिशं समाक्रम्य करैरुदीचीं
देवे रवौ दक्षिणतः प्रवृत्ते ।
निदाघक्लृप्त्या निगृहीतदेहां
वृष्टिं पुनः स्रष्टुमियेष शौरिः ॥ ५-३६॥
अथाविरासीदपसारयन्ती
तापं गवां चण्डकरप्रसूतम् ।
विचित्रसस्योदयमेचकाङ्गी
मेघाविला माधवयोगवेला ॥ ५-३७॥
महीभृतः सम्भृततीर्थतोयै-
रम्भोधरैराचरिताभिषेकाः ।
प्रयुक्तविद्युद्वलयैः पुनस्तैः
प्रायेण नीराजनमन्वभूवन् ॥ ५-३८॥
धौतावदातैः क्रकचच्छदानां
पत्रैरविश्रान्तषडङ्घ्रिनादैः ।
व्यदारयत् पुष्पशरः प्रतूर्णं
मानग्रहं मानवतीजनानाम् ॥ ५-३९॥
पयोमुचा सेकवतां स्थलानां
वीरुत्प्ररोहा विविधा बभूवुः ।
समीक्षितानां मधुसूदनेन
श्रद्धादयाद्या इव सद्गुणौघाः ॥ ५-४०॥
शितेन पञ्चेषुशरेण भिन्नात्
वियोगिनीमानसतो विकीर्णाः ।
तदेन्द्रको (गो)पत्वमिवाधिजग्मुः
शोणाः क्षितौ शोणितबिन्दुभेदाः ॥ ५-४१॥
मधुद्रुतेरुल्बणदन्तवीणा
मेघानिले मेदुरबिन्दुजाले ।
प्रभूतकम्पाः प्रथयाम्बभूवुः
शीतालुतां कण्टकिनः कदम्बाः ॥ ५-४२॥
शतह्रदाशस्त्रविलासदीप्ता
धीरप्रणादा धृतचित्रचापा ।
कनद्बलाकाध्वजपङ्क्तिरासीत्
कादम्बिनी कामचमूरपूर्वा ॥ ५-४३॥
मृदङ्गधीरस्तनितो विहायाः
सौदामनीसम्भृतचारुलास्यः ।
बभौ नवानां प्रभवो रसानां
रतिप्रियस्येव नटस्य रङ्गः ॥ ५-४४॥
अचिन्तितोपस्थितजीवनाना-
मासेदुषामभ्यधिकां समृद्धिम् ।
तोयाशयानां परिवाहजन्या
स्वगुप्तिरन्योपचयप्रदाऽभूत् ॥ ५-४५॥
गुहासु गोवर्धनसम्भवासु
प्रकामविस्तीर्णसमस्थलीषु ।
गुणाधिको विश्वसृजा प्रवर्षे
वासः समाधीयत वल्लवानाम् ॥ ५-४६॥
दरीषु गोप्यः प्रसमीक्ष्य कृष्णं
दिशासु जीमूतगणं मयूर्यः ।
अग्रे पतीनामधिगीतिनादं
वितेनिरे चारु विहारलास्यम् ॥ ५- ४७॥
पयोदलक्ष्य (क्ष)प्रहिताग्रहस्तां
कृष्णः स्वनेत्रे इव चन्द्रसूर्यौ ।
तिरोदधानां प्रतिरोद्धुमैच्छत्
स्वैरी स्वलीलामिव वर्षवेलां (जातलीलाम्)॥ ५-४८॥
अथाञ्जनस्निग्धनभःप्रकाशाः
क्षणत्विषां कल्पितलास्यभङ्गाः ।
दिशामुखोल्लासनदृष्टदाक्ष्या
दीनाम्बुवाहा दिवसा बभूवुः ॥ ५-४९॥
अलक्ष्यतीव्रातपमन्तरिक्षं
सितासितैरम्बुधरैश्चकाशे ।
विवेकमासादयतामिवादौ
चित्तं वितर्कैरनिवर्तमानैः ॥ ५-५०॥
विहाय सद्यः कुटजार्जुनादीन्
विप्लावितान् कालविपर्ययेण ।
पुनर्बबन्धुः प्रणयं द्विरेफाः
कोशोपपन्नेषु कुशेशयेषु ॥ ५-५१॥
तरङ्गलोलाम्बुजतालवृन्ता
बर्हातपत्रायितभृङ्गयूथाः ।
विधूतहंसावलिचामरौघा
नद्यः समातन्वत नाथसेवाम् ॥ ५-५२॥
तापानुबन्धप्रशमाय पुंसां
शय्यार्थिना शार्ङ्गभृतोपहूता ।
पयोदमालाव्यपदेशदृश्या
प्रायस्तिरोऽधीयत योगनिद्रा ॥ ५-५३॥
इतस्ततः प्राप्तशरद्विहारं
गोपीसखं द्रष्टुमतीव हर्षात् ।
अशोभि नेन्नैरिव जृम्भमाणैः
शीर्णैर्धरित्री शिखिनां कलापैः ॥ ५-५४॥
चराचरेष्वाहितजीवनाना-
मनुज्झतां सत्पथमम्बुदानाम् ।
शुचित्वमन्तर्बहिरप्ययत्ना-
दभ्यागतैर्हंसगणैः शशंसे ॥ ५-५५॥
संस्कारभेदैः कलमादिकानां
क्रमेण लब्धोपचयस्थितीनाम् ।
धर्मं निजं साधयितुं क्षमाणां
समुन्नतिः सन्नतिहेतुरासीत् ॥ ५-५६॥
विहारगोपस्य गुणान् गृणद्भिः
क्षीबाशया गीतपदैरुदारैः ।
चकासुरासादि (शिरे साधि)तभक्तिभेदाः
सामोपशाखा इव शालिगोप्यः ॥ ५-५७॥
विकस्वरेन्द्रायुधबर्हदाम्नः
श्यामीकृतं कृष्णघनस्य धाम्ना ।
शरत्प्रसङ्गेऽपि तदा तदासीत्
वृन्दावनं बद्धमयूरलास्यम् ॥ ५-५८॥
समग्रबन्धूकरजःसमेतं
स्मेरातसीमेचकमन्तरिक्षम् ।
पीताम्बरेण प्रभुणा तदानी-
मयत्नसम्भूतमवाप साम्यम् ॥ ५-५९॥
समग्रसप्तच्छदरेणुकीर्णैः
स्रोतोभिरुन्नीतमदप्रवाहः ।
स्वकानने स्वैरजुषां गजानां
गोवर्धनो यूथपतिर्बभूव ॥ ५-६०॥
अधोमुखैश्च प्रतिबिम्बरूपै-
रभ्युन्नतैरात्मभिरप्यशंसन् ।
त्रिविक्रमस्य स्थितमुन्नतं च
पदद्वयं पाथसि रक्तपद्माः ॥ ५-६१॥
पङ्कक्षये प्राक्तनवर्तनीनां
वक्रेतरा व्यक्तिरभूत् पृथिव्याम् ।
बहिर्मतप्रत्ययिनां व्यपोहे
वेदोदितानामिव सत्क्रियाणाम् ॥ ५-६२॥
मदप्रभूतध्वनयो महोक्षा
रोधोविभेदोल्बणतुङ्गशृङ्गाः ।
दर्पस्य देहा इव योगसिद्धाः
दन्तावलान् अन्तरयाम्बभूवुः ॥ ५-६३॥
सरोरुहां रक्तसितासितानां
श्रिया बभौ शारदवासरश्रीः ।
विहारभाजा गुणभेदयोगात्
व्यक्तीकृता विश्वसृजेव माया ॥ ५- ६४॥
आरक्तकल्हारविलोचनश्रीः
क्लान्ता भृशं खेलगतिः स्खलन्ती ।
उन्नालनालीकमधूपभोगात्
मत्तेव मार्ता(र्त)ण्डसुता बभासे ॥ ५-६५॥
वलग्नलग्नोर्मिवलीविभङ्गां
काले यथास्थानगृहीतकार्श्याम् ।
अरंस्त पश्यन् अनघोऽनुरूपां
श्यामां सुदृष्टामपि सूर्यकन्याम् ॥ ५-६६॥
शोणाकृतिं कोकनदैरुदारै-
रिन्दीवरैराकलितात्मकान्तिम् ।
सिताम्बुजैः सूचितजाह्नवीता-
मेकामनेकामिव तामभुङ्क्त ॥ ५-६७॥
कुमुद्वतीं प्रेक्ष्य कलिन्दकन्यां
तारापरिष्कारवतीं त्रियामाम् ।
नभःस्थलीं च स्फुटहंसमालां
नाथस्त्रिधाभूतममन्यतैकम् ॥ ५-६८॥
बन्धूकजालैः परिधानशोभा-
मिन्दीवरैरप्रतिमामभिख्याम् ।
मुखश्रियं तामरसैर्मुरारेः
सम्भृत्य लेभे शरदानुरूप्यम् ॥ ५-६९॥
पयोधराणां पलितङ्करण्या
दिवश्च तारुण्यमिवार्पयन्त्या ।
विचित्रभूम्ना शरदा स्वशक्तिं
विख्यापयामास विहारगोपः ॥ ५-७०॥
कुमुद्वतीकल्पितभृङ्गगीतः
सन्दर्शयन् दर्पणमिन्दुबिम्बम् ।
सचामरश्चन्द्रिकया सिषेवे
तमीश्वरं तत्र शरत्प्रदोषः ॥ ५-७१॥
सरोरुहां रक्तसितासितानां
स्थानेषु भृङ्गध्वनिभिः प्रतेने ।
जिगीषतः पञ्चशरस्य विश्वं
तूर्णं प्रवृत्तैरिव तूर्यघोषैः ॥ ५-७२॥
निर्मुक्तभोगीन्द्रनिभैः पयोदै-
र्नभःस्थली व्याप्ततनुर्बभासे ।
अनङ्गयोग्यैर्हरिनीलभूमि-
र्धौतप्रकीर्णैरिव चामरौघैः ॥ ५-७३॥
विभाव्य बन्धूकविभातसन्ध्यां
कालोचितं कल्पयितुं विहारम् ।
द्विजैरुपाधावि निसर्गशुद्धै-
रङ्गीकृतानाविलतीर्थतोयैः ॥ ५-७४॥
अनिन्दितां ग्लानिमिवोद्वहन्त्यो
वितेनिरे मन्दतरान् प्रचारान् ।
वर्षानिशीथे दयितेन भुक्ताः
श्रान्तिं प्रयाता इव शैवलिन्यः ॥ ५-७५॥
श्रिया समं भावितपद्मभूम्ना
घनागमादुल्लसितः पयोधेः ।
रराज नीले रविरन्तरिक्षे
मणीश्वरो माधववक्षसीव ॥ ५-७६॥
अवाप्य सङ्कोचमतीव भूयः
कालागमादुन्मिषतो नभस्तः ।
विभागमापुर्विदिशो दिशश्च
प्रजाः प्रसन्नादिव विश्वधाम्नः ॥ ५-७७॥
समुद्यतस्तिग्मरुचो घनाब्धे-
रुन्निद्रतां पूर्वमुपाजगाम ।
रथाङ्गपाणेरिव सिन्धुजन्मा
सरोजिनी चारुसरोजलक्ष्या ॥ ५-७८॥
उत्सारयन् जीर्णसिलिन्ध्र(शिलीन्ध्र)जालं
प्रायो मदैः पेचकिनां प्रसिञ्चन् ।
चकार सप्तच्छदरेणुजालैः
कालो महीं कामविहारयोग्याम् ॥ ५-७९॥
कृतोदयाः कृष्णवलाहकेन
स्रोतोवहाः स्वैरविहारभाजः ।
त्रपामिव स्थानगतिप्रतीक्ष्याः
स्वाभाविकीं स्वच्छदशामवापुः ॥ ५-८०॥
सुखावगाह्यैः सुदृशामतुष्यत्
स्वादोत्तरैः शौरिरपेतपङ्कैः ।
प्रसन्नशीतैरनघैः पयोभिः
स्वभक्तचित्तैरिव यामुनीयैः ॥ ५-८१॥
अनुल्बणैरन्वहमूर्मिभेदैः
सम्पन्नरेखाः सरितामधोऽधः ।
श्रियो दधुः पद्मवनावतारे
सोपानतां सैकतसन्निवेशाः ॥ ५-८२॥
प्रसादभाजा समयेन दत्ता-
स्त्रैलोक्यलक्ष्म्यास्तरलस्वभावाः ।
पयोधरस्थानगता विरेजु-
र्हाराः प्रभूता इव हंसमालाः ॥ ५-८३॥
जलातपत्यागसमागमाभ्यां
प्राचीमवक्रां प्रकृतिं भजन्त्यः ।
तदन्वयत्यागवशादवाप्तैः
पङ्कैरमुच्यन्त शनैः पदव्यः ॥ ५-८४॥
स्थाने विनिद्राः स्थलपद्मकोशाः
प्रायो गतिं पान्थजनस्य रोद्धुम् ।
अरुन्तुदान् आमुमुचुः परागान्
आश्यानपङ्केषु महापथेषु ॥ ५-८५॥
पतत्रलीलाहतपुष्करान्तैः
पद्मालयानूपुरसौम्यनादैः ।
शुभैरभावि स्वपतस्त्रिधाम्नः
प्रत्यूषतूर्यैरिव राजहंसैः ॥ ५-८६॥
कल्हारनिष्पादितकर्णपूरा
वितीर्णबन्धूकविशेषकश्रीः ।
आमुक्तपद्मोत्पलरेणुरासीत्
सैरन्ध्रिका कापि शरत् त्रिधाम्नः ॥ ५-८७॥
सरोजकोशान्मिषतः प्रभुग्नान्
शालीन् विपाकानतपिञ्जराग्रान् ।
शुकांश्च तेष्वापततोऽनुमेने
शौरिः सयूथ्यानिव शोणतुण्डान् ॥ ५-८८॥
स्ववेगसञ्छन्नगभीरभावं
स्रोतस्विनीनामपहाय तोयम् ।
कालुष्यमायोधनकालयोगात्
वीराङ्गनानां हृदयं विवेश ॥ ५-८९॥
नवप्ररूढैर्नलिनीपलाशैः
शाराणि वेशन्तजलान्यवापुः ।
स्फुरत्कलङ्कस्य तुषारधाम्न-
श्छायाभिरन्याभिरिवाविशेषम् ॥ ५-९०॥
वर्षीयसीनामपि पद्मिनीनां
सौम्येन वर्षान्तरसायनेन ।
सामोदमन्दस्मितहार्यभृङ्गं
युक्तं श्रिया यौवनमाविरासीत् ॥ ५-९१॥
शरद्विभूतिं कुमुदावदातां
संवीतनीलाम्बरदर्शनीयाम् ।
अमंस्त निर्धूतघनप्रलम्बां
मूर्तिमं बलस्येव शुभां मुकुन्दः ॥ ५-९२॥
निद्रायितेव प्रथमं पयोदैः
प्रशान्तनिद्रेव शरत्प्रसादात् ।
जगत्त्रयी तद्व्रतिनीव भेजे
जातोद्यमं जागरणे मुकुन्दम् ॥ ५-९३॥
निद्रापदेशेन जगद्विभूतिं
विभावयन् नित्यविधूतनिद्रः ।
प्रबुध्यमानः स विभुः प्रजानां
प्रादात् स्वधर्मानुगुणं प्रबोधम् ॥ ५-९४॥
अव्यासङ्गं जलधिशयनादुत्थितस्याऽऽत्मधाम्नः
पत्युः पुण्यं प्रथमनयनस्पन्दितं प्राप्तुकामा ।
नित्यापूर्वश्रुतिपरिमलं न्यस्तलीलारविन्दा
पादाम्भोजं सह वसुधया धारयामासपद्मा ॥ ५-९५॥
अनुचरितविधिज्ञैरादृतां पूर्वपूर्वै-
र्महदिदमनपायं मङ्गलं मन्यमानाः ।
प्रचितविविधभोग्यां प्रारभन्त प्रतीतां
वलमथनसपर्यां वल्लवा नन्दमुख्याः ॥ ५-९६॥
वाहेषु गोषु द्विरदेषु चाग्र्यां
तज्जन्यया जीविकयोपपन्नाः ।
तदर्हसम्भारवतीं सपर्यां
क्षिप्तापदं क्षेमविदो वितेनुः ॥ ५-९७॥
आबालप्रेक्षणीयं प्रणतमनिमिषैरद्भुतानां प्रधानं
धूतत्रैलोक्यदोषं ध्वजममरपतेस्तूर्णमुत्थापयन्तः ।
घृष्टीनामर्चनाभिः स्तुतिगुणनिकयागीतनृत्तोपहारै-
रुद्वेलप्रीतिलोला विदधुरविकलैरुत्सवं गोपवृद्धाः ॥ ५-९८॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये पञ्चमः सर्गः ॥
॥ गोवर्धन विषयः षष्ठः सर्गः ६॥
शमयता पुरुहूतमहोत्सवं
व्रजपतिः सह वल्लवयूथपैः ।
निभृतमञ्जुगिरा निजसूनुना
निजगदे जगदेककुटुम्बिना ॥ ६-१॥
विदितवानिव विज्ञपयाम्यहं
शृणुत मे शकुनेरिव भाषितम् ।
पृथुकबुद्धिरहं पृथुचेतसः
प्रभवतो भवतो नहि शिक्षये ॥ ६-२॥
निगमदृष्टमिदं निखिलेन वः
क्वचन विश्वतनौ पुरुषे स्थिते ।
य इह यामुपजीवति तत्तनुं
स हि तया हितया भुवि नाथवान् ॥ ६-३॥
अतियजेत निजां यदि देवता-
मुभयतश्च्यवते जुषतेऽप्यघम् ।
क्षितिभृतैव सदैवतका वयं
वनवताऽनवता किमहिद्रुहा ॥ ६-४॥
अनघशाद्वलकाननसम्पदा
नदनदीह्रदनिर्झरशालिना ।
बहुपशुः पशुपालकसन्तति-
र्महिभृता हि भृता न मरुत्वता ॥ ६-५॥
अचलमर्चत किं विबुधैश्चलैः
शुभवनं भवनं च दिवौकसाम् ।
क्षममनेन वने परिरक्षिते
न हरिणा हरिणानपि बाधितुम् ॥ ६-६॥
गिरिषु विष्णुविभूतिषु युज्यते
निखिलदेवमयीषु च गोषु नः ।
तदुभयाश्रितवृत्त्युपजीविनां
गुरु चिरं रुचिरं च समर्चनम् ॥ ६-७॥
अभिमतं गिरयः कृतसत्क्रिया
ददति दर्शितदैवतभूमिकाः ।
हरि-तरक्षु-मुखैरपि विग्रहै-
रहितमाहित-मान-विपर्ययाः ॥ ६-८॥
पशुभिरद्रिचरैरुपकल्पिते
व्रजनये जनयेम न विप्लवम् ।
क्षितिभृदेष समीहितसिद्धये
जनमितं न मितम्पचतां नयेत् ॥ ६-९॥
अपि च साधु गवामभिवर्धना-
दनृतहानि-जया निजयाऽऽख्यया ।
भजति गोपगणैरभिराध्यतां
वनमयं नमयन् फलसम्पदा ॥ ६-१०॥
हरति तापमसावुपसेदुषां
महिमवान् हिमवानिव दक्षिणः ।
वितनुते मणिरश्मिभिरप्यसौ
सुरपतेरपतेज इवास्पदम् ॥ ६-११॥
प्रदिशता मधुमूलफलानि नः
सतरुणा तरुणाद्भुतवीरुधा ।
उपकृतं गिरिणा तदिहार्प्यतां
रस ततं सततं हविराहृतम् ॥ ६-१२॥
समरुता मरु-ताप-जिताऽमुना
नदवता दव-तान्ति दवीयसा ।
श्रम हता महता कृतविश्रमा
वयमितो यमितोल्बणशाक्वराः ॥ ६-१३॥
बहुमतो मनुजा दधते धृतिं
बहुमतोऽयमनन्यधृतिः सताम् ।
गिरि-शतोन्नतिमान् अधिको ह्यसौ
गिरिश-तोष कृतोऽपि महीभृतः ॥ ६-१४॥
सनगरा नग-राजिमताऽमुना
कुहरिणा हरिणा समसम्पदा ।
सततमातत-मान-महीयसी
वसुमती सुमतीश्वर धार्यते ॥ ६-१५॥
सुरसगन्धविभूतिनिधे हितं
परिगृहाण निजे पशुपालने ।
सुरसगन्धविभूति निधेहि तं
हरिमवेत्य गिरिं हविरुत्तमम् ॥ ६-१६॥
विशुद्धतोयौघपरीतपार्श्वे
शुद्धाशयाः श्वेत इवान्तरीपे ।
निराशिषो नित्यमिहाश्रयन्ते
नैःश्रेयसं तात निवृत्तिधर्मम् ॥ ६-१७॥
इहवासमही समहीनगुणे
स्थिरकुञ्जगृहे जगृहे विबुधैः ।
अयमानमतां न मतां न तनुं
क्षितिभृत् भजते भज तेन धृतिम् ॥ ६-१८॥
तटभूमिरसौ जयति त्रिदिवं
पवनागत।ताप।वनाग।तता ।
इह देवगणैरनिशाध्युषिता
युतकोकनदायुतकोकनदा ॥ ६-१९॥
प्रकृष्टवंशोदयमाननीयः
प्रभूततोयप्रथितानुरूप्यः ।
प्रवालमुक्तामणिचित्रिताङ्गीः
पत्नीरयं प्रापयते पयोधिम् ॥ ६-२०॥
नन्द नीतिधन सर्वनन्दनी
तत्त्व यात-मतिभूष तत्त्वया ।
साधुना क्षितिभृतो रसाधुना
सेव्यतामिह गतेन सेव्यताम् ॥ ६-२१॥
नम्यतेह नियता विभूतये
भूतयेश्वरतया विराजते ।
राजतेदृशतटीमहीयसे
हीयसे न यदि नाम नम्यते ॥ ६-२२॥
अयोगनिद्रस्य हरेरिदानीं
मान्ये पदे मानसतः प्रवृत्ताः ।
त्वदाशयस्वच्छसरित्प्रवाहे
हंसैः समं वासमिहाश्रयेम ॥ ६-२३॥
निशाकरस्य स्फटिकेष्विहाधिकं
सुजात।रूपा श्रयतो विभा सिता ।
रविप्रभा च स्पृशतीव सान्ध्यतां
सु।जातरूपाश्रयतो विभासिता ॥ ६-२४॥
न दन्तिनोऽस्मिन् मुदिता नदन्ति नो
वनस्थलीलाऽस्त्विह देवनस्थली ।
व्रजाधिपाघोन्नति।तीव्रजाधि-पा
प्रभात।ताम्राश्मगणप्रभा।तता ॥ ६-२५॥
महीयसी गोपगणाश्रिता मही
वनैरुपेता फलपुष्पभावनैः ।
रसौघरम्यैरपि निर्झरैरसौ
चकास्त्यमुष्मिन् यवसैश्च मेचका ॥ ६-२६॥
सदोन्नताय प्रणमत्यमुष्मै
सतां कनिष्ठा प्रथमाङ्कनिष्ठा ।
निशामयास्मिन् सरितश्च रत्न-
प्रभा-समानाः प्रतिभासमानाः ॥ ६-२७॥
इह वंशलताविलग्नवालाः
प्रियवाला नतकन्धराश्चमर्यः ।
शबरीकबरीनिरीक्षणेन
त्रपमाणा इव निश्चला भवन्ति ॥ ६-२८॥
हरिनीलरुचा लसत्तमिस्रो
दिवसेऽपि स्फुरदोषधिप्रदीपः ।
निशि चैष तपोधनाङ्गदीप्त्या
दिनमोहादविभक्तकोकयुग्मः ॥ ६-२९॥
व्रजवैरवतीषु वल्लवानां वृष
सेनासु सदानवासु देवः ।
अचलाकृतिराशु नैष गोप्ता
वृषसेनासु सदा न वासुदेवः ॥ ६-३०॥
मधुना सविभव सन्तं मदन-
धनं यं वदन्ति शुभदिवसं तम् ।
नियतमिहैव वसन्तं निष्कामधियो-
ऽपि निर्विशन्ति वसन्तम् ॥ ६-३१॥
काननं दधदसौ सदोन्नमत्-
काञ्चनारककुभं सदृक्षकः ।
मन्दरस्य महता स्ववर्ष्मणा
कां च नाऽऽर ककुभं सदृक्षकः ॥ ६-३२॥
अनेहसा हानिरुपैति नेह
सा न कन्दरस्थस्य दिशत्यकं दरः ।
अपास्य तां भीतिमसावुपास्यतां
सदा नवा भूमिरियं सदानवा ॥ ६-३३॥
समिन्धतेऽस्मिन् अजहत्समाधिकाः
समाधिकातीतधियः स्थिराशया ।
स्थिराशयाश्च व्रतिनः सदारसाः
सदार। साध्येषु तपस्स्ववस्थिताः ॥ ६-३४॥
वसत्यमुष्मिन् वनदेवताऽद्भुता
विभाति भास्वत्तिलकालिकानना ।
विचित्ररत्ना महती च मेखला
विभाति भास्वत्तिलकालिकानना ॥ ६-३५॥
तपस्विनामात्मविदां निवासैः
समानभूमावसमानभूमा ।
इहाटवी काञ्चनकर्णिकार।-
पराग।ताम्राऽप्यपरागताम्रा ॥ ६-३६॥
सरस्सु जातैर्नलिनैः सुजातै-
रपां तरङ्गैश्च सुधान्तरङ्गैः ।
इहासमेऽतिव्रततौ समेति
मरुत् तुषारः श्रम।रुत्तुषारः ॥ ६-३७॥
यमभिप्लुतमम्बुधरैरभितः
सरसा स।रसा स।रसाऽऽस रसा ।
स्थिरधर्म तया गिरिराद्रियते
स मया समयासम या समया ॥ ६-३८॥
प्रणम तमिममचलं अमर-
महितमहितमहितमहित! ।
भजनमलघु विफलमिह न
सदयसदय सदय सदय ॥ ६-३९॥
रत्नोपसङ्घटितशृङ्गफणासहस्रः
स्फारोदितस्फटिकरश्मिविशुद्धकायः ।
नित्यं वहन् निजबलेन महीमहीनः
पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ॥ ६-४०॥
मरुद्गणसमाश्रितो मघवरत्ननीलद्युति-
र्विभाति वनमालया विततनित्यतुङ्गाकृतिः ।
कनत्यभिगतः श्रिया कनकरश्मिपीताम्बरः
रोति विधृतिं भुवः कथमसौ न विश्वम्भरः ॥ ६-४१॥
मुहुरवधीरितोऽपि भजतीह युवा गणयन्
हितमतिभूरि-तान-वसुधे वनितां तरसा ।
सपदि विहाय मानमियमृच्छति तं प्रतिसं-
हित-मति-भूरिता नव-सुधेव नितान्त-रसा ॥ ६-४२॥
इह मरुतो वहन्ति सुरसिन्धुसगन्धसरि-
द्विकसितहेमकोकनदसौरभसारभृतः ।
मधुकरमौलिदघ्नमददन्तुरदन्तिघटा-
करटकटाहवाहिघनशीकरशीभरिताः ॥ ६-४३॥
मनःप्रियमिह प्रभो ! मधु-रसादरं सादरं
विधतत्स्व हविरर्पयन् व्रतशुभावनां भावनाम् ।
कुरुष्व च गुरुष्वघक्षपणदक्षिणां दक्षिणां
प्रयच्छति तवेप्सितं प्रणयपर्वतः पर्वतः ॥ ६-४४॥
गिरिभजनोदितप्रियविकासमये समये
जनितनभःप्रचारजलपत्रिदशैस्त्रिदशैः ।
सह यदि नः समेति हरिरप्रतिघप्रतिघः
प्रतिहतिमेतु दुष्टवधदोहलिना हलिना ॥ ६-४५॥
प्रत्यक्षं गोत्रमासन्नं किमनादृत्य गोधनैः ।
अदृश्यो गोत्रभित् कश्चित् गतः स्वर्ग गवेष्यते ॥ ६-४६॥
अहार्यो विविधैर्भोगैराकर्षन् विबुधानपि
अपरिच्छिन्नमूलोऽसौ ससारः सर्वदुःखकृत् ॥ ६-४७॥
नन्द गोपप्रभो धर्मैर्व्रज वृद्धार्य सद्गतिम् ।
भज तामेव बुध्वाऽद्रिं तनु त्राणे रतिं गवाम् ॥ ६-४८॥
नानाफलवनालीके नालीकेद्धामितोदके ।
तोदके च क्षुधामत्र धाम त्रस्तहितं विदुः ॥ ६-४९॥
सहसा सह सार्थैर्मा तरसेतरसेवनम् ।
तनु तात नुताद्वज्री नगतो न गतोऽर्च्यताम् ॥ ६-५०॥
जुषतामिह धीः सूर्यसमा हि तव सुन्दरीम् ।
रक्षार्थमिह यक्षेण समाहितवसुं दरीम् ॥ ६-५१॥
सभा-जनं वदाम्येतत् गव्यैः सरस-भाजनम् ।
सभाजनं गिरेरर्थ्यं स्ववृत्त्युल्लास-भाजनम् ॥ ६-५२॥
भवता भव-तापघ्ने भाविते भावि-तेजसा ।
सु।तरा सुतरामस्मिन् सुरभीस्सुरभीस्वर ॥ ६-५३॥
बहुविद्भ्यः समग्राहि समग्रा हि मतिस्त्वया ।
अतोऽन्यजनसन्दिग्धे न सन्दिग्धे हिताहिते ॥ ६-५४॥
गोवर्धनप्रकाशिन्या गोवर्धनसमाख्यया ।
समक्षेऽपि गिरेरस्य समक्षेपि क्षमा स्तुतिः ॥ ६-५५॥
वयं धेनुशतैः सार्धमत्रासङ्कटकान्वयाः ।
अन्वभूम निराबाधमत्रासं कटकान्वयाः ॥ ६-५६॥
अनन्तमहिमा सोऽयं समस्त-वसुधा-धरः ।
मौलिमण्डनमस्येन्दुः समस्तव सुधाधरः ॥ ६-५७॥
तपोधनैरयं शैलो महाभाग महीयते ।
गोधनैरपि न त्वत्र महाभागम हीयते ॥ ६-५८॥
रोधोरोधोज्झितैरेतैरुत्सैस्त्सैकतैरसौ ।
महीमहीनां तनुते ग्रावाऽग्रावाप्ततारकः ॥ ६-५९॥
धिषणातीत ! धिषणा लोकनीत्याऽस्तु लोकनी ।
सुधरेऽस्मिन् वसु-धरे तात तेजस्विता-तते ॥ ६-६०॥
पादपादभ्रपर्यन्ता दीनादीनामसौ गतिः ।
गोप गोपन-योग्याऽस्मिन् कान्ता कान्तारभूरपि ॥ ६-६१॥
इह पुष्पौघनिष्पन्नव्रजामोदे वने हिते ।
भृशमुत्सवसन्तोषं व्रजामो देवनेहिते ॥ ६-६२॥
प्रयतस्व गिरेरस्य व्रजदेव ! सभाजने ।
खपुष्पकल्पे मा भक्तिं व्रज देव-सभा-जने ॥ ६-६३॥
देवस्थानमिवेन्धानं परायणमवारितम् ।
गोवर्धनमवेह्येनं नारायणमिवागतम् ॥ ६-६४॥
मोघाशो मघवान् देवः स्यादत्रत्यस्य सादने ।
मेघानामपि वा भावः सादमेत्यद्रिसादने ॥ ६-६५॥
अचञ्चलाङ्गसत्ताकश्चलाचलघनाततः ।
अचलः कस्य नाऽऽकल्यः साध्यानन्दस्यसिद्धिकृत् ॥ ६-६६॥
अगः सनग आसन्नः सालताललताततः ।
सततं संहतघनः सङ्गतानन्दसाधकः ॥ ६-६७॥
अहहाङ्ग खगङ्गाकगाहकाङ्गाङ्कगागकः ।
अघाकागाङ्गकागाङ्कगाङ्गकागखगाङ्गकः ॥ ६-६८॥
रजतगैरिकरत्नगणैरयं-
कनति कान्तलताञ्चितकाननः ।
त्रिजगदेकनिधानतयाऽधिक-
स्त्रिदशराजधराधरतल्लजात् ॥ ६-६९॥
सहेत पर्वतोऽयं वो गोप्तुं क्वचन कन्दरे ।
अदरिद्रा वसामोऽत्र सर्वहेतोरिवोदरे ॥ ६-७०॥
घनाघना घनाघनाद्भुतेह शाखिसन्ततिः ।
वनावनावनावनानुरूपसत्फलावृता ॥ ६-७१॥
वृतेह भाति हेमभूर्नमेरुणा समन्ततः ।
प्रतीहि नैनमद्भुतं न मेरुणा समं ततः ॥ ६-७२॥
इह प्रभूतवाहिनीवने वने वने वने ।
फलेन भूयते स्वयं नतेन तेन तेन ते ॥ ६- ७३॥
अहार्यमेतिचेतनासितासितानराज ते ।
अहार्यमेति चेतना सितासिता न राजते ॥ ६-७४॥
समग्रगुणभूमाऽसौ सानुमानागमानितः ।
समाहितधियां सेव्यः सानुमानागमानितः ॥ ६-७५॥
याचले जरसानेता ताने सारजले चया ।
कालिमानवसायामा माया सावनमालिका ॥ ६-७६॥
अभ्रान्तमतिशय्येह विराजिततमागमे ।
निशामयालीनघनं सालौघमतिनन्दनम् ॥ ६-७७॥
श्लोकावृत्तिः-
अभ्रान्तमति शय्येहविराजि ततमागमे ।
निशामयालीनघनं सालौघमतिनन्दनम् ॥ ६-७७॥
चारुचीरीरुचा रोची रुरुचारैरचर्चरुः ।
चिरोच्चरोचिरचरो रुचिरो रुचिराचरः ॥ ६-७८॥
नीतिनेतृ (त्र)नतानन्त नितान्तोन्नततानतः ।
तातेतोऽतनुतोऽनी(ती)तं ननुत्तैनोनुतान्ततः ॥ ६-७९॥
सराससारसासारैः सूरोस्रसरुसारसैः ।
रससूः सरसस्रंसैः सरःसाररसैरसौ ॥ ६-८०॥
धीर धीरधुराधारी धाराधरधरोऽधरे ।
रोधोधरारोधरोधिधाराधारो धराधरः ॥ ६-८१॥
भूभृन्निभेभभानेनानेन भूनाभिनेनभ ।
भानुभानुभभाभिन्नं नुन्नं नूनं न नो नभः ॥ ६-८२॥
तत्र तत्रातितारेऽत्र तारातीततरूत्तरे ।
तरेत् तातारतीरेतातते त्रातरि ते रतिः ॥ ६-८३॥
विततीतावृतिवृते वीतातीतावृतावृतौ ।
तातावातातिवृत्तेऽति वातोऽतीवाततेऽवति ॥ ६-८४॥
नुन्नैनसां निनंसूनां सानूनासनसानुना ।
सानसां नः ससेनानां साऽनेनाऽऽसन्नसूः सनिः ॥ ६-८५॥
कल्लोलोल्लोलकीलाले केकाकलकलाकुले ।
कालिकाकलिलालोके काले कालेकिलैककुः ॥ ६-८६॥
पतता पततोपेतः पतितोत्पतितातपः ।
पाता पीतोपतापोऽपि तपःपूतपते पितः ॥ ६-८७॥
भूतभूते भूतभृतो भीतताभीतिभूतिभूः ।
भातीतो भूभृतो भाभृद्भाता भाता तुभूतितः ॥ ६-८८॥
मरुमुर्मुरमर्मारिं मारमारेऽमरामरे ।
रमारामे मुरारौ रुरामेममुरुमेरुमम् ॥ ६-८९॥
रवीरेरावरावारोऽवर वैरिविरावर ।
विवराराविविवरो वीर वव्रे वरैरुरुः ॥ ६-९०॥
मानयानन्यनियमो मान्यमेनमनामयः ।
यमिनां नाम नम्योऽयममेयो मौनमानिनाम् ॥ ६-९१॥
निःसमानेन मानेन सुमनोमानसैः समः ।
सोमसीमासमासन्नसानुमान् सानुमानसौ ॥ ६-९२॥
तातेतातीतितातीतः केकाका-कुककेकिकः ।
पापोपपापपापापो नानानानान्ननान्ननीः ॥ ६-९३॥
यये या याय यो योऽयः स सोऽसौ सास सासुसूः ।
मम मामोऽममामाम गोगागोगागगोगगुः ॥ ६-९४॥
रुरुरूरुरिरारोऽरं दूदादीं दददादिदः ।
लालिलोलालिलीलालो हाहाहूहूहहेह हि ॥ ६-९५॥
नानानानानानानाना नानानानानानानाना ।
नानानानानानानाना नानानानानानानाना ॥ ६-९६॥
इति तत्त्वमतत्त्वं च यथावदवगाढया ।
अर्च्यानर्च्यौ धिया भिन्दन् गोधनान्यव गाढया ॥ ६-९७॥
नयानयानयानयानयानयानयानया ।
नयानयानयानयानयानयानयानया ।
यानयानयानयान यानयानयानयान ।
यानयानयानयान यानयानयानयान ॥ ६-९८॥
मायाभासा साभायामा यासूताया यातासूया ।
भातायायायायाताभा सा यायागे गेयायासा ॥ ६-९९॥
सेवा माननमावासे वासिताहिहितासिवा ।
माता पिता तापितामा नहिताततता हि न ॥ ६-१००॥
गेहा देववदेहागे हासताननतासहा ।
देतानयायाऽऽनतादेऽव नयात तयाऽऽनव ॥ ६-१०१॥
नदीसारसमेतात्र दीप्ता भासा नरावृता ।
साभानासौ माभिरामे रसा सौम्या सुमानस ॥ ६-१०२॥
वसुदा त्रसदानन्द धीसुदान्त मुदा नता ।
नानदा मुक्तिदा रम्या सनदाऽत्र सदा रसा ॥ ६-१०३॥
सद्दैवेऽङ्कुरयातवैभवलताशोभ्युच्चनानागभे
भव्यङ्कर्म सदार्चितोद्भव नदीयादस्सनाथीकृते ।
चित्राटव्यनुवाहिवातवलनश्रेयःप्रचेयोत्सवे
वदोक्त्या समये भजेः शुचि गिरौ मेरू न्नतेऽस्मिन् ध्रुवे ॥ ६-१०४॥
वासे नास्मिन् पूजाऽदेवा वादे ! जातातोद्यारावा ।
वाराद्याविर्भूताजीवा वाजीतात्रादीना सेवा ॥ ६-१०५॥
सानुमानयमतीततारकः सानुमानयमतीततारकः ।
सानुमानयंअतीत तारकः सानुमानयमतीततारकः ॥ ६-१०६॥
विराजमानादसमान भू-मा-
विराजंआनादसमानभूमा ।
वि-राजमानादसमानभू मा
वि।रा।ज मानादस मांअ भूमा ॥ ६-१०७॥
अक्लिष्टचित्रमिदमत्र मनागिवोक्तं
चित्रायुतानि सुवचानि पुनस्तथापि ।
कृत्यं विभोर्निगमनीयमनन्यभक्तैः
आराध्यतां हरिरसौ पृथिवीधरात्मा ॥ ६-१०८॥
इति कथयति कृष्णे गोपवृद्धा निदध्युः
शरणमशरणानां शाद्वलश्यामलाङ्गं
पुलकितवनमालं पुष्पकिञ्जल्कजालैः
पुरुषमचलशृङ्गे पुण्डरीकायताक्षम् ॥ ६-१०९॥
शतमखमणिशैलः स्यादसौ देवतात्मा
शरदि समुदितं वा तोयकालस्य तोकम् ।
चिरपरिचितपूर्वं चेतसां किं न (नु)भाग्यं
न किमिदमिति चिन्तां न व्यतीयाय नन्दः ॥ ६-११०॥
आद्यं किमेतदधिदैवतमद्भुताना-
माकालिकं फलमुतैकमिदं शुभानाम् ।
एकीभवन्निधिरसौ किमभीप्सिताना-
मित्यन्वभावि सविधोपगतैः स देवः ॥ ६-१११॥
पीतांशुके पृथुलबाहुभुजान्तराले
मेघाभिजन्मनि मिथः प्रतिबिम्बबुद्ध्या ।
धन्यानि गोपनयनानि तदाऽन्वभूवन्
कृष्णे च तत्र च कियन्ति गतागतानि ॥ ६-११२॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्येषष्ठः सर्गः ॥
॥ गोवर्धनधारणं नाम सप्तमः सर्गः ७॥
व्रजौकसो विस्मयमन्थराक्षा
बालार्कवर्णं वसनं वसानम् ।
श्यामं युवानं शतपत्रनेत्रं
शैलोदितं देवमथोपसेदुः ॥ ७-१॥
यमाहुरन्तर्बहिरप्यलक्ष्यं
योगेश्वरं योगिभिरेव दृश्यम् ।
तमद्रिशृङ्गे समुदीक्षमाणा
गोपं सतां गोपगणाः प्रणेमुः ॥ ७-२॥
स तान् अशेषान् सुधयेव दृष्ट्या
प्रहर्षयन् प्रत्ययितप्रसादः ।
सरामकृष्णान् सनकादिगम्यः
स्वामी सतां स्वागतमन्वयुङ्क्त ॥ ७-३॥
शरत्प्रवृत्त्येव शशाङ्कभासो
वाचा हरेर्गोपधियः प्रसन्नाः ।
मिथोविमर्शैः कुमुदैरिवाऽऽसन्
मिषद्भिरासादितनिर्मलाशाः ॥ ७-४॥
विधानदक्षा विपिनाश्रयास्ते
तदन्यसंराधनवीतसङ्गाः ।
तमर्चयामासुरदीनसत्त्वाः
सम्प्रीणनैः शक्रमखोपनीतैः ॥ ७-५॥
अनन्ययोगादयजन्त चैनं
कृष्णेन तेनैव कृतानुचाराः ।
समेघकैलासनिभैरसङ्ख्यैः
सव्यञ्जनैः सादरमन्नकूटैः ॥ ७-६॥
निर्धारितार्थेषु निजोपदेशात्
न्यस्तोपहारेषु महीधरार्थम् ।
अर्च्यत्वमाचार्यकमप्ययासीत्
गोपेषु कृष्णो भुवनेषु गोप्ता ॥ ७-७॥
उपाहरन् यानि सभाजनार्थं
बलद्विषो वल्लववंशवृद्धाः ।
परेण पुंसा परिगृह्यमाणैः
प्राप्तं फलं पुष्पफलादिभिस्तैः ॥ ७-८॥
मृत्यूपसिक्तैर्भुवनैरशेषै-
रनन्यदत्तैरपि हव्यकव्यैः ।
अलब्धपूर्वामभजत् तदानीं
गोपाहृतैः प्रीतिमशेषगोप्ता ॥ ७-९॥
विधिप्रयुक्ते हविषि प्रभूते
सम्भुज्यमाने हरिणा समक्षम् ।
अनागमश्रान्तधियोऽपि तत्र
श्रद्धामविन्दन्त समग्रतोषाः ॥ ७-१०॥
अमृष्यमाणो विहतां स्वपूजा-
मक्ष्णां सहस्रेण तदा महेन्द्रः ।
अनेहसं रक्तशिलीन्ध्रजालै-
राकालिकैरञ्चितमन्वकार्षीत् ॥ ७-११॥
अवञ्चितान्यूनपयःप्रदानान्
आराधकान् कालमियन्तमिन्द्रः ।
आहारकर्षादभिहन्तुमैच्छत्
कृतानभिज्ञेषु किमानृशंस्यम् ॥ ७-१२॥
अथाऽऽजुहाव प्रतिघानुषङ्गात्
धोराशयो घोषविमर्दकाङ्क्षी ।
समेष्यतां सम्भवमर्णवानां
संवर्तकं नाम गणं घनानाम् ॥ ७-१३॥
प्रदीपितान् कोपहुताशभूम्ना
पीतोदधीन् वारिधरायुधौघान् ।
मरुद्भुजेन त्वरितं मरुत्वान्
प्रायुङ्क्त घोषाभिमुखं सघोषान् ॥ ७-१४॥
प्रकल्पयन्तः परिवेषचक्रं
वृन्दावने विह्वलगोपवृन्दे ।
समीरनुन्नाः सहसा पयोदाः
शक्रस्य ते शासनमन्वतिष्ठन् ॥ ७-१५॥
तटित्सहस्रेण विदीप्तनेत्रः
समेतवज्रो धृतचित्रचापः ।
अतर्क्यतेन्द्रः स्वयमभ्रवाहः
कालात्मना भूमिकयेव खेलन् ॥ ७-१६॥
असूयता वज्रभृता प्रयुक्ता-
माकालिकीं प्रावृषमादिदेवः ।
आशानिरोधं जगतां दिशन्तीं
निरोद्धुमैच्छन्निजया न शक्त्या ॥ ७-१७॥
वियत्पयोधिं परितः पयोदै-
र्वेलातमालैरिव वर्धमानैः ।
जिघांसता गोपगणान् मघोना
छन्नेन तस्थे मृगयार्थिनेव ॥ ७-१८॥
अदृश्यरूपः स तदा मरुत्वान्
अम्भोमुचामन्तरतोऽवतस्थे ।
अपारयन् द्रष्टुमिव त्रिधाम्नो
दीप्तिं दिवाभीत इवातिसूर्याम् ॥ ७-१९॥
अमर्षवेगादचमत्क्रियोत्थात्
जिघृक्षता वज्रमकुण्ठवीर्यम् ।
अलक्षि जीमूतरथे मघोना
मोघक्रियो मुक्त इवेन्द्रचापः ॥ ७-२०॥
सुतीव्रहुङ्कारभृतो निनादैः
सौदामनीदर्शिततर्जनीकाः ।
मरुत्वदाज्ञाविमुखान् अभीक्ष्णं
निर्भर्त्सयामासुरिवाम्बुवाहाः ॥ ७-२१॥
क्षणप्रभास्तत्क्षणमन्तरिक्षे
प्रायेण गोपान् ग्रसितुं प्रवृत्ताः ।
बभासिरे वासवरोषवह्ने-
र्ज्वालाग्रजिह्वा इव जातलौल्याः ॥ ७-२२॥
किमन्तरिक्षेण घनीबभूवे
किमुत्थितं ध्वान्तमहीन्द्रलोकात् ।
मूलं किमेतत् प्रलयार्णवाना-
मितीव मेने मलिनाभ्रमाला ॥ ७-२३॥
व्रजोपमर्दं समयो विधास्यन्
बभार नम्रेण पयोदमूर्ध्ना ।
महीयसीं वासवचापलेखां
मायाप्रदिष्टामिव माल्यशेषाम् ॥ ७-२४॥
कठोरगर्जापटहप्रणादः
करप्रसूनैरवकीर्य पृथ्वीम् ।
क्षणप्रभाभिर्घटिताङ्गहारः
कालः प्रतुष्टाव युगान्तनृत्तम् ॥ ७-२५॥
प्रणुद्यमानाः प्रबलैः समीरै-
राप्लावयामासुरमन्दघोषाः ।
महीमपर्यायनिपीतमुक्तै-
रौदन्वतैरम्बुभिरम्बुवाहाः ॥ ७-२६॥
अङ्गाररूक्षस्तनयित्नुपूर्णात्
ऐरम्मदे तेजसि तप्यमानात् ।
विहायसो नूनमभूद्विलीनात्
विष्वङ्मुखी वृष्टिरवारणीया ॥ ७-२७॥
प्रदीप्तविद्युद्गणदुर्निरीक्षान्
सोढुं व्रजाः श्रोत्रविघातिघोषान् ।
न शेकुरावर्जितशक्रचापान्
धाराशरश्रेणिमुचः पयोदान् ॥ ७-२८॥
सहुङ्कृताः सामिनिमीलिताक्षा
दीर्घोरुशृङ्गा दरभुग्नवक्त्राः ।
प्रत्यग्रहीषुः प्रतिपन्नरोषा
धाराःक्षणं धैर्यभृतो महोक्षाः ॥ ७-२९॥
स्तनाहितस्वस्तिकबाहुबन्धाः
स्त्यानालकाः सन्नतवक्त्रपद्माः ।
विलग्नदेहा वसनैर्न्यषीदन्
व्रजस्त्रियो वादितदन्तवीणाः ॥ ७-३०॥
चलद्बलाकोल्बणशङ्खमाला
पयोधरव्यक्तिधरोर्मिहारा ।
प्रावृट्पुनः संववृतेऽतिघोरा
संवर्तसिन्धोरिव धर्मपत्नी ॥ ७- ३१॥
गम्भीरगर्जापटहप्रणादं
प्रारब्धझञ्झानिलनादगीतम् ।
तडिद्भिरापादितताण्डवं तत्
कालस्य सङ्गीतमपूर्वमासीत् ॥ ७-३२॥
विद्युद्गुणैः सन्दितया समन्तात्
व्रजे मरुत्वान् मृगयामिवेच्छन् ।
समावृणोत् सान्द्रतमिस्रधाम्ना
मेघात्मना वागुरया वनाद्रीन् ॥ ७-३३॥
आसारधाराच्छुरितेन्द्रचापै-
र्मेघैर्दिशा माघवती चकाशे ।
आमुक्तमुक्तागुणरत्नदामैः
सिन्धोरपत्यैरिव धीरनादैः ॥ ७-३४॥
हुङ्कारवन्तः स्तनितैरुदारैः
क्षणप्रभाकाञ्चनवेत्रभाजः ।
पुरन्दरस्येव पुरःसरास्ते
प्रचेरुरुत्सारितगोपवर्गाः ॥ ७-३५॥
प्रकृष्टवज्रायुधचापचिह्नां
पौरस्त्यवातेन कृतप्रकम्पाम् ।
कालस्य कृष्णामिव केतुमालां
कादम्बिनीं प्रेक्ष्य जनश्चकम्पे ॥ ७-३६॥
पयोमुचां पङ्क्तिरसह्यधारा
भूभृद्गणान् भेत्तुमिव प्रवृत्ता ।
विडम्बयामास विशेषभीमां
कृतान्तकोपोल्लसितां कृपाणीम् ॥ ७-३७॥
पयोदभारैर्नमितं नभः किं
शेषाहिना भूमिरुत प्रणुन्ना ।
अदूरतः सम्पुटभावभाजो-
रासीत् तयोरन्तरमल्पशेषम् ॥ ७-३८॥
प्रायः प्रकीर्णाशनिविष्फुलिङ्गै-
र्लोकास्तदा लोचनरोधमापुः ।
पयोदरूपेण विवर्तमानैः
पर्जन्यकोपानलधूमजालैः ॥ ७-३९॥
अलातकल्पाः करकास्त्रिलोकी-
मापूरयन् अद्भुतभीमरूपाः ।
युगान्तवात्यारभसावधूताः
सम्भूय तारा इव सम्पतन्त्यः ॥ ७-४०॥
चकासचञ्चत्करकास्थिमाला
कादम्बिनीकण्टकभीषणा द्यौः ।
वज्रौघनिष्पेषमहाट्टहासा
मूर्तिस्तदा मोहकरीव रौद्री ॥ ७-४१॥
शतह्रदाभिर्धृतहेमकक्ष्या
धाराधरसेन्द्रधनुष्पताकाः ।
अदभ्रघोषघ्वनयोऽनुचक्रुः
सप्तस्रुतां शक्रमतङ्गजानाम् ॥ ७-४२॥
अहीन्द्रभोगप्रतिमाः पतन्त्यो
धारास्तदा घोरमरुत्प्रणुन्नाः ।
अभावयन् भीमपयोदनक्रं
व्योमार्णवं वीचिगणावकीर्णम् ॥ ७-४३॥
आसारदुर्लक्षतडित्प्रकाश-
मन्योन्यसङ्कीर्णहरिद्विभागम् ।
आसीदसह्यस्तनितं प्रजाना-
मभिन्ननक्तन्दिवमन्तरिक्षम् ॥ ७-४४॥
तडित्स्वभावेन तमःप्रकृत्या
निर्ह्रादरूपेण जलात्मना च ।
विवर्तते विश्वमितीव गोपाः
प्रायो न चिन्तार्णवपारमापुः ॥ ७-४५॥
प्रवर्तमानान् प्रतिसर्गक्लृप्तौ
पश्यन् घनान् पाशभृताऽप्यवार्यान् ।
अभीतिमुद्रामधुरेण गोपान्
आश्वासयामास करेण शौरिः ॥ ७-४६॥
यदर्चनादापदियं प्रसक्ता
तेनैव गोपालगणस्य गुप्तिम् ।
अरोचयत् कर्तुमशेषगोप्ता
रामेण सम्मन्त्र्य रथाङ्गपाणिः ॥ ७-४७॥
स लीलया मेरुमिव द्वितीयं
गोवर्धनं गोपकुलप्रदीपः ।
नवप्ररूढं निहितैकहस्तो
नागो नलस्तम्बमिवोज्जहार ॥ ७-४८॥
अधोमुखावस्थितमेरुकल्पं
शैलं तमुत्खाय शरण्यगोपः ।
उदञ्चयन् सत्वरमूर्ध्वमूलं
चक्रे महेन्द्रं शमितार्धगर्वम् ॥ ७-४९॥
फणाभिरामप्रसृताङ्गुलीकः
प्रियाङ्गरागव्यतिषङ्गपाण्डुः ।
भुजस्तदीयो गिरिणा बभासे
भूमण्डलेनेव भुजङ्गराजः ॥ ७-५०॥
आ(अ)भुग्नरक्ताङ्गुलिपञ्जरं
तत् रत्नोर्मिकारश्मिशलाकमन्तः ।
नवोदकक्षौमवृतं व्यभासी-
च्छत्रप्रकाण्डं हरिबाहुदण्डे ॥ ७-५१॥
विहारपद्मस्पृहयेव कृष्णो
भुजाद्रिणा भूमिधरं दधानः ।
स्वशेषभूतस्य हलायुधस्य
प्राचीमवस्थां प्रथयाम्बभूव ॥ ७-५२॥
निवासभूते निखिलस्य तस्मिन्
बालाकृतौ बिभ्रति शैलमेकम् ।
सविस्मयान् वीक्ष्य जहास गोपान्
सम्प्रीतिलक्ष्येण तदग्रजन्मा ॥ ७-५३॥
स कालिकाकालकृपाणिकानां
धाराशतैराहतसन्धिबन्धः ।
अवासृजत् क्षिप्रतरं क्षरद्भि-
र्धातुद्रवैर्नूनमसृञ्जि शैलः ॥ ७-५४॥
सगैरिकस्तस्य गिरेः समन्तात्
विलम्बितो वर्षपयःप्रवाहः ।
वितानपर्यन्तजुषो वितेने
विडम्बनां वर्णतिरस्करिण्याः ॥ ७-५५॥
इरम्मदार्चिर्व्यतिषङ्गदीप्तः
पाणौ हरेरद्रिपतिश्चकाशे ।
प्रत्यस्त्रमिन्द्रेण मुमुक्षितानां
प्रयुक्तमुत्खात इवाशनीनाम् ॥ ७-५६॥
स बाहुदण्डेन वहन् सलीलं
प्रवालकल्पाङ्गुलिपञ्जरेण ।
महीधरच्छत्रमनन्यवाह्यं
मायामयीं व्याकुरुतेव लीलाम् ॥ ७-५७॥
करालरूक्षाकृतिवर्णभेदान्
कालाग्निनिर्वापणकल्यवृत्तीन् ।
रुरोध शैलीकृतया स्वशक्त्या
प्रायो घनान् पर्वतकूटकल्पान् ॥ ७-५८॥
पृथ्व्या यथावद्भरितं गिरेस्त-
न्मूलं निवासाय गवां बभूव ।
ग्रासानुभावग्रहणार्हमासी-
दग्रं च तस्यानतिविप्रकृष्टम् ॥ ७-५९॥
उदञ्चितस्याद्रिपतेरुपान्ते
पयःप्रवाहा निबिडं पतन्तः ।
अतन्वत स्फाटिकवप्रशोभा-
मन्तर्गतैरस्तभयैरवेक्ष्याम् ॥ ७-६०॥
अलब्धसूर्येन्दुकरप्रवेशे
मूले गिरेरावसतां जनानाम् ।
स्वलोचनद्वन्द्वविहारभेदात्
नक्तन्दिनान्यातनुते स्म नाथः ॥ ७-६१॥
मुकुन्दगात्रं मणिदर्पणाभं
छायापदेशेन विगाहमानैः ।
सगोधनैस्तत्र सुरेन्द्रभीत्या
गोपैस्तदा गूढमिवावतस्थे ॥ ७-६२॥
बिभर्ति कृष्णः सुकुमारगात्रः
क्षमाधरं तेन विभावयामः ।
तदग्रजोऽसौ बिभृयादशेषां
बलः क्षमामित्यवदन् व्रजस्थाः ॥ ७-६३॥
बभुः स्वशाखाग्रथिताग्रपादै-
स्तपोधनैः साकमधःशिरोभिः ।
कृताभिमुख्याः कृतिनो मुकुन्दे
तपःप्रवृत्ता इव तत्र वृक्षाः ॥ ७-६४॥
अधोमुखस्याद्रिपतेस्तृणानि
स्पृष्ट्वा मुकुन्देन निदर्शितानि ।
जातस्पृहा जग्रसिरे सहर्षं
गावस्तदा किञ्चिदिवोन्नमन्त्यः ॥ ७-६५॥
मणिप्रदीपैरतमांसि गोप्यः
प्रविश्य रम्याणि गुहागृहाणि ।
अस्पृष्टशीतोष्णमयत्नलब्धं
स्वस्थाशयाः स्वर्गमिवान्वभूवन् ॥ ७-६६॥
यथापुरं तत्र सपुत्रदारै-
रच्छिन्नगोदोहनमन्थनाद्यैः ।
स्वप्नावबोधप्रभृतीनि गोपैः
सिषेविरे विस्मृतपूर्ववासैः ॥ ७-६७॥
अस्पृष्टधाराजलबिन्दुसेकै-
रकम्पमानैरपदन्तवीणैः ।
गोपीजनैरादधिरे विहारा
गिरीन्द्रमूले गृहनिर्विशेषम् ॥ ७-६८॥
वनेचरा गोपगणैः समेता
विमुक्तपर्जन्यभया विचेरुः ।
महीधरच्छत्रधरे मुकुन्दे
वन्यानि सत्त्वानि च तत्र गोभिः ॥ ७-६९॥
प्रभूतधाराप्रतिपन्नशैत्यं
प्राप्तारमद्रिं प्रभुरद्भुतानाम् ।
सुदर्शनादप्यधिकामनैषीत्
पवित्रतां पाणिसरोजयोगात् ॥ ७-७०॥
मुकुन्दहस्ताम्बुरुहाधिरोहात्
प्तः श्रियं मेरु मुखैरलभ्याम् ।
वर्षापदेशेन गिरिः स लेभे
नगाधिपत्यार्हमिवाभिषेकम् ॥ ७-७१॥
मदोल्बणानामिव वल्लवीनां
गीतं गणैः शौरिगुणानुबन्धम् ।
गुहाविशेषैर्ध्रुवमन्ववादीत्
गोवर्धनो गोपगणाभिनन्द्यः ॥ ७-७२॥
कराग्रयन्त्रे घटितेन कृष्णः
सवारिणा सानुमताऽभिगुप्तान् ।
अलम्भयत् गोपगणान् सदारान्
धारागृहाभ्यन्तरवाससौख्यम् ॥ ७-७३॥
अचिन्त्यशक्तेरकुमारयूनः
कौमारलीलाकवचेन गुप्तम् ।
बलं तदग्राङ्गुलिसंश्रिताद्रे-
स्तावत्परिच्छिन्नमबोधि गोपैः ॥ ७-७४॥
निमेषनिष्ठ्यूतयुगानि यासां
येभ्यो निरोधव्यसनान्यभूवन् ।
तासां स तैः सार्धमभूत् समीक्ष्यो
वामभ्रुवां वल्लवयूथनाथः ॥ ७-७५॥
कृतार्थभावं भृशमादधाने
कृष्णाङ्गसंस्पर्शविलोकनादौ ।
अयन्त्रिताभिश्चिरमाशशंसे
वर्षानुवृत्तिर्व्रजसुन्दरीभिः ॥ ७-७६॥
धारानिपातैः स्तनतां घनाना
मक्षप्रमाणैरभिहन्यमानः ।
आकस्मिकीमन्वभवत् स शैलो-
वज्रव्यथां वासवरोषजाताम् ॥ ७-७७॥
तमेकहस्ताङ्गुलियन्त्रलग्नं
धाराहतं धारयतस्त्रिधाम्नः ।
अमुक्तबाल्यस्य समग्रशक्तेः
क्षणार्धवत् सप्त दिनान्यतीयुः ॥ ७-७८॥
स तादृशांस्तोयभृतो युगान्ते
श्वासानिलैः शोषयितुं क्षमोऽपि ।
महेन्द्रदर्पात्ययमात्रकाङ्क्षी
प्रख्यापयामास गिरेः प्रभावम् ॥ ७-७९॥
एकत्र संरक्षति कृष्णमेघे
गोत्रेण चैकेन गवां कुलानि ।
अशेषगोत्रौघभिदा नियुक्तै-
र्मेघायुतैर्मोघतमैर्बभूवे ॥ ७-८०॥
व्रजोपमर्दे वितथे सुरेन्द्रः
स्वयंवृतोऽपत्रपया भिया च ।
दुनोति मामिन्द्रपदं दुरन्तं
किम्पौरुषं केवलमित्यदुःख्यत् ॥ ७-८१॥
निवृत्तरोषे निभृतेऽपि शक्रे
सन्दर्शितस्वामिनिदेशसङ्गाः ।
ववर्षुरुग्रां मुहुरश्मवृष्टिं
वैरोपपन्ना इव वारिवाहाः ॥ ७-८२॥
निवार्य दुर्वारजवान् पयोदान्
नाथं सतां नन्दसुतं प्रपित्सुः ।
करम्बितप्रीतिभयः क्षणार्धं
व्यक्तिं भजन् व्योमतलेऽवतस्थे ॥ ७-८३॥
क्रमेण पृथ्वीमभिगन्तुकामः
श्वेताभ्रपर्यायगजाधिरूढः ।
विलोचनव्यञ्जितपद्मसम्पत्
वर्षात्ययो मूर्त इवाबभासे ॥ ७-८४॥
पुनः प्रसन्नां पुरुहूतदान्त्या
पश्यन् दिवं प्राणभृतामधीशः ।
तमद्रिमव्याहतदिव्यलीलः
सन्तोलयामास निवेशयिष्यन् ॥ ७-८५॥
विलक्षवृत्त्यै(त्ये)व तिरोहितेषु
मेघेषु विश्रान्तविकत्थनेषु ।
स्थाने निवेशादचलीचकार
छत्राचलं शौरिरखिन्नबाहुः ॥ ७-८६॥
उत्क्षिप्यमाणः परिवर्त्यमानः
संस्थाप्यमानोऽपि तथैव भूयः ।
स तस्य सङ्कल्पवशेन भेजे
शैलो न शैथिल्यकथाप्रसङ्गम् ॥ ७-८७॥
व्यपेतशैलव्यवधानदृश्यो
विभूषितः स्वेदकणैः स बालः ।
दिशद्भिरामोदमभौमभोग्यं
दिव्यैरवाकीर्यत पुष्पवर्षैः ॥ ७-८८॥
निवेश्य कृष्णं शकटीरथाग्रे
नाथोपचारैरुपसेदिवांसः ।
सगोधनाः स्वं व्रजमाव्रजन्तः
सङ्गीतलीलामभजन्त गोपाः ॥ ७-८९॥
कच्चिन्न खिन्नोऽसि वहन् गिरीन्द्रं
कच्चिन्न विम्लायति पाणिपद्मम् ।
इति ब्रुवाणाः सुहृदो मुकुन्दं
पर्याकुलाः पस्पृशुरङ्गमङ्गम् ॥ ७-९०॥
अथावतीर्य स्वयमन्तरिक्षाद-
नुज्झितैरावतदानवर्षात् ।
विलक्षचित्तो वसुदेवसूनुं
वल्गुस्मितं वज्रभृदाससाद ॥ ७-९१॥
पुरोदधानः सुरभिं प्रतीक्ष्या-
माजग्मुषीमात्मभुवो नियोगात् ।
अपत्रपागद्गदमाबभाषे
बद्ध्वाञ्जलिं बालमुपेन्द्रमिन्द्रः ॥ ७-९२॥
नाथ त्वया नर्मविहारभाजा
विमोहितो विप्रतिसारितश्च ।
अकिञ्चनस्त्वामहमाश्रितः सन्
क्षिप्तापकारो न बहिष्क्रियार्हः ॥ ७-९३॥
कृतापराधेष्वपि सानुकम्पं
क्षेमङ्करं क्षेत्रविवेचकानाम् ।
विश्वोपकाराध्वरबद्धदीक्षं
वेद्यं परं वेदविदो विदुस्त्वाम्(वदन्ति)॥ ७-९४॥
निगृह्णतस्ते सृजतश्च वर्षं
निमित्तभावे निहितैस्त्वयैव ।
प्रवर्त(र्त्य)ते निष्प्रतिघो विहारः
स्वयं प्रयुक्तैरिव यन्त्रभेदैः ॥ ७-९५॥
अनन्यसाधारणपारमेष्ठ्यात्
अन्यान् अशेषान् अतिसन्दधानात् ।
गोपायितुं पारयति त्रिलोकीं
गोपायमानादपि न त्वदन्यः ॥ ७-९६॥
व्रजौकसां नाथ दिवौकसां वा
विपत्प्रसङ्गे विहितावतारः ।
एकस्त्वमेव स्वयमीप्सितानां
दयासहायो नियमेन दाता ॥ ७-९७॥
रूपतो विग्रहतश्च विश्वं
नित्यं त्वयैकेन धृतं यदेतत् ।
तदेकदेशोद्वहनादमुष्मात्
न विस्मयं तत्त्वविदो भजन्ति ॥ ७-९८॥
प्रयोजितोऽहं त्वयि भक्तिबन्धात्
गोभिः स्वलोकादुपसेदुषीभिः ।
इच्छामि संरक्षितगोव्रजं त्वां
स्थाने गवामिन्द्रतयाऽभिषेक्तुम् ॥ ७-९९॥
तिरोहितामम्भसि विन्दता गां
पूर्वं त्वया पोत्रिवरेण लब्धा ।
निरुक्तनिष्णातकृताभ्यनुज्ञा
व्यक्तिं पुनर्यातु शुभा त्वदाख्या ॥ ७-१००॥
उपेन्द्रभूताद्भवतोऽपि भूम्ना
मान्यो मनुष्याभिनये मया त्वम् ।
अभ्यर्थनामादरतस्तदेनां
प्रतीच्छ विश्वम्भर विश्वभूत्यै ॥ ७-१०१॥
इति ब्रुवाणो मघवान् धृताद्रेः
श्रान्तिं जगद्धातुरिवापनेष्यन् ।
ध्यातोपयातां त्रिदशप्रणेता
दिव्यापगां दर्शयति स्म देवीम् ॥ ७-१०२॥
अभौमगङ्गापयसा प्रपूर्णा-
मावर्जयन् वारणराजघण्टाम् ।
अशेषसाम्राज्यपदाभिषिक्तं
गुप्त्यै गवां गोत्रभिदभ्यषिञ्चत् ॥ ७-१०३॥
तदङ्गसंस्पर्शवशेन धन्यै-
राप्लाव्यमानामभिषेकतोयैः ।
अपेतभारामिव भूतधात्री-
मुल्लाघितां प्रैक्षत नाकनाथः ॥ ७-१०४॥
कृताभिषेकः कृतिना मघोना
गुप्तेन गोविन्द इति स्वनाम्ना ।
कृतप्रसादः प्रजिघाय कृष्णः
स्वर्गाधिरोहाय पुनः सुरेन्द्रम् ॥ ७-१०५॥
प्रतिगतवति यूथे पुष्कलावर्तकानां
दिविभुवि च नियत्या दीर्घनिद्रोज्झितानाम् ।
गुणगरिमसमृद्धं गोकुलं वीक्ष्य तुष्यन्
गुरुभिरभिनियुक्तामाशिषं प्रत्यगृह्णात् ॥ ७-१०६॥
मुकुलितरविधाम्ना देहदीप्त्यैव मुष्णन्
जलदकदनजातं जीवलोकस्य जाड्यम् ।
व्यचरदचलभो(भा)गे चारयन् धेनुचक्रं
पिशुनितनिजमायां भूषयन् पिञ्छमालाम् ॥ ७-१०७॥
प्रणिहितमधिरोहन् प्रागिवाद्रिं पृथिव्यां
अवमतपुरुहूतैरर्चितो गोपवृन्दैः ।
व्रजपतिरुपसीदन् बालयोग्यान् विहारान्
वनचर(भव)परिबर्हो वत्सपालैः सिषेवे ॥ ७-१०८॥
नाथः सोऽयं शिशुरपि सतां नन्दगोपस्य सूनुः
प्रायः शैलः प्रतिनिधिरसौ पद्मनाभस्य पुंसः ।
किं नः साध्यं सुरपतिमुखैः किम्पचानैस्तदन्यैः
साकं दारैरिति किल जगुस्तत्र सम्भूय गोपाः ॥ ७-१०९॥
॥ इति श्रीकविवार्तिकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वैदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये गोवर्धनधारणं नाम सप्तमःसर्गः ॥
॥ वेणुनाद रासलीलां अष्टमः सर्गः ८॥
अथ प्रसूनायुधभागधेया-
न्यारब्धमन्दानिलसौतिकानि ।
मधुप्रसङ्गान्मधुराणि यूना-
मनुष्णशीतान्यभवन् दिनानि ॥ ८-१॥
अनेकरूपैः स्वयमेकरूपः
कालात्मकं रूपमकालकाल्यः ।
ऋतुप्रभेदैरनुभूय रेमे
रामासखो राममनुप्रयातः ॥ ८-२॥
हेमन्तपूर्वः शिशिरान्तिमश्च
शरच्च सम्भूय वसन्तवृत्त्या ।
शनैश्शनैः शान्तिमुपेयिवांस-
स्तद्वैभवात् तन्मयतामिवाऽऽपुः ॥ ८-३॥
प्रायेण पञ्चायुधपञ्चवक्त्रः
पलाशकोशाकृतिमाददानैः ।
मनस्विनीमानगजेन्द्रभेदात्
सशोणितैः पाणिरुहैश्चकाशे ॥ ८-४॥
जगन्ति पुण्ड्रेक्षुशरासनेन
प्रसूनबाणैरपि जेतुमिच्छोः ।
असूचयन् आत्मभुवः स्वनादै-
रव्याहतामाशिषमन्यपुष्टाः ॥ ८-५॥
वराङ्गनावक्त्रपदाम्बुजानां
स्वाभाविकीं सौरभरागलक्ष्मीम् ।
प्रपित्समानौ प्रसवैस्तदर्हं
द्वेधा द्रुमौ दोहदमन्वभूताम् ॥ ८-६॥
तीक्ष्णारुणाग्राण्यचिरप्ररोहा
च्चकाशिरे चम्पककुड्मलानि ।
दत्तानि कामोत्सवमङ्गलार्थं
दीपाङ्कुराणीव वसन्तलक्ष्म्या ॥ ८-७॥
मुक्तापगामग्नसमुत्थितात्मा
भूयो भजन् पुष्परजोभिषेकम् ।
चचार मन्दं मलयाद्रिवात-
श्चेतोभुवो दृप्त इवौपवाह्यः ॥ ८-८॥
पुष्पेषु संयोगवियोगवृत्त्या
क्रमाद्भजन्ती नतिमुन्नतिं च ।
वनान्तरे षट्पदपङ्क्तिरासी-
न्मञ्जुस्वना मन्मथचापमौर्वी ॥ ८-९॥
वसन्तक्लृप्तान् मदनस्य बाणान्
आन्दोलयन् नूनमनोकहेषु ।
दिनेदिने दक्षिणमातरिश्वा
गतागताभ्यां गणयाञ्चकार ॥ ८-१०॥
आघूर्ण्यमानैरभितो नभस्वान्
कान्तैः प्रदीपैरिव कर्णिकारैः ।
वनश्रियो माधवसङ्गमार्हं
मङ्गल्यनीराजनमाचचार ॥ ८-११॥
प्रसूनहासाधरपल्लवानां
किञ्जल्करोमाञ्चजुषामभुङ्क्त ।
मन्दानिलैराहितवेपथूनां
कान्तिं वसन्तो वनवल्लरीणाम् ॥ ८-१२॥
विहारयोग्यामथ वीक्ष्य वन्यां
रमापतिं रामसखं विशन्तम् ।
नभश्चरैः साकमनोकहास्तं
नाथं प्रसूनोर्मिभिरभ्यषिञ्चन् ॥ ८-१३॥
पुष्पाकरेण प्रतिपन्नशोभं
वृन्दावनं नन्दितगोपवृन्दम् ।
प्रदर्शयन् प्रापितधेनुवत्सं
रामानुजो राममिदं बभाषे ॥ ८-१४॥
मनोभुवो मूर्तमिवावलेपं
मान्यं मनस्कारमिव त्वदीयम् ।
चिरं त्वया सेव्यमिहार्य मन्ये
चित्रं वनं चैत्ररथाभिनन्द्यम् ॥ ८-१५॥
अमानुषप्राप्यमरण्यमेतत्
प्राप्तस्य ते पादरजःप्रभावात् ।
सत्त्वोपपन्ना न भजन्ति सत्त्वाः
शान्ताशयाः शाश्वतिकं विरोधम् ॥ ८-१६॥
अचिन्त्यभूम्नस्तव सन्निधाना-
दन्योन्यजातीयदशां दधानाः ।
सिंहीवशास्तन्यविदो भजन्ते
सुभ्रातृतां केसरिदन्तिपोताः ॥ ८-१७॥
त्वदर्पितस्वादुतृणादिनीनां
त्वद्वंशनादामृतपायिनीनाम् ।
मन्ये गवां वत्सगणावृतानां
विष्वग्वनं विश्रमयोग्यमेतत् ॥ ८-१८॥
वसन्तलक्ष्म्या इव वासभूमिं
सङ्कल्पयोनेरिव शिल्पशालाम् ।
रतेरिवारामविभूतिमन्यां
वन्यामिमां वेद्मि तवोपका(क)र्याम् ॥ ८-१९॥
वनस्थलीयं मकरन्दवर्षै-
रतोयकर्मान्तिकमात्तसेका ।
प्रस्तौति पर्याप्तपरागजाला
समीहितं सञ्चरणोत्सवं ते ॥ ८-२०॥
नभःस्पृशामत्र महीरुहाणां
नीडादमी निष्पतिताः सलीलम् ।
प्रयुञ्जते स्वागतमञ्जसा ते
प्रायः शुभालापजुषः शकुन्ताः ॥ ८-२१॥
वातावधूतास्तरवः स्वमूर्ध्ना
सन्तानसान्तानिकसम्पदस्ते ।
प्राज्यैरमी पुष्पफलैश्च नूनं
वितन्वते वन्दनमर्हणां च ॥ ८-२२॥
आस्वाद्य चूताङ्कुरमन्यपुष्टाः
प्रायः स्वनैः पञ्चममुद्गिरन्तः ।
आकारयन्तीव वनं गतं त्वां
दिव्यानमी दर्शयितुं प्रदेशान् ॥ ८-२३॥
त्वत्पादविन्यासविशेषधन्या-
मापादयिष्यन्त इवात्मधात्रीम् ।
एनां स्वशाखाग्रकरप्रयुक्तैः
प्रचिन्वते भूमिरुहाः प्रसूनैः ॥ ८-२४॥
निशामयन्त्यो वनदेवतास्त्वां
चकोरसम्मोहनचारुदीप्तिम् ।
प्रीतिं प्रभूतां परिवाह्य गीतैः
शीताश्रुणा शेषमिवोद्वमन्ति ॥ ८-२५॥
रसालरम्भादिभवैरिहैताः
फलद्रवैः पिच्छिलपार्श्वभागाः ।
वत्सावगाह्या वनराजिमध्ये
पूर्णाः सुधाया इव भान्ति कुल्याः ॥ ८-२६॥
कल्हारपद्मोत्पलकान्तिभिस्ते
कटाक्षविक्षेपगुणं भजन्त्यः ।
अरण्यभागान् अभितः प्रवाहै-
राप्याययत्याप इमाः प्रसन्नाः ॥ ८-२७॥
त्वद्वक्त्रपद्मप्रतिमासहस्रैः
संसृज्यमानेव सपुष्कराऽसौ ।
प्रभावतः ख्यापितपुष्करश्रीः
पुण्योदका पुष्करिणी विभाति ॥ ८-२८॥
सञ्चारजातैः श्रमवारिलेशै-
रालक्ष्यमुक्तागुणमण्डनं त्वाम् ।
व्यक्तं नदी वीजयतीयमारा-
दम्भोरुहैराश्रितवीचिहस्तैः ॥ ८-२९॥
सहन्ति वाता(शीता)तपवर्षवातां-
स्तोयेषु तिष्ठन्ति रविप्रतीक्षाः ।
तपस्यतस्त्वन्मुखकान्तिलोभात्
पद्मानिमान् पश्चिमराम मन्ये ॥ ८-३०॥
तरङ्गिणीभिः परिरभ्य मुक्तः
संलापवान् भृङ्गरवैरधीरैः ।
आपृच्छते नूनमतः प्रयान्तं (?)
मन्दीभवन् कुन्दसमीरणस्त्वाम् ॥ ८-३१॥
मनःप्रसादं तव दर्शयन्ती
प्रालेयसङ्घातनिभैः पयोभिः ।
शुद्धा नवेन्दीवरनीलवासा-
श्छायेव ते शैवलिनी विभाति ॥ ८-३२॥
सह प्रयच्छन्ति तव प्रियाभि-
श्चञ्चूर्यमाणा इह चक्रवाकाः ।
आहूय दातार इवातिथेयाः
कालोचितां कस्त्वमितीव वाचम् ॥ ८-३३॥
विधूतवालव्यजनाः स्वपक्षै-
श्चारुस्वनापादितचाटुवादाः ।
अभिन्नवर्णाः प्रतियन्त्यमी त्वां
राजोपचारैरिव राजहंसाः ॥ ८-३४॥
दिवाऽपि गोवर्धननिर्झराणां
सञ्छादिते व्योम्नि तुषारजालैः ।
इहातपश्चान्द्रमसेन धाम्ना
विकल्प्यते बोधितपङ्कजोऽपि ॥ ८-३५॥
अतर्कितप्राप्तमवेक्ष्य कान्त्या
मेघङ्करं मेचकमम्बरं ते ।
निनादनिष्पादितषड्जगीता
नृत्यन्त्यमी सानुषु नीलकण्ठाः ॥ ८-३६॥
नदीभिरारब्धतरङ्गलास्यं
नादैर्युतं निर्झरदुन्दुभीनाम् ।
गायद्द्विरेफं गिरिणा त्वदर्थं
प्रायेण सङ्गीतमिह प्रयुक्तम् ॥ ८-३७॥
कलिन्दजाकच्छभुवां सखीभिः
प्रच्छायवन्याभिरधित्यकाभिः ।
सूते गिरिः सूचि(दि)तनन्दनोऽसौ
स्वर्गौकसां स्वैरविहारवाञ्छाम् ॥ ८-३८॥
अभ्यागतं वीक्ष्य भवन्तमारात्
साला इमे सामिनताग्रशाखाः ।
सुधारसस्वादुतमानि भक्त्या
स्वयं प्रयच्छन्ति फलानि धन्याः ॥ ८-३९॥
पात्रीभवन्तस्तव वीक्षणानां
पद्मालयावासविकल्पितानाम् ।
चराचराः कानि कियन्ति वैते
तपांस्यतप्यन्त भवान्तरेषु ॥ ८-४०॥
विजानतां सत्पुरुषप्रभावं
पुंसाममी पुण्यतमीभवन्तः ।
प्रायस्त्वदङ्गीकरणात् प्रयास्य-
न्त्याराध्यतामद्रिवनावकाशाः ॥ ८-४१॥
संस्कारपूताभिरितीव वाग्भिः
सम्मोदयन्नग्रजमादिदेवः ।
विजातलीलो विजहार हृष्यन्
वन्द्यः सतां वत्सगणानुयायी ॥ ८-४२॥
स्वयंवृतः स्वैरविहारलक्ष्म्या
मुहुर्वितेने विपिने मुकुन्दः ।
स्थानान्तरप्राप्तिविभावितानि
स्थितेरभिन्नानि गतागतानि ॥ ८-४३॥
प्रभूतया पुष्पफलप्रसूत्या
वदान्यवृत्तीनि वनानि दृष्ट्वा ।
सस्मार चिन्तावशवर्तिनीनां
व्रजस्थितानां वरवर्णिनीनाम् ॥ ८-४४॥
प्रायस्तदाह्वानविधौ नियोक्तुं
प्रगृह्य वेणुं प्रतिपन्नदूत्यम् ।
न्यवेशयत् कुड्मलिते सलीलं
बिम्बाधरे सूचितचित्तरागे ॥ ८-४५॥
सामोपपन्नान् क्रमशः स्वरन्ध्रैः
सप्त स्वरान् सप्तभिरुद्वमन्तम् ।
प्रचक्रमे वादयितुं वनान्ते
वंशं प्रियो वल्लववंशजानाम् ॥ ८-४६॥
मुकुन्दवक्त्रानिलवाद्यमानो
वेणुर्बभौ वेद इव द्वितीयः ।
रागावधीनां रहसां यदेकं
गीतात्मनां तस्य निदानमासीत् ॥ ८-४७॥
तद्वंशनादः सुभगोऽनुगच्छन्
अग्रेसरं सौरभमागमानाम् ।
अयत्ननिष्पन्नमनस्समाधीन्
आब्रह्मकान् आतनुतेव जन्तून् ॥ ८-४८॥
शृण्वद्भिरुद्वान्तमधुप्रवाहं
वंशस्वनं तस्य सुधैकवंशम् ।
सयूथ्यतां नूनमवाप्य सर्वैः
सत्त्वैः स्थितं सामिनिमीलिताक्षैः ॥ ८-४९॥
मधुद्रवैरुल्बणसम्मदाश्रू-
ण्यालेख्यनिष्पन्दमृगद्विजानि ।
उदग्रकोशोत्पुलकानि कृष्णो
वंशीनिनादेन वनान्यकार्षित् ॥ ८-५०॥
आस्वाद्य तद्वंशनिनादमाध्वी-
माघ्राय तत्सञ्चरसौरभं च ।
भुक्तामृतानां भुवि सौरभेय्यः
क्षिप्तेतरां क्षीबदशामवापुः ॥ ८-५१॥
वंशस्वनास्वादवशीकृतानां
व्यक्तोदयानां वनदेवतानाम् ।
स कर्बुरः स्निग्धतमैः कटाक्षैः
सेन्द्रायुधो मेघ इवाबभासे ॥ ८-५२॥
आध्मापयामास स शृङ्गमग्र्यं
शङ्खं तथाभूतमिवात्मयोगात् ।
जगौ च गेयानि बहूनि येषां
गान्धर्ववेदोऽपि न पारदृश्वा ॥ ८-५३॥
त्रिस्थानयुक्तस्वरभूषितं तत्
त्रिधा स्थितं ग्रामविशेषयोगात् ।
अरञ्जयत् सप्त जगन्त्ययत्नात्
गीतं हरेराहृतकिन्नरौघम् ॥ ८-५४॥
विलासवाक्यैरिव वेणुनादै-
र्दिव्येन गीतेन च दैत्यहन्तुः ।
निवेदितार्थाः सुदृशः स्ववासा-
दाजग्मुराकर्षणमन्त्रतीक्ष्णैः ॥ ८-५५॥
अनिष्टशब्दैर्वलयैरपोढाः
काञ्च्याऽप्यवज्ञातपदोपगत्या ।
गुणावकृष्टाः प्रियमाप्तुमीषुः
कामोपदिष्टेन महापथेन ॥ ८-५६॥
आदिश्यमानां प्रियवंशनादै-
राशां निजाशामिव निर्विघाताम् ।
तदास्थितां प्रास्थिषताशु धन्या-
मासन्नसन्ध्याधिकरागभाजः ॥ ८-५७॥
मधुव्रताधिज्यशरासनेन
पुष्पात्मकं सन्दधता पृषत्कम् ।
अनुप्लवेन व्रजता बभूवे
तासामनङ्गेन तदोद्यतानाम् ॥ ८-५८॥
आदेशयोगैरथ तत्र गोप्यो
निवार्यमाणा अपि दुर्निवाराः ।
आनिन्यिरे रागमयैर्महौघैः
क्लेशापहं कृष्णसुधापयोधिम् ॥ ८-५९॥
त्वरासखीनां पुरतः प्रचेले
तरस्विना निःश्वसितेन तासाम् ।
सदागतिप्रार्थनया समेतं
दूरस्थितं कृष्णमिवोपनेतुम् ॥ ८-६०॥
प्रायेण वेगात् सुदृशां विभिन्नः
प्रकीर्णमुक्ताफलपुष्पजालः ।
प्रस्तावयन् कामविहारनाट्यं
हारः समालक्ष्यत सूत्रधारः ॥ ८-६१॥
अवस्थितं कापि कदम्बमूले
बल्गुस्मितं वादितमञ्जुवेणुम् ।
साचीकृताक्षं ददृशुस्तरुण्यः
स्वाद्यं सतां स्वस्तिकचारुजङ्घम् ॥ ८-६२॥
तदङ्गशोभामवलोक्य दिव्यां
विस्मेरभावं व्रजतेव दूरात् ।
अमोहयत् यौवतमादिधूर्तः
सन्तोषदिग्धेन समीक्षणेन ॥ ८-६३॥
द्रुतागतिव्याकुलभूषणास्ताः
किञ्चित्समुच्छ्वासितनीविबन्धाः ।
पर्याकुलाक्ष्यः परिवार्य तस्थुः
कृष्णं कृपाधीनदृशं कृशाङ्ग्यः ॥ ८-६४॥
स वल्लभः संसदि वल्लवीनां
बर्हस्रजा दर्शितदानराजिः ।
उदग्रशृङ्गध्वनिराबभासे
दृप्तो वशानामिव वारणेन्द्रः ॥ ८-६५॥
अवृद्धिसङ्कोचमिवेन्दुमन्य-
मकार्मुकं काममिवाऽऽत्तवेणुम् ।
तमद्भुतानामिव राशिमेकं
गोप्यस्तदात्मान इवान्वभूवन् ॥ ८-६६॥
सुराङ्गनाभिः समये धृतायां
स्वेनैव गोपाकृतिभूमिकायाम् ।
अकर्मवश्यस्य विभोस्तदासी-
दर्चाफलस्पर्शनमात्रलीला ॥ ८-६७॥
न खल्वमुष्य प्रमदामदान्ध्यं
न कुत्सनं तत्तदभीष्टदातुः ।
न धर्मसंस्धापनबाधगन्धः
शुद्धानुचिन्त्या हि शुभस्य लीला ॥ ८-६८॥
अनागमप्रत्ययसम्भवानां
गुरुत्यजां गोपकुमारिकाणाम् ।
अनन्यसङ्गात् स दयालुरासी-
दसङ्गघण्टापथसार्थवाही ॥ ८-६९॥
पुष्पावचायप्रवणेन गोप्यः
प्रसाधितास्तेन स च प्रियाभिः ।
अभिन्नबाह्यान्तरमैकरस्या-
दामोदमन्योन्यसगन्धमापुः ॥ ८-७०॥
स्वलालनादापतितं स तासां
सौभाग्यदुर्मानमदं विनेष्यन् ।
पुष्पावचायव्यपदेशलौल्या-
दासीत् दवीयानबहिःस्थितोऽपि ॥ ८-७१॥
अविप्रकर्षेऽपि तिरस्करण्या
क्लृप्तावृतिं कृष्णमनीक्षमाणाः ।
भीमैरदूयन्त भृशं तरुण्यः
क्षणैः स्वनिःश्वाससमीरदीर्घैः ॥ ८-७२॥
पुष्पावकीर्णेषु वनद्रुमाणां
मूलेषु मोहालसचेतसस्ताः ।
कृतासिकाः कृष्णवियोगखेदात्
कामास्त्रपर्यङ्कगता इवाऽऽसन् ॥ ८-७३॥
विलीनचित्ता विषमास्त्रतापात्
विलापयन्त्यो वसुधां विलापैः ।
अदृश्यरूपस्य हरेरगायन्
गुणांश्चरित्राणि च गोपकन्याः ॥ ८-७४॥
मुकुन्दविश्लेषविमोहितानां
संश्रूयमाणानि मुहुर्वनान्ते ।
शमप्रदान्यात्मविदामभूवं-
स्त्रय्यन्तगन्धीनि वचांसि तासाम् ॥ ८-७५॥
स माययाऽऽत्मानमसौ परेषां
प्रच्छाद्य सन्दर्शयति प्रसादात् ।
इतीममर्थं प्रथयन् प्रियाणां
दृष्टिं शुभां दातुमियेष तासाम् ॥ ८-७६॥
तासामथ स्मेरमुखाम्बुजेन
श्यामेन पीताम्बरचित्रितेन ।
आविर्बभूवे सहसा पुरस्तात्
मधुद्विषा मन्मथमन्मथेन ॥ ८-७७॥
तमेकचित्ताः प्रतिसन्निवृत्तं
यातेन नृत्यन्तमिवाद्भुतेन ।
गोप्यः पुनर्जातमिवात्मनैव
प्रैक्षन्त सम्मोदपयोधिमग्नाः ॥ ८-७८॥
नवेन्दुरेखाकृशपाण्डुराङ्गी-
स्तापाश्रुसन्दर्शितवह्नितोयाः ।
ददर्श गोपीरवतारगोपः
श्वासैस्त्रिलोकीमिव(मुप)शोषयन्तीः ॥ ८-७९॥
अविध्यतैकः प्रणयापराधी
योगैरलक्ष्यो युगपत् प्रयुक्तैः ।
आवर्जितभ्रूधनुषाममोघै-
रेणीदृशामीक्षणचित्रपुङ्खैः ॥ ८-८०॥
प्रसादजीवातुभिरङ्गनानां
प्रत्येकमन्याभिरलक्षणीयैः ।
विलासचाटूक्तिविलोकनाद्यै-
रानन्दयन् सान्त्वनमाचचार ॥ ८-८१॥
तासां तदङ्गव्यतिषङ्गलोभात्
सैरन्ध्रिकावृत्तिमुपेयुषीणाम् ।
विरक्तनिध्येयपदः स रागी
रागाधिकां प्रास्तुत रासलीलाम् ॥ ८-८२॥
तदग्रहस्तग्रहणार्थिनीनां
स सव्यतो दक्षिणतश्च तिष्ठन् ।
बभार विद्युद्व्यवधानभाजां
वात्याजुषां वारिमुचामभिख्याम् ॥ ८-८३॥
द्वयोर्द्वयोरेकतया स तासां
मध्ये स्थितो मण्डलरासनृत्ते ।
करद्वयस्पर्शरसेन कान्ताः
प्रत्येकमानन्द्य भृशं ननन्द ॥ ८-८४॥
अपारमावर्तयता रसाब्धिं
रामानुजो रासजवेन दीव्यन् ।
पदाश्रितानां भ्रमशान्तिहेतुः
प्रियासहस्रं भ्रमयाञ्चकार ॥ ८-८५॥
स्वमायया धूर्णयतो महत्या
विश्वानि भूतानि विभोरजस्रम् ।
रामाजनं रासवशं विधाय
स्वस्य स्वयं प्राप निदर्र्शनत्वम् ॥ ८-८६॥
स्वपादपांसुस्नपिताकृतीनां
स्विद्यन्मुखीनां व्रजसुन्दरीणाम् ।
लम्बालकानां ललितस्मितानां
लाभात् स्वयं लब्धमनोरथोऽभूत् ॥ ८-८७॥
सनृत्तगीतेन विहारयूना
गोपीजनैरन्तरितेन बद्धम् ।
तदद्भुतप्रस्थिति रासचक्रं
जवादलक्ष्यान्तरमाबभासे ॥ ८-८८॥
जगुः सहर्षं दिवि देवकन्याः
दिव्यास्तदा दुन्दुभयः प्रणेदुः ।
पपात कल्पद्रुमपुष्पवृष्टिः
सदर्चिते संश्रितरासलीले ॥ ८-८९॥
गृहीतहस्तद्वितयाः सलीलं
मिथ्याभुजङ्गेन मृगीदृशस्ताः ।
परिभ्रमन्त्यो विपरीतवृत्त्या
प्रक्रान्तरासां भुवमभ्यजानन् ॥ ८-९०॥
मनोज्ञमल्लीहसितेन तासां
रम्येण कृष्णो रजनीमुखेन ।
अन्यादृशीं प्रीतिमनन्ययोगा-
दापादयिष्यन् विरराम रासात् ॥ ८-९१॥
उद्भिन्नघर्माम्बुकणं विहारात्
तासां करस्पर्शरसेन चैनम् ।
लतागृहे नन्दनगर्भशोभिन्या-
सीनमन्वासत गोपकन्याः ॥ ८-९२॥
स्वलम्भितैश्चित्रपलाशपुष्पैः
संवीज्यमानो विटपैः प्रियाभिः ।
निदर्शयामास वनान्तराले
नीलाद्रिमुद्भ्रान्तमयूरवृन्दम् ॥ ८-९३॥
विचित्रलीलाहितवेपथूनां
तासामनासादितविश्रमाणाम् ।
तापोपशान्त्यै तपनात्मजाया-
माह्लादनीमद्भिरियेष लीलाम् ॥ ८-९४॥
मुखेन तस्य द्विजराजभासा
ताराभिरामेण तमोपहेन ।
प्रेमोदधिं वर्धयता प्रियाणां
सञ्चिक्षिपे तत्र सरोजकान्तिः ॥ ८-९५॥
सन्ध्याघनाभः स तदा प्रियाणां
मध्ये बभौ वारिजरेणुताम्रैः ।
शृङ्गारदिग्धैरिव दृष्टिपातैः
शृङ्गोदकैराप्लुतचित्रदेहः ॥ ८-९६॥
स पद्मिनीनां सलिलस्थितानां
चकार सम्मीलनमाशु तासाम् ।
तुषारजालैस्तुहिनांशुसौम्यः
कामोपनेता करयन्त्रमुक्तैः ॥ ८-९७॥
पटीरपङ्कैः प्रतिपन्नगङ्गां
शोणान्वितां कुङ्कुमसङ्गमेन ।
कस्तूरिकाभिः प्रचितात्मवर्णां
कृष्णप्रियाः कृष्णनदीं वितेनुः ॥ ८-९८॥
अकालजातप्रतिमेन्दुजालान्
आकीर्णमिथ्याशफरांस्तरङ्गान् ।
वक्त्राक्षिवक्षोरुहबिम्बयोगा-
दकल्पयन् कल्पितचक्रवाकान् ॥ ८-९९॥
सविभ्रमा चारुपयोधराभा
ताभिः समं सूर्यसुता प्रपेदे ।
अलब्धपूर्वं तदनन्यलभ्यं
कृष्णोपभोगेन कृतार्थभावम् ॥ ८-१००॥
नितम्बवक्षोजनिरूढवृद्धि-
र्मध्ये कृशा संश्रितनिम्ननाभिः ।
विलोलपद्माग्रतरङ्गहस्ता
तासामभूदन्यतमेव साऽपि ॥ ८-१०१॥
असूययेव प्रमदाजनानां
लाक्षाञ्जनादीनि विलोपयन्ती ।
निसर्गशोभातिशयप्रकाशात्
कृतोपकारेव नदी बभूव ॥ ८-१०२॥
चिरप्रवृद्धं दयितेऽनुरागं
चित्ते दुरासेधमिवोद्वमन्ती ।
प्रायेण तत्कान्तिमधूपभोगात्
दृष्टिस्तदा रागमुवाह तासाम् ॥ ८-१०३॥
अनङ्गरागोज्ज्वलचित्तदेहा
विश्वाधिकं विव्यधुरायताक्ष्यः ।
कह्ला (ल्हा)रशोभारचितैः कटाक्षैः
कामस्य बाणैरिवतापदीप्तैः ॥ ८-१०४॥
विगाहनात् गोपनितम्बिनीनां
संवर्धमाने सहसाऽम्बुपूरे ।
तद्वक्त्रशोभाविजितैः सरोजै-
रन्तर्हितं नूनमवाप्तलज्जैः ॥ ८-१०५॥
कृष्णाम्बुदः कल्पितहस्तयन्त्र-
श्चकार गोपीनयनोत्पलेषु ।
धाराम्बुसेकादुपसम्भवन्त्या
रागश्रिया रक्तसिलीन्ध्रशोभाम् ॥ ८-१०६॥
मुहुः प्रयुक्तां मुखपुण्डरीके
कदर्थयन्त्या करयन्त्रधाराम् ।
कान्ते कयाचित् दधिरे कराभ्यां
गतागतान्युत्पलकाननानाम् ॥ ८-१०७॥
प्रयापिते गोपिकया कयाचित्
कृष्णाननं कीचकयन्त्रतोये ।
निमीलनोन्मीलनतस्तदीयात्
नक्तन्दिवं तत्क्षणदृश्यमासीत् ॥ ८-१०८॥
तमार्द्रभावान्निबिडान्तरीयं
लम्बालकं राशिमिवाद्भुतानाम् ।
पश्चादुपेता परिरभ्य तस्थौ
काचित् प्रिया कामवधूरिवान्या ॥ ८-१०९॥
अभङ्गुरप्रेमबलेन तस्या
वद्धं प्रियं बाहुलताद्वयेन ।
समीक्ष्य कामार्पितपाशमन्याः
सम्प्लावयामासुरपेतशङ्काः ॥ ८-११०॥
यदङ्घ्रियोगाज्जगतां त्रयाणां
मन्दाकिनी मान्यतमा बभूव ।
तयाऽपि सम्भाव्यतमा तदाऽऽसीत्
कृष्णेन सा तेन कृतावगाहा ॥ ८-१११॥
अथोपचारान् उपपादयन्ती
दिव्येन देहेन दिनेन्द्रकन्या ।
आनर्च पादार्पितरत्नपुष्पा
गोपीसखं गोपकुमारमाद्यम् ॥ ८-११२॥
सरिद्भिरन्याभिरपि प्रभावात्
प्रायेण गोपीतनुमाश्रिताभिः ।
तोषादुदन्वत्सुतयोपभोग्य-
स्तोयोपचारेण विभुः सिषेवे ॥ ८-११३॥
तमुत्तरन्तं सरितः प्रवाहा
दुत्तारकं पङ्कमयात् पयोधेः ।
मरुत्प्रयुक्ता वसनाङ्गरागै-
राकल्पयन् अप्सरसस्तदर्हैः ॥ ८-११४॥
व्रजाङ्गनाश्च त्रिदशाङ्गनाभिः
प्रसाध्यमाना बहुमानपूर्वम् ।
रमासहायप्रणयानुरूपां
सम्माननां साधुजनेष्वविन्दन् ॥ ८-११५॥
विहृत्य तस्मिन् व्रजसम्मुखीने
चक्रं गवां शैलवनान्निवृत्तम् ।
उपाद्रवत् कश्चिदरिष्टनामा
कैलासपर्यायतनुः ककुद्मान् ॥ ८-११६॥
खुराग्रवज्रेण विदारयन्
क्ष्मां विषाणनिर्भिन्नविमानमूलः ।
दुर्वारवेगो ददृशे स दूरा-
न्मृत्योरुपक्रान्तमहो महोक्षः ॥ ८-११७॥
शृङ्गावरुग्णैः शकटैः प्रकीर्णं
वृषान्तरैराशु विमुक्तमार्गम् ।
व्रजं तदा विप्लुतगोपवर्गं
त्यक्त्वा स कृष्णाभिमुखं जगाम ॥ ८-११८॥
तमापतन्तं प्रतिसञ्जिहानो
निर्र्ह्रादवित्रासितदीनधेनुम् ।
विषाणयुग्मग्रहणेन शौरि-
श्चक्रे विनिष्पीडितपीनकण्ठम् ॥ ८-११९॥
अपहत्य दुर्जयमरिष्टदानवं
जगतामरिष्टमिव जातविग्रहम् ।
व्रजसद्भिरद्भुतविहारतोषितैः
सुरसत्तमैरपि समं स तुष्टुवे ॥ ८-१२०॥
अन्यैरप्यसुरमलिम्लुचैरनेकै-
रातङ्कान् स्थिरचरसूतिभिः प्रसूतान् ।
गोपानां प्रतिविदधे गवां च काले
रामेण स्तुतचरितो रथाङ्गपाणिः ॥ ८-१२१॥
॥ इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये वेणुनाद रासलीलां नाम अष्टमः सर्गः ॥
॥ मधुराप्रत्यागमनं नाम नवमः सर्गः ९॥
अथ भोजपतिर्जगत्पते-
रवतारं भुवि नारदान्मुनेः ।
श्रुतवान् अतिदेवदानवं
व्यथया पीतविषोपमोऽभवत् ॥ ९-१॥
निहता पृथुकेन पूतना
शकटं तत् परिवर्तितं महत् ।
ककुभद्वितयं निपातितं
प्रहितः क्वापि निपीड्य कालियः ॥ ९-२॥
स च गोमुखवर्धनो दधे
गमितः क्षोदमरिष्टपर्वतः ।
प्रथितश्च बलः प्रलम्बजित्
निधनं धेनुकदानवो गतः ॥ ९-३॥
दवहव्यवहश्च जग्रसे विषधृत्
विन्ध्यसमो विदारितः ।
इति नाम विजृम्भणे रिपो-
रलमेकैकमलङ्घ्यतास्थिते ॥ ९-४॥
बहुभिः किमिह प्रतर्कितै-
र्बलिनः स्त्रोतसि धावतो विधेः ।
यदतीतमतीतमेव तत्
करणीयं पुनरायतिक्षमम् ॥ ९-५॥
इति विप्रतिसारविह्वलः
स्वयमुत्थापितमृत्युचोदितः ।
प्रतिहन्तुमियेष चक्रिणं
शलभो दीप्तमिवाशुशुक्षणिम् ॥ ९-६॥
दिवसान्तदिवाकरोपमः
श्वसितान्दोलितजीवितस्थितिः ।
भयविस्मयरोषकर्बुरः
स शिरःकम्पमवर्तयत् क्षणम् ॥ ९-७॥
स च दानपतिं समादिशत्
भवतो जीवतु भद्र सौहृदम् ।
अजितेन जिघांसितस्य मे
भज साहायकमात्मरक्षणे ॥ ९-८॥
अतिमानुषचेष्टितः स्वयं
मधुजिन्मानुषभूमिकां वहन् ।
असुरान् अभिहन्तुमीहते
दमनीयोऽयमरूढयौवनः ॥ ९-९॥
अविचारितमाशु गम्यता-
मधिनन्दावसथं विहारिणौ ।
बलदेवजनार्दनौ बला-
दुपनेयौ भवता छलेन वा ॥ ९-१०॥
सह नन्दमुखैरशङ्कितं
करदानव्यपदेशवञ्चितैः ।
अपरेद्युरिहोपसर्प्यता-
मसुरध्वंसकृदग्रजान्वितः ॥ ९-११॥
इति वाचमुदीर्य दुर्मतिः
स्ववधोपात्तकृपाणिकोपमाम् ।
सपदि प्रजिघाय केशिनं
मधुजित्पीडनलोभमोहितः ॥ ९-१२॥
स च वाजिमहासुरश्चरन्
अनुवृन्दावनमद्रिसन्निभः ।
समहेषत सम्मुखं प्रभो-
रशनिध्वानभयानकध्वनिः ॥ ९-१३॥
कुलिशोपमदन्तपङ्क्तिकं
कुटिलप्रेक्षितजातविद्युतम् ।
खुरखण्डितभूमिमण्डलं
ज्वलदङ्गस्फुटविष्फुलिङ्गकम् ॥ ९-१४॥
बडबामुखवह्निदारुणं
विपुलावर्तविशेषचित्रितम् ।
धृतसिन्धुतरङ्गताण्डवं
मुखनिष्कासितफेनसम्प्लवम् ॥ ९-१५॥
क्षितिभेदकृतक्षणैः खुरैः
पटुधीरध्वनिनिर्जिताम्बुदैः ।
विदधानमशेषघातिनः
शमनस्येव मृदङ्गवादनम् ॥ ९-१६॥
धृतवालधिधूमसंहतिं
चटुलोल्काशतचण्डकेसरम् ।
ग्रसितुं क्षममम्बुधीन् क्षणात्
अनुकल्पाश्रितकल्प(चण्ड)पावकम् ॥ ९-१७॥
गरुडानिलचित्तरंहसं
गतदूरान्तिकमक्रमैः क्रमैः ।
मुहुरुत्प्लुतिभिन्नभास्करं
निबिडास्यूतपयोदकेसरम् ॥ ९-१८॥
भ्रमणे कृतसालमण्डलं
क्रमणे दिक्षु विदिक्षु च स्थितम् ।
नटवृत्तिमिवाशुनर्तने
कलिताकाशमिवाङ्गधूनने ॥ ९-१९॥
मधुजिद्वहनक्षमात्मना
दरनिर्भुग्नफणेन भोगिना ।
मुहुरुन्नमितामयत्नतो
नमयन्तं निजभारतः क्षितिम् ॥ ९-२०॥
अचलक्षितिसन्धिभेदनै-
रनिलस्कन्धविभागभञ्जकैः ।
बधिरीकृतनिर्जरश्रुतिं
बहुभिः सम्भ्रमहेषितोर्मिभिः ॥ ९-२१॥
द्विरदायुतसारदुर्दमं
द्रुतविद्रावितदिङ्मतङ्गजम् ।
असुरादिभिरप्यनास्थितं
सुरसेनापरभागदर्शिनम् ॥ ९-२२॥
प्रतिकायमिवासुरश्रियः
प्रथमाकल्पमिवान्तकभ्रुवः ।
परिवर्तमिवामरश्रियः
प्रतिघस्येव महोत्सवं नवम् ॥ ९-२३॥
उपमानमिवात्मनः स्वयं
प्रतिमानेऽपि समे समत्सरम् ।
अवलेपमिवाऽऽत्तविग्रहं
द्विषदुत्पातमिव द्रुतोदितम् ॥ ९-२४॥
अचमत्कृतपञ्चवक्त्रकं
कृतमन्यैरिह दुष्टसत्त्वकैः ।
अपसर्पितगोकुलं भयात्
अभिलीनस्थलगोपयूथपम् ॥ ९-२५॥
अवमत्य तुरङ्गदानवं
शमयन् गोपगणस्य साध्वसम् ।
प्रजहास हरिः प्रतिद्रवन्
प्रसभास्फोटितभावितोद्यमः ॥ ९-२६॥
विवृतायतवक्त्रकन्दरं
प्रतिधावन्तमिवान्तकं प्रभुः ।
भुजसानुमतः प्रवेशना-
दगमं वज्र इव व्यदारयत् ॥ ९-२७॥
क्रकचक्षतदारुभेदवत्
समपादाक्षिललाटनासिके ।
ददतुः क्षितिकम्पमाघ्नती
शकले सैन्धवदानवस्य ते ॥ ९-२८॥
विशरारुभिरस्य विश्वतः
कलधौताचलखण्डपाण्डरैः ।
वितता पृथिवी विदिद्युते
विबुधप्रीतिलताङ्कुरैरिव ॥ ९-२९॥
तदनाधि विभूतिबन्धुरं
विगतव्याधि कुलं व्रजौकसाम् ।
दमितारिगणेन दीव्यता
यदुनाथेन सनाथतां ययौ ॥ ९-३०॥
त्वरितं च तदा श्वफल्कजः
स्वहितं कंसनियोगमास्थितः ।
दनुजान्तकदर्शनोत्सवस्थिर-
सम्प्रीतिरिति व्यचिन्तयत् ॥ ९-३१॥
अपि नाम निशामयिष्यते
निगमान्तैरिव निर्मिता स्थली ।
रमयिष्यति यत्र मे दृशौ
रसभूमा(रमणीयमातृका)॥ ९-३२॥
भवदुर्गतदिव्यभेषजैः
प्रचितां तत्पदपद्मरेणुभिः ।
प्रणिपत्य शुभां वनस्थलीं
परिपूतो भविताऽह(य)मप्युत
परिपूतो भवितास्म्युताप्यहम् ॥ ९-३३॥
रसमप्रतिमं रसायनं
रमया च क्षमया च सेवितम् ।
नयने मम किं नु पास्यतो
नरकातङ्कनिदानभेदनम् ॥ ९-३४॥
अपि शङ्खरथाङ्गतोरण-
ध्वजवज्राङ्कुशमत्स्यलाञ्छनम् ।
विनिवेशयताद्विभुः स मे
विनते मूर्धनि पादपङ्कजम् ॥ ९-३५॥
यदुवंशमसौ सभाजयन्
बहुमानेन विहारजेन माम् ।
भुजपञ्जरमध्ययन्त्रितः
पुलकोद्भासितनुं विधास्यति ॥ ९-३६॥
श्रुतिसौरभसौम्यया गिरा
सुधयेवैष मुखेन्दुसूतया ।
शमयेदपि नाम सञ्ज्वरं
पुरुषः पुष्करलोचनो मम ॥ ९-३७॥
अहमस्मि तवेति वादिनं
प्रणयस्मेरमुखः प्रसन्नधीः ।
विदितेतरवर्जितोऽप्यसौ
विभुरक्रूर वदेति वक्ष्यति ॥ ९-३८॥
चिरशीलितसंयमक्रमै-
र्यतिभिर्योगदृशा दिदृक्षितम् ।
निधिमद्भुतमुज्झितावधिं
परिपश्येयमहं प्रसङ्गतः ॥ ९-३९॥
स दृशा सदृशान्तरोज्झितः
सुमुखः स्वागतवाक्यगर्भया ।
कलुषं किमपह्नुवीत मे
करुणासिन्धुसुधोर्मिकल्पया ॥ ९-४०॥
व्यथितं वृजिनेन धन्वना
विषयाशीविषमोहितं च माम् ।
अपि जीवयिता पतिः सता-
ममृतासारनिभैरवेक्षणैः ॥ ९-४१॥
अलमत्र पृथग्विधैः फलै-
रवशादध्वनि विन्दतो मम ।
वसुधावसुदेवदेवकी-
तपसामेकमिदं महत् फलम् ॥ ९-४२॥
मदखेलगती महाबलौ
मधुरालङ्करणं विधित्सतः ।
व्रजयूथपती वशानुगौ
भवितारौ मम भागधेयतः ॥ ९-४३॥
किमकुर्वत पुण्यमग्रिमं
महितास्ते मधुरानिवासिनः ।
कृपयोपगतौ निरीक्षितुं
कृतिनः कृष्णहलायुधावुभौ ॥ ९-४४॥
रमया क्षमया च माधवो
रममाणः प्रतिगम्य तां पुरीम् ।
अपि चर्मदृशोऽपि मादृशान्
अविसंवादयिता स्ववैभवे ॥ ९-४५॥
अवरुद्धभुजान्तरः श्रिया
विदधानो वसुधाकरग्रहम् ।
अभिषेकमुपेयिवानसौ
किमु नाथो भविता कुलस्य नः ॥ ९-४६॥
असहिष्णुरसह्यविक्रम-
स्त्रिजगत्क्षोभकृदुग्रसेनजः ।
बलवान् बलभद्रकृष्णयो-
र्हतधीर्हन्त किमाचरिष्यति ॥ ९-४७॥
अकठोरशिरीषकोमलैः
कथमङ्गैः प्रतियोत्स्यते हरिः ।
कुलशैलकुलीनमुष्टिभिः
कुटिलैः संयति मुष्टिकादिभिः ॥ ९-४८॥
उदयास्तमहीधरस्तनीं
चतुरम्भोनिधिमेखलां भुवम् ।
उपभोक्ष्यत एष कंसजि-
न्न हि दुःसाधमचिन्त्यतेजसः ॥ ९-४९॥
इति सम्मतसत्त्वसारथौ
महितस्थेम्नि मनोरथे स्थितः ।
हरिपादरजःपवित्रितं
व्रजमासाद्य रथादवातरत् ॥ ९-५०॥
नवनीतमुखैरुपायनै-
रथ नन्दप्रमुखप्रकल्पितैः ।
उचितामभिनन्द्य सत्क्रिया-
मभितस्तान् अगवेषयत् प्रभुम् ॥ ९-५१॥
स ददर्श गवामनुप्लवं
मुदितं केशिवधेन केशवम् ।
गतिमप्रतिघाध्वयायिनां
गरुडच्छत्रनिवारितातपम् ॥ ९-५२॥
घनसंवृतनारदस्तुतं
निगमाघ्रातनिजाङ्घ्रिसौरभम् ।
तरुणारुणताम्रवाससं
शुभ-तापिञ्छतुलाधरद्युतिम् ॥ ९-५३॥
अभिलक्ष्यमनुश्रवेक्षणै-
रविपर्यस्तहिताहितक्रमैः ।
परिभूषितबर्हभूषणं
कमलाकौस्तुभनित्यभूषितम् ॥ ९-५४॥
अतिसूर्यसुधांशुतेजसं
समहानेरुपमेयमात्मना ।
निबिडाद्भुतराशिमक्षयं
निगमानामपि नित्यनूतनम् ॥ ९-५५॥
उपवीणयतस्तमर्भकान्
उपगातॄन् उपनृत्यतश्च सः ।
तदवस्थतदर्हभूमिकान्
यमिनोऽनन्यमतीन् अमन्यत ॥ ९-५६॥
शुभतर्णकशोभितान्तिकाः
सविधे तस्य च धेनुविग्रहाः ।
अनघाङ्गवतीरमन्यत
श्वसितैरस्य समुत्थिताः श्रुतीः ॥ ९-५७॥
प्रणुनाव च भक्तिसन्नतः
प्रणिधानेन विना समीक्षितम् ।
हरिमद्भुतगोपखेलनं
श्रि(शृ)तसर्वातिथिमागतोऽतिथिः ॥ ९-५८॥
दुरितग्रहयोगदुःखितं
त्रिगुणग्रन्थिनिबन्धनिघ्नितम् ।
पतितं निजपादपङ्कजे
परिगृह्णीष्व घृणानिधान माम् ॥ ९-५९॥
स्वपदप्लवमाश्रितान् जनान्
नयसे पारमपारवैभवः ।
अतिवेलमहोर्मिसङ्कुले
कलुषोदन्वति कर्णधारितः ॥ ९-६०॥
रमया सह राजहंसवत्
परमं धाम विभूषयन् भवान् ।
प्रणिधानवतामपङ्किले
पदमेतन्निदधाति मानसे ॥ ९-६१॥
अतिरोधिरसौ निधिः श्रुते-
रनिमेषव्रतदेशिनी दृशोः ।
तनुते तनुरीश तावकी
स्मरणं विस्मरणं च दुःशकम् ॥ ९-६२॥
व्यपदिश्य मुकुन्द देवकीं
विहरन्त्या वसुदेवमन्दिरे ।
जनितोऽसि निजानुकम्पया
जगतीरक्षणजागरूकधीः ॥ ९-६३॥
भवतो भवनाटिकां
विदन् विभवाडम्बरिणां विडम्बिनीम् ।
अनपायपदाधिरोप(ह)णा-
दपवृत्तो(क्तो)न पुनर्निवर्तते ॥ ९-६४॥
सुधियस्तव गोपभूमिकां
सुभगां कौतुकसूतिकां धियाम् ।
अनुविद्य गताग्र्यभूमिका-
मधिविन्देयुरनश्वरीं श्रियम् ॥ ९-६५॥
दुरितानि भजन्ति सङ्क्षयं
तपनेनेव तमांसि दीव्यता ।
हृदयानि च योगिनां त्वया
कुमुदानीव विकासमिन्दुना ॥ ९-६६॥
गुणतश्च विभूतितश्च ते
क्वचिदंशेऽपि समाधिकत्यजः ।
उपमानकलाविकल्पितै-
रुपलक्ष्येत जगत्प्रधानता ॥ ९-६७॥
महिमार्णववर्णनोद्यताः
परिमातुं गुणमेकमक्षमाः ।
त्रपयेव भजन्त्यसीमनि
त्वयि वाचंयमतामनुश्रवाः ॥ ९-६८॥
तव विश्वविदो वदामि किं
जगदेकाधिपतेर्दिशामि किम् ।
कृपणः परिपूर्णसम्पदः
कमिवांशं परिपूरयाम्यहम् ॥ ९-६९॥
प्रकृते किमनेन तत् प्रभो
भवदाविर्भवनस्थलीं पुनः ।
पदपद्मरजःपवित्रितां
विदधानो जहि नाथ विद्विषः ॥ ९-७०॥
बहुशाखविजृम्भणो महान्
अवदातेन सुगन्धिनाऽद्य नः ।
यशसा भवतु प्रसूनवान्
यदुसन्तानमहीरुहस्तव ॥ ९-७१॥
त्वरते रिपुरागतौ तव
स्वयमेवावसरं समर्पयन् ।
नतरक्षणकिंवदन्त्यसौ
न विलोपं भुवि यातु तावकी ॥ ९-७२॥
स्वयमेव समेयुषां वधे
विमतानां क्षितिभारजन्मनाम् ।
मृगयामिव भावयन्त्यसौ
महती सम्पदुपस्थिताऽद्य ते ॥ ९-७३॥
शतकोटिसहस्रसारवान्
मथनं प्राप्स्यति मातुलस्त्वया ।
व्यसनं विपदप्यनेहसा
विनिपातश्च न कस्य कर्मिणः ॥ ९-७४॥
अभिसंहितमौग्रसेनिना
कथितं च क्रमशो व्यजिज्ञपत् ।
कुलजः कुटिलाशयोज्झितः
कुशलं पृष्टवते मधुद्विषे ॥ ९-७५॥
अपरेद्युरशेषतो नयन्
सहसा गोपगणान् स यादवः ।
स्थितमध्वनि रामकेशवौ
रथमारोपयदग्र्यरंहसम् ॥ ९-७६॥
व्रजतोरथ वल्लवस्त्रियो
बलभद्रस्य जनार्दनस्य च ।
अनुदुद्रुवुराशु वर्तनीं
कुररीकूजितसूचकस्वनाः ॥ ९-७७॥
व्यलपन्निति बाष्पगद्गदं
विरहारम्भविषादविह्वलाः ।
वलयैः प्रियवर्त्मपातिभिः
क्षतपुष्पा इव घर्मवीरुधः ॥ ९-७८॥
अपयाति सहाग्रजन्मना
सहसा नन्दसुतो विहाय नः ।
अनुयाम निवारयाम वा
कथमस्माभिरुदास्यते मुधा ॥ ९-७९॥
श्रुतिषु ज्वलनं वमत्यसा-
वदवीयोरथचक्रचीत्कृतिः ।
द्रुतमेत्य पतेम तत्पदे
गुरुभर्त्रादिषु मुक्तगौरवाः ॥ ९-८०॥
प्रगुणत्वमिव व्रजस्त्रिय-
श्चलसम्बन्धिनि नन्दनन्दने ।
मुदिरध्वनितां विजानते
शिखिनस्तद्रथनेमिनिःस्वने ॥ ९-८१॥
अयमुद्धृतगोकुलेक्षणः
कथमक्रूर इति प्रजल्प्यते ।
अथ वा भुवनेषु दारुणाः
प्रथिताः पुण्यजना निशाचराः ॥ ९-८२॥
बडिशामिषवत्प्रयुक्तया
रिपुरक्रूरसमाख्ययाऽन्वितः ।
विभवं हरति व्रजौकसां
किमिहोच्येत वदेम कस्य वा ॥ ९-८३॥
अवतारवराहरूपिणा
हरिणा भूमिरुदञ्चितोदधेः ।
विरहव्यसनोदधेरितः
क इवोदञ्चयितुं क्षमेत नः ॥ ९-८४॥
चिरसङ्घटितोऽपि नः क्षणा-
दनुरागो बलभद्रकृष्णयोः ।
अपयातमहानदीद्वयो
भविता शोण इवैष निष्फलः ॥ ९-८५॥
अविकल्पितबाल्ययौवनः
प्रणयोऽस्मासु बलानुजन्मनः ।
विधिना विषमप्रवाहिणा
सिकतासेतुरिवैष भिद्यते ॥ ९-८६॥
अमुना शशिनेव कल्पित-
श्चिरमस्मासु शरन्नदीष्विव ।
प्रणयः प्रतिभासजीवितः
प्रतिमाचन्द्र इव प्रलीयते ॥ ९-८७॥
अहमस्मि तव त्वमेव वा
मम दृष्टिस्त्वमिति प्रलोभयन् ।
विजहाति स एव वल्लवी-
रलमेतावदतः परेण किम् ॥ ९-८८॥
अयमेवमशुल्कदासिकाः
स्वपदोपघ्नलताः स्वयं प्रभुः ।
बहुमत्य जहाति निःस्पृहः
कथमालेख्यगता इवाद्य नः ॥ ९-८९॥
निरपेक्ष इवैष नीलया
रसिकः पालिकया सराधया ।
पृथगत्र किमेतदुच्यते
कुहकः कश्चिदसौ कुलस्य नः ॥ ९-९०॥
अमृतस्य विषस्य च स्वयं
प्रभवस्थानमभूत् पयोनिधिः ।
नियतं तदनेन दर्शितं
निजसंयोगवियोगदायिना ॥ ९-९१॥
मुखचन्द्रिकया मुखानि नः
कुमुदानीव विकासमानयन् ।
कितवो यदुवाच सत्यवत्
क्व गतं तत् क्व य तेन गम्यते ॥ ९-९२॥
यमुनापुलिनेषु दीव्यता
यदुतानेन वशीकृता वयम् ।
विफलप्रणयप्रदायिना
विधिना हन्त विलोभितास्ततः ॥ ९-९३॥
विजहाति स एष गोकुलं
मथुरामाद्रियते मनोरमाम् ।
भवितव्यतया शुभाशुभे
तदिहैवं परिवर्तितास्पदे ॥ ९-९४॥
सहजं हरता महानिधिं
विवशानामिव वैरिणेव नः ।
विहितः सुकृतेन कीदृशा
मथुरायोषिदनुग्रहो महान् ॥ ९-९५॥
सहपांसुविहारसम्भृतं
जहता स्नेहमनङ्गवर्धितम् ।
अपि नागरयौवतं क्षणा-
दमुना हन्त विलोभयिष्यते ॥ ९-९६॥
नटवत् परिगृह्य मायया
नतचिन्तामणिरेष नस्त्यजन् ।
अनुरूपतमास्वपि ध्रुवं
नगरस्त्रीषु न सङ्गमेष्यति ॥ ९-१७॥
निजवंशनिनादतोऽपि यत्
स्वदते श्रोत्ररसायनं वचः ।
निदधीत नृशंसधीरसौ
पुरयोषित्स्वपि वागुरामिमाम् ॥ ९-९८॥
इह तावदुपेक्षिता वयं
वशिनाऽऽलेख्यप(व)राङ्गना इव ।
विहरन् विरसेन चेतसा
कितवस्तत्र किमाचरिष्यति ॥ ९-९९॥
युवतीरयमिन्दुकान्तयेत्
नगरे नन्दकुमारचन्द्रमाः ।
स्मितचन्द्रिकया यदीयया
द्रवतामेति मनःशिलाऽपि नः ॥ ९-१००॥
अपि जह्युरमुष्य दर्शने
नवलुब्धा नगरस्त्रियः प्रियान् ।
सुलभे सुमणौ कथं मतिः
क्रमते काचन काचसङ्ग्रहे ॥ ९-१०१॥
ललिताद्भुतलास्यगन्धिषु
ध्रुवमङ्गेषु बलानुजन्मनः ।
नवयौवनरामणीयकं
नयनैः पास्यति नागरीजनः ॥ ९-१०२॥
विधिना विषमप्रवृत्तिना
व्यपनीतोऽपि कदाचिदागतः ।
अपि नः पुनरार्द्रयिष्यते
मदनप्राणसुहृद्भिरीक्षितैः ॥ ९-१०३॥
इह तत्पदकाङ्क्षिभिः स्तनै-
र्नयनैस्तन्मुखपद्मषट्पदैः ।
श्रवणैश्च तदुक्तिजीवितैरपि
जीवेम पुनस्तदादृताः ॥ ९-१०४॥
करुणाभरितैः कदा पुनः
स्वयमुल्लाघयिता स एव नः ।
अपरस्परपातिभिः शनै-
रगदङ्कारनिभैरवेक्षणैः ॥ ९-१०५॥
विविधारुणराजिरञ्जिते
विशदस्मेरविशालशीतले ।
किमपि ब्रुवती कृतार्थतां
नयने तस्य कदाऽनुनेष्यतः ॥ ९-१०६॥
बधिरत्वमिवागतान्यसौ
श्रवणान्यद्य पुनः समेत्य नः ।
रमयिष्यति चाटुभिः कदा
रतिसिन्धोरिव वीचिपङ्क्तिभिः ॥ ९-१०७॥
मदयन् हृदयानि विभ्रमै-
रवि(पि)संवादमिवाऽऽचरन् दृशा ।
अविभागमिवावहन् गुणै-
रपि नः प्रत्यवपत्स्यते पुनः ॥ ९-१०८॥
परिवर्तयिता जगत्त्रयी-
मपरावृत्तिरनेहसः क्रमः ।
यदतीतमतीतमेव तत्
पुनरेष्यत्यपि पुष्करेक्षणः ॥ ९-१०९॥
अथवा पुरसुन्दरीजनैः
सुभगम्भावुकसौम्यवृत्तिभिः ।
अवशादवरुद्धचेतसः
कृतिनः कैव कथा व्रजागमे ॥ ९-११०॥
मथुरापुरमत्तकाशिनीमधुराला
पविलोभिताशयः ।
पुनरेष्यति नन्दनन्दनः
किमिवास्मासु विचिन्त्य कारणम् ॥ ९-१११॥
बहुविभ्रमपाशबन्धुरां
गुणगृह्यः स्वयमेष दुस्तराम् ।
अतिलङ्घयितुं न शक्रुयात्
नगरस्त्रीजननेत्रवागुराम् ॥ ९-११२॥
न रथः परिदृश्यते महान्
न च नेमिस्तनितं निशम्यते ।
न च रेणुरितो विजृम्भते
तदपि भ्रश्यति जीवितं न नः ॥ ९-११३॥
इति वादिनि वल्लवीजने
यमुनां सत्वरसूतचोदितः ।
घटयन् वसुधामनोरथं
वशिनस्तस्य रथः क्षणात् ययौ ॥ ९-११४॥
स्वगुणानुभवेन सुभ्रुवां
भवभोगोचितपुण्यसञ्चयम् ।
विरहव्यथया तु तीव्रया
वृजिनाम्भोधिमशोषयत् प्रभुः ॥ ९-११५॥
परवन्ति जगन्ति बाधितुं
नियतिः किं न करोति निष्ठुरा ।
विजहौ करुणानिधिः प्रियाः
विरहे तस्य च ताभिरास्यत ॥ ९-११६॥
विनिवेश्य रथे सितासितौ
वसुदेवस्य सुतौ स यादवः ।
मणिभङ्गरुचं महापगां
दिवमुष्णांशुरिव व्यगाहत ॥ ९-११७॥
अघमर्षणलीनकिल्विषः
सलिले मग्नतनुर्ददर्श तौ ।
भुजगेन्द्रभुजङ्गशायिनौ
पुरुषौ किञ्चिदिवान्यलक्षणौ ॥ ९-११८॥
उपसृत्य च तीरमादरात्
तदवस्थौ निरवर्णयत् रथे ।
स्मयमानदृशोस्तयोरसौ
निभृतः स्वानुभवं न्यवीविदत् ॥ ९-११९॥
प्रणिधानबहिर्विलोचनैः
प्रतिलब्धानुभवः प्रसादयन् ।
अनिनीषत तावुभौ तदा
पुरमारब्धशरासनोत्सवाम् ॥ ९-१२०॥
गजसिंहगती ततश्च तौ
गिरितुङ्गेन रथेन तेरतुः ।
गगनद्रवसन्निभां नदी-
मपुनःप्राप्तिभयादिवाऽऽकुलाम् ॥ ९-१२१॥
अथ वियति समेतैः सिद्धगन्धर्वमुख्यै-
र्भुवि च भुवनगोपः संस्तुतो गोपवृद्धैः ।
ललितगतिविहारो रामचन्द्रेण सार्धं
रणपरिणतिकाङ्क्षी राजधानीं जगाहे ॥ ९-१२२॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये मधुराप्रत्यागमनं नाम नवमः सर्गः ॥
॥ कंसराज्योद्धारो नाम दशमः सर्गः १०॥
ततस्तौ ददृशुस्तत्र विशन्तौ राजवीथिकाम् ।
पूर्णदृष्टिफलाः पौराः पुण्यैरेकमुखैरिव ॥ १०-१॥
चक्षुषामिव भाग्येन सम्प्रवृत्तौ महोत्सवौ ।
युक्तौ मदनशक्त्येव युगपन्मधुमाधवौ ॥ १०-२॥
अभिख्यावीचिविक्षेपैरपृथग्भावचित्रितैः ।
समेतैरनुभावाद्यैः सक्ताविव रसोत्तमौ ॥ १०-३॥
क्रममुल्लङ्घ्य भूतानां भोगमोक्षाविवोद्गतौ ।
तयोरेव विनिष्पत्त्यै धर्माविव च तादृशौ ॥ १०-४॥
पुनन्तौ भुवनं पादैः पुष्पवन्ताविवापरौ ।
सिञ्चन्तौ कान्तिवर्षेण सितकृष्णाविवाम्बुदौ ॥ १०-५॥
मदोपक्रमदुर्दान्तौ मधुरोद्धतविभ्रमौ ।
कलभाविव सन्नद्धौ कंसादिनलमर्दने ॥ १०-६॥
शुभानामिव सीमन्तैः श्रुतिसीमन्तसेवितैः ।
पुनन्तौ राजविशिखां पुण्यैश्चरणपङ्कजैः ॥ १०-७॥
शीलसंवृतपारम्यैः शृङ्गारपरिकर्मितैः ।
दृषदोऽपि द्रवीभावं नयन्तौ दिव्यचेष्टितैः ॥ १०-८॥
दिदृक्षादत्तदृष्टीनां मनस्कारमनीषयोः ।
सपीतिरससन्तोषं दिशन्तौ देहकान्तितः ॥ १०-९॥
मन्मथायुतसौन्दर्यौ वसन्तायुतसौरभौ ।
शशाङ्कायुतलावण्यौ चण्डरश्म्ययुतद्युती ॥ १०-१०॥
चित्रतामिव नीतानां चित्तचेष्टापहारतः ।
प्रतिसौधं पुरस्त्रीणां निर्विशन्तौ निरीक्षणम् ॥ १०-११॥
सुप्रभातमिह प्राप्तं सूषा च सुदिनं च नः ।
इति वादिभिरन्योन्यं द्रुतचित्तैरनुद्रुतौ ॥ १०-१२॥
बलादपहृतैस्तत्र रजकात् राजसम्मतात् ।
परभागश्रियं प्राप्तौ वासोभिरसितारुणैः ॥ १०-१३॥
लब्धपुण्यविपाकेन मालाकारेण लम्भितैः ।
शबलौ दामभिश्चित्रैः सन्दिग्धवनमालिकैः ॥ १०-१४॥
कान्तिनिर्जितया कामात् प्रदिष्टैः कंसकुब्जया ।
दधतौ वर्णकैर्भूयो दिव्यगन्धौ सुगन्धिताम् ॥ १०-१५॥
ऋजूकृतसुजाताङ्ग्या ऋजुबुद्ध्याऽथ कुब्जया ।
प्रणयन्त्या स्वगेहाप्तिं प्राप्तमन्दस्मितौ मिथः ॥ १०-१६॥
ततो विविशतुः शालां बलिसद्मगुहामिव ।
प्रथितां पृथुभिश्चापैः पन्नगैरिव भीषणैः ॥ १०-१७॥
तत्र शैलनिभं शौरिस्त्रिदशैरपि दुर्दमम् ।
ददर्शाजगवप्रख्यं दम्भोलिकठिनं धनुः ॥ १०-१८॥
स्वपूर्वप्रभवोदन्तमिदानीन्तनयन्निव ।
तदानम्य धनुर्भीमं बभञ्ज भुजलीलया ॥ १०-१९॥
महता तस्य घोषेण विदद्रे द्विषतां मनः ।
सौधानि मधुरायाश्च शुष्काशनिविडम्बिना ॥ १०-२०॥
चापगोपचमूं हत्वा तौ जगद्धितमानुषौ ।
अतिलङ्घ्य धनुःशालां रङ्गद्वारमवापतुः ॥ १०-२१॥
तत्र मृत्युमिव क्रुद्धं निदध्यतुररिन्दमौ ।
नागं कुवलयापीडं निह्नुवानमिवाम्बरम् ॥ १०-२२॥
तमासाद्य द्रुतं शौरिस्त्रासितत्रिदशद्विपम् ।
पञ्चवक्त्र इवाक्रम्य पातयामास भूतले ॥ १०-२३॥
तस्य दन्तौ समुद्धृत्य श्वेताद्रिशिखरोपमौ ।
विदधाते यदुश्रेष्ठौ मल्लयुद्धमहायुधे ॥ १०-२४॥
सह गोपैरधिष्ठाय रङ्गमध्यमरिन्दमौ ।
बलिजित् बलभद्रश्च बालवृत्तैरदीव्यताम् ॥ १०-२५॥
नृपोपहूतैरथ तौ विहारैक्यमवापतुः ।
नर्मकारक-जल्पाक-नट-वर्तक-गायकैः ॥ १०-२६॥
जनस्य महतस्तत्र जनयामासतुस्तदा ।
महता कान्तिवर्षेण दिदृक्षां देवमातृकाम् ॥ १०-२७॥
उपवेदमधीयुर्ये रणार्थं रङ्गदर्शिनः ।
तमेव ते द्विधाभूतं तावुभावभिमेनिरे ॥ १०-२८॥
तदालोकनलाभेन सामाजिकजनस्तदा ।
अनिदम्पूर्वमाह्लादमपवृक्त इवान्वभूत् ॥ १०-२९॥
बिम्बिताकृतयो नार्यस्तद्देहमणिदर्पणे ।
तत्परिष्वङ्गनिर्वेशमयत्नादिव लेभिरे ॥ १०-३०॥
गीतमञ्जुगिरस्तत्र नृत्तसंवादिविभ्रमाः ।
मञ्चेषु हरिरद्राक्षीत् वरस्त्रीर्मदिरेक्षणाः ॥ १०-३१॥
धृतहेतिपरिष्कारान् धीरोद्धतविलोकितान् ।
ददर्श पृथिवीपालान् देवानिव दिवश्च्युतान् ॥ १०-३२॥
तमसामिव सङ्घातं समाहारमिवैनसाम् ।
तुङ्गमञ्चगतं कंसं तुष्टो हरिरवैक्षत ॥ १०-३३॥
ललितारम्भया वृत्त्या रङ्गभाजां रसावहा ।
नरवृत्तान्तविहृतिर्ववृधे रामकृष्णयोः ॥ १०-३४॥
विदधे सिंहनादेन तारेण यदुसिंहयोः ।
गर्जितं दैत्यमल्लानां गोमायुगणवाशितम् ॥ १०-३५॥
तावुभौ डिम्भवपुषौ ख्यातवीर्यपराक्रमौ ।
चाणूरो मुष्टिकश्च द्वौ नियोद्धुमभिजग्मतुः ॥ १०-३६॥
अहो महदुपक्रान्तमत्याहितमिदं यतः ।
अशिक्षितरणौ बालौ मल्लयुद्धे नियोजितौ ॥ १०-३७॥
शिरीषललितैरङ्गैश्चेष्टितैरपि पेशलैः ।
अद्रिसारकठोराभ्यां कथं योद्धुमिमौ स्थितौ ॥ १०-३८॥
पश्यद्भिरवशैर्नूनं पौरजानपदैर्जनैः ।
पापमेतदनुज्ञातं परपिण्डपरायणैः ॥ १०-३९॥
मधुकैटभदुर्दान्तौ मल्लवृन्दारकाविमौ ।
यदि जेष्यति यः कश्चित् स किं न पुरुषोत्तमः ॥ १०-४०॥
अथवा पूतनादीनामप्रयत्नेन घातुकौ ।
नि(न)युद्धे मल्लमुख्येभ्यो नालमेतौ न वा कथम् ॥ १०-४१॥
जनवादमिमं शृण्वन् जातहासो जनार्दनः ।
भुजमास्फोटयामास भूभारहरणे क्षमम् ॥ १०-४२॥
तदास्फोटितशब्देन स्फटत्कर्णस्य भूयसा ।
कंसमल्लगणस्याऽऽसीत् कथा गोपालकाश्रया ॥ १०-४३॥
गोपयुद्धधिया जिहृच्चाणूरः कूणितेक्षणः ।
पुष्पपेषमिवोत्पश्यन् आद्रवत् पुष्करेक्षणम् ॥ १०-४४॥
यथोचे विषमं तत्र नियुद्धं स्थूलदृष्टिभिः ।
तत्त्वदृष्टिभिरप्येवं विश्वाधिकबले हरौ ॥ १०-४५॥
न्यूनाधिकसमारम्भो विभुस्तत्र विहारतः ।
विषादप्रीतिसन्देहान् सभ्यानां समतानयत् ॥ १०-४६॥
स बालः प्रचयं प्राप बालातप इव क्रमात् ।
नीहार इव चाणूरः शनैरपचयं ययौ ॥ १०-४७॥
वारितेष्वथ वाद्येषु विषण्णेन महीभृता ।
दिव्यदुन्दुभयो नेदुर्निगमध्वाननिर्भराः ॥ १०-४८॥
वल्गता बलभद्रेण कृष्णेन च वसुन्धरा ।
वादित्रमिव दध्वान मधुरेन्द्रभयानकम् ॥ १०-४९॥
भीमकालियभोगीन्द्रस्फटारङ्गमहानटः ।
मल्लरङ्गनटं दैत्यं मधुमाथं ममाथ(न्थ)सः ॥ १०-५०॥
मुष्टिघातेन रामस्य मुष्टिकश्च निपातितः ।
भोजाधिपमहोत्पातं भूमिकम्पमवर्तयत् ॥ १०-५१॥
रामरामानुजाभ्यां तौ रावणेन्द्रजिताविव ।
नमयामासतुः पृथ्वीं नगपातं निपातितौ ॥ १०-५२॥
शायितौ वीरशयने दृष्ट्वा चाणूरमुष्टिकौ ।
द्रुतमभ्यद्रवन् कृष्णं तत्र तोसकला(तोसलका)दयः ॥ १०-५३॥
स तानपि नियुद्धेन वसुधायां न्यपातयत् ।
कालो युगपदुद्भूतान् कल्पान्तमिहिरानिव ॥ १०-५४॥
गरुत्मानिव भूभागात् गगनाभोगमायतम् ।
कंसमञ्चमपद्वारादुदप्लवत केशवः ॥ १०-५५॥
कचग्रहेण विवशं कंसमाकृष्य पातयन् ।
पतन् वक्षःस्थले तस्य तत्सत्त्वमुदपाटयत् ॥ १०-५६॥
महामोहमिवाक्रम्य मातुलं मधुसूदनः ।
विवेक इव वृत्तस्थमुग्रसेनममोचयत् ॥ १०-५७॥
ददौ च कंसभृत्यानां ददतां तत्र जीवितम् ।
उन्मुखत्रिदशप्रेक्ष्यामूर्ध्वां गतिमनुत्तमाम् ॥ १०-५८॥
कंसकर्षणमण्डल्यो गम्भीरास्तत्र चिक्यिरे ।
रणलक्ष्मीनिवासस्य रङ्गस्य परिखा इव ॥ १०-५९॥
सुदामनामा कंसस्य सोदरस्त्वरितः क्रुधा ।
बलेन गमितः क्षिप्रमग्रजेन गतां गतिम् ॥ १०-६०॥
अनायुधमहायुद्धं दृष्ट्वा हृषितरोमभिः ।
प्रवातकदलप्रख्यैः प्राश्निकैरभितः स्थितम् ॥ १०-६१॥
कृतिनस्तादृशं युद्धं किलिकिञ्चितयन्त्रिताः ।
लीना इव च पश्यन्तो लिखिता इव चाभवन् ॥ १०-६२॥
सिद्धाश्च दिवि तत्तादृक्तालकल्पितताण्डवाः ।
हर्षदुग्धाब्धिकल्लोलं हाहाकारमकल्पयन् ॥ १०-६३॥
अथ तौ भीमदोर्दण्डकण्डूकर्षणतोषितौ ।
पितृभ्यां दृष्टजन्याभ्यामुपसृत्य प्रणेमतुः ॥ १०-६४॥
तौ च तौ मृदितारातिरक्तचन्दनरञ्जतौ ।
अश्रुभिः प्रीतिनिष्यन्दैः पितरावभ्यषिञ्चताम् ॥ १०-६५॥
विबुधत्वमिव प्राप्तो वसुदेवः सुतेक्षणात् ।
सतत्त्वप्रतिबोधेन सात्त्वतां पतिमस्तुत ॥ १०-६६॥
नमस्ते नाभिनालीकरजसा सृष्टवेधसे ।
अजाय सर्ववेदानामेकवेद्याय विष्णवे ॥ १०-६७॥
अनन्याधारमाधारमनन्येश्वरमीश्वरम् ।
अनुशृण्वन्ति सन्तस्त्वामनन्याधिपतिं पतिम् ॥ १०-६८॥
अभङ्गुररसं भोग्यमनपायं रसायनम् ।
अक्षयं धर्मसर्वस्वमविदुस्तव कीर्तन्नम् ॥ १०-६९॥
अनुग्रहदशादीप्तमशेषार्थप्रकाशकम् ।
दयासम्प्लुतमाहुस्त्वां दीपमन्तस्तमोपहम् ॥ १०-७०॥
देवकी दनुजस्थूणा दिव्यं धाम व्रजाङ्गणम् ।
रमा राधादयश्चेति राशिभेदैर्न भिद्यसे ॥ १०-७१॥
नियन्ता सर्वभूतानां नियन्तव्यैर्नियम्यसे ।
पितामहमुखैः पुत्री मम पुत्रोऽसि मायया ॥ १०-७२॥
महता त्वत्पदेनैव मारुतिन्यायमाश्रिताः ।
निस्तरन्त्यचिरात् सन्तो दुस्तरं भवसागरम् ॥ १०-७३॥
अहितोदन्वदौर्वाग्निमशेषोत्कर्षमातरम् ।
भवभैमरथीं भक्तिं भजन्ति त्वयि साधवः ॥ १०-७४॥
भरन्यासाश्वयुक्तेन भाववेगप्रधाविना ।
मनोरथेन गन्तव्यः सारथिश्च भवान् सताम् ॥ १०-७५॥
वयं तु भवता ग्राह्या वासनादुर्गभेदिना ।
मनागिव समुद्बोध्य मा पुनर्मूमुहद्भवान् ॥ १०-७६॥
महतामपि निष्कम्पा मनुष्यत्वमतिस्त्वयि ।
दृढलक्षितचिह्नानां दिङ्मोह इव दुर्दमः ॥ १०-७७॥
दुरन्तसुखखद्योतं दुःखान्धतमसावृतम् ।
निजेनैव प्रकाशेन निशीथमुपरुन्द्धि नः ॥ १०-७८॥
मशकानिव मातङ्गः कंसमुख्यान् इमान् क्षिपन् ।
यदि विस्मयनीयस्त्वं विस्मये किं न विस्मयः ॥ १०-७९॥
नखलीलाविदार्येषु नाथेषु विबुधद्विषाम् ।
परिष्करणपर्यायाः पञ्चापि तव हेतयः ॥ १०-८०॥
कालनेमिविकारेऽस्मिन् कंसे विमथिते त्वया ।
ईदृशामितरेषां च दत्त एव जलाञ्जलिः ॥ १०-८१॥
नमितायतविष्कम्भा दानवप्रभवैः क्षमा ।
किञ्चिदुत्तम्भितेवाद्य कंसभारापहारतः ॥ १०-८२॥
न खल्वतिशयं कञ्चिदियमाधातुमर्हति ।
सुमणावज्ञक्लृप्तेव स्तुतिरस्मत्कृता त्वयि ॥ १०-८३॥
इति विज्ञापितस्तेन व्रीडादिव नतो विभुः ।
बालोपलालनमिदं भव्यवृत्तिरभावयत् ॥ १०-८४॥
स वाचा सान्त्वयामास पितरं दीनचेतसम् ।
स्ववक्त्रेन्दुविनिष्यन्दिसुधापूरितकुल्यया ॥ १०-८५॥
गम्भीरमधुरां तस्य गिरं निगमगन्धिनीम् ।
श्रुत्वा मुक्तिसखीं प्राप मुदमानकदुन्दुभिः ॥ १०-८६॥
देवकी च परिष्वज्य सुतं वात्सल्यनिर्भरा ।
नन्दगोपवधूलब्धं नवमानन्दमन्वभूत् ॥ १०-८७॥
भूयः प्रादुरभूत्तस्य भुजयुग्मं तिरोहितम् ।
तथापि तादृशं मर्त्यं तममन्यन्त तामसाः ॥ १०-८८॥
बभूव बलभद्रस्य तेन विश्वातिशायिना ।
शिरसा विधृतस्यापि किरीटस्येव शेषता ॥ १०-८९॥
क्रियमाणपरिष्कारः किरीटाद्यैः स बन्धुरैः ।
तानि तान्येव दिव्यानि तत्तदङ्गैरभूषयत् ॥ १०-९०॥
अशोभत शुभं छत्रं तस्य राजन्यलक्षणम् ।
तन्नाभिपुण्डरीकस्य रूपान्तरमिवोदितम् ॥ १०-९१॥
चामरद्वितयं शौरेः समया मुखपङ्कजम् ।
शुशुभे सप्रतिच्छन्दो हंसमूर्तिरिव स्वयम् ॥ १०-९२॥
स चन्द्र इव सम्पूर्णः प्रथमो यदुभूभृताम् ।
पुनरुन्निद्रयामास कीर्न्ति कुमुदिनीमिव ॥ १०-९३॥
अभजन्त द्विजेन्द्रास्तमतद्भोगपराङ्मुखाः ।
सर्गाधिकारान्निर्विद्य(र्वाप्य)शान्ता इव पितामहाः ॥ १०-९४॥
अहार्यान् यदुवंशस्य स भोगान् समकल्पयत् ।
स्वपर्यङ्कभुजङ्गस्य फणामणिगणानिव ॥ १०-९५॥
अमरत्वाय पर्याप्तं तन्मुखेन्दुसमुद्भम् ।
सुधेव परिवारेभ्यः सस्वदे सूनृतं वचः ॥ १०-९६॥
प्रार्थितोऽपि स राज्याय प्रभावज्ञैर्यदूत्तमैः ।
अरोचयत राजानमुग्रसेनं वयोधिकम् ॥ १०-९७॥
न्यस्तरक्षाभरो राज्ञा यौवराज्यमुपाश्रितः ।
शुशुभे पारतन्त्र्येण स्वातन्त्र्यवशवर्तिना ॥ १०-९८॥
तस्य गोपायतः पृथ्वीं गोपालकुहनात्यजः ।
पर्युपास्त पदं धन्या पर्थिवश्रीरनुत्तमा ॥ १०-९९॥
कृतवीराभिषेकं तं क्लप्तकल्याणकौतुकम् ।
तुष्टुवुः समये वेदाः सौस्नातिकपुरस्कृताः ॥ १०-१००॥
शक्तिभिस्तिसृभिर्दीप्तो विवस्वानिव दिप्तिभिः(घृष्टिभिः)।
स्वपदं पृथिवीं चक्रे सुहृद्भिः सूरिभिर्वृतः ॥ १०-१०१॥
विक्लृप्तं तस्य बर्हाद्यं हेमरत्नविभूषणैः ।
वैरोचनिहृतानीतः किरीटो न व्यकल्पत ॥ १०-१०२॥
सप्तिभिः सैन्यसुग्रीवमेघपुष्पवलाहकैः ।
व्यक्तिमन्तोऽभवन् वेदास्त्यजन्तो धेनुभूमिकाम् ॥ १०-१०३॥
पद्माकमलदायादं पदं तस्य स्वमौलिभिः ।
श्रुतयो धारयामासुः पादपीठीकृतात्मभिः ॥ १०-१०४॥
स वेणुः शङ्खरूपेण प्राचा परिपचेलिमः ।
अगोपीसंविभागार्हं पपौ तस्याधरामृतम् ॥ १०-१०५॥
दिदेश सान्दीपनये धनुर्वेदोपदेशिने ।
स्वपदारूढतनयप्रत्यानयनदक्षिणाम् ॥ १०-१०६॥
प्रहितां पुरुहूतेन स्वसङ्कल्पानुवर्तिना ।
कंसजित् कंसपितरं सुधर्मामध्यवासयत् ॥ १०-१०७॥
अशेषरत्नचित्रां तामतीतस्तुतिगोचराम् ।
अद्वैतमिव सर्वेषामद्भुतानाममन्यत ॥ १०-१०८॥
स च तस्यानुभावेन निध्यातनयपद्धतिः ।
प्रजापालनधर्मस्य पारदृश्वतमोऽभवत् ॥ १०-१०९॥
कृष्णपक्षमपि प्राप्य स राजा विश्वरञ्जकः ।
प्रापद्यत परां वृद्धिं सुमनःस्वादनक्षमाम् ॥ १०-११०॥
मलिनैः सततासारैर्मन्त्रिभिश्चपलान्वितैः ।
विमुक्तः स बभौ भास्वान् मेघैरिव जडा(ला)श्रयैः ॥ १०-१११॥
प्रचितं बहुभिस्तीर्थैस्तस्य गूढं चिकीर्षितम् ।
,सारस्वतमिव स्रोतः स्थाने स्थाने व्यजृम्भत ॥ १०-११२॥
मानसंरक्षकस्तस्य मन्त्रस्तर्क इवानयः(घः)।
अङ्गपञ्चकसम्पत्त्या विपक्षे दण्डतां ययौ ॥ १०-११३॥
स्वतः शुद्धां यथास्थानं रोषरागवतीं धियम् ।
स दधे यमुनाशोणशबलामिव जाह्नवीम् ॥ १०-११४॥
सप्तभिः सामदानाद्यैरुपायैः स्थानपातिभिः ।
द्विनवद्वीपसम्भूतं रत्नजातमजीहरत् ॥ १०-११५॥
अनुगन्ता स्वनेतॄणामुदये विश्वरञ्जकः ।
दूरीकृततमाः सोऽभूत् द्वितीय इव भानुमान् ॥ १०-११६॥
सञ्चितस्य धनौघस्य स्थानसञ्चारणेन सः ।
तटाकस्येव पूर्णस्य परीवाहमकल्पयत् ॥ १०-११७॥
आसागरान्तमवमत्य महीपतीन्द्रान्
भूम्ना निजेन परिहृत्य ययातिशापम् ।
ओजोनिरोधकमिलाश्रयमुग्रसेनं
राजानमेकमकरोज्जगदेकनाथः ॥ १०-११८॥
क्षिप्तावद्यं क्षत्रियवृत्त्या बहुशाखं
मग्नं शापोदन्वति मान्यं यदुवंशम् ।
इच्छाधीनस्वेतरसर्वः स्वमहिम्ना
रक्षागोपो रामयवीयान् उदहार्षीत् ॥ १०-११९॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये कंसराज्योद्धारो नाम दशमः सर्गः
॥ द्वारकाधिष्ठानं नाम एकादशः सर्गः ११॥
तदद्भुतं क्रीडितकं क्रमेण
श्रुत्वा(श्रोतॄन्)हरेरप्रतिमानशक्तेः ।
महाबलान् कंसवधादिजन्मा
मन्युः प्रपेदे मगधेन्द्रमुख्यान् ॥ ११-१॥
गोपालडिम्भो नरपालहन्ता
कुले यदोरञ्चितमातपत्रम् ।
अन्यच्च भूम्यामधरोत्तरत्वं
हन्तेति वादान् प्रभुरभ्यनन्दत् ॥ ११-२॥
हलादिभिर्हेतिवरैर्यथार्हं
रथाङ्गमुख्यैरपि रामकृष्णौ ।
स्ववृत्तियोग्यावसरोपयातैः
प्राचीं श्रियं प्रादुरभावयेताम् ॥ ११-३॥
स दैत्यजित् वध्यवरूथिनीनां
सम्प्रापकं सारथिमात्रशेषम् ।
पुनः प्रवृत्तानुशयं पुरीं स्वां
निन्ये जरासन्धं अहार्यसन्धः ॥ ११-४॥
समाहृतैः सैन्यमहासमुद्रै-
रायातमष्टादश साम्परायान् ।
देहावशेषं प्रजिघाय दीनं
देहेन भीमेन विभेत्तुमिच्छन् ॥ ११-५॥
स्वदत्तशक्त्या मुचुकुन्ददृष्ट्या
भस्मावशेषो भविता द्रुतं यः ।
कलेरिवात्मानमनन्तदोषं
यं कालपूर्वं यवनं प्रचख्युः ॥ ११-६॥
बलस्य च स्वस्य च बाहुभूम्ना
यदाहृतम्लेच्छमृगाधिपानाम् ।
सहस्रकोटीगुणितं सहस्रं
पञ्चत्वमायास्यति पञ्चसङ्ख्यम् ॥ ११-७॥
तदागमे यादवपुङ्गवानां
विप्रावमानोपनतं विषादम् ।
निवारयामास न वासुदेवः
प्रख्यापयन् ब्राह्ममृषेः प्रभावम् ॥ ११-८॥
निसर्गनिध्येयपरावरः सः
सम्मन्त्र्य सार्धं यदुवंशवृद्धैः ।
विहातुमिच्छन् मधुरां शुभंयुः
सङ्कल्पयामास पुरीं तदन्याम् ॥ ११-९॥
स्वयं प्रवृत्तैरपि वृष्णिवीरै-
स्त्रातुं क्षमां त्रासितदैत्यलोकः ।
अनन्यसाधारणशक्तिरन्यां
सङ्कल्पयामास पुरीमपूर्वाम् ॥ ११-१०॥
जहौ धरित्रीमिव जामदग्न्यः(ग्नः)
कौलीमयोध्यामिव कोसलेन्द्रः ।
अचिन्त्यवृत्तिर्मधुरामनिन्द्यां
तज्जन्मजातो महिमा तु नैनाम् ॥ ११-११॥
परित्यजन्नप्यभिमत्य तिष्ठन्
व्याप्तः शुभं व्यक्तिपदं तदग्र्यम् ।
अनन्यभाजामभजत् स देव-
स्तस्मिन् सतां प्रागिव सन्निधानम् ॥ ११-१२॥
अहंसपद्मामिव वाहिनीं तां
वीतेन्दुतारामिव वासतेयीम् ।
समाप्तकार्यामिव सत्रशालां
शून्यां पुरीं प्रेक्ष्य जगाम शौरिः ॥ ११-१३॥
चित्रावशेषद्विरदाश्वयोधा
शुकादिसम्भाषणशेषसूक्ता ।
मणिप्रभाशेषितदीपिका सा
नाम्नैव माधुर्यवती तदाऽऽसीत् ॥ ११-१४॥
प्राचीमनादृत्य निवासभूमिं
प्रत्यङ्मुखीं पद्धतिमाददाना ।
स्थिरं पदं प्राप्तुमियेष सेना
सत्वाधिका धीरिव सात्वतानाम् ॥ ११-१५॥
उत्सारयन् धूलिमिवाग्रयायी
विनिर्दिशन् वासमिवातिदूरात् ।
प्रत्युद्गमाय त्वरयन्निवाब्धिं
मरुद्ववौ मन्दविधूतकेतुः ॥ ११-१६॥
प्रभूतभीमोन्नतनागनक्रा
पारिप्लवैरूर्मिमती तुरङ्गैः ।
अपूर्ववारान्निधिमाव्रजन्ती स्वयं
तथा शौरिचमूरभूत् सा ॥ ११-१७॥
समेति मां सात्त्वतवाहिनीयं
सिष्णासया हन्त जिगीषया वा ।
इति प्रभूताद्भुतवैभवां ता-
मुपेन्द्रनाथामुदधिः शशङ्के ॥ ११-१८॥
गतागतैर्योद्धुमिव प्रवृत्तै-
रासीदतामद्भुतभीमवेगौ ।
मिथःप्रतिच्छन्दतया प्रतीक्ष्यौ
वेलावने सैन्यमहासमुद्रौ ॥ ११-१९॥
महीयसा सैन्यरवेण सद्यः
पयोधिरन्तर्हिततीव्रघोषः ।
प्रकम्पमानो भृशमाबभासे
भयेन तूष्णीमिव भाव्यमानः ॥ ११-२०॥
प्रतीक्ष्य सेनामुपधावमानां
पत्या नदीनां प्रणिधीयमानः ।
प्रकाशयन् सर्वजनानुकूल्यं
समीरणो मन्दतरं चचार ॥ ११-२१॥
वदन्निव स्वागतमागतेभ्यः
प्रभूतसन्तोषभवैः प्रणादैः ।
तरङ्गहस्तप्रहितैः सरस्वान्
अभ्यर्चयामास यदून् पयोभिः ॥ ११-२२॥
चिरप्रयातं परिहृत्य शय्या-
मभ्यागतं वारिधिरादरेण ।
मिथःसमायोजितवीचिहस्तः
प्रायः प्रभुं प्रार्थयत प्रसादम् ॥ ११-२३॥
निवेश्य सेनामुदधेः समीपे
तालाङ्कसम्भावितराजताले ।
दयार्द्रमेघोपमदेहभूमा
विश्वम्भरो विश्रमयाञ्चकार ॥ ११-२४॥
कदाचिदात्मानमवाप्तरत्नं
कपालिनं चन्द्रकलावतंसम् ।
क्षमं सुभिक्षां च दिवं विधातुं
(दिवं सुभिक्षां कृतवन्तमेवं)
ध्यातागतं सिन्धुमथादिदेश ॥ ११-२५॥
अनारतप्राप्तजयोद्यमानां
धर्मं निजं धारयतां यदूनाम् ।
अपत्यरक्षोचितमन्तरीपं
दिव्योपमं देयमिह त्वयेति ॥ ११-२६॥
स तस्य दिक्पालनिवासकल्पां
विधित्सतो वृष्णिपुरीं विशालाम् ।
अगाधपाथःपरिखाभिगुप्तं
द्वीपं ददौ दुर्गविधानयोग्यम् ॥ ११-२७॥
बलोत्तराणामपि बह्वमित्रं
स्फीतं यदूनां कुलमीक्षमाणः ।
अवन्ध्ययन् विश्ववित् अर्थशास्त्रं
दुराक्रमं दुर्गमियेष कर्तुम् ॥ ११-२८॥
स शासिता शास्त्रमनुप्रतस्थे
कर्माऽऽददे कर्मफलप्रदाता ।
प्रभुः स्वबुद्ध्यैव जगन्ति गोप्तुं
कुर्वीत बाह्यैरपि किं न गुप्तिम् ॥ ११-२९॥
प्रभूतरत्नद्युतिकेसरं तत्
प्रवालपत्रौघपरीतपार्श्वम् ।
स्थानं हरेरिष्टतमं तदासीत्
सम्भूतिराजीवमिवेन्दिरायाः ॥ ११-३०॥
प्रचोदितस्तत्र च विश्वकर्मा
नाथप्रसत्त्यै नलिनासनाद्यैः ।
रथ्यादिवैचित्र्यवतीं वितेने
राशिं गुणानामिव राजधानीम् ॥ ११-३१॥
स शिल्पविद्यां विधिनोपदिष्टा-
मशेषतो नूनमधीत्य दाक्ष्यात् ।
शुभानि तस्यां भवनानि कर्तुं
सौधेषु दिव्येषु चकार योग्याम् ॥ ११-३२॥
गतागतार्थं हरिवाहिनीनां
सेतुं च योगेन बबन्ध सिन्धौ ।
चकार दिग्भाग(क्काल)विमूढतां यः
प्रत्यर्थिनां चक्रधरप्रभावात् ॥ ११-३३॥
नलेन पूर्वं स्वसुतेन सृष्टात्
नवीनमन्यूनतरं स्वकलृप्तम् ।
समीक्ष्य तुष्यन्नपि विश्वकर्मा
नाथाय रोचेत न वेत्यताम्यत् ॥ ११-३४॥
स सेतुरास्कन्दितकूलयुग्मः
सङ्कल्पितो वासवलोकतक्ष्णा ।
महापुरीं तां च महीं च मातुं
मध्ये तुलादण्ड इवार्पितोऽभूत् ॥ ११-३५॥
निवेदितां निर्जरशिल्पिनैव
स्वयं चमत्कारवता सुकलृप्ताम् ।
अदृष्टपूर्वामिव विश्वदर्शी
दृष्टिः सतां द्रष्टुमियेष नाथः ॥ ११-३६॥
निजप्रतिच्छन्दनिदर्शनीयां
मृग्योपमानान्तरमृष्टकान्तिम् ।
उदन्वता दत्तकरेण देवः
प्रदर्शितां पूर्वमवैक्षतैनाम् ॥ ११-३७॥
अनन्यदृष्टिं नगरी नवीना
विस्मेरतां विश्वपतिं निनाय ।
स्वयम्प्रभैः सौधभरैरुदारैस्तुङ्गैः
सुमेरोरिव रत्नशृङ्गैः ॥ ११-३८॥
तामद्भुतां तारकिताग्रसौधां
धर्मस्य पूर्णामिव योगसिद्धिम् ।
सपौरभृत्यः समयान्ववेक्षी
विवेश वृष्ण्यन्धकयूथनाथः ॥ ११-३९॥
परेण नाकं प्रलयानभिज्ञा-
मधीयते यस्य पुरीमचिन्त्याम् ।
स लोकनाथो विदधे सनाथां
दूराधिकां द्वारवतीं दिवोऽपि ॥ ११-४०॥
विधाय त(य)स्यां विदितैः स्वचिह्नै-
र्यदून् यथास्थाननिवेशतुष्टान् ।
तामेव नाथस्त्रिदशाभिनन्द्यां
त्यक्तामयोध्यां मधुरां च मेने ॥ ११-४१॥
उदन्वति व्योमतले च लग्नां
दृष्टोभयाः दर्पणदर्शनीये ।
यामद्भुतामात्मपुरीं च देवा-
श्छायाममन्यन्त मिथः समीक्ष्याम् ॥ ११-४२॥
प्राकारचक्रं पृथुभिस्तरङ्गै-
रास्फालयन् अम्बुधिरात्तवेगः ।
अमर्त्यमुख्यैरपि जातकोपै-
रक्षोभ्यतां व्याकुरुतेव यस्याः ॥ ११-४३॥
यत्सौधपर्यङ्कजुषां वधूनां
सङ्गृह्य निःश्वासगुणं समीरः ।
पद्मेषु नूनं प्रदिशन् प्रभाते
गतागतं याति गवाक्षवर्त्मा ॥ ११-४४॥
जालानि यत्रागुरुधूमजालैः
सन्दिग्धपारावतसन्निधानैः ।
अवासयन् नूनमहार्यगन्धान्
आसेदुषां नाकसदां विमानान् ॥ ११-४५॥
परार्थ्यरत्नप्रचितात्मभिर्या
प्रासादमालाभिरलङ्कृताङ्गी ।
नाथोपभोगानुगुणां पयोधौ
ननन्द दृष्ट्वैव निजामभिख्याम् ॥ ११-४६॥
मणिप्रदीपप्रशम(मे)प्रयुक्ते
विहारचूर्णे विफले वधूनाम् ।
अपत्रपायाः समयेऽपि यस्या-
मभूदनास्था परमार्थदीपे ॥ ११-४७॥
प्रायेण यत्र प्रमदाजनानां
नित्यं गुणैरप्रतिमैर्नि(ब)रुद्धाः ।
संस्कारयोगादपि लब्धसत्त्वा-
श्चित्रार्पिता नाकसदो न(वि)चेरुः(लुः)॥ ११-४८॥
यदन्तरे यामिकवारणाना-
मासेदुषामम्बुनिधेरभिख्याम् ।
कराभिमर्शेषु पुनश्चका(मर्शावसरेऽचका)सुः
कल्लोललग्ना इव कर्णशङ्खाः ॥ ११-४९॥
सौधेषु यस्यां युवसेवितेषु
त्रिविष्टपादप्यधिकोन्नतेषु ।
व्रीलातिभारान्नमिता इवाऽऽसन्
वैमानिकैरध्युषिता विमानाः ॥ ११-५०॥
न षड्भिरासन् व्यसनानि पुंसां
यद्वासिनामीतिभिरूर्मिभिर्वा ।
अयोगयत्नेन विनैव चान्ते
जज्ञे जगद्धातरि बुद्धिरेका ॥ ११-५१॥
अदेशकालप्रविभागभाजा
भूम्ना जगद्धातुरचिन्त्यभूम्नः ।
यस्यां विहारोपवनान्यभूवन्
समाधियोग्यानि तपोवनानि ॥ ११-५२॥
अनंहसामध्वरदीक्षिताना-
माह्वानतः प्रागपि सन्निधानात् ।
अभुङ्क्त कृत्स्नानि हवींषि नित्यं
यत्र स्वयं यज्ञतनुः स देवः ॥ ११-५३॥
रतिप्रसूता इव राजकन्या
रसोदधेरूर्मिपदं भजन्त्यः ।
विरक्तभाव्यं तमवाप्य यस्यां
रागोपपन्ना रमयाम्बभूवुः ॥ ११-५४॥
प्रवालचित्रीकृतजालकश्रीः
सालावृता सम्भृतपत्रजाला ।
परिष्कृता भद्र-मृगादिभिर्या
बभौ स्मरस्येव विहारवन्या ॥ ११-५५॥
ध्वजाग्रभिन्नात् तुहिनांशुबिम्बा-
दनुक्षरन्त्या सुधयाऽनुलिप्तैः ।
चिरप्रक्लृप्तैरपि यत्र सौधै-
र्नित्यं नवीनैरिव निर्बभासे ॥ ११-५६॥
स्ववैभवैरप्रतिरूपशोभैः
व्यक्तश्रियो वाङ्मनसानि(ति)वृत्तैः ।
तिरोदधुर्यत्र नरेन्द्रवासाः
स्वयम्प्रभां देवसभां सुधर्माम् ॥ ११-५७॥
विभूतिभेदैरनुपप्लवैर्या
भोगार्थिनां भूमिगताऽप्यभौमैः ।
निवारयामास तपोधनानां
वासादरं वासवराजधान्याम् ॥ ११-५८॥
यत्सौधरत्नप्रकरेषु विष्वक्
प्रसारितैरन्वहमैकमुख्यात् ।
करैः सहस्रेण गृहीतदीप्तिः
प्रद्योतते नूनमतीव भास्वान् ॥ ११-५९॥
यच्चन्द्रशालासु निषेदुषीणां
मृगीदृशां हारमणिप्रकाशैः ।
तिरस्क्रियां प्राप्य विलज्जमाना-
स्तारागाणा नूनमधश्चरन्ति ॥ ११-६०॥
गृहेषु यस्यां मणिभित्तिभागे
प्रतिक्षणं दृष्टमुखेन्दुबिम्बः ।
वधूजनः केवलमग्रहस्तै-
रादत्त मङ्गल्यतयाऽऽत्मदर्शम् ॥ ११-६१॥
अनन्तचित्रप्रतिमाभिरामै
रजस्रमाक्रान्तदिशावकाशैः ।
अभावयत् गोपुरवैभवैर्या
विश्वप्रसूतेरिव वैश्वरूप्यम् ॥ ११-६२॥
सरोभिरुल्लासितपुष्करश्रीः
सङ्गोज्झितैः सङ्गमितप्रयागा ।
प्रभासिता रत्नगणांशुभिर्या
धर्माश्रयाणामिव संसदासीत् ॥ ११-६३॥
हसद्भिरुच्चैःश्रवसं हयाग्र्यै-
रैरावतं दन्तिवरैश्च दृप्तैः ।
नरोत्तमैर्नाकसदश्च याऽभूत्
सुभ्रूभिरप्यप्सरसः स्वयं द्यौः ॥ ११-६४॥
वप्रेषु यस्याः स्फटिकप्रदेशान्
द्वाराभिमानात् द्रुतमापतन्तः ।
अवापुरागन्तुजनाः सलीलै-
रन्तःस्मितैर्नागरकैर्निरोधम् ॥ ११-६५॥
पयोभिरच्छस्फटिकद्रवाभैः
दवीयसां दर्शनमादधानैः ।
सुधाधिकस्वादुरसैरविन्दन्
स्वान्तोपमां यत्र सतां सरस्यः ॥ ११-६६॥
यामेकचित्तः प्रसमीक्ष्य तुष्यन्
यादोनिधेराहितदिष्टि(ष्ट)वृद्धिम् ।
लज्जामयासीदिव विश्वकर्मा
लङ्कादिनिर्माणकथाप्रसङ्गे ॥ ११-६७॥
समग्ररत्नौघशुभाकृतिं यां
सनायकां मध्यजुषा त्रिधाम्ना ।
हृद्यामजस्रं हृदयेन भूषां
रत्नाकरो नूनमधत्त रम्याम् ॥ ११-६८॥
(रम्यां हि हृद्यां हृदयेन नूनं
रत्नाकरो रत्नमधत्त भूषाम्)॥ ११-६८॥
अभिन्नसत्त्वान्नभसः परस्मात्
क्षीरोदधेरंशुमतश्च बिम्बात् ।
रमासखस्य प्रणिधानभाजां
याऽभूत् प्रियं व्यक्तिपदं पृथिव्याम् ॥ ११-६९॥
यत्सौधभाजो(जां)निशि सुन्दरीणां
मुखेन्दुभिश्चूषितकान्तिमिन्दुम् ।
सद्यः स्वनिष्यन्दसुधाप्रवाहै-
राप्याययामासुरिवेन्दुकान्ताः ॥ ११-७०॥
उद्वेलचञ्चत्तुरगोर्मिमाला-
मुद्घोषितामुत्सवतूर्यघोषैः ।
प्रभूतरत्नौघनिधिं पयोधि-
र्यामद्भुतां या च तमन्वकार्षीत् ॥ ११-७१॥
यद्वप्रशैलेषु दिवाऽपि सिन्धो-
रास्फालनादुत्पतितैः पृषद्भिः ।
उत्क्षिप्तमुक्ताफलदर्शनीयै-
रालक्ष्यतारौघमभूत् विहायः ॥ ११-७२॥
कलत्रपुत्रादिजुषामजस्रं
दीर्घायुषां यत्र सतां जनानाम् ।
धर्मैकभाजामितरे पुमर्थाः
प्रायः स्वयं सन्निदधुः स्वभूत्यै ॥ ११-७३॥
रराज सा रामजनार्दनाभ्यां
प्राप्तप्रकाशाऽपि यदुप्रवीरैः ।
सत्येव तारानिकरे त्रिलोकी
चक्षुष्मती चन्द्रदिवाकराभ्याम् ॥ ११-७४॥
प्रभुणा सहस्रवदनेन वर्ण्यतां
द्विगुणैरमुष्य नयनैरवेक्ष्यताम् ।
श्रुतिभिश्च तस्य बहुधा निशम्यता-
मधिकां ततः श्रियमवाप सा पुरी ॥ ११-७५॥
स्वयमजनि किमत्र श्वेतमेवान्तरीपं
परिणतमुत किञ्चिद्भागधेयं पृथिव्याः ।
वरुणनगरमन्यत् वारिधेरुत्थितं वा
किमिदमिति पुरं तत् कीर्तयन्ति स्म पौराः ॥ ११-७६॥
रामप्रष्ठैरधिवसति सा राजधानी जगाहे
लोकाधीशे सह बहुमतैर्लोकपालैरिवान्यैः ।
आश्चर्याणां प्रकृतिरियमित्यद्भुतावेशयोग्यां
अप्रत्यूहामनितरतुलारोहणीयामभिख्याम् ॥ ११-७७॥
तन्मध्ये विरचितशिल्पमेरुकल्पं
वैचित्र्यादपहृतवैजयन्तगर्वम् ।
प्रस्पष्टं निजमिव पारमेष्ठ्यमुर्व्यां
प्रासादं प्रभुरधिवासयाञ्चकार ॥ ११-७८॥
रामःपुनर्व्रजमुपेत्य विहारभेदै-
राश्वासयन् सहचरैः सुहृदश्च सर्वान् ।
विश्राणितां दुहितरं वरुणेन विन्दन्
सीरावकृष्टयमुनास्नपितो विजह्रे ॥ ११-७९॥
प्रत्यञ्चमब्धिमवधूतवतोऽतिदूरं
दग्धुश्च कूलमिव दक्षिणमस्त्रभूम्ना(धाम्ना)।
आकर्षतश्च सरितं सवितृप्रसूतां
रामस्य तस्य शुशुभे रसिकस्य लीला ॥ ११-८०॥
पद्मयोनिवचनादुपनीतां
प्राक्तनीं प्रियतमामिव कान्तिम् ।
रेवतस्य तनयामनुरूपां
रेवतीं च परिणीय स रेमे ॥ ११-८१॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये द्वारकाधिष्ठानं नाम एकादशः सर्गः ॥
॥ रुक्मिण्यभ्युदयो नाम द्वादशः सर्गः १२॥
तथाविधानन्दमहापयोधे-
स्तरङ्गवृत्त्या भजतोऽवतारान् ।
अशेषरूपेष्वनुरूपरूपा
देवी जगन्नेतुरनुप्रजज्ञे ॥ १२-१॥
सा तस्य नित्योदितदिव्यधाम्नः
पत्युः प्रिया भानुमतः प्रभेव ।
अध्यासितुर्द्वारवतीमदूरात्(रे)
व्यक्तिं शुभां प्राप विदर्भदेशे ॥ १२-२॥
शिखण्डकं निष्प्रतिमं श्रुतीनां
शृङ्गारलीलोपमविश्वकृत्यम् ।
अधीयते तन्मिथुनं स्वभावा-
दन्योन्यजीवातुमनन्यभोग्यम् ॥ १२-३॥
दयेव नित्यं दयिता त्रिधाम्नः
सर्वेषु भावेषु समानभावा ।
परावराणां जननी प्रजाना-
मासीत् विदर्भाधिपतेरपत्यम् ॥ १२-४॥
महीतलान्मैथिलसीरकृष्टात्
क्षीरोदधेराहितमन्थशैलात् ।
भृगूद्वहात् ख्यातिमतश्च याऽभूत्
सा भीष्मकादभ्युदियाय भूयः ॥ १२-५॥
अमन्यतैनां तनयां स राजा
रुक्मी च (रुक्मश्च)मोहादनुजामजन्याम् ।
यामेकपत्नीमनघस्य पुंसः
प्रजासृजां मातरमामनन्ति ॥ १२-६॥
त्यक्त्वा पराः स्त्रीर्गु(स्त्रीगु)णराशिरेनां
शरण्यभूतां शरणं प्रपेदे ।
प्रायेण दोषैरविविक्तवासा-
द्भीतः स्वयं भीष्मकराजकन्याम् ॥ १२-७॥
आरब्धदेहामिव भागधेयै-
रक्षीणि लक्ष्यान्तरतो नियन्त्रीम् ।
सुतामिमां प्राप्य सुधामिवान्या-
ममर्त्यकल्पौ पितरावभूताम् ॥ १२-८॥
अनन्यवृत्त्या घनतामुपेतै-
रप्रौढसूर्येन्दुमयूखजालैः ।
सुवर्णरत्नैरथवा प्रक्लृप्तां
सुतां सुजाताकृतिमन्वभूताम् ॥ १२-९॥
महीयसीं मङ्गलदीपमालां
विद्युत्प्रकाशा विदधे कुमारी ।
आकल्परत्नांशुतिरस्करण्या
दीप्त्या रजन्यामपि दीनभासम् ॥ १२-१०॥
कलामिवार्धामकठोरधाम्नः
पुण्योदयानामिव पूर्वचर्याम् ।
प्ररोहवेलामिव कान्तिवल्ल्याः
प्रैक्षन्त शुद्धान्तमृगीदृशस्ताम् ॥ १२-११॥
आत्माधिकारादधिकामवस्था-
मयत्नतो नूनमवाप्तुकामा ।
वार्तानभिज्ञे वयसि स्थितां तां-
वाग्देवता वन्दिमुखे(खैः)ववन्दे ॥ १२-१२॥
प्रदित्समानेन हरेरभीष्टं
कामेन सा कल्पलतेव सृष्टा ।
पित्रोरिवानन्यदृशां प्रजाना-
माशंसया सार्धमवाप वृद्धिम् ॥ १२-१३॥
पद्मादिरेखाप्रथमानभूमा
निर्धार्यमाणा निगमैरभिज्ञैः ।
तदङ्घ्रिविन्यासमिषेण जज्ञे
भूमेस्तदा भूषणपङ्क्तिरग्र्या ॥ १२-१४॥
अदृश्यभेदैरतिसूक्ष्मभावा-
ज्जज्ञे जगन्मङ्गलतां दधानैः ।
विहारलौल्याद् विषमेषु तस्या
गतेषु वाक्येषु च नृत्तगीतैः ॥ १२-१५॥
यदप्सरःपाणिसरोजमुक्तं
प्रसूनवर्षं निपपात तस्याम् ।
अपूरि तस्यैव रजोभिरग्र्यै
रपांसुला पांसुविहारवाञ्छाम् ॥ १२-१६॥
यदृच्छया तत्र परागजालै
र्यानेव सा केलिगृहान् अकार्षीत् ।
ततः परं त्वष्टुरमी समीची
महेन्द्रशालाविधिमातृकाऽभूत् ॥ १२-१७॥
चतुर्दशैतानि जगन्ति यस्याः
क्षेमाश्रितं क्रीडनकं बभूव ।
पर्याप्तलीला मुमुदे तदैषा
पाञ्चालिकापञ्जरशारिकाद्यैः ॥ १२-१८॥
आस्वादनीयान्यधिकं श्रुतीनां
मुग्धाभिजातानि वचांसि तस्याः ।
प्रायेण लौल्यादधिकृत्य खिन्ना
विधिप्रिया व्याहरतान्यभाषाः ॥ १२-१९॥
अविप्लुतव्याकरणानि तस्याः
क्रमेण शिक्षानियताक्षराणि ।
अनुश्रवाणामनघप्रवृत्ते-
रादेशदायीनि वचांस्यभूवन् ॥ १२-२०॥
विभूतयस्तत्र विशाम्पतीना-
मात्मीयया देवतयाऽवतीर्णाः ।
स्वचिह्नभेदान् परिबर्हयन्त्यः
प्रपेदिरे तत्परिवारभावम् ॥ १२-२१॥
वेदालवाले विहितस्थितिं तां
रम्यप्रतानामिव रत्नवल्लीम् ।
स्तनादिलक्ष्य(क्ष)स्तबकादिचिह्नै-
राविष्कृतं यौवनमाविवेश ॥ १२-२२॥
तदीयसर्वाङ्गजुषोरगाधं
सौन्दर्यलावण्यसुधास्रवन्त्योः ।
ममज्जुरापत्य दृशः सखीना-
मन्योन्यसम्भेदमपूर्वतीर्थम् ॥ १२-१३॥
निशेव चन्द्रेण घनव्यपाये
नैसर्गिकी बुद्धिरिव श्रुतेन ।
फलेन सा नीतिरिवाप्रमादा
युक्ता बभौ नूतनयौवनेन ॥ १२-२४॥
आलक्ष्यसंलापलवैरपाङ्गै-
रङ्गैरनङ्गोदयपूर्वरङ्गैः ।
वियातमुग्धैरपि विभ्रमैः(लक्षणैः)सा
विलक्षयामास विभूषणानि ॥ १२-२५॥
अमुक्तकौमारयुवत्वसीम्ना
कान्त्या बभौ कल्पितरागभूम्ना ।
जरत्पलाशप्रसवानुषक्ता
प्रतानिनी पल्लवसम्पदेव ॥ १२-२६॥
प्रसाधनानां परिकर्म दिव्यं
विजृम्भणं विभ्रमजालकानाम् ।
वयः शुभं वामदृशश्चकाशे
पश्यद्दृशां भाग्यमनन्यभोग्यम् ॥ १२-२७॥
अवाप्य सा मुग्धदशामपूर्वा-
मव्याजलीलागतिराबभासे ।
रम्या रमोत्पत्तिदशाविशेषात्
जाम्बूनदी जङ्गमपद्मिनीव ॥ १२-२८॥
तस्यास्तनुं वर्णयतो ममैवं
हीनोपमा दोषपदं न विन्देत् ।
निदर्शनं तैरपि नित्यदृष्टं
येषां निकर्षोऽपि गुणो यतः स्यात् ॥ १२-२९॥
तारेण तस्याश्चिकुरान्धकारे
तारायितं मौक्तिकजालकेन ।
प्रायेण योऽसौ प्रलयावसाने
निशीथसृष्टेरभवन्निदानम् ॥ १२-३०॥
द्युतिं शिखारत्नसहस्ररश्मे-
र्ज्याएत्स्नां च मुक्ताफलजालजाताम् ।
तत्कुन्तलश्रेणिमयी तमिस्र-
मैत्रीं दधौ मन्मथचापमौर्वी ॥ १२-३१॥
मुखाब्जसौन्दर्यमधुद्विरेफाः
कान्त्यापगाशैवलपुञ्जकल्पाः ।
शोणेन चूडामणिना ससन्ध्यां
तमीमपुष्यन् अलकास्तदीयाः ॥ १२-३२॥
शरत्प्रसन्नेन्दुकलाभिरामा
ललाटरेखा सुदृशो रराज ।
कामेन तत्कान्तिलतासमृद्ध्यै
स्वयं प्रक्लृप्तेव सुधास्रवन्ती ॥ १२-३३॥
कस्तूरिकाक्लृप्तविशेषकं तत्
पश्यन् मृगाङ्को वदनं मृगाक्ष्याः ।
विभाव्य तादृक्परभागशोभां
कलङ्कयुक्तोऽपि जहौ विषादम् ॥ १२-३४॥
तारुण्यनद्यास्तनुवीचिकल्पे
तद्भ्रूलते शार्ङ्गनिदानदृश्ये ।
अनङ्गवेदप्रणवस्य रत्या
लेखाक्षरं न्यस्तमसूचयेताम् ॥ १२-३५॥
प्रसूतपद्मोत्पलकाननश्रीः
प्रारब्धवीचीविभवा विलासैः ।
दृष्टिस्तदीया ददृशे दयार्द्रा
द्राघीयसी मन्मथदीर्घिकेव ॥ १२-३६॥
तद्दृष्टिरायामवती सुजाता
श्यामोज्ज्वला चारुविशालमध्या ।
मन्ये समेष्यन्मधुवैरिलक्ष्या
चेतोभुवः शक्तिरभूदमोघा ॥ १२-३७॥
निगृह्णती रत्नतिलप्रसूनं
नासा तदीया नयनाब्धिसेतुः ।
अबोधि निःश्वाससमीरगन्धै-
रन्तर्गतान् वेदगणान् वमन्ती ॥ १२-३८॥
नवेन्दुसन्ध्याप्रभृतीनि लोके
निर्वर्ण्यमानानि निदर्शनानि ।
न खल्वविन्दन् कलयापि तस्याः
स्मिताधरव्याप्तिकृतामभिख्याम् ॥ १२-३९॥
अहेतु रज्यन् अधरस्तदीयः
प्रसूनमुक्तायितमुग्धहासः ।
लक्ष्मीलताया ललितोदधेश्च
प्रवाळयोगं प्रथयाम्बभूव ॥ १२-४०॥
मुखं तदीयं विरराज मुग्धं
सौरभ्यलावण्यसमुच्चयेन ।
व्यवस्थितान्योन्यविशेषलोभा-
देकत्वमापन्नमिवेन्दुपद्माम् ॥ १२-४१॥
वर्णानुपूर्वीसुभगेन काले
भव्यां श्रुतिं भावयता यथावत् ।
तारस्य संस्थानमिवान्वकार्षीत्
कण्ठेन सा काञ्चनकम्बुभासा ॥ १२-४२॥
मधुद्विषः कण्ठपरिष्क्रियार्थं
कामात्मना माल्यकृतेव क्लृप्ते ।
बभूवतुर्बाहुलते तदीये
शम्पात्विषौ चम्पकमालिके द्वे ॥ १२-४३॥
आसीदधिष्ठानविशेषसीमा
वक्षोजयोरङ्कुरतोरमुष्याः ।
मुकुन्दवक्षस्स्थलमुद्रणार्हां
भव्यामवस्थामिव भावयन्ती ॥ १२-४४॥
समावृतौ हारमयूखसूत्रै-
स्तस्याः स्तनौ चारुतरावभूताम् ।
जिगीषतस्तत्प्रियचित्तवृत्तिं
मनोभुवो मङ्गलपूर्णकुम्भौ ॥ १२-४५॥
तस्यास्तदा तद्वदलक्ष्यमध्यं
तन्व्याः स्तनद्वन्द्वमवाप वृद्धिम् ।
काले यथा तत्प्रथिमप्रभूतं
कृच्छ्रादभूत् कृष्णभुजान्तरालम् ॥ १२-४६॥
मध्यं क्रशिम्ना विरराज तस्या
नाभिह्रदान्नालमिव प्ररूढम् ।
प्रियागमोदर्कमभूत् यदग्रे
कुचात्मना काञ्चनपद्मयुग्मम् ॥ १२-४७॥
स्तोकानताङ्गी स्तनभारभूम्ना
मुग्धा बभौ मुष्टिमितावलग्ना ।
भृङ्गाभिनन्द्येन गुणेन युक्ता
कामस्य सा काऽपि धनुर्लतेव ॥ १२-४८॥
रराज लावण्यतरङ्गरम्या
वलित्रयी मध्यगता मृगाक्ष्याः ।
अन्तःस्थितानामिव दर्शयन्ती
निवेशसीमान्तमनुश्रवाणाम् ॥ १२-४९॥
मध्येवलग्नं सुदृशो विलग्ना
रोमावली कामधनुर्गुणाभा ।
जिगाय नाभीसरसः सुजाता-
मुल्लासिनीमुत्पलरेणुपङ्क्तिम् ॥ १२-५०॥
अनुप्रयातः स्ववशामभिख्यां
यूथोज्झितो यौवनगन्धहस्ती ।
तद्रोमराजिव्यपदेशदृश्यां
नूनं दधौ नूतनदानरेखाम् ॥ १२-५१॥
प्रकाशितावर्तरुचिः प्रभाब्धौ
नाभिः सुवृत्ता रुरुचे नताङ्ग्याः ।
रोमावलीरत्नलतानुरूपं
रुक्मेण निष्पन्नमिवालवालम् ॥ १२-५२॥
पृथ्वी चकाशे स्तनसम्पदस्या
लावण्यमम्भो नियतं च तेजः ।
श्वासोदयो गन्धवहः शुभाङ्ग्याः
नाभिश्च मध्यं च नभो विभक्तम् ॥ १२-५३॥
गजेन्द्रहस्तादिषु तत्समत्वे
दूरे सतां दोषगुणावमर्शः ।
भविष्यतः शार्ङ्गभृतस्तदूरू
लीलोपधाने किमतोऽधिकेन ॥ १२-५४॥
मनोज्ञवृत्तं मधुबुद्बुदाभं
चक्षुष्मतां सादरदर्शनीयम् ।
स्वदेहकान्तेः सविशेषदृष्टौ
जानुद्वयं दर्पणतामयासीत् ॥ १२-५५॥
उदेष्यतः पञ्चशरस्य तस्या
मुत्पादयिष्यन् उचितं निषङ्गम् ।
विधिः स्वयं मातृकया किलार्थी
जङ्घायुगं वीक्ष्य जहर्ष तस्याः ॥ १२-५६॥
कलाचिकां काञ्चनसारक्लृप्तां
कान्तेः शुभां कामपि काहलीं च ।
शशङ्किरेऽनन्यसमीक्ष्यशोभां
जगन्ति जङ्घामवलोक्य तस्याः ॥ १२-५७॥
अलक्तकादप्यधिकात्मरागा
पदद्वयी पद्मदृशश्चकाशे ।
प्राचीनजन्मप्रणयानुरोधात्
सम्भाव्यमानेव सरोजलक्ष्म्या ॥ १२-५८॥
पादाम्बुजे दत्तमधुप्रसक्त्या
निर्णेजयामास नखेन्दुकान्त्या ।
प्रायेण सा सत्पथमाश्रयन्ती
पङ्कान् असत्सङ्गभवान् पृथिव्याः ॥ १२-५९॥
तस्याः पदाम्भोजमृणालभासा
प्रकाशभूम्ना नखमौक्तिकानाम् ।
प्रकीर्णपुष्पाः सुधयाऽवसिक्ताः
विहारभूम्यो युगपद्बभूवुः ॥ १२-६०॥
तस्याः श्रुतिश्रेणिशिखामणीनां
सकेसरा दीधितिभिर्नखानाम् ।
प्रसाधिकालोचनभृङ्गलौल्यं
पद्मद्वयी पादमयी निरास ॥ १२-६१॥
मुखेन्दुनिष्यन्दनिभैरमुष्याः
मन्दस्मितैरिन्दुरवाप्तमान्द्यः ।
प्रायः प्रभूताद्भुतकान्तिलोभात्
नखात्मना तत्पदमेव भेजे ॥ १२-६२॥
अलक्षि देवैरवतारलक्ष्म्या-
स्तस्याः शुभा पादनखेन्दुपङ्क्तिः ।
आगामिकल्पेष्वधिकारलोभात्
तारावलिस्तत्पदमाश्रितेव ॥ १२-६३॥
यातेन मञ्जीररवैश्च तस्याः
प्रायः पराभूतगतिप्रणादाः ।
शिक्षाविशेषार्थमिवाधिचक्रुः
पादानुवृतिं प्रणयेन हंसाः ॥ १२-६४॥
रराज दिव्यैरधिराजचिह्नैः श्
श्लाघापदं तत्पदमागमानाम् ।
अश्मानमास्थापयता परस्तात्
यत् पाणिना विश्वपतेरवाप्यम् ॥ १२-६५॥
अतीत्य कृच्छ्रात् समुदायशोभां
प्रत्यङ्गसौन्दर्यपरा दिदृक्षा ।
पर्यभ्रमत् प्राप्तविहारडोला
पुष्पेषु भृङ्गीव मुहुः सखीनाम् ॥ १२-६६॥
शृङ्गारयोनेरिव शिल्पविद्यां
दिव्यां त्रिलोक्या इव दिष्टवृद्धिम् ।
सीमान्तरेखामिव सम्पदस्तां
जगुः स्त्रियो जङ्गमरत्नसृष्टिम् ॥ १२-६७॥
वयस्ययाऽभीष्टवरानुयोगे
साऽपश्यदात्मानममन्दलज्जा ।
असूचयन्नूनमनेन तस्याः
स्वलक्षणं शौरिमनन्यलक्ष्यम् ॥ १२-६८॥
अलिप्सत श्वेव हविस्तदैनां
दैत्यस्वभावो दमघोषजन्मा ।
तस्मै च कृष्णैकमनोरथां तां
रूपाधिकां दातुमियेष रुक्मी ॥ १२-६९॥
परस्परं भूषयतः प्रतीकान्
औद्वाहिकं मङ्गलमुद्वहन्त्याः ।
प्रायः स्वदीप्तेरतिरोधिमिच्छ-
न्त्यावारयन् आभरणानि तस्याः ॥ १२-७०॥
लावण्यकल्पद्रुममञ्जरीं तां
शृङ्गारदिग्वारणवैजयन्तीम् ।
सौन्दर्यदुग्धोदसुधाप्रसूतिं
सैरन्ध्रिकाः प्रेक्ष्य मिथः शशंसुः ॥ १२-७१॥
स्वभावजादभ्यधिकं तदङ्गे
ष्वासादितं सौरभमङ्गरागैः ।
स सर्वगन्धोऽपि यदन्वयेन
प्रभूतमामोदविशेषमृच्छेत् ॥ १२-७२॥
व्यामातिरिक्तस्तनकुम्भभूम्ना
व्याप्ताकृतिं यौवनकुञ्जरेण ।
प्रसाधयन्त्यः पतिदेवतास्तां
नाथोचितां प्रेक्ष्य न तृप्तिमापुः ॥ १२-७३॥
मौलौ सुकेश्याः स्फुटरश्मिजालं
मुक्तामयं जालकमाबबन्धुः ।
क्रीडोचितं कृष्णमृगं गृहीतुं
तेन स्मरो वागुरिकस्तदाऽभूत् ॥ १२-७४॥
मुखेन्दुलावण्यसुधाप्रवाहे
मुहुः प्रतीपप्लवनोद्यतेन ।
तत्कर्णभूषामकरेण मन्ये
मन्दीकृता मन्मथलाञ्छनश्रीः ॥ १२-७५॥
अनन्यदृष्टिं विततान ताम-
प्यादर्शसङ्क्रान्तिविशेषदृश्यम् ।
प्रसाधनैः प्राप्तगुणैः प्रतीक्ष्यं
तस्या मुखं तामरसायताक्षम् ॥ १२-७६॥
मनुष्यताकञ्चुकितात्मभूम्नः
काले चकाशे कुचकञ्चुकश्रीः ।
रत्नाचले भोगिशयप्रियायाः
स्वतल्पनिर्मोक इवावलीनः ॥ १२-७७॥
अंसावलम्बिन्यसितेक्षणायाः
कम्पोज्ज्वला काचन रत्नमाला ।
अलक्ष्यतोल्लासितरम्यरश्मिः
कामार्पिता कान्तिविहारडोला ॥ १२-७८॥
प्रभाप्रवाहोदितसैकताभे
स्तनद्वये तामरसेक्षणायाः ।
तत्कन्धराशङ्खमतल्लिकायाः
प्रसूतिराशङ्क्यत हारवृत्त्या (मुक्ताः)॥ १२-७९॥
अभासताऽऽत्मस्मितसौम्यभासा
हारेण हृद्येन जगत्प्रतीक्ष्या ।
प्रियस्य चन्द्रं हृदयाद्विधातुः
प्राप्तानुसारेव निसर्गशुद्धम् ॥ १२-८०॥
रराज मुक्ताभिरवाप्तफेनं
रत्नाङ्गदं प्राप्तगुणं तदङ्गे ।
प्रवाहवृत्तेः परिवृत्तिभेदात्
महीयसी मण्डलितेव कान्तिः ॥ १२-८१॥
प्रतिक्रियामात्मतिरस्क्रियायाः
प्रायः स्वयं व्यापृतया विधातुम् ।
तदङ्गयोगोज्ज्वलरत्नधाम्ना
सञ्छादितं मेखलयाऽन्तरीयम् ॥ १२-८२॥
शिखण्डकानि श्रुतिसुन्दरीणां
चारूणि पादाभरणानि तस्याः ।
पदेषु सङ्घर्षवशादिवासन्
मिथः पुरोभागिपदास्पदानि ॥ १२-८३॥
अनुक्षणं बन्धुजनैरमुष्या-
मामुच्यमानेषु विभूषणेषु ।
अयत्नतस्तानि तदन्तराले
कृतास्पदा केवलताऽत्यशेत ॥ १२-८४॥
अभिन्नरूपामनुवेलभिन्नात्
प्रसाधनादभ्य(प्य)धिकां प्रसत्तिम् ।
विलोकयन्ती जनता तदीयां
व्यावर्तयामास ततो न दृष्टिम् ॥ १२-८५॥
आदर्शबिम्बेन तदङ्गकान्ते-
रक्षाम्यता निष्प्रतिमत्ववादम् ।
प्रतिप्रवृत्तिं प्रतिमां विधाय
प्रख्यापिता वृत्तवतामपीर्ष्या ॥ १२-८६॥
निनीषितां देवगृहं ययैता-
माकल्पलक्ष्म्या समयोजयन्त ।
मुकुन्दसंस्पर्शमवाप्तुमर्हा
सैव स्थिरा धन्यतमा बभूव ॥ १२-८७॥
पतिव्रताः पार्थिवयोषितस्तां
प्रत्यङ्गसौन्दर्यनिमग्नभावाः ।
कृताशिषः कृष्णमनोरथस्था-
मारोप्य कर्णीरथमन्वगच्छन् ॥ १२-८८॥
मङ्गल्यसङ्गीतसमेतयात्रा
मनुष्यदेवीभिरनुद्रुता सा ।
निनंसितैषा स्वयमेव देवी
नान्येति सद्भिर्निरणायि नाथा ॥ १२-८९॥
भावान्तरेषु प्रतिपन्नलीला
पैतामहादीनि पदानि दातुम् ।
स्वदत्तशक्तेः कुहनामनुष्या
कुतश्चिदिष्टं स्वयमाशशंसे ॥ १२-९०॥
प्रणम्य मूर्ध्ना निहितोपहारा-
मुत्तस्थुषीमुत्सवदेवतैनाम् ।
अवोचदारादशरीरिवाचा
परैरजय्यं पतिमाप्नुहीति ॥ १२-९१॥
पत्या निजेन परिणीतिमवाप्तुकामा
लब्ध्वा वरं ललितमुत्सवदेवतायाः ।
तेनैव सा समसमीहितसिद्धिरासीत्
मानाधिका जगति मन्मथमन्मथेन ॥ १२-९२॥
ऊरुः सव्यो नयनकमलं भ्रूलता चापि तस्याः
प्रावेपन्त प्रियमुपगतं सूचयन्ति स्ववृत्त्या ।
आरादासीदलघुतुलसीगन्धसौम्यः समीरः
प्रत्यासन्नं मुहुरुदचरत् पाञ्चजन्यप्रणादः ॥ १२-९३॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये रुक्मिण्यभ्युदयो नाम द्वादशः सर्गः ॥
॥ रुक्मिणीपरिणयो नाम त्रयोदशः सर्गः १३॥
प्रसादभाजः प्रतिनिर्गतां तां
प्रासादतो वासववल्लभायाः ।
समग्रशक्तिः समयोपयातः
प्राणेश्वरीं प्राप्तुमियेष शौरिः ॥ १३-१॥
तामद्भुतां सिद्धिमिवाद्भुतानां
सौभाग्यविद्यामिव सद्गुणानाम् ।
सत्तामनन्यामिव सद्गणानां
यथाश्रुतं प्रैक्षत यादवेन्द्रः ॥ १३-२॥
अङ्गैरवज्ञातकदम्बगोलै-
रस्पन्दमन्देन विलोचनेन ।
लीलोपशान्त्या लिखितेव साऽभूत्
दामोदरे दृष्टिपथं प्रयाते ॥ १३-३॥
पद्माकराणां परिषन्निवेशे
पर्याप्तचन्द्रायुतकान्तिपू(सा)रे ।
अनन्यलभ्यां लभते स्म तृप्तिं
तस्या मुखे दृष्टिरतीव शौरेः ॥ १३-४॥
वाचस्पतित्वं च वनस्पतीनां
दिव्येतरेषां च दिवस्पतित्वम् ।
दातुं क्षमाया दयिते तदानी-
माज्ञापको नूनमभूदनङ्गः ॥ १३-५॥
तस्मिन् द्वितीयामिव वैजयन्तीं
सा च प्रिये साचिविशेषरम्याम् ।
कटाक्षमालां निबबन्ध कृष्णे
कामाधिके कौतुकमेदुराक्षी ॥ १३-६॥
अलक्ष्यभेदत्रिविधाम्बुजाभै-
रालक्ष्यशृङ्गारगुणानुबन्धैः ।
स्वयंवरस्रग्भिरभावि तस्याः
कालोदिते कंसरिपौ कटाक्षैः ॥ १३-७॥
स वैजयन्त्यादिविभावशाली
निर्व्याजनिष्पन्ननिजानुभावः ।
शृङ्गारवीराद्भुतचित्रितात्मा
रम्यस्तया निर्विविशे रसोऽन्यः ॥ १३-८॥
आकेकराणामनघस्तदानी
मेकक्षणं लक्ष्यमभूत् बहूनाम् ।
तस्याः स्थिरानन्दपरिप्लुताना-
मर्थस्पृशामर्धविलोकितानाम् ॥ १३-९॥
तस्याश्चिराकाङ्क्षितलाभधन्यै-
रपत्रपामन्थरितैरपाङ्गैः ।
बभार भूयो बहुमानपूर्वं
बाल्ये धृतां बर्हिकलापभूषाम् ॥ १३-१०॥
सन्तानसौभाग्यघनेन यूना
सिक्ता सुधासारनिभैरपाङ्गैः ।
उद्भिन्नरोमाञ्चततिर्बभासे
कान्तप्ररोहा कलमस्थलीव ॥ १३-११॥
स्वकान्तिसाम्यादिव जातसङ्गैः-
शौरिस्तदा स्वागतसूक्तिगर्भैः ।
प्रियासखीनामभजत् प्रहृष्टै
रुद्वीक्षणैरुत्पलपुष्पवृष्टिम् ॥ १३-१२॥
स रुक्मिणीनेत्रचकोरचन्द्रः
सा तत्प्रहर्षाम्बुजपूर्वसन्ध्या ।
तदद्भुत(तं)द्वन्द्वमवेक्ष्य सद्यो
ययुस्तुलामप्सरसामनूनाम् ॥ १३-१३॥
तयैव तादात्म्यमिवाऽऽगतानां
तस्याः सखीनां सममाविरासन् ।
परस्य वीक्षां प्रतिसल्लँपन्तो
वक्रोक्तिगर्भा इव मन्दहासाः ॥ १३-१४॥
स कौस्तुभाभ्यर्णनिवेशयोग्यं
कन्यामयं कामपयोधिरत्नम् ।
परीतमारात् प्रतिहारपालैः
पश्यन् क्षणं पान्थ इवावतस्थे ॥ १३-१५॥
तं माल्यभूषापरिकर्मिताङ्गं
धारातटित्वन्तमिवाम्बुवाहम् ।
समीक्ष्य बाला तदनन्यदृष्टि-
श्चर्यामवालम्बत चातकानाम् ॥ १३-१६॥
तलोदरीं तालफलस्तनीं तां
ताम्राधरां चारुनवोत्पलाक्षीम् ।
किं नाम भावीति विभावयन्तीं
कृष्णस्तदा किञ्चिदिवाऽऽससाद ॥ १३-१७॥
दुर्दर्शमध्यां द्विरदेन्द्रयातां
व्यूहक्रमव्यक्तविचित्रगात्रीम् ।
परैरभेद्यां प्रतिजग्मुषीं तां
कान्तात्मिकां कामचमूं स मेने ॥ १३-१८॥
स चन्द्रिकां चन्द्र इवाभियात-
श्चन्द्राननां यादववंशचन्द्रः ।
निर्वेशनीयः सविशेषमासीत्
नेदीयसां नेत्रचकोरवृन्दैः ॥ १३-१९॥
अहं त्वया दूतमुखेन दूरात्
साध्व्या समाहूत इहोपयातः ।
मा ते भयं भूदिति मञ्जुभाषी
तामग्रहीदग्रकरे मुकुन्दः ॥ १३-२०॥
प्रियेण सा तेन गृहीतहस्ता
तद्वक्त्रदिव्याम्बुजषट्पदेन ।
विलोचनेन व्यवृणोत् सखीभ्यः
कृतार्थतां क्षीबदशोल्बणेन ॥ १३-२१॥
प्राचोऽवतारान् अतिशय्य भूम्ना
सा रुक्मिणी तेन वृता चकाशे ।
तस्यैव रूपान्तरदूरवृत्तिः
कन्दर्पजन्मानुगुणेव कान्तिः ॥ १३-२२॥
मल्लीविकासोज्ज्वलमन्दहासा
रोमाद्गमैराहितकोरकश्रीः ।
समेयुषी सन्ददृशे तदा सा
वसन्तलक्ष्मीरिव माधवेन ॥ १३-२३॥
अघर्मजस्वेदकणावकीर्णा-
मभीतिजं वेपथुमुद्वहन्तीम् ।
अनुष्णबाष्पोदयमन्थराक्षीं
विलोक्य देवीं विभुरभ्यनन्दत् ॥ १३-२४॥
हरिप्रियां केसरिणीमिवैनां
दुरासदामन्यनृपद्विपेन्द्रैः ।
सखीजनः प्रीतमना निदध्यौ
ययौ च खेदं निजविप्रयोगात् ॥ १३-२५॥
मिथो गुणैस्तन्मिथुनं निबद्धं
वियोगवैदेशिकसम्प्रयोगम् ।
अजायतान्योन्यनिलीनभावं
सखीदृशां सादरदर्शनीयम् ॥ १३-२६॥
जगत्त्रयार्तिप्रशमाय जातां
विहारसङ्क्षोभितवैरिसिन्धुः ।
देवेषु पश्यत्सिवव पूर्वमेनां
जग्राह तां जाग्रति राजलोके ॥ १३-२७॥
स पुष्पकं राम इव प्रियां स्वा-
मुत्तारितां शत्रुभयादुदीर्णात् ।
मनोजवं सत्यमनोरथस्ता-
मारोपयामास रथं रथाङ्गी ॥ १३-२८॥
सा चामरौघैरुपचर्यमाणा
वातावधूतैरिव काशजालैः ।
रराज नाथेन रथोदयाद्रौ
चन्द्रेण पूर्णेन शरन्निशेव ॥ १३-२९॥
परस्परप्राप्तगुणेन भासा (धाम्ना)
बर्हावृतं व्योम विभावयन्तौ ।
विरेजतुस्तुङ्गरथाश्रयौ तौ
विद्युत्पयोदाविव मन्दरस्थौ ॥ १३-३०॥
प्रभेव देवेन तमोपहेन
प्रत्यग्दिशं तेन सह प्रयान्ती ।
नित्यानपायित्वमजानतीनां
सत्यापयामास निजं प्रजानाम् ॥ १३-३१॥
तामुद्वहंस्तामरसायताक्षो
रत्नौघदीप्तेन रथेन देवीम् ।
आत्मानमेवार्यममण्डलस्थं
विद्यासखं व्यञ्जयति स्म वीरः(देवः)॥ १३-३२॥
अतीतदर्शामिव चन्द्रलेखां
शान्तोपरोधामिव शारदीं द्याम् ।
अमंस्त निर्विघ्नफलामिवेच्छां
शोकत्यजं शूरकुलेश्वरस्ताम् ॥ १३-३३॥
समेत्य सिंहीमिव तामनन्यां
यानोद्यतं यादवपञ्चवक्त्रम् ।
आघुष्य गोमायुरिवामिषार्थी
चैद्यः क्रुधा दीप्तमुखोऽन्वधावत् ॥ १३-३४॥
रुक्मी च तूर्णं प्रतिपन्नरोषः
पुरो भवन् भूमिभृतां सखीनाम् ।
पराभवस्य प्रतिकारमिच्छन्
जग्राह पार्ष्णिं जगदैकनेतुः ॥ १३-३५॥
जिघांसिते भ्रातरि जातखेदैः
कान्ताभिलापैः कतकैरिवाम्भः ।
मनः प्रपेदे सहजां प्रसत्तिं
सत्वाधिकं सात्त्वतवंशगोप्तुः ॥ १३-३६॥
स वीक्षमाणः सविलासनेत्रं
वल्गुस्मितं वामदृशो मुखाब्जम् ।
तदुक्तिभिः स्वादुतमाभिरासी
दाप्यायितो नूनमनाविलाभिः ॥ १३-३७॥
अनुद्रुतां वैरिचमूं स वीरो
बलेन रुद्ध्वा निजबाहुनैव ।
विनिर्दिशन् मार्गभवान् विशेषान्
विश्वासयामास विदर्भकन्याम् ॥ १३-३८॥
प्रियासहायः पदवीं स गच्छन्
द्राघीयसीं दारुकसारथिस्ताम् ।
उदग्रवेगान् उदधेरनूपे
वीतीन् क्षणं विश्रमयाम्बभूव ॥ १३-३९॥
भयार्णवादुद्धृतया स्वयाऽसौ
श्रियेव साक्षादनुभूयमानः ।
पयोधिरूपां परिघां विलङ्घ्य
द्युसम्मितां द्वारवतीमयासीत् ॥ १३-४०॥
परिष्कृतां काञ्चनतोरणैस्तां
वल्गुध्वजां वन्दनदामचित्राम् ।
रामासहायः प्रसमीक्ष्य रेमे
रम्यप्रसूनाञ्चितराजवीधीम् ॥ १३-४१॥
महीयसां मङ्गलदुन्दुभीनां
नादैरवज्ञातपयोधिशब्दा ।
श्रुतोत्सवानां विदधे पुरी सा
स्वर्गौकसां श्रोत्रसुधामपूर्वाम् ॥ १३-४२॥
प्रत्येयुषां कंसरिपुर्यदूनां
देवद्रुमाणामिव जङ्गमानाम् ।
अनर्घरत्नाभरणप्रधानान्
आदत्त दिव्यान् उपदाविशेषान् ॥ १३-४३॥
तस्मिन् महानीलमणिप्रकाशे
तां रुक्मिणीमाहितरुक्मकान्तिम् ।
पुराङ्गनाः प्रेक्षितुमीहमानाः
स्वर्गाधिकान् आरुरुहुः स्वसौधान् ॥ १३-४४॥
कलक्वणन्नूपुरचारुवाद्यं
कर्णावतंसोदितभृङ्गगीतम् ।
कस्याश्चिदन्वागतनाट्यवेदं
लीलागतं लास्यमभूदपूर्वम् ॥ १३-४५॥
परिच्युतं किञ्चिदिवान्तरीयं
काचित्समालम्ब्य सहैव काञ्च्या(कान्त्या)।
क्षिप्तेव तीव्रेण कुतूहलेन
क्षणेन वातायनमाससाद ॥ १३-४६॥
आमुच्य ताटङ्कमनङ्गचक्रं
सव्येतरे सत्वरमाव्रजन्ती ।
अन्येन काचिद्भृशमाबभासे
कर्णेन कैवल्यविभूषणेन ॥ १३-४७॥
उदञ्चिता बाहुलतेतरस्या
मौलिस्रजा हस्तगृहीतयाऽऽसीत् ।
जगज्जिगीषोर्मदनस्य जैत्री
पताकयेवाद्भुतकेतुयष्टिः ॥ १३-४८॥
प्रकोष्ठभाजः प्रियशारिकायाः
पयः स्वयं सादरमर्पयन्ती ।
गवाक्षमागम्य गजेन्द्रयाता
काचित् प्रसस्मार कृतावशेषम् ॥ १३-४९॥
प्रचारवेगात् त्रुटितेन चक्रे-
हारेण मुक्ताफलवर्षिणाऽन्या ।
अदूरतः सन्निहितस्य शौरे
राचारलाजाञ्जलिपूर्वरङ्गम् ॥ १३-५०॥
स्तनांशुकं स्रस्तमबुध्यमाना
सखीजने सस्मितमीक्षमाणे ।
परामृशन्ती विततान काचित्
प्रतिक्रियां पाणिनखांशुजालैः ॥ १३-५१॥
सखीधृतैश्चामरतालवन्तै-
राश्यानतां प्रापितमङ्गरागम् ।
विलोकिते शार्ङ्गिणि विह्वलाऽन्या
श्वासानिलैः शोषमिवानिनीषत् ॥ १३-५२॥
प्रसाधयन्तीमवधीर्य धात्री-
मङ्गैरसम्भावितभूषणाऽन्या ।
समीक्ष्य कृष्णं सहसोपजातैः
परिष्क्रियामाद्रियतेव भावैः ॥ १३-५३॥
भ्रुवा स्फुरन्त्या मदनस्य मौर्वीं
ज्याघातरेखामभि(पि)दर्शयन्ती ।
अन्यानुषक्तेऽपि हरौ वियातां
प्रायुङ्क्त दूतीमिव दृष्टिमन्या ॥ १३-५४॥
समेयुषीमप्रतिमेन यूना
तां रुक्मिणीं वीक्ष्य विलीनभावा ।
भाग्यं किमस्या इति भावयन्ती
तदात्मतां नूनमलिप्सतान्या ॥ १३-५५॥
तदीक्षणे भर्तुरिव स्मरन्त्या
कन्यादशां कामवशाद्भजन्त्या ।
स्वयंवरार्हे स्वयमेव तस्मिन्
कयाचिदाधायि कटाक्षमाला ॥ १३-५६॥
कक्ष्यानिबन्धच्यवने सलीलं
स्तनाहितस्वस्तिकबाहुबन्धा ।
जगत्पतौ पश्यति जातभीषा
प्रायस्तदालिङ्गनमभ्यनैषीत् ॥ १३-५७॥
रथेन तं राजपथे प्रयान्तं
निर्व्याजसङ्गेन निशामयन्ती ।
त्यक्ता निमेषैरपराऽन्वकार्षीत्
चित्राङ्गनानां सुरयोषितां च ॥ १३-५८॥
समीक्षितस्यापि सहत्वसङ्गात्
दुष्प्रापलोभादपि दूयमाना ।
गलद्भिरन्या वलयप्रसूनै-
रभ्यर्चनामातनुतेव शौरेः ॥ १३-५९॥
समानकान्त्या प्रियया समेते
दृष्टे जगद्धातरि जातरागा ।
प्रणामयोग्येयमितीव मत्वा
प्राप्तं पदं मेखलयापरस्याः ॥ १३-६०॥
तासां तदेकोत्सुकदर्शनानां
समाधिभाजामिव शेमुषीणाम् ।
अलं प्रभुस्सोऽपि न मातुमासी-
दपारहर्षादनघामवस्थाम् ॥ १३-६१॥
अवारुणीसम्भवसौरभैस्तै-
रनन्यसाध्याधरबिम्बरागैः ।
निरञ्जनोपस्थितनेत्रशोभैः
स पिप्रिये पौरवधूमुखाब्जैः ॥ १३-६२॥
स पौरकन्याकरविप्रकीर्णान्
प्रायः प्रतीच्छन् उपचारलाजान् ।
अचीचरत् स्यन्दनमब्जनेत्रः
सव्यापसव्येन गतेन वीधी(ध्या)म् ॥ १३-६३॥
कह्लारपद्मोत्पलकान्तिचोरैः
कटाक्षणैः पौरवधूजनानाम् ।
मुग्धेन्दुहासो मुमुदे मुकुन्दः
पश्यन् प्रियां प्रापितपुष्पवृष्टिम् ॥ १३-६४॥
कृष्णस्य तां स्कन्धमुपघ्नयन्तीं
सुरद्रुमस्येव सुवर्णवल्लीम् ।
अवेक्ष्य नूनं चतुरः पुमर्थान्
अनन्यलभ्यामलभन्त पौराः ॥ १३-६५॥
वक्त्रैः सुधासोदरकान्तिपूरैः
कस्तूरिकापत्रकलङ्कदृश्यैः ।
अलक्ष्यदेहा विदधुर्मृगाक्ष्यः
प्रत्युप्तपूर्णेन्दुशतान् गवाक्षान् ॥ १३-६६॥
शुचिस्मिताः सौधतलान्तरस्थाः
पद्मेक्षणं प्रेक्ष्य परिस्फुरन्त्यः ।
शरत्पयोदोदरसंश्रितानां
क्षणद्युतीनां द्मुतिमन्वविन्दन् ॥ १३-६७॥
अपाङ्गजालैरसितोत्पलाभैः
कृष्णात्मकं भावमिवोद्वमन्त्यः ।
वितेनिरे राजपथे मृगाक्ष्यः
तदादृतां बर्हवितानशोभाम् ॥ १३-६८॥
हरेरभिख्यामनुपाधिरम्यां
विलोचनैर्वीतनिमेषविघ्नैः ।
आस्वादयन्त्यः सुदृशस्तदानी-
मयत्ननिष्पीतसुधा इवाऽऽसन् ॥ १३-६९॥
अम्भोरुहाणामवलेपसीमां
कर्णोत्पलानामपि कान्तिकक्ष्याम् ।
विलङ्घयन्तः सुदृशां कटाक्षा
विलिल्यिरे कृष्णमवाप्य लक्ष्यम् ॥ १३-७०॥
तमात्मवन्तं परविद्ययेव
पराक्रमं तत्परयेव लक्ष्म्या ।
तमेव देवं दययेव जुष्टं
सम्मेनिरे तत्त्वविदः सभार्यम् ॥ १३-७१॥
तां प्राप्य चित्रामिव तारकेशः
स्तव्यैः स्तुतो वन्दिगणैरभौमैः ।
विवेश धाम स्वमुदीर्णधामा
वैवाहिकीं सम्पदमाप्तुमिच्छन् ॥ १३-७२॥
विहारयोगेन विभज्य युक्तं
मिथोऽनुरूपं मिथुनं तदाद्यम् ।
उपाचरन् व्योमचरा यथार्हं
सम्प्रीणनैरुत्सवसंविधानैः ॥ १३-७३॥
सदाऽभिगम्यैरभिगम्यमानं
विश्राणने वैश्रवणात् प्रभूतम् ।
तं शङ्खपद्मप्रमुखा महान्तः
सिषेविरे शेवधयः समेताः ॥ १३-७४॥
अकृत्स्नसंवेदिनि जीवलोके
सङ्ग्राहयन् धर्ममथात्मवृत्त्या ।
प्रत्यर्चयामास मुनीन् उपेतान्
प्रभुः स्वयं प्रेष्य इवोपचारैः ॥ १३-७५॥
अपत्रपाविप्लुतचेतसो ये
त्यक्त्वा विपक्षं तरसोपसेदुः ।
यथाक्रसं सात्यकिरुत्सवादौ
सेभावयामास सभासदस्तान् ॥ १३-७६॥
शुभंयवः स्वामिमहोत्सवेन
स्वाराज्यमक्षय्यमिवाप्तवन्तः ।
दत्तोपचारा वसुदेवदारैः
पुण्याशयाः पौरजनाः जहर्षुः (प्रहृष्टाः)॥ १३-७७॥
सहोदरन्यस्तभरस्तदात्मा
रुक्माणि रत्नानि च रौहिणेयः ।
अदत्त सन्तोषवशादभीक्ष्णं
वाञ्छाधिकं वन्दिवनीपकानाम् ॥ १३-७८॥
अनन्यभक्तैरनुभाव्यभूम्ना
दत्तेक्षणो दानपतिस्त्रिधाम्ना ।
समाहितैः सम्मतमुद्धवाद्यैः
पुरोधसां पूजनमाचचार ॥ १३-७९॥
आहन्यमाना धृतहेमकोणैः
गन्धर्वमुख्यैरिव गाढविद्यैः ।
जातानुनादा जगतां त्रयाणां
दोषच्छिदो दुन्दुभयः प्रणेदुः ॥ १३-८०॥
विभावितं शिक्षितनाट्यवेदै
रुद्वाहसङ्गीतमुदारक्लृप्तम् ।
प्रसादनं दृष्टिमनश्श्रुतीना-
मदिव्यमास्कन्दितदिव्यमासीत् ॥ १३-८१॥
लावण्यपूरं ललिताङ्गयष्टेः
कार्त्स्नेन निर्वेष्टुमपारयन्त्यः ।
अङ्गानि वध्वाः कुलवृद्धनार्यः
प्रसाधनैरन्तरयाम्बभूवुः ॥ १३-८२॥
प्रयुज्यमानानि तयोर्यथार्हं
मङ्गल्यमाल्याभरणाक्षतानि ।
प्रायेण लोकाभ्युदयं प्रदातुं
तत्सङ्गमात् तादृशतामकाङ्क्षन् ॥ १३-८३॥
अरातिपक्षार्णवमन्दराभे
हस्ते हरेर्यत्तदबन्धि सूत्रम् ।
तदाददे स्थानवशादभिख्यां
संवीतनागेन्द्रनिदर्शनीयाम् ॥ १३-८४॥
समेधितस्तस्य विवाहवह्निः
पुरोधसा पुण्यकृदग्रिमेण ।
प्रदक्षिणावृत्तशिखाकलापः
प्रायेण नीराजनमाततान ॥ १३-८५॥
आशास्य लाजाञ्जलिहोमभाजा
क्षेमाशिषा किञ्चिदशेषहृद्यम् ।
अन्योन्यमाकेकरसस्मिताक्षा-
वपश्यतामादिमदम्पती तौ ॥ १३-८६॥
वैलक्ष्यडोलामिव संश्रितानां
विलोचनानां ववृधे विहारैः ।
तयोरनन्यादृशवैभवाना-
मन्योन्यराजीवमधुव्रतानाम् ॥ १३-८७॥
परस्परं पाणिसरोजयोगात्
बभूवतुस्तौ पुलकाञ्चिताङ्गौ ।
अस्विद्यतां च ज्वलनस्तु मन्दै-
रसूत धूमैरधिवासमात्रम् ॥ १३-८८॥
समन्त्रकं साक्षिणि हव्यवाहे
सख्योचितां सप्तपदीं भजन्तौ ।
स्वशासनेन स्वयमन्वयैन्ता-
माचारमागन्तुकदम्पतीनाम् ॥ १३-८९॥
अन्वेतु विष्णुः स्वयमित्युदीर्य
प्रियां पराधीन इवानुगच्छन् ।
जायापतीनां जगदुद्भवानां
भव्यां दशां भावयति स्म नाथः ॥ १३-९०॥
आत्मानमेव स्वयमग्निरूपं
परिक्रमैः पर्यचरत् स देवः ।
विश्वस्य बाह्यान्तरनित्यवृत्त्या
न कर्म कर्ता च य एव येषाम् ॥ १३-९१॥
प्रदक्षिणेन क्रमणेन ताभ्यां
दत्तार्चनो दिव्यवधूवराभ्याम् ।
नूनं तथाऽऽनर्च विघूर्णनेन
स्वान्तः स्थितौ वह्निरपि स्वयं तौ ॥ १३-९२॥
तस्याः सलीलं चरणारविन्दं
कामी गृहीत्वा करपङ्कजाभ्याम् ।
आस्थापयत् यां दृषदं मुकुन्दः
साऽभूत् स्वयं मौलिमणिः श्रुतीनाम् ॥ १३-९३॥
यदत्र कर्मण्ययथाकृतं तत्
स्विष्टं क्रियादग्निरिति ब्रुवाणः ।
स्वतेजसा भावितविश्वतेजाः
स्वाहासखं देवमुपास्त देवः ॥ १३-९४॥
रामस्य सीतेव रमेव विष्णो-
रमुष्य भूयास्त्वमिहैकपत्नी ।
इत्यूचिषो यादववृद्धदारान्
प्रीताशया प्रैक्षत सा सनाथा ॥ १३-९५॥
वरेण वन्द्येन सुरासुराणां
मङ्गल्यसीमान्तभुवा च वध्वा ।
समीक्षिता ब्रह्मसुतस्य पत्नी
सर्वैरभूत् सादरदर्शनीया ॥ १३-९६॥
तदेकभावा तमनन्यभावं
नाथप्रिया नाथमनुव्रजन्ती ।
अभीष्टसिद्धेरधिदेवतेयं
यद्वा सवित्रीति यथार्थमूचे ॥ १३-९७॥
मनुष्यतां मानयतो विहारैः
स्वामेव देवीमुपयच्छतस्ते ।
समेधतां मङ्गलमित्युशन्तः
सत्याशिषस्तं मुनयः शशंसुः ॥ १३-९८॥
कृताशिषं कृष्णगृहेश्वरीं तां
पुरोधसा पुण्यमनोरथेन ।
सकौतुकां कौतुकिनः सुरत्नैर-
भ्यर्चयामासुरमात्यवृद्धाः ॥ १३-९९॥
प्रदाय ताभ्यामुपदाः समीचीः
प्रत्यागताः स्वानि गृहाणि पौराः ।
आशापतीनां विभवादनूनां
तत्रैव ते सम्पदमन्वभूवन् ॥ १३-१००॥
स्त्रीपुंसनाम्ना बहुधा विभक्तं
विश्वं ययोरेव विभूतिमाहुः ।
नयो जहौ द्वारवतीं न ताभ्या-
मङ्गीकृतामादिमदम्पतिभ्याम् ॥ १३-१०१॥
वधूसखे तत्र जगन्निवासे
वसत्यमर्यादगुणानुभावे ।
तस्मिन्निवाऽऽसीदनपायभावा
तस्यां नगर्यामपि रुक्मिणी श्रीः ॥ १३-१०२॥
तस्याः कटाक्षैर्विहिताभिषेकः
तद्बाहुना कल्पितकण्ठमाल्यः ।
अवाप शोभामधिकां मुकुन्दः
सौभाग्यसिंहासनसार्वभौमीम् ॥ १३-१०३॥
कदम्बगोलश्रियमाक्षिपन्तं
कन्दर्परूपोदयपूर्वरूपम् ।
प्रियापरिष्वङ्गरसेन धन्यं
प्रीताशयो बह्वमताऽऽत्मदेहम् ॥ १३-१०४॥
तां प्राप्य कृष्णः प्रभुतामिव स्वां
मनःप्रसूतेरिव मन्त्रसिद्धिम् ।
आसीदभीतैः सहसाऽभिगम्यो
मित्रैरमित्रैरपि सापराधैः ॥ १३-१०५॥
श्रीवत्ससंस्थानजुषा प्रकृत्या
स्थानेन चिह्नेन च लक्षणीयौ ।
दृष्टावभीष्टं भजतां ददाते
जगत्पती ताविह दम्पती द्वौ ॥ १३-१०६॥
न ते मनुष्या न च देवतास्ते
प्रायेण तावेव तथाभवन्तौ ।
यैरेवमन्योन्यविभूषितं तत्
द्वन्द्वातिगं द्वन्द्वमवैक्षि धन्यैः ॥ १३-१०७॥
अथ समुदितहर्षैरादृतो मन्त्रिवृद्धैः
सुरपतिदयिताभिः स्तूयमानापदानः ।
रुचिमिव निरपायां रुक्मिणीं प्राप्य हृष्यन्
यदुपतिरधिचक्रे यायजूकाधिकारम् ॥ १३-१०८॥
सुभगमुपलबिम्बे शातकुम्भेऽपि रत्नं
कनति विपिनभागे कालकण्ठेऽपि गङ्गा ।
वशिकनृपगृहे सा वासुदेवेऽप्यदीव्यत्
न हि भवति विशेषः क्वापि नित्योन्नतानाम् ॥ १३-१०९॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये रुक्मिणीपरिणयो नाम त्रयोदशःसर्गः ॥
॥ स्यमन्तकमूलस्त्रीपरिणयो नाम चतुर्दशः सर्गः १४॥
अथैकदा रोधसि पश्चिमोदधे-
रदभ्रसत्राजितभक्तियन्त्रितः ।
त्रयीमयश्चन्द्रसमीकृतद्युतिः
प्रसेदिवान् प्रादुरभूत् दिवाकरः (प्रभाकरः)॥ १४-१॥
अनल्पतेजोनिधिमप्रमाद्यतां
प्रसूतिमिष्टस्य धनस्य भूयसः ।
स्वकण्ठलग्नं द्युमणिः स्यमन्तकं
महामणिं भूमिभृते वरं ददौ ॥ १४-२॥
तमुग्रसेनार्थमियेष कंसजित्
न वार्यते राजनि रत्नहारिता ।
प्रतीत्य सत्राजित एतदप्रियं
क्वचिन्निचिक्षेप गुणाधिके(कं)मणिम् ॥ १४-३॥
यदेकमेकेन च लब्धमेकतो
रसेन रत्नामिषमर्थकाङ्क्षिणा ।
बभूव तत् बन्धुविरोधमादधत्
क्रमात् बहूनां विनिपातकारणम् ॥ १४-४॥
स्यमन्तकोदन्तविशेषसम्भवां
मृषाभिशस्तिं शमयन्नथात्मनः ।
प्रसेनविध्वंसकसिंहघातिनो
बिलं ययौ जाम्बवतो बलानुजः ॥ १४-५॥
स्तनन्धयोपान्तनिबद्धगीतया
ददर्श धात्र्या विधृतं करेण सः ।
धनाष्टभारप्रसु(भ)वं दिनेदिने
मणीश्वरं दर्शितकौस्तुभश्रियम् ॥ १४-६॥
जिघृक्षया दत्तदृशं च तत्र तं
जरानिरुद्धोऽपि जवेन जाम्बवान् ।
अरोधनीयं विबुधैरपि स्वयं
रुरोध नैसर्गिकसत्त्वरोषितः ॥ १४-७॥
मलिम्लुचं कञ्चिदिवागतं हरिं
वनेचरः प्रेक्ष्य तदर्हविक्रियः ।
अहेतिहस्तं स्वयमप्यनायुधः
प्रसह्य तं सा(बा)धयितुं प्रचक्रमे ॥ १४-८॥
अनन्यतन्त्रस्य पितुः पितामहः
सुतस्य चाऽऽरब्धमवेक्ष्य संयुगम् ।
समीहितोदकमिदं द्वयोरिति
प्रबुध्यमानो न निरोधमादधे ॥ १४-९॥
मिथस्तयोरस्तदयं विमथ्नतो-
रनायुधं युद्धमपेतकैतवम् ।
अकल्पितप्राश्निकमन्ववैक्ष्यत
स्वयं चतुर्भिर्दशभिश्च साक्षिभिः ॥ १४-१०॥
अरिष्टचाणूरमुखेष्वलक्षितं
प्रदर्शयन् ऋक्षपतेः पराक्रमम् ।
चिरं ददौ युद्धमचिन्त्यवेष्टितो
मनस्विनस्तस्य मधुप्रभञ्जनः ॥ १४-११॥
प्रकीर्यमाणा निजमुष्टिमुद्गर-
क्षताकृतेर्जाम्बवतः क्षतोद्भवैः ।
रराज रामावरजस्य सा तनुः
सशक्रगोपा वसुधेव शाद्वला ॥ १४-१२॥
स ऋक्षराजः क्षतजैर्जयश्रियः
कुचार्पितैः कुङ्कुमकर्दमैरिव ।
परिष्कृताङ्गः प्रचितोन्नताकृतिः
सगैरिकक्ष्माधरसम्पदं दधौ ॥ १४-१३॥
अशेषयज्ञाग्रहरं समागतं
जिगीषयाऽनुव्रतया स दीक्षितः ।
अतोषयत् संयुगसप्ततन्तुना
विभाव्यऋत्विग्विधिना भुजादिभिः ॥ १४-१४॥
तलप्रहारैरथ मुष्टिपातनैः
पदाभिघातैर्भुजयन्त्रपीडनैः ।
मिथःप्रतिक्षेपपुनर्गृहीतिभिः
नियुद्धचर्यानिपुणौ निजघ्नतुः ॥ १४-१५॥
कृतप्रतीकारविशेषतोषितौ
परस्परच्छिद्रनिवेशितेक्षणौ ।
दिशागजेन्द्राविव दर्पदुर्मदौ
दिनानि तौ निन्यतुरेकविंशतिम् ॥ १४-१६॥
अहीयत प्रत्यहमृक्षभूपतिः
स्वलीलया कंसरिपुः समैधत ।
तमःप्रकाशाविव तौ दिनागमे
वभूवतुः संयति पूर्वपश्चिमौ ॥ १४-१७॥
स तेजसा यादवतिग्मतेजसः
समिध्यमानेन निवारितोन्नतिः ।
शरन्नदीपूर इव स्फुटाशयः
शनैश्शनैः शान्तिमवाप जाम्बवान् ॥ १४-१८॥
वलीभिरापादतलं तरङ्गितः
सिरालुदेहः पलितैस्सितासितः ।
चिरप्रवृत्ताहवसम्भृतश्रमो
न चेतसा ऋक्षपतिः प्रचुक्षुभे ॥ १४-१९॥
स्वविक्रमादप्रतिमात् सुरद्विषां
भयानकात् आनकदुन्दुभेस्सुतः ।
अबिभ्यतं प्रेक्ष्य तमृक्षपुङ्गवं
महासुरं केवलमस्मरन्मधुम् ॥ १४-२०॥
युगान्तदम्भोलिनिपातभीषणै-
र्निहन्यमानं निजमुष्टिमुद्गरैः ।
स्वनाभिपद्मोद्भवजृम्भिकासुतं
बलानुजन्मा युधि बह्वमन्यत ॥ १४-२१॥
दशाननायोधनकेलिकिङ्करं
परामृशन् ऋक्षपतिं परः पुमान् ।
बलीयसस्तस्य बहूपकारवित्
बभञ्ज दर्पं भुजयन्त्रलीलया ॥ १४-२२॥
तमादितो मानुषमात्रमागतं
सदृक्षमृक्षाधिपतिस्ततः परम् ।
अथाधिकं सामिनिरुद्धपौरुषः
क्रमादमीमांस्यममंस्त कर्मभिः ॥ १४-२३॥
उवाच चैनं विधिवक्त्रसम्भवः
स्वविक्रमप्रीतमनुक्रमात् विदन् ।
सगद्गदं सन्नमितेन मौलिना
नखत्विषा पुष्पितमञ्जलिं वहन् ॥ १४-२४॥
अहो महत् सत्त्वमहो पराक्रम-
स्त्वमीश्वरो नूनमहो निरीश्वरः ।
अतीतदेवासुरनागर्नैऋतः
पतिः पतीनां प्रतिभाति मे भवान् ॥ १४-२५॥
अनेकमन्वन्तरदर्शिना मया
न खल्वरामो ददृशे भवादृशः ।
निजौजसा र्नैऋतयूधघातिनं
नियोधयन् (मां)यन्निभृतः प्रवर्तसे ॥ १४-२६॥
गुणैरपि प्रत्यवमृश्यते भवान्
दशाननाद्यैर्युधि दृष्टवैभवः ।
श्रुतं मया सिद्धजनादिह स्वयं
गुहाशयः प्राप्स्यति ते गुहामिति ॥ १४-२७॥
वनं तदेतन्महितं तपोवनं
गिरिं च वेद्मि त्रिदिवेश्वरालयम् ।
पचेलिमं किन्नु(ञ्च)तपो बिलस्य मे
प्रसाधितं यत् तव पादपांसुभिः ॥ १४-२८॥
स्वनाभितः सप्तमजन्मभागिनो
विजृम्भमाणस्य विधेर्यदृच्छया ।
त्वमेव मां वेदमधुव्रताश्रिता-
न्मुखाब्जतः स्वानुचरं व्यजीजनः ॥ १४-२९॥
त्रिभिः क्रमैर्दीव्यति दिव्यवामने
स्वमायया मोहितदानवे त्वयि ।
जगन्ति विश्वानि मितानि विष्णुने
त्यघोषयं द्रागिव जैत्रघोषणाम् ॥ १४-३०॥
जिघांसिते देव दशानने त्वया
हतारिसङ्घैर्हरियूथपैर्वृतः ।
अवर्तयत् सूर्यसुतस्य सन्निधा-
वयं जनः किङ्करवृत्तिमाहवे ॥ १४-३१॥
गतेषु सुग्रीवमुखेषु तावकं
पदं तदप्राप्यमहं त्विह स्थितः ।
त्वदीक्षणात् प्राप्तफलोऽस्मि साम्प्रतं
जरन् पुनर्यौवनमाप्तवानिव ॥ १४-३२॥
न तादृशाः सम्प्रति सन्ति भूतले
ऋते भवत्तः प्रतिसन्धिभावनैः ।
हनूमतैकेन विभीषणेन वा
मयाऽपि वा सोऽयमिति त्वमूह्यसे ॥ १४-३३॥
रसावहैरेकधियां रसायनैः
शुभैः श्रुतिश्रेणिशिरोविभूषणैः ।
अपेतभारां अतिदेवमानुषै-
र्विहारभेदैरवनीं विधास्यसि ॥ १४-३४॥
विशुद्धमिश्रैश्चतुरश्रवृत्तकै-
रगाधतुङ्गैः प्रमितामितक्रमैः ।
अनन्यभावान् अनुकम्पते भवान्
अचिन्त्यचिन्त्यैरवतारनाटकैः ॥ १४-३५॥
न वर्धसे कर्मभिरीश साधुभिः
न हीयसे च त्वमसाधुभिः कृतैः ।
जगत्परित्राणपरेण केवलं
विधिर्निषेधश्च न लङ्घ्यते त्वया ॥ १४-३६॥
गुणोदधिस्त्वं गुणकर्बुरात्मना
तिरस्करिण्या पिहितात्मदृष्टिभिः ।
न दृश्यसे देव सदा सहैव सन्
दिदृक्षमाणैरपि देवदानवैः ॥ १४-३७॥
जगत् तवान्तर्बहिरप्यमुष्य च
त्वमेवमेवंविधचित्रवैभवः ।
समाधिदृष्ट्या मुनिभिः समीक्ष्यसे
सनातनो नूतनभूमिकाश्रितः ॥ १४-३८॥
तवैव सङ्कल्पकलांशतः क्वचित्
समर्थवादाः परमेष्ठिनामपि ।
त्वयि प्रतिद्वन्द्विनि कस्य किं बलं
क एव जेता न भवेत् त्वदी(ये)क्षितः ॥ १४-३९॥
असह्यमेतन्मधुकैटभादिभिः
स्वतल्पसारोल्बणबाहुना त्वया ।
निपीडनं यन्निबिडं विषह्यते
मयाऽल्पसत्त्वेन तवैव तद्बलम् ॥ १४-४०॥
त्वया जितोऽहं क इवाजितः परो
न रुध्यसे नाथ मया न किं परैः ।
दयालुनाऽपास्यत दर्प एव मे
भुजाहवे च व्युदपादि भूष्णुता ॥ १४-४१॥
न नीतिवर्तन्यतिलङ्घिता मया
न च त्वदादेशविपर्यये स्थितं (तः)।
तथाऽपि सर्वाधिकसत्क्रियोचिते
विरुद्धचेष्टा विदधे विमोह(हि)तः ॥ १४-४२॥
जगत्पते जाम्बवतीमिहार्हणां
गृहाण पत्नीं गृहमागतः स्वयम् ।
मणिं च दिव्यं द्युमणेः स्यमन्तकं
युतं धनैर्यौतकमर्पयामि ते ॥ १४-४३॥
ममाऽऽत्मजाऽपि श्रियमेवमप्सरः
प्रसूतिरेषा वहती(ति)(दधती)श्रिया समाम् ।
त्वदर्हशीलादिगुणप्रसाधिता
स्वयं वृणीतेऽद्य भवन्तमेकधीः ॥ १४-४४॥
त्वदागमात् ऋक्षबिलं परं पदं
त्वदीक्षणात् सूरिगणा इमे वयम् ।
त्वदाश्रयात् सिन्धुसुतै(ते)व मत्सुता
त्वया धृतोऽसौ मणिरस्तु कौस्तुभः ॥ १४-४५॥
त्वदाहितस्वातिशयैः स्वयोगतः
परत्र साध्योऽतिशयः स्थिरत्रसैः ।
अनन्यसाध्यातिशयस्य तस्य ते
स्वशेष(षि)ताऽसौ न विघातमर्हति ॥ १४-४६॥
स्वयोगभूम्ना चुलकीकृताखिलैः
मुकुन्द देवैरपि किं न मुह्यते ।
विवेकवैराग्यविदेशवर्तिना
वनौकसा मांसदृशा मया न किम् ॥ १४-४७॥
अभार्गवो नापनयेत न क्वचित्
न वक्त्यसाधून्यबृहस्पतिर्न च ।
अवासवो न च्यवते न चाहवादते
च ते तद्वदहं तु किं पुनः ॥ १४-४८॥
भवार्णवे कर्मविपाकवात्यया
भवद्भिरावर्तगणैः परिभ्रमन् ।
कृतोपरोधः कृपया त्वदीयया
भवत्पदं कूलमिव प्रपद्यते ॥ १४-४९॥
अविन्दतस्त्वाममितामृतोदधिं
विगाढतृष्णाविवशान्तरात्मनः ।
विगाहनीयाः प्रतिभान्ति वीचिका
मरीचिकानामिव भोगसम्पदाम् ॥ १४-५०॥
गुणोदधिं यः प्रमितप्रमाणया
गिरा त्वदीयं परिमातुमिच्छति ।
स पातुमीहेत समग्रचापलः
पयोज(सरोज)नालेन पयःपयोनिधिम्(धेः)॥ १४-५१॥
अकर्मतन्त्रस्य जगन्ति कर्मभि-
र्निबध्यमानानि विमुञ्चतस्तव ।
अलीकलेशैरनुपप्लुता स्तुतिः
तथाऽप्यकल्येयमयावदुक्तितः ॥ १४-५२॥
अजानत (अभुत्सि न)त्वन्महिमानमद्भुतं
विमो(तिरो)हितं देव तवैव मायया ।
कृतापराधं कृपया वशीकृतः
क्षमस्व मामित्यपतत् क्षमातले ॥ १४-५३॥
विलूनमूलद्रुमसन्निभं स तं
विलक्षमुत्थाप्य विहारयादवः ।
प्रियाङ्गरागव्यतिहारगन्धिना
भुजान्तरेणोपजुगूह सादरम् ॥ १४-५४॥
स कन्यकारत्नमचिन्त्यवैभवं
वदान्यरत्नं च समं समर्पयन् ।
सरस्वतीवल्लभवक्त्रसम्भवो
महामनाः पूर्णमनोरथोऽभवत् ॥ १४-५५॥
वनौकसां पत्युरहीन्द्रशोभिना
विमथ्यमानादचलेन बाहुना ।
ननन्द लब्ध्वा हृदयङ्गमां प्रियां
मणिं च दिव्यं मधुकैटभान्तकः ॥ १४-५६॥
स्तनापदेशस्तबकावभासिनी
विलासभेदैरभिनीतपल्लवा ।
रमापतौ गारुडभूधरद्युतौ
रसाधिका रत्नलतेव सा बभौ ॥ १४-५७॥
सविस्मया पूर्वमथ प्रमोदिनी
ततो मदारम्भमिवाभिजग्मुषी ।
तदन्यसंस्कारनिरोधतः क्रमात्
तदीक्षणे तन्मयतामवाप सा ॥ १४-५८॥
स पर्यणैषीत् त्रिदशैरुपस्थितो
विधिर्यदाज्ञा विधिजन्मनस्सुताम् ।
बिले तदीये विबुधालयोपमे
विकल्प्यमानाकृतिमप्सरोगणैः ॥ १४-५९॥
अवाप्य जामातरमादिपूरुषं
जगत्प्रतीक्ष्यत्वमवाप जाम्बवान् ।
विदर्भराजेन विदेहभूभृता
समक्रमं दुग्धपयोधिना च सः ॥ १४-६०॥
मनुष्यभावाभिनयव्यवस्थितां
कुशीलवार्हां कुहनां वहन् प्रभुः ।
पुनस्तमृक्षेन्द्रपदानुभूतये
परं च भोक्तुं पदमन्वमन्यत ॥ १४-६१॥
प्रहृष्यता जाम्बवता निवेदितां
प्रवालजाम्बूनदरत्नसंहतिम् ।
प्लवङ्गभल्लूकगणैरनुप्लवै-
रविप्लवां द्वारवतीमजीगमत् ॥ १४-६२॥
ततस्तमामन्त्र्य चतुर्मुखात्मजं
प्रतिप्रयातः स्वपुरीं प्रियासखः ।
स्यमन्तकं संसदि दानवान्तकः
स्वतोऽनघः स्वामिवशे न्यवीविशत् ॥ १४-६३॥
जगत्पतिं जाम्बवतीसखं तदा
नियुद्धचिह्नैः परिकर्मिताकृतिम् ।
निरीक्ष्य तं द्वारवतीनिवासिनो
ननन्दुरानन्दजलाविलेक्षणाः ॥ १४-६४॥
अपेतसम्मोहमिवाऽऽत्मवेदिनं
दिवाकरं राहुमुखादिवोद्गतम् ।
अमंस्त नागेन्द्रमिवास्तशृङ्खलं
प्रशान्तवाच्यं प्रकृतिर्यदूद्वहम् ॥ १४-६५॥
जिताहितो जाम्बवतीनिषेवितः
स तत्र सत्राजितसात्कृते मणौ ।
स्वचौर्यदुर्वादममार्जयत् स्वयं
न विद्यते यस्य न किञ्चिदण्वपि ॥ १४-६६॥
स्यमन्तकस्य द्युमणेरिव त्विषा
(वोदये)निमेषमापुः कुमदाकरा इव ।
ह्रिया च मिथ्यापरिवादिनस्तदा
परे च पद्मा इव तद्विपर्ययम् ॥ १४-६७॥
स्वगोचरानेवमगोचरो गिरां
बलानुजो बालधियामपाहरत् ।
रहस्सु रथ्यासु च लब्धसम्भवान्
अवर्णवादान् अनघो गुणार्णवः ॥ १४-६८॥
अकीर्तिरारोप्यत कीर्तिरागता
यदप्रियं प्रोचुरिदं प्रियाप्तये ।
न कर्मतन्त्रेषु मतेरमोहता
न च स्वतन्त्रे स्युरनिष्टहेतवः ॥ १४-६९॥
प्रशान्तखेदः(भेदः)प्रतिलभ्य सन्मणिं
जगद्विनेतुर्वसुदेवजन्मनः ।
ददौ धरित्रीमिव सद्गुणाधिकां
स सत्यभामां तनयां नयाम्बुधिः ॥ १४-७०॥
यथा गिरीशो गिरिराजसम्भवां
पुलोमकन्यां च दिवौकसां पतिः ।
स्वयं च दुग्धोदसुतां सुधासखीं
तथा स रेमे सदृशीमवाप्य ताम् ॥ १४-७१॥
अनुव्रता कामकलास्वधीतिनी
विचित्रशस्त्रास्त्रविहारवेदिनी ।
बहुप्रियस्यापि हरेरतीव सा
वभूव देवी बहुमानगोचरः ॥ १४-७२॥
यथा न खेदाय गतः क्षणो भवेत्
यथा च तन्वीत न भीतिमायतिः ।
अनन्तनिष्कम्पगुणामनुक्षणं
प्रियः प्रियां प्रीतिमलम्भयत् तथा ॥ १४-७३॥
स वल्लभाभिस्तिसृभिः प्रकाशयन्
परत्वमाद्यं प्रतिपन्नषङ्गुणः ।
नयो महीयानिव शक्तिभिस्समं
समेतसिद्धिः प्रचिकाय सम्पदम् ॥ १४-७४॥
स्वदिव्यदेहप्रकृतीरिवापराः
पराश्च देवीरवृणीत पञ्च सः ।
यथार्हसेवावसरे प्रमाद्यतां
यदन्वितस्सन् अभिगम्यतां ययौ ॥ १४-७५॥
अखण्डिताशोक्तिभिरेकवृत्तितः(भिः)
स ताभिरन्योन्यसमन्वितात्मभिः ।
विभूषयामास विभूतिवैभवं
दिशाभिरष्टाभिरिवात्मनः पदम् ॥ १४-७६॥
अवाप्य देव्यः पतिमग्र्यनायकं
महौजसं मन्मथसूत्रसंयताः ।
उदग्र्नसद्वंशभुवो मिथस्समाः
सुवृत्तमुक्तावलि(फल)सौम्यतां ययुः ॥ १४-७७॥
आदौ लक्ष्मीरभजत हरिं रुक्मिणीरू पदृश्या
प्रापुस्तस्याः प्रतिनिधिपदं तत्प्रियाः सप्त देव्यः ।
सिद्धीरष्टौ दधदिव तदा सेवितस्ताभिरेकः
क्रीडायोगी निरवधिमसौ निर्वृत्तिं निर्विवेश ॥ १४-७८॥
प्राचीनासु प्रकृतिषु यथा प्रादुरासन् प्रजौघाः
तद्वज्जाताः सममिव जगन्नेतुरष्टासु तासु ।
पश्चात्प्राप्ते(प्त)प्रणयिनि तथा षोडशस्त्रीसहस्रे
तेषामेकः किमयमथवा तत्समानो बभूव ॥ १४-७९॥
शमितनिगमखेदैः साधुभिः श्लाघनीयं
चरितमिदमुदारं शास्तृ(तस्य)चाणूरहन्तुः ।
श्रुतमनुकथितं वा शुद्धिमग्र्यां दधानं
समतनुत पृथिव्यां शाश्वतं धर्मसेतुम् ॥ १४-८०॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादावाभ्युदये
महाकाव्ये स्यमन्तकमूलस्त्रीपरिणयो नाम चतुर्दशः सर्गः ॥
॥ शिशुपालवधो नाम पञ्चदशः सर्गः १५॥
अथ पद्मभुवः पितुः सकाशा-
दभिगच्छन् यदुपुङ्गवं दिदृक्षुः ।
मुनिरध्वनि वल्लकीसहायः
प्रजगौ लास्यतरङ्गितप्रचारः ॥ १५-१॥
अहमस्मि पितामहस्य सूनुः
स विभोरात्मभुवः सरोजनाभेः ।
भजते भुवि साम्प्रतं स देवः
स्वयमेवाऽऽनकदुन्दुभेः सुतत्वम् ॥ १५-२॥
अवरोपितगोपसूनुभावः
स नटः सम्प्रति देवकीसुतस्सन् ।
परितोषितभावुकः स्ववृत्त्या
श्रुतिलक्ष्यां महतीं प्रियामविन्दत् ॥ १५-३॥
तदहं तमसः स्थितं परस्ता-
दनपायद्युति भास्वताऽऽत्मनैव ।
कमलोल्लसितेन दर्शनीयं
दिनमाद्यन्तविवर्जितं दिदृक्षे ॥ १५-४॥
गुणसिन्धुरसौ गुणातिवर्ती
गतिरन्तःस्थितिरागमैकगम्यः ।
दयितासहितो दयैकसङ्गी
गुरुराद्यो मयि गौरवं विधाता ॥ १५-५॥
जगदेकहितेन जन्मनाऽसौ
दनुजैराक्रमणं भुवो निरुन्धन् ।
कलहप्रियमद्वचसोनुरोधात्
न कथं विग्रहमारभेत नाथः ॥ १५-६॥
अधिकारविलम्बितापवर्ग-
स्थिरसङ्गादपकौतुकस्त्रिवर्गे ।
विधिना नियतेन धर्मगुप्तौ
विनियुक्तोऽस्मि विरोधनेन दीव्यन् ॥ १५-७॥
विदधे विनिवेदितं मयाऽसौ
विविधं विश्वहितं विधास्यते च ।
स्वजनत्वधिया सुरासुराणां
बहुमानैकपदं यतोऽहमासम् ॥ १५-८॥
विनिवेदयता रिपोरुदन्तं
दिविषद्वैभवदावचित्रभानुम् ।
अजितस्य जिगीषतो मयाऽसौ
विजयारम्भमहोत्सवो विधेयः ॥ १५-९॥
इति भव्यमनोरथो महीयान्
प्रभुमासीनमुपह्वरेऽभियातः ।
विदिताखिलवेदितव्यमित्थं
मुदितः प्राह जगद्धितं मुनीन्द्रः ॥ १५-१०॥
जय देव जगत्त्रयान्तरात्मन्
न नियन्ता न च ते समस्त्वदन्यः ।
भवभीतिनिशीथिनीविभातं
परमं ब्रह्म भवन्तमामनन्ति ॥ १५-११॥
उदितः प्रणवाङ्कुरात्मना त्वद्-
विविधस्कन्धविभक्तरूढशाखः ।
त्वदनुग्रहपुष्पितः प्रजानां
फलमिष्टं निगमद्रुमः प्रसूते ॥ १५-१२॥
विषमं निजकर्मभेदयोगात्
बहुमानास्पदबन्धमोक्षलीलः (लम्)।
जनितं भवतैव पुत्रनीत्या
जगदेतत् स्वयमेव रक्षसि त्वम् ॥ १५-१३॥
गुणचित्रितजन्तुदन्तुरेऽस्मिन्
जगति त्वद्विहिते हितेतरेभ्यः ।
अपि विश्वसृजां समाहिताना-
मयथाचिन्तितमापतन्त्यवस्थाः ॥ १५-१४॥
सुकृतोपचयेन जातसिद्धि-
स्त्वदसौ कश्चिदुपस्थितापराधः ।
अनुभूय हिरण्यरावणत्वे
भजते सम्प्रति चेदिराजभावम् ॥ १५-१५॥
त्रिषु जन्मसु ते विहारदक्षं (शिक्षा)
विधिना सिंहगजक्रमेण सृष्टः ।
सहजः किल रुक्मिणीनिमित्ते
स रिपुः सम्प्रति कृत्रिमश्च जातः ॥ १५-१६॥
विपथेन सदैष विप्रधावन्
विबुधग्राम(व्यूह)विपन्निदानभूतः ।
भवतो भजतामनन्यसाध्यं
विनिपातं प्रणिपातवृत्त्य(गत्य)नर्हः ॥ १५-१७॥
दमनं दमघोषसम्भवस्य
प्रबलस्यापि यदर्थ्यते तदेतत् ।
मधुकैटभमेरुमर्दिनस्ते
मशकामर्शनमात्रमित्यवैमि ॥ १५-१८॥
अथवा जगदेतदोदनस्ते
तदुपघ्नन् उपसेचनं च मृत्युः ।
महदादि विलापयन् महिम्ना
दमनैरा(नेना)द्रियसे न दानवानाम् ॥ १५-१९॥
सुहृदोऽपि सदा सुरासुराणां
प्रणतानुग्रहभावितात्मनस्ते ।
क्वचिदापतितोऽपि पक्षपातः
समतामेव समर्थयेत सत्याम् ॥ १५-२०॥
प्रथमा चरमा च देवता त्वं
वरणीया वरदा च विश्ववन्द्या ।
निगमेषु सती पुरेषु चैका
जनयित्री जनपङ्क्तिहारिणी च ॥ १५-२१॥
कलशै (घटकै)रिव कर्मपाशनद्धैः
स्थिरकालात्मकचक्रयन्त्रनिघ्नैः ।
विहरस्यधरोत्तरक्रमेषु
स्ववशैरेव सुरासुरैः स्वतन्त्रः ॥ १५-२२॥
सवने भवमुक्तिसन्धि(क्तिसिद्धि)रूपे
विधिना विश्वपते विचित्रहेतिम् ।
हृदि शान्तधियः समिन्धते त्वा-
मनघात्मक्रतुहव्यवाहमाद्यम् ॥ १५-२३॥
अणिमादिभिरेक एव भिन्नः
परविद्यामणिदर्पणेषु भानात् ।
सुदृशां भजसि त्वमात्मभूतः
सुखसन्दर्शनयोग्यमाभिमुख्यम् ॥ १५-२४॥
अपि दृष्टमपि श्रुतं प्रभावं
भवदीयं भविनस्तमोभिभूताः ।
न विदन्ति यथावदात्मवन्त-
स्त्वनुपश्यन्ति करस्थिताम्बुकल्पम् ॥ १५-२५॥
सहधर्मचरीं सदाऽनुवृत्तां
स्वयमुद्दीपयता त्वयाऽनुकम्पाम् ।
शरणागतरक्षणव्रतस्य
प्रतिलब्धोऽयमिह प्रयोग(प्रबोध)कालः ॥ १५-२६॥
अहितं न हि(वि)चिन्तितं मयैतत्
चिरदुष्कर्मकृतोऽपि चेदिभर्तुः ।
सह नाकसदामसौ विमानैः
सुकृतित्वं लभतां त्वदस्त्रपूतः ॥ १५-२७॥
स्वपतः किल जाग्रतश्च तस्य
त्वयि वैरेण विदीप्तचित्तवृत्तेः ।
त्वदनुस्मरणप्रभावयुक्ता
नियतिस्त्वन्मयतामिवातनोति ॥ १५-२८॥
विनिवेदितविश्वकार्य इत्थं
कृतिना तेन कृतार्हणो यथार्हम् ।
मुनिरात्ममनीषिकावदातः
खलचेतोमलिनं खमुत्पपात ॥ १५-२९॥
वसुदेवसुतश्च पाण्डवेन
क्रतुमारब्धवता कृतोपहूतिः ।
समरप्रियया सह ध्वजिन्या
सवनं तस्य जगाम सत्प्रतीक्ष्यः ॥ १५-३०॥
यदुभिस्सह यादवेश्वरं तं
परिषत्प्राप्त(प्य)मुपेत्य पञ्च पार्थाः ।
विभवोचितमीश्वरानुरूपं
सुहृदर्हं च समर्चयाम्बभूवुः ॥ १५-३१॥
क्रतुमप्यनघं स धर्मसूनु-
र्हविषां भोक्तरि दत्तसन्निधाने ।
विधिवत् स्वधिया समर्प्य चक्रे
बहुधाऽनुश्रुततत्प्रभावभूमा ॥ १५-३२॥
हरिदश्वसमुद्भवं प्रदाने
धनगुप्तौ च सुयोधनं न्ययुङ्क्त ।
स्वयमेव समाहितेन वव्रे
हरिणा विप्रपदावनेजनांशः ॥ १५-३३॥
समये परिषत्सभाजनार्हे
दिविषत्पूज्यपदोऽपि दैत्यहन्ता ।
किमसाविति यादवेषु कश्चि-
न्नृप इत्यैक्षि जनैरलक्ष्यपारः ॥ १५-३४॥
अविशेषितशेषवृत्तिवाचं (भाजं)
निजपारम्यनिगूहनाधिगम्यम् ।
अपृथग्विभवैस्तमासनाद्यै-
रुपमृद्नन्त इवाऽऽसत क्षितीन्द्राः ॥ १५-३५॥
अथ युक्तविमर्शिभिश्चतुर्भि-
र्गुरुभिः पश्चिमपाण्डवो नियुक्तः ।
प्रविवेश सभामशेषकर्तु-
र्यदुवीरस्य विधातुमग्रपूजाम् ॥ १५-३६॥
अवदच्च तमेतमग्रगण्यं
विबुधानां पितरं पतिं गुरुञ्च ।
हरिमर्चितुमर्च्यमुद्यतास्स्म-
स्तदशेषैरनुमन्यतां सुधीभिः ॥ १५-३७॥
जगदेकपतेरमुष्य पूजां
स्थिरधर्मद्रुममूलसेकरूपाम् ।
निखिलानुमतां नृपो विधत्ते
निरपायप्रियपथ्यभावभव्याम् ॥ १५-३८॥
इति दर्शयतः पदं समाजे
बलिनां मानभृतां महीपतीनाम् ।
महती बहुवारमुत्तमाङ्गे
सहदेवस्य पपात पुष्पवृष्टिः ॥ १५-३९॥
हरिमर्चयितुं य ईहते तं
सुरपुष्पैः स्वयमर्चयन्ति देवाः ।
इति नूनमगापयत् द्विरेफैः
प्रसृतः पाण्डुसुते प्रसूनवर्षः ॥ १५-४०॥
अवलोक्य तदद्भुतं महीयः
प्रतिपन्नानुमते नरेन्द्रलोके ।
निजगाद हसन् अमर्षवेगात्
क्षितिपालान् शिशुपाल उन्मदि(त्पति)ष्णुः ॥ १५-४१॥
विदितं भवतामिदं यदेतत्
स्वयमाहूय महीयसः क्षितीन्द्रान् ।
अवमन्यत एवमध्वरस्थः
कुटिलो हन्त कुमार एष कुन्त्याः ॥ १५-४२॥
अयमश्विसुतोऽपि तावदास्तां
यदि माद्रीतनयः स पाण्डुसूनुः ।
रभसादवमत्य राजलोकं
यदि जीवेदलमन्ववायवादैः ॥ १५-४३॥
कृपणेन किमत्र साधुना नः
सहदेवेन नियोगसाधकेन ।
चतुरः पुनरस्य पूर्वजातान्
मनसा यात शठान् मनुष्यदेवाः ॥ १५-४४॥
द्विरदायुतसत्त्वशालिनो मे
यदि धर्मध्वज एष धर्मसूनुः ।
मिषतः परिभूय धर्मपालान्
यजते पश्यत पश्चिमेष्टिमस्य ॥ १५-४५॥
अथवा वसुदेवबन्धुदृष्ट्या
वयमासीमहि मन्दहासगर्भम् ।
स्वयमस्य पिता कथं स धर्म-
स्तमिमं धर्मविपर्ययं सहेत ॥ १५-४६॥
अयमस्मदनुज्ञया विजित्य
क्षितिमासादितराजसूयधर्मः ।
प्रसवोपगमे पतिप्रतीपा
वनितेवाद्य बिभर्ति वैपरीत्यम् ॥ १५-४७॥
परिपश्यति हन्त राजलोके
पशुपालस्य विधीयते सपर्या ।
अथ तत्र समर्थतैव तन्त्रं
तदसौ वीरवरेण्य एकलव्यः ॥ १५-४८॥
कुरुवृद्धमुपेक्ष्य जाह्नवेयं
जयसम्प्रीणितजामदग्न्यरामम् ।
इतरानपि तादृशानिहैतान्
न च गोपो न च यादवः समर्च्यः ॥ १५-४९॥
अतिमर्त्यबला विराटशल्य-
द्रुपदाद्या बहवो हि सन्ति वृद्धाः ।
अतिलङ्घनमभ्युपैतु को वा
गुणकर्मश्रुतशालिनाममीषाम् ॥ १५-५०॥
क्वचिदर्चनमिन्द्रजालतश्चेत्
कुहकाः सन्ति परश्शताः पृथिव्याम् ।
अथ कश्चन सत्य एष भूमा
क्व गतोऽसौ यवनादिसैन्यगन्धे ॥ १५-५१॥
अय(इद)मग्रज एष रौहिणेयो
बलशाली वपुषा च शुद्धवर्णः ।
अनतिक्रमणं तदस्य युक्तं
यदि शेषोऽयमविप्लुतः क्रमो वः ॥ १५-५२॥
नटवत् धृतशङ्खचक्रचिह्नाः
कति नामात्र विडम्बयन्ति विष्णुम् ।
अनुकर्तुमयं च तद्वदीशः
कथमीशत्वमनूर्मिषट्कहीने ॥ १५-५३॥
न च विश्वसिमो न वृद्धवाक्यं
बलवन्मानविलङ्घनं न चेत् स्यात् ।
न वदन्त्यनिदम्परेषु सन्तः
स्तुतिवाक्येषु यथाश्रुतार्थसिद्धिम् ॥ १५-५४॥
इति तत्र मुदा विकत्थमानं
कठिनं कण्ठविलग्नमृत्युपाशम् ।
परिदृष्टपरावरस्तमीष-
द्विनयन् विष्णुपदीसुतो बभाषे ॥ १५-५५॥
शृणु तात हितं समाहितस्त्वं
रुशतीं वाचमपास्य रोषजाताम् ।
अविमृश्य विपत्तिमापतन्तीं
न हि तिष्ठन्त्यहितेषु बुद्धिमन्तः ॥ १५-५६॥
अतिपत्य मुकुन्दमन्तिकस्थं
पथि(वशि)कान् अर्चितुमुन्मना भवेत् यः ।
अवधीरितकौस्तुभः स नूनं
कुरुविन्देषु कुतूहलं विधत्ते ॥ १५-५७॥
स्तुतिभिः कतिचित् त्रिवर्गमृच्छ
न्त्यपवर्गं च यमेकमाश्रिताभिः ।
निरये निपतन्ति निन्दयाऽन्ये
यदि तद्वेत्थ वदैष यत्क्रियार्हः ॥ १५-५८॥
सहजं नयनं च तत् तृतीयं
भुजयुग्मं च तव स्थितातिरिक्तम् ।
सहसा यदुपागमेन नष्टं
स्वयमाकारयसि स्वमृत्युमेनम् ॥ १५-५९॥
न हि सन्ति न निश्चितागमार्थाः
न गताः सन्निहिताश्च न प्रसुप्ताः ।
अपि तु त्रपया नतास्त्वदुक्ती-
स्त इमे नन्विह चेतसा हसन्ति ॥ १५-६०॥
यदि जीवितुमीहसे चिराय
प्रतिपद्यस्व हितं यदस्मदुक्तम् ।
अथ न प्रहितो जलाञ्जलिस्ते;
शृणुतान्ये य इह श्रुतौ निरूढाः ॥ १५-६१॥
युगकोटिशतायुतानि वेधाः
स्वपदं प्राप यमेकमर्चयित्वा ।
मनुजस्य तदर्चने विगायन्
मतिहीनः पशुरेष मर्षणीयः ॥ १५-६२॥
विधिहस्तधृतात् यदङ्घ्रिपद्मात्
च्यवमाना पवमानवेगनीता(हीना)।
विपुनाति जगन्ति दिव्यसिन्धुः
क्रमते हन्त तदर्चने विवादः
(तत् कथमेष दोषवादः)॥ १५-६३॥
स च कश्चन सर्वमेधयज्वा
हविरात्माह्वयमात्मनैव हुत्वा ।
यत एव बभूव देवदेवः
स किमस्माभिरदैवतैरनर्च्यः ॥ १५-६४॥
य इहाद्य भजन्ति यज्ञभागान्
कृतिनः कार्तयुगेन कर्मणा ते ।
अयजन्त पुरा यमेकमाद्यं
वरिवस्यामिह तस्य वारयेत् कः ॥ १५-६५॥
अथवा विबुधादिपूजनीये
मनुजैरर्चनमत्र मा विधायि ।
इति नाम विमन्यता(विरम्यता)
मिदानीमपशुत्वाय च कल्पतामयं नः ॥ १५-६६॥
धनबन्धुवयःक्रियादिमात्रै-
रधिकेष्वप्यचमत्क्रिया विहत्यै ।
जगदेकपतौ सदोपकर्त-
र्यपकृत्यैष भजेत कामवस्थाम् ॥ १५-६७॥
क्वचिदर्चयति प्रभूतपुण्ये
त्रियुगं तद्वदलब्धभागधेयैः ।
यदि नाम धिया न शोचितव्यं
न कथं दर्शनतोऽपि नन्दनीयम् ॥ १५-६८॥
यदनुग्रहनिग्रहप्रयुक्ते
सुखदुःखे शृणुमः स्वयम्भुवोऽपि ।
विमतिं भजतस्तदर्हणायां
न च देयो(विधेयो)ऽनुनयो न सान्त्वना च ॥ १५-६९॥
न पनायति चेत् असौ न
जिह्वा न नमस्यत्यथ नैतदुत्तमाङ्गम् ।
यदि नार्चयतो न तौ च
हस्तौ कृपया कल्पितसन्निधानमेनम् ॥ १५-७०॥
निरुपाधिकसर्वबन्धुमेनं
द्विषताऽनेन न भाषणप्रसङ्गः ।
निरयज्वलनेन्धनीभविष्यन्
कृपणः केवलमेष शोचनीयः (चितव्यः)॥ १५-७१॥
सहनीयतया प्रतिश्रुतं यत्
वसुदेवस्वसुरच्युतेन पूर्वम् ।
अपराधशतं तदद्य पूर्णं
भविता चैद्यविपत्तये परं यत् (तत्)॥ १५-७२॥
कुरुवृद्धवचस्तदेतदर्थ्यं
दमघोषप्रभवो निशम्य दीप्तः ।
प्रभयाऽनुकृतप्रवर्ग्यदीप्तिः
प्रतिरुन्धानदुरासदो ररास ॥ १५-७३॥
निपुणैरतिबालवृद्धवाक्यं
न परिग्राह्यमिति ब्रुवन्ति सन्तः ।
सहदेववदेष इत्यनिन्द्यं
पृथुकत्वेन पितामहं निनिन्द ॥ १५-७४॥
अतिवृत्तिमवेक्ष्य तस्य घोरा-
मशनिक्षोभनिभां सभासदस्ते ।
सदसत्प्रतिपत्तिमूढचित्ताः
क्षणमालेख्यसमर्पिता इवासन् ॥ १५-७५॥
जहसुः कतिचिद्विनिन्द्य चैद्यं
पिदधुः कर्णयुगं परे कराभ्याम् ।
सुरसिन्धुसुतं शशंसुरन्ये
व्यचिकित्सन्त च केचिदल्पसत्त्वाः ॥ १५-७६॥
मुनिभिः पुलकाञ्चिताखिलाङ्गैः
क्षरदानन्दधुबाष्पदिग्धदेहैः ।
अनुमोदनजातमौलिकम्पैः
हरिकीर्तिश्रवणोन्मुखैरभावि ॥ १५-७७॥
स्तुतिनिन्दनयोरभिन्नरूपं
मुखरागं मधुहन्तुरीक्षमाणैः ।
यदुभिः प्रतिरुद्धरोषवेगैः
क्षमया तिर्यगवैक्ष्यत क्षमैव ॥ १५-७८॥
मधुजित्परिवादजातरोषं
सहसा चेदिपतेर्वधाय सज्जम् ।
गदया सह भीममुज्जिहानं
शमयन्नित्थमवोचदापगेयः ॥ १५-७९॥
बलभीमसुयोधनैरमुष्मिन्
परिहीणायुषि न प्रवर्तितव्यम् ।
अतिपर्यनुयोगया नियत्या
हरिणैवैष भवाब्धिवन्निवर्त्यः ॥ १५-८०॥
त्यज साहसमुज्झ्यताममर्षः
समये विक्रमसम्पदाद्रियेत ।
सदनागतसूदनापवादो
महतां सम्प्रति मा च भूदयं वः ॥ १५-८१॥
भजतु प्रथमार्हणां यथार्हं
भगवानेष भवार्णवैकसेतुः ।
प्रकृतस्य विधातुमन्तरायं
स्वयमेतस्य शुभस्य न क्षमं वः ॥ १५-८२॥
इति शान्तनवे प्रभाषमाणे
निखिलानुश्रवसंशयप्रमोक्ता ।
मुदितो मुनिरब्जयोनिजन्मा
मुहुराधूतकरस्तदभ्यनन्दत् ॥ १५-८३॥
क्षितिपालगणोदधिस्तदानीं
विषमारम्भविरोधसेतुभिन्नः ।
स्तिमितक्षुभिताकृतिर्बभासे
गगनाम्भोधरसन्निभो गभीरः ॥ १५-८४॥
ननृते मुदितेन नारदेन
क्षिपता मङ्क्षु मृगत्वगुत्तरीयम् ।
सुरसिन्धुसुतोदितं विपञ्ची-
मसकृद्गाप(ञ्चींसकृदावाद)यताऽनुनादवृत्त्या ॥ १५-८५॥
उदगीयत यत् तदा विधिज्ञैः
सममुद्गातृभिरेकताननादैः ।
मधुमर्दनगीत(ति)गर्भया तद्
विशदं नारदवीणयाऽन्ववादि ॥ १५-८६॥
व्रजयोषिदपाङ्गवेधनीयं
मधुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधूस्तनन्धयं तत्
किमपि ब्रह्म किशोरभावदृश्यम् ॥ १५-८७॥
निकटेषु निशामयाम(नि)(मि)नित्यं
निगमान्तैरधुनाऽपि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं
यमुनासाक्षिकयौवनं युवानम् ॥ १५-८८॥
पदवीमदवीयसीं विमुक्ते-
रटवीसम्पदमम्बुवाहयन्तीम् ।
अरुणाधरसाभिलाषवंशां
करुणां कारणमानुषीं भजामि ॥ १५-८९॥
अधराहितचारुवंशनालाः
मकुटालम्बिमयूरपिञ्छमालाः ।
हरिनीलशिलाविभङ्गनीलाः
प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ १५-९०॥
जयतादिह देवकीसुतोऽसौ
जगतामादिरनाद्यनन्तभूमा ।
अवतारयितुं भरं पृथिव्या
वसुदेवस्य गृहे कृतावतारः ॥ १५-९१॥
क्रतुरत्र समर्पितः कृतार्थः
स च धर्मः कमिवाचचार धर्मम् ।
जगदेकपतेरमुष्य पूजां
विदधानेन युधिष्ठिरेण पुत्री ॥ १५-९२॥
इह नाकसदो न मानुषास्ते य
इमे कृष्णमिहार्चयन्त्यनन्याः ।
अयमेव महो ममेति गायन्
स तदा मूर्त इवाऽऽस नाट्यवेदः ॥ १५-९३॥
अभिनन्दितवृत्तिरार्यमिश्रै-
रविसंवादिभिरागमोदितेषु ।
विनयादवनम्य विश्वभर्तुः
सहदेवः स्वयमाहरत् सपर्याम् ॥ १५-९४॥
अरजस्तमसां महीपतीना-
मनुमत्या मुनिमुख्यसम्मते च ।
पुरुषस्य परस्य पूर्वपूजां
सहदेवप्रहितां शशंसुरार्याः ॥ १५-९५॥
तृणभुक्प्रतिमस्तृणाय मत्वा
स तदा चेदिपतिर्युधिष्ठिरादीन् ।
अजहत्परुषोक्तिहेतिजालो
दरशेषेन्धनवह्निवत् दिदीपे ॥ १५-९६॥
अजुगुप्सत भूभृतः सहिष्णून्
परिवादैश्च तिरश्चकार पार्थान् ।
अवमत्य मुकुन्दमर्भकोऽसा-
विति धिक्कृत्य पितामहं जगर्ह(र्हे)॥ १५-९७॥
अनघोऽयमतन्द्रितः क्रियायां
गुरुभिः शिक्षितशुद्धधीरनेकैः ।
कुरुवंशपितामहः कुतोऽसौ
मतिमोहेन महीयसा गृहीतः ॥ १५-९८॥
अशठैरजडैरनेडमूकै(मुहुरादृतमोहशान्तिकृत्यै)-
र्मुनिभिश्चात्र किमङ्ग्यकारि मौनम् ।
अथवा किमरातिपक्षसक्तै-
रहमस्मीति मुहुर्जहास मूढः ॥ १५-९९॥
परिवर्तहुताशनप्रदीप्तं
वदनं तस्य रुषा विजृम्भमाणम् ।
फणभृद्बिलभीषणं तदाऽऽसीत्
ज्वलदुल्काशतदुर्निरीक्षनेत्रम् ॥ १५-१००॥
बडबानलधूमराजिरूक्षा
भ्रुकुटी तस्य मुखे परिस्फुरन्ती ।
ददृशे तदसून् प्रसह्य पातुं
शमनेनेव निवेशिता भुजङ्गी ॥ १५-१०१॥
भसितीकृतचन्दनानुलेपः
क्वथितद्रावितहेमपुष्पदामा ।
सहसा हृदि तस्य कोपवह्निः
समदीपि स्फुटितप्रकीर्णहारः ॥ १५-१०२॥
कठिनौ परिपिंषतः करौ द्वौ
बहुशस्तस्य वरोर्मिका विशीर्णा ।
ध्रुवमप्रशमाय रोषवह्ने-
स्तुषविक्षेपमधत्त रत्नचूर्णैः ॥ १५-१०३॥
स्ववधाहतडिण्डिमस्वनाभान्
असकृच्चेदिनियन्तुरट्टहासान् ।
अभितो मणिभित्तिभिः सभा सा
प्रजहासेव विजृम्भितप्रतिश्रुत् ॥ १५-१०४॥
प्रतिपद्य रुषा विवर्णभावं
तमसा बिभ्रदलङ्घ्यमैकराश्यम् ।
उपरक्त इवार्यमाऽस्तमृच्छन्
स भृशं सद्भिरभूददर्शनीयः ॥ १५-१०५॥
श्वसितैरवि(पि)दूरवृत्तिमद्भिः
परिवारैरिव तत्यजे त्रसद्भिः ।
निजमंसमरातिवन्निजघ्ने
प्रविकल्पेन पदेन चास्य भूमिः ॥ १५-१०६॥
निभृतैरपि पूर्वमैकमत्यात्
विकृतस्याथ विरुद्धचेष्टितानि ।
दधिरे दमधोषसम्भवस्य
प्रतिबिम्बैरिव तस्य मित्रभूतैः ॥ १५-१०७॥
विकृताकृतिवेषचेष्टिताना-
मवलेपग्रहलुप्तमानसानाम् ।
अवधीरितजाह्नवेयवाचा-
मपहासः परमाददे महद्भिः ॥ १५-१०८॥
उपहूय रणाय वृष्णिवीरान्
नृपलोकादथ निर्जगाम चैद्यः ।
तममंसत यादवास्तदानी-
मनलस्कन्धविनिस्सृतं स्फुलिङ्गम् ॥ १५-१०९॥
कतिभिश्चन कामचारसक्तै-
रुपसञ्जातमदैरुदग्रशृङ्गैः ।
गजयूधपतेरिवाग्रभाजो
गतिरेतस्य गजैरिवानुजग्मे ॥ १५-११०॥
अथ तान् अनुमत्य पाण्डवादीन्
समरस्थानमुपागतः ससैन्यः ।
हरिरप्रतिरोधनीयवृत्तिः
द्विरदाधीशमिव द्विषं रुरोध ॥ १५-१११॥
रथहस्तितुरङ्गपत्तिरूपै-
र्युयुजाते पृतने यथार्हमङ्गैः ।
स्थितिकर्मभिराभिमुख्यवद्भि-
र्युधि बिम्बप्रतिबिम्बवद्भवन्त्यौ ॥ १५-११२॥
गरुडा इव पन्नगान् उदग्रान्
द्रुमषण्डानिव मारुताः प्रचण्डाः ।
अहितान् अभिनिघ्नतो निजघ्रु-
र्यदुवीरा मधुवैरिहेतिकल्पाः ॥ १५-११३॥
स्थितमप्रतिमे रथाङ्गपाणिं
गरुडप्रख्यगतागते रथाग्र्ये ।
पतनोद्यततारकानुकारी
शलभो वह्निमिवाऽऽससाद चैद्यः ॥ १५-११४॥
ज्वलदुज्ज्वलहेतिवृन्दशाली
विपुलस्यन्दनवेदिमध्यदीप्तः ।
स्वयमेव बभूव चेदिराजः
स्वविभूतेरभिचारहव्यवाहः ॥ १५-११५॥
यदुपुङ्गवसूर्यसन्निधाने
शिशुपालः प्रतिसूर्यवत् प्रदीप्तः ।
किमतो भवतीति खिन्नचित्तैः
सखिभिः स्वर्गिभिरप्यवैक्ष्यतैकः ॥ १५-११६॥
मदलुप्तधिया तदाऽभियुक्तो
यदुसिंहः शिशुपालकुञ्जरेण ।
विजहार गुहाशयस्तरस्वी
निखिलारण्यकनिर्विघातवृत्तिः ॥ १५-११७॥
मधुमर्दनकार्मुकप्रणादः
सुमनश्श्रोत्रसुधारसायमानः ।
त्रिजगद्भयशान्तिकप्रयोगो
रणवेदप्रणवो बभूव रम्यः ॥ १५-११८॥
अचिरद्युतिभास्व(सु)रोऽथ चैद्यः
पुरुहूतायुधचारुचित्रचापः ।
प्रलयस्तनयित्नुभीमनादः
शरवर्षेण मुकुन्दमभ्यवर्षत् ॥ १५-११९॥
गदया तदपोह्य बाणजालं
प्रतिनिर्धूतहिमप्रभाकराभः ।
अहितं विशिखैरहन् मुकुन्दो-
ऽदरवेधेऽपि दरव्यथाविमुक्तम्(क्तः)॥ १५-१२०)॥
मुषिताम्बरमस्त्रशस्त्रभूम्ना
दनुजारेर्दमघोषजन्मनश्च ।
अतिराघवरावणं तदानी-
मभवत् द्वैरथमाकुलेन्दुसूर्यम् ॥ १५-१२१॥
रथिनोरथ वादिनोरिवाऽऽसीत्
युधि शस्त्रास्त्रमयैः प्रमाणतर्कैः
अपरस्परपातिभिः प्रभतै-
रवधानेन परस्परं जिगीषा ॥ १५-१२२॥
प्रथितौ रणयज्ञयायजूकौ
धनुराम्नायसमाहितप्रयोगौ ।
तदनन्यरसान(व)तोषयेतां
नरदेवान् उपहूतसन्निधातॄन् ॥ १५-१२३॥
यदुसूर्यमवाप्य चैद्यचन्द्रः
शनकैर्यत्र बभूव मन्दधामा ।
गणना न बभूव कृष्णपक्षे
हतभग्नादिविकल्पितेऽपि तस्मिन् ॥ १५-१२४॥
रभसभ्रमणेन हेतिराजो
रणनीराजनमाचचार शौरेः ।
तममंसत सैनिकास्तदानीं
द्विषदुत्पातमलातचक्ररूपम् ॥ १५-१२५॥
सुकृतेन पुराकृतेन चैद्यः
प्रतिपन्नप्रकृतिः प्रशान्तवैरः ।
क्षणमद्भुतकृष्णरूपदर्शी
शिथिलाकृष्टशिलीमुखोऽवतस्थे ॥ १५-१२६॥
समयोदयसम्भृतप्रसादः
त्रिगुणग्रन्थिचिकित्सकः श्रितानाम् ।
विलुलाव सुदर्शनेन कृष्णः
शिशुपालस्य शिरः किरीटजुष्टम् ॥ १५-१२७॥
सह भृत्यगणैः समित्रवर्गे
निहते चेदिपतौ निवृत्तखेदाः ।
अभितुष्टुवुरादरेण देवा
नरदेवाश्च तमीड्यमादिदेवम् ॥ १५-१२८॥
हरिणा निधनं तदीक्षणं च
प्रयतामप्रतिबोधसम्प्रयुक्तम् ।
जगदद्भुतदिव्यभोगहेतुः
प्रतिबोधे तु दुरत्यया विमुक्तिः ॥ १५-१२९॥
सहसा हरिचक्रसम्प्रयोग-
क्षणसम्प्राप्तविपाकया नियत्या ।
अनघस्थितिमन्तिमामवस्थां
स तदा संयमिनामवाप चैद्यः ॥ १५-१३०॥
रभसेन रथाङ्गलूनकण्ठात्
वपुषश्चेदिपतेरुदीयमानम् ।
तपनायुतसन्निभप्रकाशं
यदुवीरस्य तनुं विवेश तेजः ॥ १५-१३१॥
अवलोक्य तदद्भुतं महीयः
क्षितिपालैरमरैस्सलोकपालैः ।
मुनिभिश्च मुहुःकृतावमर्शै-
रिदमित्थन्त्वविनि(त्थन्त्विति नि)श्चयो न लेभे ॥ १५- १३२॥
इति सम्भृ(हृ)तवीरसप्ततन्तुः
कृतिना धर्मभुवा कृतानुयात्रः ।
विनिवर्त्य तमग्रजानुवर्ती
परमेशः स्वपुरीं पुनः प्रतस्थे ॥ १५-१३३॥
जगद्वन्द्यः प्राप्तो जलधिरशनामात्मनगरीं
यथार्हं संसृष्टो यदुभिरखिलैरर्चितपदः ।
धरित्रीभारार्ध(भारस्य)व्यपनयनधर्मे धृतमतिः
महिष्या रुक्मिण्या महितचरितःसाधुमुमुदे ॥ १५-१३४॥
अलघुभिरपराधैराशरीरं प्रवृत्तैः
श्रितमपि शिशुपालं शृण्वतामप्यसह्यैः ।
विधिवशनियतेन व्याजमात्रेण मुञ्चन्
अजनि परिजनानां शौरिराश्वासपात्रम् ॥ १५-१३५॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये शिशुपालवधो नाम पञ्चदशस्सर्गः ॥
॥ नरकवधो नाम षोडशः सर्गः १६॥
ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् ।
पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः ॥ १६-१॥
अपत्यभावमापन्नमात्मानममृतोदधेः ।
निमेषरहितैः पौरैर्देवभूतैर्निरीक्षितम् ॥ १६-२॥
अदृश्यं मन्दपुण्यानाममन्दप्रीतिदायिनम् ।
आत्तदेहमिव स्वर्गमासेचनकदर्शनम् ॥ १६-३॥
महनीयपरिष्कारं वल्गुध्वजमतल्लिकम् ।
महोत्सवमिवाशानामाशाभ्यधिकसम्पदम् ॥ १६-४॥
उदधेरिव मन्थेन पीडितस्य समुत्थितैः ।
दृढलग्नैरिवोत्पत्तौ दीप्तं शोणितबिन्दुभिः ॥ १६-५॥
दैत्यदानवदर्पघ्नैर्दन्तैर्दलितमन्दरैः ।
सिंहानामपि हन्तारं सिंहवक्त्रविभूषणैः ॥ १६-६॥
मेरुकल्पेन रूपेण मेदिनीधृतिहेतुना ।
त्रिदशप्रीतिदातारं स्त्यानसिन्दूरधातुना ॥ १६-७॥
मूर्ध्ना विपुलतुङ्गेन मेनकास्तनबन्धुना ।
दधतं मौक्तिकाकल्पं गङ्गाबुद्बुदनिर्मलम् ॥ १६-८॥
अजहद्भृङ्गगीतेन गर्जाडम्बरशोभिना ।
स्वकान्त्या कर्णतालेन कॢप्तसङ्गीतखेलनम् ॥ १६-९॥
नर्तयन्तममर्त्यानां नेत्रकौतुकसूतिकाम् ।
नासां त्रिदशनारीणामूरुनिर्माणमातृकाम् ॥ १६-१०॥
मङ्गलत्वमिवेच्छद्भिर्हैमशङ्खादिमण्डनैः ।
आश्रितं रत्नपूर्णेन कुम्भेन च महीयसा ॥ १६-११॥
विभूतिशरदम्भोदैः कीर्तिवल्लीगुलुच्छकैः ।
कान्तिसागरकल्लोलैः सपक्षमिव चामरैः ॥ १६-१२॥
सहजं प्रभया चन्द्रं वारुणीं मदसम्पदा ।
सूचयन्तं स्वमूर्त्या च सुधां शुद्धानुभाव्यया ॥ १६-१३॥
जगदामोदजनकं दानार्द्रकरपुष्करम् ।
दभ्रयन्तमिवौदार्यात् दिव्यपादपसम्पदम् ॥ १६-१४॥
उदग्रबहुदन्तांशुं बृंहितव्याप्तदिङ्मुखम् ।
हसन्तमिव दिङ्नागान् अन्यान् अतिबलानपि ॥ १६-१५॥
उद्वहन्तं कदलिकां काञ्चनीं किङ्किणीफलाम् ।
वप्राभिघातभीतस्य सुमेरोरुपदामिव ॥ १६-१६॥
चित्रकम्बलसञ्छन्नं कान्तं कनककक्ष्यया ।
विद्युतेव परिष्वक्तं वासरान्तशरद्घनम् ॥ १६- १७॥
अवधिं दर्शनीयानामाकल्पमनघं दिवः ।
जीवातुं देवसैन्यानां दर्पभङ्गं विरुन्धताम् ॥ १६-१८॥
घण्टायुगलनादेन नगेन्द्रेष्वनुनादिना ।
क्षरन्तममृतक्ष्वेलौ कर्णेष्वमरतद्द्विषाम् ॥ १६-१९॥
महता मदगन्धेन तस्य विग्ना विबभ्रमुः ।
उत्खातविपुलस्तम्भा नागास्त्रुटितशृङ्खलाः ॥ १६-२०॥
स तं द्वारवतीद्वारे समवस्थाप्य सानुगम् ।
आससाद हरेः स्थानमवज्ञातत्रिविष्टपम् ॥ १६-२१॥
शुभानामिव साम्राज्यं श्वेतद्वीपमिवापरम् ।
निवेदितसमाहूतः प्रासादं प्राविशत् प्रभोः ॥ १६-२२॥
स तेन विहितां शक्रः प्रतिगृह्य प्रियार्हणाम् ।
निजगाद निजां भीतिं गद्गदोद्गम(त)या गिरा ॥ १६-२३॥
दयनीयेषु देवेषु देवदेव त्वयाऽधुना ।
अपाङ्गाः परिपात्यन्तामनुक्रोशानुवर्तिनः ॥ १६-२४॥
सुषुवे नरसिंहं त्वां भक्तप्रह्लादसम्मुखम् ।
रक्षार्थमिह दीनानां रत्नस्थूणेव देवकी ॥ १६-२५॥
नाथ त्वयि निराबाधं त्रिलोकीं त्रातुमागते ।
नरको नाम दैत्येन्द्रः कदर्थयति नाकिनः ॥ १६-२६॥
धर्मसूकररूपस्य तवसौ क्षमयाऽन्वये ।
उत्पात इव भूतानामुद्बभूव भयानकः ॥ १६-२७॥
जननी सर्वभूतानां पत्नी तव वसुन्धरा ।
प्रसूय नरकं देवी दूयते त्वदुपेक्षया ॥ १६-२८॥
न हिरण्यहिरण्याक्षौ न मधुर्न च कैटभः ।
उपमानपदे तस्य त्वच्छक्तिजनितात्मनः ॥ १६-२९॥
एष कल्पान्तवृत्तान्तमिदानीन्तनयन्निव ।
विधुनोति त्वदालम्बं ब्रह्मस्तम्बमिदम्परः ॥ १६-३०॥
विक्रमस्रोतसा तस्य बृहन्त्यपि बलानि नः ।
सहसा भेदमायान्ति सैकता इव सेतवः ॥ १६-३१॥
यदृच्छोपगमेऽप्यस्य यान्ति देवगृहाश्रिताः ।
प्रधावितुमनीशानाः साक्षितां सालभञ्जिकाः ॥ १६-३२॥
महता मत्प्रयुक्तेन वज्रेण ज्वलितात्मना ।
निलिल्ये तस्य दोर्मध्ये निष्काभरणवर्ष्मणा ॥ १६-३३॥
त्वत्कोप इव दीप्तोऽपि ज्वलनो न प्रकाशते ।
ज्योतिरिङ्गणवत् तस्य द्युमणेरिव सन्निधौ ॥ १६-३४॥
अमोघत्वयशोभङ्गभयादिव निवर्तते ।
अखण्डितबले तस्मिन् दण्डो दण्डधरार्पितः ॥ १६-३५॥
नयनार्चिष्मतस्तस्य र्नैऋतेश्वरवाहिनी ।
अपसृप्य पुरोभागादद्यापि न निवर्तते ॥ १६-३६॥
तं सुप्तमपि वा मत्तं वारुणो वैरिदारुणः ।
न रोद्धुं क्षमते पाशो नलस्तम्ब इव द्विपम् ॥ १६-३७॥
शक्तः शमयितुं तस्य संवर्तार्हजवोऽपि सन् ।
नभस्वान् खेलतः सङ्ख्ये न स्वेदकणिकामपि ॥ १६-३८॥
धनदेन गदा तस्य महती मूर्ध्नि पातिता ।
अभित्त्वा पौष्पमापीडमनापीडत्वमादधे ॥ १६-३९॥
जटिलान् कृत्तिवसनान् नियमं तीव्रमास्थितान् ।
तपस्विन इति ज्ञात्वा स रुद्रान् नातिवर्तते ॥ १६-४०॥
अहरत् वारुणं छत्रं मामकं मणिभूधरम् ।
अमृतस्यन्दिनी चास्मज्जनन्या मणिकुण्डले ॥ १६-४१॥
आदर्शमिव सम्पत्तेरमृताब्धेरिवाशयम् ।
औपवाह्यमसौ मत्कमारुरुक्षति साम्प्रतम् ॥ १६-४२॥
देवदानवसिद्धानां नृपाणामपि कन्यकाः ।
अपहृत्य त्वदेकार्हास्त्वरते पाणिपीडने ॥ १६-४३॥
स भौमस्त्वन्निरस्तानां समवाय इवोत्थितः ।
बाधते विबुधानेवं बलवीर्यपराक्रमैः ॥ १६-४४॥
तदेवमवसीदत्सु दया देवेषु पात्यताम् ।
अनपह्नुतदास्यानां दोषनिह्नवसाक्षिणी ॥ १६-४५॥
तमर्धं भूमिभारस्य त्वयैवोत्पादितं प्रभो ।
त्रिलोकीकण्टकं तीक्ष्णं त्वमेवोद्धर्तुमर्हसि ॥ १६-४६॥
निवर्त्ये धर्मशल्येऽस्मिन् निदाने सर्वपाप्मनाम् ।
निवेदनमिहास्माकमंशो निर्वहणं तव(त्वयि)॥ १६-४७॥
मशकामर्शवत् यस्य मधुकैटभमर्दनम् ।
तदन्यदनुजध्वंसे तस्य ते किमिवाद्भुतम् ॥ १६-४८॥
निगमान्तेषु निगदव्याख्यातनिजवैभवः ।
विधत्स्व विपदुत्तीर्णान् अमर्त्यान् अनुकम्पया ॥ १६-४९॥
इति विज्ञापितोदन्तं दत्तहस्तं बलद्विषम् ।
विनिवर्त्य जगन्नाथो वैनतेयमथास्मरत् ॥ १६-५०॥
अनुचिन्तितमात्रस्तमुपतस्थे खगेश्वरः ।
अहीन्द्रदामभिर्भीमैरंसलम्बिभिरंसलः ॥ १६-५१॥
पक्षमारुतघोषेण त्रैलोक्यदुरितच्छिदा ।
चतुर्णामिव वेदानां सम्भूतिमिव भावयन् ॥ १६-५२॥
तरुणार्कप्रभा-सार सामरस्यजुषा त्विषा ।
तप्तहेमद्रवौघेन लिम्पन्निव दिशो दश ॥ १६-५३॥
स्वामिदर्शनसन्तोषात् प्रहृष्यद्भिस्तनूरुहैः ।
युगान्तसन्ध्याजलदः तटिज्जालैरिव ज्वलन् ॥ १६-५४॥
विपुलाद्भुतसंस्थानैर्द्योतितो दिव्यभूषणैः ।
भुजगेन्द्रफणारत्नशङ्कार्हमणिचित्रितैः ॥ १६-५५॥
तुङ्गवज्रव्रणाङ्केन सुविस्तीर्णेन वक्षसा ।
अबहिर्भावयन् कृत्स्नमवकाशं विहायसः ॥ १६-५६॥
पृथुना भुजयुग्मेन भोगीन्द्रपरिकर्मणा ।
मन्दरद्वितयेनेव समेतो रुक्मपर्वतः ॥ १६-५७॥
व्यालखण्डनसङ्क्रान्तविषपङ्कक लङ्किना ।
दधान इव तुण्डेन दैत्यदर्पगजाङ्कुशम् ॥ १६-५८॥
तक्षकश्रोणिसूत्रेण दृढबद्धेन बन्धुरम् ।
मान्यमग्रजवर्णेन वसानो दिव्यमम्बरम् ॥ १६-५९॥
नाथभक्तिपरिष्कार्यां नृत्तलीलामिव स्पृशन् ।
निजेन स्थानकेनाग्रे निहितोन्नतजानुना ॥ १६-६०॥
वपुषा भक्तिनम्रेण धीरोन्नतमहीयसा ।
शान्तवीराद्भुतरसान् समाहृत्येव सम्पतन् ॥ १६-६१॥
मूर्तिमानिव संरम्भो रूपवानिव मारुतः ।
तरङ्गान् पक्षतीकृत्य सङ्क्षिप्त इव सागरः ॥ १६-६२॥
संवर्त इव नागानां सङ्घात इव रंहसाम् ।
वालखिल्यचरित्राणां विपाक इव जङ्गमः ॥ १६-६३॥
पभुस्तं दैत्यसिद्धीनां प्रसूतकिलि(ल)किञ्चितम् ।
ओलण्डितमिवापश्यदुग्रं समरताण्डवम् ॥ १६-६४॥
दत्तनीराजनस्तेन ददृशे वाहनेश्वरः ।
प्रदक्षिणीकृतः शश्वत् प्रतापविजयश्रिया ॥ १६-६५॥
स तदाऽऽस्फोटयामास विन्ध्यमेरुसमौ भुजौ ।
रुद्रया च सुकीर्त्या च मृदितौ कण्ठभूषणैः ॥ १६-६६॥
दुधुवे पक्षती च द्वे डोलायितकुलाचले ।
वीजयन् घोरदुर्वादिघर्मतप्तामिव त्रयीम् ॥ १६-६७॥
मुहुराम्रेडयामास जयालोकयभारतीम् ।
मुग्धमध्यप्रगल्भाभिर्दशाभिः कर्बुरामिव ॥ १६-६८॥
स तदा सन्नतस्कन्धो बद्धाञ्जलिरनिःश्वसन् ।
मुमुदे मूर्ध्नि संस्पृष्टो मुकुन्देन प्रसेदुषा ॥ १६-६९॥
तस्मिन् प्रथममारोप्य सत्यां विरहविक्लवाम् ।
आरुरोह ततः शौरिराखण्डलकृतस्तुतिः ॥ १६-७०॥
निवर्त्य स्वनिवासाय शक्रं शमितसाध्वसम् ।
प्रययौ दीप्तसन्नाहः प्राग्ज्योतिषपुरं प्रभुः ॥ १६-७१॥
श्रेयःपरिपणं तस्य श्रुतिश्रेणिशिरोऽमृतं (रोधृतम्)।
प्रणतः प्रति(परि)जग्राह शासनं पाकशासनः ॥ १६-७२॥
यथास्वं नगरद्वारे यादवा दानवाश्च तम् ।
तरस्विगरुडारूढं सत्यमैक्षन्त तत्क्षणम् ॥ १६-७३॥
समन्तात् वैरिदुर्गस्य क्षिप्तचक्रः क्षणेन सः ।
क्षुरान्तान् अच्छिनत् पाशान् आततान् शतयोजनम् ॥ १६-७४॥
मुरं पञ्चजनं सप्तसहस्राणि मुरोद्भवान् ।
शलभीकृत्य चक्राग्निरुपदुद्राव तत् पुरम् ॥ १६-७५॥
ततः प्राग्ज्योतिषद्वारे दैत्यदानवसूदनः ।
पाञ्चजन्यमुपादध्मौ प्रलयाम्बुधिनिस्वनम् ॥ १६-७६॥
वीक्ष्य तं विविशुर्दुर्गं दिवाभीता इवासुराः ।
उद्यन्तमिव तिग्मांशुमुदयाद्रौ गरुत्मति ॥ १६-७७॥
अभिमानोदितव्यक्तिरहङ्कार इवोल्बणः ।
महतो दैत्यनगरान्निरगान्नरकासुरः ॥ १६-७८॥
तमस्त्रमायाभ्यधिका दानवाः पर्यवारयन् ।
प्रकटच्छन्नकौटिल्याः पाषण्डमिव हैतुकाः ॥ १६-७९॥
संयुगे रजसोद्रिक्ते तस्मिन् सत्त्वतमस्त्विषोः ।
अर्थिप्रत्यर्थिनोरासीदनभिव्यक्तरूपता ॥ १६-८०॥
शरधारासहस्त्रेणच्छादयन् नरको दिशः ।
स्वहेतुमभिसम्पेदे समुद्रमिव तोयदः ॥ १६-८१॥
नरकाम्बुदमुक्ताभिर्नाथो नाराचवृष्टिभिः ।
विपद्भिरिव तद्भक्तो विषमाभिर्न विव्यथे ॥ १६-८२॥
दृप्यतामथ दैत्यानां ध्वनिरुत्कम्पयन् दिवम् ।
पाञ्चजन्यप्रणादेन पर्यभूयत भूयसा ॥ १६-८३॥
दिदृक्षोपगतानां तत् देवानां रोमहर्षणम् ।
अदीव्यत रणद्यूतमन्तरस्थयशः पणम् ॥ १६-८४॥
प्रतिविव्याध दैतेयं बाणैरशनिभीषणैः ।
पक्षवन्तमिवाद्रीन्द्रं प्रकुप्यन् पाकशासनः ॥ १६-८५॥
शरसंहतयस्तस्य क्षरन्त्यः शार्ङ्गशैलतः ।
द्विधा चक्रुः स्ववेगेन द्विषद्बलमहार्णवम् ॥ १६-८६॥
तस्य ज्यास्वनगीतानि समयुज्यन्त संयुगे ।
करिणां कर्णतालैश्च कबन्धानां च ताण्डवैः ॥ १६-८७॥
दैत्यशोणितदिग्धाभिस्तद्बाणततिभिर्नभः ।
रुरुधे रोषताम्राभिः कृतान्तस्येव दृष्टिभिः ॥ १६-८८॥
द्विरदाः शरनिर्भन्नकुम्भनिर्मुक्तमौक्तिकाः ।
क्षरन्तः करकासारं कल्पमेघा इवाऽऽबभुः ॥ १६-८९॥
नासावालधिभिर्नागाः क्षरन्तो रक्तनिर्झरान् ।
शशंसुर्लाघवं तस्य निष्पत्राकृत सायकम् ॥ १६-९०॥
अग्रिमं विशतां स्कन्धमामूलमहितां चमूम् ।
शराणां तस्य सन्धाननिपातौ न द्विषोऽविदुः ॥ १६-९१॥
लक्ष्यमेकमभूत् तस्य शराणामुत्पलत्विषाम् ।
अमरस्त्रीकटाक्षाणामप्यभङ्गुरधन्वनः ॥ १६-९२॥
चिरप्रार्थितभीतानां स तासामेव शात्रवान् ।
स्वयंवरपतींश्चक्रे सुधन्वा सुरसुभ्रुवाम् ॥ १६-९३॥
त्यक्त्वा भीतिवृतांस्तत्र विमुक्तान् जीविताशया ।
सार्धमप्सरसः कीर्त्या वीरान् स्वयमवृण्वत ॥ १६-९४॥
अनन्तस्य तदाऽनन्तैरसुरैराहवोत्सवः ।
जयश्रियं च सत्यां च संमते समतोषयत् ॥ १६-९५॥
स्वबाधनियतस्तत्र परबाधाभिलाषिणाम् ।
प्रयासः सुरशत्रूणां जात्युत्तरमिवाभवत् ॥ १६-९६॥
विसन्धिविग्रहाः क्षिप्तयानासनसमाश्रयाः ।
द्वैधीभावसृजो योधा दुर्नयस्था इवाभवन् ॥ १६-९७॥
अनघव्यवसायानामसङ्गत्यक्तवर्ष्मणाम् ।
योगिनामिव तत्रासीदपरावर्तना(र्तिनां)गतिः ॥ १६-९८॥
तनुं तत्र मुकुन्देन त्याजितान् महती स्वयम् ।
अवृणोदनघा कीर्तिरधिविन्नाप्सरोगणान् ॥ १६-९९॥
निस्सहायीकृतस्तत्र शरवर्षैर्धरासुतः ।
बह्वमन्यत तेनैव द्वन्द्वयुद्धमुपस्थितम् ॥ १६-१००॥
कृतप्रतिकृतैरस्त्रप्रयोगैः क्रीडतोस्तयोः ।
अदृष्टान्तमभूत् युद्धमन्यदृष्टान्तवर्जितम् ॥ १६-१०१॥
वक्रवृत्तिः सरुधिरो लोहिताङ्गो महीसुतः ।
प्राप्य यादवभास्वन्तं मूढः समभवत् क्रमात् ॥ १६-१०२॥
स्वायुधैकसहायस्तु देवः स्वच्छन्दयादवः ।
निरयापरपर्यायं रिपुं चक्रे निरायुधम् ॥ १६-१०३॥
क्रोधरक्ततनुर्दैत्यः क्षरच्छोणितनिर्झरः ।
गृहीतपादसञ्चारो गैरिकाद्रिरिवाऽऽबभौ ॥ १६-१०४॥
निशितैस्तस्य नाराचैर्निर्भिन्नरथसारथिः ।
आस्फोटितभुजस्तार्क्ष्यमजिघांसदमर्त्यजित् ॥ १६-१०५॥
निसर्गतमसस्तस्य जिह्मगस्याङ्गमुत्तमम् ।
रथपादेन चिच्छेद राहोरिव रमापतिः ॥ १६-१०६॥
उदतिष्ठत हाकारस्ततो युगपदेकधा ।
देवदानवसौधेभ्यो हर्षशोकसमुद्भवः ॥ १६-१०७॥
स्फुरद्भ्रुकुटि दैत्यस्य रोषदष्टाधरं मुखम् ।
निकृत्तमपि न द्रष्टुं प्रबभूवुर्दिवौकसः ॥ १६-१०८॥
निकृत्तशिरसं देवी निजाङ्के पतितं सुतम् ।
महती मेदिनी दीनं कम्पमानाऽन्वकम्पत ॥ १६-१०९॥
अथ सा दैत्यहन्तारं प्रणम्य नतजीवितम् ।
अयाचत दयासिन्धुमात्मजस्य शुभां गतिम् ॥ १६-११०॥
तुष्टाव च पतिं तुष्टा मेदिनी विश्ववेदिनी ।
स्नपयन्तीव संयत्तं(सा देवं)दन्तदीधितिगङ्गया ॥ १६-१११॥
अहमस्मि विभूतिस्ते भूतधात्री त्वया धृता ।
अशेषाधारमेकं त्वामनाधारमधीयते ॥ १६-११२॥
तिसृभिश्शक्तिभिर्युक्तं षाड्गुण्यप्रथितोदयम् ।
अधिराजमशेषस्य जगदुस्त्वां जिताहितम् ॥ १६-११३॥
अपि कोटिमुखैः सर्वैरनन्तेनाप्यनेहसा ।
नाथ त्वद्गुणदुग्धाब्धिपृषदास्वादनं क्षमम् ॥ १६-११४॥
अकर्तुमन्यथाकर्तुं कर्तुमप्यखिलं क्षमम् ।
लक्ष्मीलक्षणमाहुस्त्वां लङ्घितत्रिविधावधिम् ॥ १६-११५॥
स्थिरत्रसविभक्तं ते चिदचिद्भेदचित्रितम् ।
स्वसृष्टमिदमुद्यानं त्वदन्यो नास्ति रक्षितुम् ॥ १६-११६॥
स्वातन्त्र्यपरतन्त्रस्त्वं पारतन्त्र्यस्वतन्त्रितैः ।
विहरस्यात्मसूत्रस्थैः शकुनैरिव जन्तुभिः ॥ १६-११७॥
सितासितगुणारब्धैः पाशजालैर्दुरत्ययैः ।
निबद्धाः पशवो नाथ त्वदेकाधीनमुक्तयः ॥ १६-११८॥
यस्य त्वं यश्च हृद्यस्ते यस्यासौ तस्य यस्तथा ।
नाथ त्वत्पदमारुह्य न पुनस्तैर्निवृत्यते ॥ १६-११९॥
सुरासुरविभागोऽयं तुलाग्रन्यायतस्त्वया ।
कल्पितः कालपर्यायान्निम्नोन्नतसमक्रमः ॥ १६-१२०॥
कस्त्वदङ्गीकृतं हन्ता कस्त्राता त्वज्जिघांसितम् ।
निहन्सि पासि चैकस्त्वं स्वेन विश्वं परेण वा ॥ १६-१२१॥
वृद्धिसङ्कोचविषमा गतागतसहायिनी ।
नियतिः केन लङ्घ्येत निजच्छायानुकारिणी ॥ १६-१२२॥
नपुत्रवधमन्वीक्ष्य न दूये त्वन्मतस्थिता ।
न च पुत्राभिमानो मे मत्प्रसूतेषु जन्तुषु ॥ १६-१२३॥
सूदने कृतसङ्कल्पः स्वभक्तपरिपन्थिनाम् ।
यदि तीर्णप्रतिज्ञस्त्वं किं मयेदं न मृष्यते ॥ १६-१२४॥
त्वन्मायाजृम्भितैर्देव ब्रह्माण्डैरपि लीयते ।
जन्मन्यपि सुरोधेषु जन्तुवर्गेषु का कथा ॥ १६-१२५॥
त्वत्प्रसूतस्त्वयैवासौ वधि(र्धि)तश्चक्रधारया ।
का नाम कृतिनस्तस्य परिदेवयितव्यता ॥ १६-१२६॥
निरुद्धे नरके नाथ नित्यधर्मात्मना त्वया ।
निष्प्रतिद्वन्द्विकं स्वर्गसुखमास्वाद्यतां सुरैः ॥ १६-१२७॥
निर्यातितमिदं भूयः त्वज्जनन्यै मया स्वयम् ।
श्रवणाभरणद्वन्द्वं शीतलार्कयुगप्रभम् ॥ १६-१२८॥
इति विज्ञाप्य सा तस्मै विषादाभावमात्मनः ।
विरराम ततो देवी विलक्षा विश्वधारिणी ॥ १६-१२९॥
तामशेषजगद्धात्रीं सन्नताङ्गीमसान्त्वयत् ।
सहधर्मचरीं पूर्वां वासुदेवो वसुन्धराम् ॥ १६-१३०॥
पुरस्कृतप्रसादस्तां पूर्वसम्भवगेहिनीम् ।
गृहीतकुण्डलो गन्तुमन्वमंस्त गदाग्रजः ॥ १६-१३१॥
ततः सा तत्समादेशात् सत्यभामाभिवन्दिता ।
रम्यं प्रतिययो स्थानं रत्नसानुशिखण्डकम् ॥ १६-१३२॥
ददर्श यदुवीरोऽथ दैत्यवीरनिवेशनम् ।
अचिन्त्यमिव मायानां प्रभावमनुपप्लवम् ॥ १६-१३३॥
विचक्षणवरं दैत्यं वैरिसम्पत्करग्रहे ।
विभूतिसञ्चयप्रेक्षी बह्वमंस्त बलानुजः ॥ १६-१३४॥
सुधानिष्यन्दिभिः स्थूलैः मुक्तादामभिरावृतम् ।
पश्यन् पाशभृतश्छत्रं विश्वकर्ता विसिष्मिये ॥ १६-१३५॥
निदध्यौ कन्यकास्तत्र निदर्शितपरस्पराः ।
अमुद्राभङ्गसुभगा नीवीरिव रतेः शुभः ॥ १६-१३६॥
लावण्यजलधौ लक्ष्म्याश्छाया इव सहोदिताः ।
मधुस्वच्छन्दतासीम्नो मान्मथीरिव दीर्घिकाः ॥ १६-१३७॥
कामकीर्तिपताकाभिः स ताभिः प्रत्यवेक्षितः ।
आत्मानममृतोदन्वदन्तस्स्थितममन्यत ॥ १६-१३८॥
सुप्रभातमभूत् तासां सुदिनं च तमोपहम् ।
भवदोषार्यमा यासां देवो दृष्टिपथं गतः ॥ १६-१३९॥
रत्नशैलनिभांस्तस्य भुजान् कटकभूषितान् ।
उपधास्यन्ति यास्तासां श्रेयसी भवितव्यता ॥ १६-१४०॥
सर्वस्वमिव पुण्यानां साम्राज्यमिव सम्पदाम् ।
समाजमिव सिद्धीनां स तद्यौवतमग्रहीत् ॥ १६-१४१॥
भुजमन्दरवेगेन चक्रभ्रमवता विभुः ।
मथितात् दानवाम्भोधेरमृतं तदविन्दत ॥ १६-१४२॥
मणिपरुवकसम्पन्माननीयस्तनीनां
मनसिजवपुषेव स्वेन सङ्कल्पितानाम् ।
सकलजगदभिख्यासारसीम्नां स तासां
स्वयमजुषत सिद्धिं स्वप्रसादप्रसूताम् ॥ १६-१४३॥
पुरमथ गमयित्वा भूषितं यादवाग्र्यैः-
शतसमधिकसङ्ख्यं षोडशस्त्रीसहस्रम् ।
अवनितनयभीतान् प्रीणयन् आदितेयान्-
परिणयनविलम्बं पद्मनाभः प्रसेहे ॥ १६-१४४॥
दिवि भुवि च समिद्धं दीपरूपेण रूढै-
स्त्रिभुवनविभवानामङ्कुरैरेकरूपैः ।
जनितनिगमसख्यं दानवीनां विलापै-
र्नरकवधदिनं तन्नाथपूजार्हमासीत् ॥ १६-१४७॥
ऐरावतप्रतिनिधीनथ षट्सहस्रं
स्तम्बेरमान् पृथुलदन्तचतुष्कभाजः ।
काम्भोजवाजिनियुतानि च सत्रि-
सप्तान्यभ्यानयन्निजपुरं नरकस्य भृत्यैः ॥ १६-१४६॥
उद्गम्य दुर्गजलधेरुदयाद्रिकल्पं
तुङ्गं विहङ्गमपतिं त्वरयाऽधिरोहन् ।
उल्लासहेतुरभवत् यदुवीरभास्वान्
वैमानिकप्रणयिनीवदनाम्बुजानाम् ॥ १६-१४७॥
॥ इति कवितार्किसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये नरकवधो नाम षोडशः सर्गः ॥
॥ पारिजातानयनं नाम सप्तदशः सर्गः १७॥
आतपत्रमथ तत् प्रचेतसो
मन्दरस्य मणिशृङ्गमुन्नतम् ।
सावरोधमपि सात्त्वतां पतिं
लीलयैव गरुडो वहन् ययौ ॥ १७-१॥
तं क्षिपन्तमधिकेन रंहसा
मारुतस्य मनसोऽपि शीघ्रताम् ।
वालखिल्यसुकृतं विपक्त्रिमं
प्राणमैक्षत बहिश्चरं प्रभुः ॥ १७-२॥
लोकतः खगरथेन मध्यमा-
दुत्पतन्तमवनम्य माधवम् ।
निर्जराः स्तुतिभिरभ्यपूजयन्
पुष्कलाभिरपि पुष्पवृष्टिभिः ॥ १७-३॥
पाञ्चजन्यनिनदोपहूतया
पर्यचारि परितोषनिघ्नया ।
भक्तिभारनतया सदोन्नतः
स्वर्गिणां परिषदा यदूद्वहः ॥ १७-४॥
प्राप्य यादवपतिस्त्रिविष्टपं
देवमातुरुपनीतकुण्डलः ।
अग्रजेन हरिणा हरिः स्वसं(यं)
भावितेन समभाव्यतोचितम् ॥ १७-५॥
भागधेयपरिपाकतस्तदा
वासवो वसतिमभ्युपागतम् ।
देवदानवसमानदैवतं
पर्युपास्त परिकल्पितार्हणः ॥ १७-६॥
तत्र संमद (त)वतीभिरञ्जसा
लोकपालमहिषीभिरर्चिताम् ।
देहिनीमिव जयश्रियं निजां
बह्वमंस्त दयितां बलानुजः ॥ १७-७॥
सप्रसादमभिनन्द्य सन्नतान्
नाकिनो नरकभीतिवर्जितान् ।
कृत्यशेषविधये कृती भुवः
प्रत्यपद्यत निवृत्तिपद्धतिम् ॥ १७-८॥
स्वप्रभावविनिवृत्तसाध्वसां
सोऽतिपत्य नगरीं सुपर्वणाम् ।
पुष्पधन्वन इवोपकारि(र्य)कां
प्रैक्षतोपवनसम्पदं पुरः ॥ १७-९॥
वर्तते दशशतेक्षणोऽपि सन्
एकचक्षुरिव यन्निरीक्षणे ।
तत्र दत्तनयनो वियद्वने
विश्वदृष्टिरनघो विसिष्मिये ॥ १७-१०॥
दर्शयंस्तदनु रामणीयकं
नन्दनस्य वसुदेवनन्दनः ।
इत्युवाच मधुरस्मितेक्षणां
प्रेयसीं प्रणयपेशलाक्षरम् ॥ १७-११॥
पुण्यकृद्भिरभिकाङ्क्षितं त्वया
पौरुहूतमनुभूतमास्पदम् ।
अस्य सम्पदमनेकशाखयत्
प्रेक्ष्यतामिदमिहान्यदद्भुतम् ॥ १७-१२॥
अञ्चितस्मितमकेवलेक्षणं
भङ्गुरभ्रु परिवर्तिताननम् ।
किञ्चिदत्र तरलाक्षि तावकीं (कं)
नन्दनं नयनवृत्ति (त्त)मर्हति ॥ १७-१३॥
विश्वमेतदवधेन जेष्यतः
षट्पदज्यधनुषो (सुमनो?)धनुर्भृतः ।
अत्र नित्यमृतुभिस्सहोदितैः
षड्विधं बलमिवैकतां गतम् ॥ १७-१४॥
ऐकमुख्यममरेन्द्रतुष्टये
संश्रितैरिह वसन्तपूर्वकैः ।
शोभते सुनयने गुणैरिव
स्वानुरूपफलसम्पदाहिता ॥ १७-१५॥
जम्बुचूतरसजग्धिरञ्जितैः स्निग्ध-
कण्ठि कलकण्ठनिस्स्वनैः ।
त्यक्तगेहद(ग)मनाय निष्पतन्
पुष्पकेतुरिह घुष्यते ध्रुवम् ॥ १७-१६॥
अर्दितान् मकरकेतुसायकै-
रत्र देवि दयितान् पदाश्रितान् ।
मुद्रयन्ति चकितान् सुरस्त्रियः
पत्रभङ्गमकरैः स्तनार्पितैः ॥ १७-१७॥
कैश्चिदत्र कृतिभिः कृतास्पदैः
निर्ममैर्मनसिजो निरस्यते (निगृह्यते)।
सम्भवन्त्युपवने वनेऽपि वा
सावधानमनसां समाधयः ॥ १७-१८॥
पल्लवैरधरकान्तिरंशतः
स्मेरकुड्मलरुचा स्मितं च ते ।
वल्लरीभिरिह दोर्लतागुण-
श्चोरितानि निहितानि वा त्वया ॥ १७-१९॥
वादितेषु विहगेष्वनुक्षणं
मञ्जु गायति च षट्पदव्रजे ।
मारुतेन चतुरेण नर्तिता
लास्यमत्र परिचिन्वते लताः ॥ १७-२०॥
मन्थरश्वसनसौरभोल्बणा
वल्लरीः स्फुरितपल्लवाधराः ।
मन्मथेन क्रतुसङ्गमात् इमा
निर्वृता इव निशामयाद्भुताः ॥ १७-२१॥
केलिशैलमणिमेखलापदा-
दुद्गतामिह तमालवाटिकाम् ।
पश्य नन्दनभुवः सुमध्यमे
रोमराजिमिव मध्यसंश्रिताम् ॥ १७-२२॥
सम्भ्रमेण वनपालदारिकाः
सामिलङ्घि(म्भि)तपरागरोधसम् ।
आलवालवलयेषु शाखिनां
वाहयन्ति मकरन्दवाहिनीम् ॥ १७-२३॥
चक्रवाकमिथुनोदितस्तनी
वीक्ष्यतामिह विहारवापिका ।
पुष्परेणुरुचिरा मधुश्रियः
पुत्रिकेव पुरुहूतसंमता ॥ १७-२४॥
दिव्यपद्मवदना मणिप्रभा
दीर्घिकेयमसिताब्जलोचना ।
अन्तरिक्षमणिदर्पणान्तरे
बिम्बितेव भवती विभाव्यते ॥ १७-२५॥
अप्सरस्सु निखिलास्वलक्षितां
रूपसम्पदमसौ तवाद्भुताम् ।
पश्यतीव पुरुहूतवापिका
भृङ्गतारकितपद्मलोचना ॥ १७-२६॥
बिभ्रती त्वदभिलापचेतसोः
स्वादुतां प्रसदनं च शाश्वतम् ।
दृष्टिरुत्पलवनं दिशत्वसौ
दीर्घिकापयसि दीर्घलोचने ॥ १७-२७॥
शोणकुड्मलमुखी सरोजिनी
शोभते हरितपत्रशालिनी ।
संवृता त्रिदशपादपैरसौ
शारिकेव मणिपञ्जरस्थिता ॥ १७-२८॥
व्याहृतिक्षमदशातिवर्तिनीं
विप्लुताम्बुज(म्बर)रुचिं रजःकणैः ।
सेवते मधुमदेन मोहितः
पुष्पितां भ्रमर एष पद्मिनीम् ॥ १७-२९॥
एष चात्र समया सरोजिनी-
मेकतानयति चित्तचक्षुषी ।
पादपैरभि(रुप)गतश्चतुर्विधैः
पारिजात उदधीन्द्रसम्भवः ॥ १७-३०॥
पद्मरागरमणीयपल्लवं
पश्य कोमलहरिन्मणिच्छदम् ।
पुष्पभूतवरशिल्पभूषणं
तप्तहेमरुचिरत्वचं(त्विषं)तरुम् ॥ १७-३१॥
नम्रतामुपगतः फलैरसौ
वल्गुभृङ्गविरुतैरभिष्टुवन् ।
आर्द्रभावसुभगो विभाव्यते
कामकिङ्कर इवोचितक्रियः ॥ १७-३२॥
अक्षदामरचनोचितैः फलै-
र्देवतानुगुणपुष्पसम्पदा ।
वल्कलैश्च वसनैश्च विन्दते
वीतरागधृतरागहृद्यताम् ॥ १७-३३॥
त्वत्सगन्धतुलसीसहोदरः
पुण्य एष पुरुहूतपादपः ।
प्राणिनां यदवलोकनक्षणे
पूर्वजातिषु भवत्यनुस्मृतिः ॥ १७-३४॥
एष कल्पलतिकापरिष्कृतः
प्रत्यवेक्षयति पल्लवारुणः ।
सागरेन्द्रसुतया समन्वितं
धाम कौस्तुभमयूखरञ्जितम् ॥ १७-३५॥
पश्य जालकितपल्लवाधरै-
र्मौक्तिकैरमृतबिन्दुनिर्मलैः ।
सूचितस्मितरुचिं सुरद्रुमं
बालचन्द्रमणिराजसोदरम् ॥ १७-३६॥
अस्य नूनममृताधिकैः फलैः
सेवितैरनुदिनं दिवौकसाम् ।
न प्रसक्तिरपवर्गनन्दथौ
न क्षुधा न च जरा न च व्यथा ॥ १७-३७॥
त्वामिह त्रिदिवदर्शनागतां
मञ्जरीभिरवनम्य भूरिभिः ।
मानयत्ययमसौ सुरद्रुमो
मन्मथोपवनदेवतामिव ॥ १७-३८॥
द्वारकापरिषदं प्रयास्यतो
दूरवर्त्मपथिकस्य मे दृशा ।
प्रातराशवदिहास्य भुज्यते
सप्तलोकतिलकस्य चारुता ॥ १७-३९॥
गाढबद्धनयना त्वमीहसे
कामधेनुसहजन्मनि द्रुमे ।
नूनमस्य मणिभूभृता सह
स्थापनं निजनिवेशनिष्कुटे ॥ १७-४०॥
व्युत्थितेषु विमुखेषु वा स्वयं
निर्निमेषनयनेषु नाकिषु ।
त्वद्विवक्षितमतः परं कथं
पुष्पमस्य बिभृयात् पुलोमजा ॥ १७-४१॥
शङ्खपद्मसुरपादपादिभिःश्श्
श्लाघितां त्रिदिवतो गुणाधिकाम् ।
माननीयचरिता मया सह
द्वारकां त्वमधिवत्स्यसि प्रिये ॥ १७-४२॥
दुग्धसिन्धुदुहितुः सहोदरे
वासमेयुषि वदान्यपादपे ।
शक्रदारवदनेऽपि दुर्लभां
लप्स्यते तव विहारभूः श्रियम् ॥ १७-४३॥
इत्थमादिकविना समीरिता
साऽन्वभावि किल सत्यभामया ।
सामरस्यमिव तेन जग्मुषी
सौकुमार्यसुभगा सरस्वती ॥ १७-४४॥
योजितोऽथ यदुवंशकेतुना
ख्यातकीर्तिरमृतापहारतः ।
उत्क्षिपन् खगपतिःसुरद्रुमं
पक्षपङ्क्ति विपिने न्यवीविशत् ॥ १७-४५॥
एतमश्रुतचरं पुरन्दरः
शुश्रुवान् क्षणमुदन्तमैश्वरम् ।
भीतिकोपसमवायरूपया
दोलयेव समकृष्यत द्विधा ॥ १७-४६॥
अप्रतिक्रियमपि प्रभोरिदं
चेष्टितं प्रतिचिकीर्षता तदा ।
मन्युरेव शतमन्युना महान्
आगृहीतमनसाऽभ्यमन्यत ॥ १७-४७॥
दीप्तदृष्ट्यचिररश्मिसन्तति-
र्वज्रघोषपरुषो मरुत्सखः ।
चित्रचापशरवर्षवांस्ततः
प्रत्यदृश्यत मरुत्वदम्बुदः ॥ १७-४८॥
न्यस्तकर्बुरकुथोत्तरं निजं
वारणेन्द्रमधिरुह्य वासवः ।
नैकधातुमति रौप्यभूधरे
शोभते स्म निजरत्नशैलवत् ॥ १७-४९॥
अप्रतर्क्यवृजिनोत्थमासुरं
भावमास्थि(श्रि)तवता वलद्विषा ।
दुर्जयोऽपि विजिगीषितो विभुः
सस्मितः समरसंमुखोऽभवत् ॥ १७-५०॥
देवराजयदुराजयोरिदं
द्वैरथं प्रतिभयं दिदृक्षवः ।
वेधसा सह सनन्दनादय-
स्त्यक्तसंयमधियोऽवतस्थिरे ॥ १७-५१॥
भीषणप्रलयमेघसन्निभं
कृष्णमेघमथ मेघवाहनः ।
आपतन् असुरभेदकं(नं)क्षणा-
दाचकर्ष ऋजुरोहि(पि)तं धनुः ॥ १७-५२॥
चक्रपाणिविजयाय चक्रितात्
भीमघोषदलिताखिलश्रुतेः ।
वज्रपाणिधनुषः शरोर्मयः
सम्बभूवुरुदधेरिवोर्मयः ॥ १७-५३॥
वज्रिणः शरगणः समापतन्
वाहने खगपतौ मुरद्विषः ।
तस्य तेजसि बभूव भस्मसात्
तूलराशिरिव कालपावके ॥ १७-५४॥
प्लावितो विशिखवृष्टिभिस्तदा
जम्भभेदि(वैरि)जलदप्रसू(हे)तिभिः ।
अन्वदीपि गरुडः प्रतापवान्
आज्यसिक्त इव वह्निराध्वरः ॥ १७-५५॥
वृत्रहन्तुरचमत्क्रियामिमां
विश्ववित् स्वविषये विभावयन् ।
पश्यति स्म विबुधेषु काश्यपिः
पन्नगेष्विव पराक्रमं क्षमम् ॥ १७-५६॥
तस्य देवपृतनाविधूतये
जृम्भमाणवपुषो महौजसः ।
अप्रभूतमभवज्जगत्त्त्रयं
बिभ्रतस्त्रिजगदेकदम्पती ॥ १७-५७॥
तुङ्गपक्षतिशताङ्गशालिनो
भीमनागघटिताकृतेरभूत् ।
वाहतां च वहतः सपत्तितां
सैन्यताऽस्य सुरसैन्यवेधिनः ॥ १७-५८॥
पारिजातपवनोर्मिबृंहितै-
र्वासुकिप्रभृतिभिर्महोरगैः ।
गाढतां हरिरथस्य बिभ्रतः
सारथिश्च तुरगाश्च साहसम् ॥ १७-५९॥
गाढदीप्तगरलानलोष्मला
तार्क्ष्यभूषणभुजङ्गफूत्कृतिः ।
पीतनिर्भरसुधारसोन्मदाः
पाकशासनचमूरमूमुहत् ॥ १७-६०॥
अप्रतर्क्यतरसो गरुत्मतः
पक्षवेगपवनेन ताडिताः ।
आत्मकङ्कटमपोह्य वज्रिणं
बभ्रमुर्दशसु दिक्षु मारुताः ॥ १७-६१॥
तस्य पक्षमरुता निवर्तितै-
र्वाहिनी दिविषदामशेषतः ।
वृत्रशासनशरासनच्युतैः
प्रत्यविध्यत शरैरजिह्मगैः ॥ १७-६२॥
वैनतेयनखरैर्विदारितो
बाह्यमान्तरमपि त्यजन् मदम् ।
शोणितैर्विरुरुचे सुरद्विपः
श्वेतशैल इव धातुनिर्झरैः ॥ १७-६३॥
क्ष्वेडितेन मुषिताशयानिव
प्लोषितानिव दृशा प्रदीप्तया ।
दारितानिव पतत्रमारुतैः
निर्जरान् अतनुतारुणानुजः ॥ १७-६४॥
स्वासु दिक्षु समवस्थितास्तदा
दिष्टवञ्चितधियो दिवौकसः ।
तोयदा इव युगान्तभास्करं
सन्निकृष्य समवृण्वताच्युतम् ॥ १७-६५॥
नाजिघांसदपराधिनोऽपि तान्
नाकनायकगणान् (भटान्)जनार्दनः ।
आनृशंस्यमथवा न भज्यते
तस्य संश्रितजनेषु जातुचित् ॥ १७-६६॥
तेषु शिक्षणपरः शिलीमुखान्
प्राहिणोत् प्रभुरमर्मभेदिनः ।
अङ्कुशेन निशितेन हस्तिपो
दुर्मदान् प्रशमयन्निव द्विपान् ॥ १७-६७॥
तं समेत्य निरपायतेजसं
सप्तसप्तिमिव तारकाग्रहैः ।
सद्भिरेव विबुधैरसत्समा
काऽपि दुर्ग्रहदशाऽन्वभूयत ॥ १७-६८॥
अष्टभिश्च हरितामधीश्वरै-
रर्यमप्रभृतिभिश्च संहतैः ।
वृष्णिवीरशरखण्डितायुधै-
र्विह्वलैरजनि वीतशक्तिभिः ॥ १७-६९॥
अक्रमात् दश दिशोऽवलोकयन्
दत्तदृष्टिरभितः क्रमात् वृषा ।
स्रस्तकार्मुकशिरस्त्रकञ्चुकां
प्रेक्ष्य देवपृतनामदूयत ॥ १७-७०॥
अस्त्रशस्त्रविनिपातमोहितान्
अर्दितान् असुरवैरिसायकैः ।
सत्रपेव सपदि त्रपा जहौ
दैन्यमीलितदृशो दिवौकसः ॥ १७-७१॥
अप्सरोनयनतोयकज्जलैः
शोणितैश्च विभुना सुपर्वणाम् ।
आत्मकीर्तिसुधया विशोधिते
चित्रमम्बरतले व्यलिख्यत ॥ १७-७२॥
पञ्चवक्त्रवदनस्थमामिषं
प्राप्तुकाम इव बालवञ्चकः ।
प्रस्थितामभिनिवेशवान् पुनः
प्रत्यपद्यत धृतिं पुरन्दरः ॥ १७-७३॥
वज्रमात्तमरिहन्तृ जिष्णुना
विष्णुना च युधि चक्रमुद्यतम् ।
दृष्टवन्ति भुवनानि जज्ञिरे
कम्पितानि कलुषाणि च (तत्)क्षणात् ॥ १७-७४॥
तौ परस्परजिगीषयोद्यतौ
वीक्ष्य निष्प्रतिमवीर्यवैभवौ ।
व्योमभित्तिलिखितैरिव स्थितं
व्यक्तविस्मयभयैः सुरासुरैः ॥ १७-७५॥
कस्य केन परिभूतिरापतेत्
कश्च वेद रणवर्तनीमिति ।
सन्दिहानमनसे(सै)व तत्क्षणं
मध्यसीम्नि विजयश्रिया स्थितम् ॥ १७-७६॥
प्रेषितां हरिहयेन भीषणां(?)
ह्रादिनीं हृतवति त्रिधामनि ।
लोलिता निववृते परस्परं
लोकपालपृतना पराङ्मुखी ॥ १७-७७॥
कान्दिशीकजितकाशिनोरिमां
व्यापृतिं विबुधवृष्णिवीरयोः ।
प्रेक्ष्य दुर्मदविवेकयोरिव
प्रस्थितेव चकिताऽमरावती ॥ १७-७८॥
तं तथा समरदैन्यविप्लुतं
शान्तदर्पमयथापुरं स्थितम् ।
व्यक्तनृत्तहृदयं वलद्विषं
वीक्ष्य विश्वमखिलं व्यलज्जत ॥ १७-७९॥
व्रीडया तरलितैर्विलोचनै-
र्वेपमानकमलाकरोपमः ।
सन्नतः क्षणमवैक्षि वासवः
सापहासमिव सत्यभामया ॥ १७-८०॥
यादवेन्द्रविबुधेन्द्रयोस्तदा
रत्नयोरिव तुलाधिरूढयोः ।
गौरवेण ददृशे समुन्नति-
र्लाघवेन च नतिस्तदद्भुतम् ॥ १७-८१॥
यत् प्रभौ नरकमर्दनेऽभवत्
देवदर्पदमने ततोऽधिकम् ।
पुष्यति स्म मकरन्दमेदुरं
पुष्पवर्षममृतोद्भवस्तरुः ॥ १७-८२॥
इत्यनाकलितपूर्वसत्कृतिं
वृक्षमात्रकलहोल्बणं विभुः ।
निर्जिगाय मिषतां दिवौकसां
आत्तशस्त्रममरावतीश्वरम् ॥ १७-८३॥
दीप्यमानमनघेन तेजसा
देवकीसुतमवेक्ष्य देवताः ।
अस्त्रजालमवधूय सिद्धिदान्
अञ्जलीन् अबिभरुः कराम्बुजैः ॥ १७-८४॥
सोऽथ संयति पलायनोन्मुखः
पाकशील इव पाकशासनः ।
सत्यया विहसितोऽपि सत्त्ववान्
प्रत्यबोधि परमेष्ठिनं पुनः ॥ १७-८५॥
धिक् प्रमादमदिरां विमोहिनीं
धिक् परिग्रहविशेषमीदृशम् ।
धिक् च मे त्रिदशराजतामिति
स्वं जगर्ह मघवा(न्)मुहुर्मुहुः ॥ १७-८६॥
तेन तत्र विहगेन्द्रवाहनो
वारणादवनतेन बिभ्यता ।
निर्जितेन हरिणा हरिः स्वयं
पर्यवैक्षि शरणं प्रियासखः ॥ १७-८७॥
तुष्टुवे च पुरुषं पुरुष्टुतं (पुरःस्थितं)
प्राञ्जलिः परिबृढो दिवौकसाम् ।
रक्तभावविगमोज्ज्वलं मुखं
राहुमुक्तमिव चन्द्रमुद्वहन् ॥ १७-८८॥
शक्र एष शरणं प्रपद्यते
भक्तजीवित ! भवन्तमीश्वरम् ।
मित्रभावसमुपागतं जनं
न त्यजेयमिति नाथ मन्यसे ॥ १७-८९॥
मातरं त्रिजगतां तव प्रियां
मानुषीति मनुते स्म मद्वधूः ।
तेन नूनमनुभूतमीदृशं
दैन्यमेतदवशोदितं मया ॥ १७-९०॥
निर्जितोऽहमजितेन यत् त्वया
लम्भितोन्नतिरनेन न त्रपे ।
न ह्यजय्यमिह किञ्चिदस्ति ते
सर्वनेतुरतिरिक्तमात्मनः ॥ १७-९१॥
अस्तु, मा स्म भवदित्यनन्यया
वीक्षया जगदिदं नियच्छता ।
नाथ ! निष्प्रतिघतेजसा त्वया
नन्वयं मम पराजयो जयः ॥ १७-९२॥
आत्मघातिभिरहंमतिग्रहात्
मादृशैस्त्वदितरेषु रागिभिः ।
अव्यवस्थितजयेतरक्रमं
द्यूतमेतदघृणैर्निषेव्यते ॥ १७-९३॥
आधिकारिकपदेषु ते वयं
स्वेषु यावदधिकारमाहिताः ।
प्रापितास्तव परं पदं त्वया
निर्विशेम निविशेमहि त्वयि ॥ १७-९४॥
न क्षिपेदपि तृणं समीरण-
स्त्वत्प्रयुक्तमनलो न निर्दहेत् ।
न प्रजापशुपती न चेतरे
त्वद्विपक्षमभिरक्षितुं क्षमाः ॥ १७-९५॥
अग्रजे मयि दिवौकसां पितुः
पुत्रभावमुपसेदुषा त्वया ।
मानितोऽहमवमानितः स्वयं
वानरानुचरितैः स्वचेष्टितैः ॥ १७-९६॥
मद्विधा विषमवृत्तिशालिनः
शान्तघोरसमयातिलङ्घिनः ।
पोषयन्ति भवतः क्षमानिधेः
प्रायशः प्रहसनोचितं रसम् ॥ १७-९७॥
अस्मदिष्टमनघास्त्रिविष्टपं
दुःखमिश्रमवधार्य दुर्गतिम् ।
त्वत्पदं परमनन्यचेतसः
संश्रयन्ति निरपायमाश्रयम् ॥ १७-९८॥
अल्पमस्थिरमपायदन्तुरं
स्वर्गसौधमवधीर्य सूरयः ।
निस्तरन्ति जगदेकहेतुना
सेतुनेव भवता भवार्णवम् ॥ १७-९९॥
त्वत्पदैकदृढभक्तिरूपया
मुक्तिवासरविभातसन्ध्यया ।
क्षीयते जगति कस्यचित् प्रभो
! मोहसन्ततिमयी महानिशा ॥ १७-१००॥
देशकालगणनातिलङ्घिभिः
मातुमागमगणेन वाञ्छितैः ।
भूषितो गुणविभूतिसागरैः
त्वत्समस्त्वमितरे मिथस्समाः ॥ १७-१०१॥
का कथा तव समेऽधिकेऽपि वा
हीन इत्यपि क एव गण्यते ।
मेरुसर्षपनिदर्शनं च ते
मा स्म भूत् त्वदितरस्य चात्मनः ॥ १७-१०२॥
भूतभव्यभवदात्मनः प्रभो
! यन्निदानमखिलस्य शाश्वतम् ।
यत् प्रविश्य न पुनर्निवर्तते
यत् परं पदमुशन्ति तद्भवान् ॥ १७-१०३॥
जातिवर्णरचनाविचित्रितं
विश्वचित्रमुदमीलयद्भवान् ।
आत्मभित्तिनियतस्थिराश्रय-
स्तूलिकां त्रिगुणलक्षणां वहन् ॥ १७-१०४॥
अप्रयच्छति दुरत्ययक्रमे
त्वय्यशेषजगदेकधातरि ।
इष्टमन्यदुभयं च मिश्रितं
कस्य केन किमिवोपपद्यते ॥ १७-१०५॥
आयतन्त भुवनान्यशेषत-
स्त्वय्यतस्त्वमनुपाधिरीश्वरः ।
वर्धनीयविभवा वयं पुनः
त्वत्प्रदिष्टपुरपत्तनेश्वराः ॥ १७-१०६॥
जन्मकर्मभिरसौ निबध्यते
तानि यस्तव न वेत्ति तत्त्वतः ।
त्वत्कथामृतरसं पिबन्ति ये
ते भवेयुरपुनस्स्तनन्धयाः ॥ १७-१०७॥
कथ्यते चिदचिदन्तरात्मनः
शास्त्रशुद्धहृदयैर्मनीषिभिः ।
सृष्टिसंहरणरक्षणेषु ते
विश्वरूप ननु कर्मकर्तृता ॥ १७-१०८॥
आकुमारमनुभावमीदृशं
नाथ लोकविदितं तव क्षिपन् ।
हन्त नूनमहिमांशुमण्डलं
तस्करस्तमसि गोप्तुमिच्छति(मुद्युतः?)॥ १७-१०९॥
पक्षपातपरिहारशुद्धया
पश्यति प्रणिदधानया धिया ।
यत्पृषन्ति निगमाः स्पृशन्ति तं
त्वत्प्रभावमनपायमात्मवान् ॥ १७-११०॥
मानुषत्वमनुगच्छता त्वया
मोहितैस्त्वमवधीर्यसे जनैः ।
तेन नस्त्रिगुणतन्त्रचेतसा-
मागतेयमसमीक्ष्यकारिता ॥ १७-१११॥
शर्वरीदिवसवत् विघूर्णयन् (विघूर्णते)
स्वापजागरदशा विधेरपि ।
किं पुनस्तदितरस्य तन्मया
मोहबोधविवशेन भूयते ॥ १७-११२॥
योऽसि सोऽसि च यथा तथाऽसि च
त्वां त्वमेव खलु वेत्सि वा न वा ।
तस्य ते न खलु तत्त्ववेदिनो
वारिधेरिव वयं तटस्थिताः ॥ १७-११३॥
त्वत्प्रतीपचरणात् दिवौकसां
दानवायितवतां त्वयाऽधुना ।
स्थान एव परिभूतिराहिता
नासुरो न च सुरो गुणान्तरे ॥ १७-११४॥
अर्चनीयचरणाम्बुजे भव-
त्याततायिपदवीमुपेयुषाम् ।
न्यस्तशस्त्रपरिकर्मणामसौ
निष्कृतिस्त्वदुपसत्तिरेव नः ॥ १७-११५॥
किं तदस्ति कुशलेषु यन्न ते
तच्च किं त्वदितरेषु यत् तव ।
ईदृशस्य भवतः किमीदृशा
तस्थुषा त्रियुग ! जग्मुषाऽपि वा ॥ १७-११६॥
अल्पसत्त्वमवलेपयन्त्रितं
बल्बजेषु बहुमानशालिनम् ।
त्वत्कृपैकपरिहार्यविप्लवं
प्रत्यवेक्षणपदं प्रतीहि माम् ॥ १७-११७॥
मृष्यतां मम विभो व्यतिक्रमः
वि(प्र)स्मृतत्वदुपकारपद्धतेः ।
क्षुद्र (रुद्र)कोपविवशस्य देहिनः
कस्य नाम न भवत्यपक्रिया ॥ १७-११८॥
त्रातुमेव शरणागतान् सुरान्
आसुरान् अभिजिघांसता त्वया ।
रागरोषरहितात्मना स्वयं
दैत्यशत्रुरिति नाम गृह्यते ॥ १७-११९॥
त्वद्गृहीतगुणसूत्रसन्दितान्
दारुपुत्रनयतः प्रवर्तिनः ।
निर्गुणानपि निसर्गकिङ्करान्
स्वीकुरुष्व कृपया स्वयैव नः ॥ १७-१२०॥
वासवस्य वचनं निशम्य तत्
भावशुद्धिपरिकर्मिताक्षरम् ।
दीनगुप्तिजननीं पुनर्दया-
मन्वविन्ददरविन्दलोचनः ॥ १७-१२१॥
उद्धृतं च विभुना सुदर्शनं
त्राणदं त्रिदिवसद्मनामभूत् ।
तस्य दृप्तदमनेन दीव्यतः
शिक्षणैकनियतं हि शासनम् ॥ १७-१२२॥
आह चैनमनघेन चक्षुषा
शोधयन् अमृतसिन्धुशोभिना ।
स्वादुसूनृतगभीरया गिरा
पारितोषिकमिवार्पयन् प्रभुः ॥ १७-१२३॥
भद्रमस्तु भवते दिवस्पते !
निर्जराश्च निरपायमासताम् ।
आत्मचौर्यदुरिताकरत्यजां
माऽपहार्षुरसुराः पदानि वः ॥ १७-१२४॥
मा स्म भैष्ट मयि गोप्तरि स्थिते
भावितानि भविकानि सन्तु वः ।
वीतदानवपराभवाश्चिरं
त्रातुमर्हथ सुरास्त्रिविष्टपम् ॥ १७-१२५॥
मन्त्रपूतमनुपप्लवं हवि-
र्यायजूकपरिषन्निषेवि(वेदि?)तम् ।
अन्तरात्मनि निविष्टमन्तरा
विन्दत स्थिरसुधारसान्तरम् ॥ १७-१२६॥
जन्मतोऽपि भवतां महीयसा-
माप्तबन्धुरदितेरहं सुतः ।
देवकीतनयभावतोऽपि मे
सैव सम्प्रति सहोदरत्वधीः ॥ १७-१२७॥
आयुधानि पुनरक्षतानि वः
सन्तु सत्त्वमपि दैत्यसूदनम् ।
पालयन्तु बलिनो जगत्त्रयीं
ते भवन्त उपपन्नपौरुषाः ॥ १७-१२८॥
इत्यनाविलमनोज्ञया गिरा
निर्मलां निजदयामिवोद्वमन् ।
सौम्यदृष्टिरकरोत् सुधाभुजः
पर्यवस्थितधृतीन् परः पुमान् ॥ १७-१२९॥
ते च तेन गरुडं नियच्छता
गम्यतामिति गभीरमीरिताः ।
अद्यजातवदनन्यवत्सले
प्रश्रिताः सुमनसः प्रतस्थिरे ॥ १७-१३०॥
गृह्यतां तरुरसाविति स्वयं
भामया भगवता च भाषिते ।
आगमिष्यति पुनस्त्वया सहे-
त्याह दानवरिपुं दिवस्पतिः ॥ १७-१३१॥
शान्तगर्वगरले दिवस्पतौ
सन्निवेश्य सुरलोकसम्पदम् ।
आप्तुमैच्छदनुजीविरक्षितां
स्वां पुरीमथ सुपर्णवाहनः ॥ १७-१३२॥
आत्माधिकारमनुमत्य दिशापतीनां
वज्रं प्रदिश्य पुनरप्यनघं मघोने ।
दिव्यद्रुमप्रतिगतिं च परं वि(पुनर्वि)धास्यन्
दत्ताभयो दनुजशत्रुरवाप तुष्टिम् ॥ १७-१३३॥
अथ पदविनिकीर्णमन्दारवन्दारुवृन्दारक-
स्तुतिशतबहुमानसत्यापितेहः स सत्यापतिः ।
अमरसमरवेगविख्यातदाक्ष्येण तार्क्ष्येण गां
प्रतिजिगमिषितां(षता)पुरीं त्रातुमन्वक् समन्वग्रहीत् ॥ १७-१३४॥
पश्यत्यारादनिमिषगणे पारिजातापहारात्
स्रस्ताकल्पामिव यदुपतिः स्थापयन् स्वर्गलक्ष्मीम् ।
आशापालैरवनतपदस्त्यक्तलज्जैरभीक्ष्णं
रामत्रातां खगपतिरथो राजधानीं प्रतस्थे ॥ १७-१३५॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये पारिजातानयनं नाम सप्तदशःसर्गः ॥
॥ स्वर्गावतरणमार्गवर्णनं नाम अष्टादशः सर्गः १८॥
अथात्मचिन्तानुचरेण यास्यन्
विहङ्गराजेन विभुः पुरीं स्वाम् ।
उवाच पत्नीं (लक्ष्मीं)दशनांशुलक्षात्
वमन्निवाऽऽनन्दममान्तमन्तः ॥ १८-१॥
सत्ये ! समीक्षस्व विपारिजातां
वृत्तेन हीनामिव वेदविद्याम् ।
निशामिव प्रोषितशीतभानुं
नारीमनाथामिव नाकलक्ष्मीम् ॥ १८-२॥
आलम्बिता नम्रमुखी भवत्या
हस्तेन रक्ताङ्गुलिपल्लवेन ।
वदान्यवृक्षस्य विभाति शाखा
वक्तुं वयस्येव रहः प्रवृत्ता ॥ १८-३॥
सुपर्णवेगानिलविप्रकीर्णैः
सुरद्रुमैरन्तरितः सुमेरुः ।
आलक्ष्यते कालवशेन भूयः
प्ररूढ(सूत)लूनैरिव पक्षजालैः ॥ १८-४॥
निसर्गकल्याणतया प्रतीतं(दीप्तं)
सर्वोत्तरं तत्त्वमिवैकमाद्यम् ।
अमुं प्रिये नूनमतन्द्रितानि
ज्योतींषि भक्त्या परियन्त्यजस्रम् ॥ १८-५॥
वितानवान् व्योमतलेन मेरु
स्तारागणैराहितमौक्तिकेन ।
निविश्य मध्येक्षितिभद्रपीठं
गङ्गोदकैराद्रियतेऽभिषेकम् ॥ १८-६॥
सहस्रभानुप्रमुखैः समन्ता
ज्ज्योतिर्गणैरस्य विघूर्णमानैः ।
महीभृतामग्रसरस्य मन्ये
नीराजनं विश्वसृजा प्रयुक्तम् ॥ १८-७॥
प्रख्यातधाम्नामपि दिक्पतीनां
प्रासादवासादरमाक्षिपन्तः ।
अध्यासिता योगिभिरस्य नित्यं
राजन्त्यमी रत्नगुहाविशेषाः ॥ १८-८॥
परिस्फुरन्त्याः क्षितिपद्ममध्ये
पार्श्वेषु हेमाचलकर्णिकायाः ।
पश्य प्रिये रत्नविशेषचित्रां
कृशोन्नतां केसरशैलपङ्क्तिम् ॥ १८-९॥
वलीविभङ्गैरिव वर्षभेदै-
स्त्रिभिर्विभक्तं त्रिदशानुभाव्यैः ।
सन्दृश्यते सागरमेखलाया
सुमध्यमे मध्यमिदं धरण्याः ॥ १८-१०॥
अभञ्जनीयं प्रथिमानमाप्तां
स्थानेष्वरैराकलितामहार्यैः ।
चराचराणां प्रभवेन धार्यां
चक्राकृतिं पश्य समुद्रनेमिम् ॥ १८-११॥
विकल्पितानि त्रिदिवेन भूमौ
वर्षाणि दिव्यानि विलोकयेथाः ।
द्वन्द्वैरिह द्वन्द्वविषादमुक्तै-
र्निर्विश्यते यौवनमेकरूपम् ॥ १८-१२॥
इलावृतान्तां नि(न्तान्नि?)षधादवाचीं
विलङ्घ य हृद्यां हरिवर्षसीमाम् ।
खगेश्वरः संश्रितहेमकूटं
निनीषते किम्पुरुषास्पदं नः ॥ १८-१३॥
वपुः शुभं वाजिमुखाङ्गनानां
वक्त्रं च युञ्जन्निह किन्नरीणाम् ।
स्त्रीरत्नसृष्टिं विदधे विधिश्चेत्
त्र्यक्षः कथं पञ्चशरस्य जेता ॥ १८-१४॥
दिदृक्षमाणस्य ममैष देशान्
सव्यापसव्येन गतिक्रमेण ।
अमोघवृत्तिर्गगने गरुत्मान्
विचेष्टते चित्तमिव द्वितीयम् ॥ १८-१५॥
निपत्य चोत्पत्य च लङ्घयन्ती
निम्नोन्नतान् वर्षविभागदेशान् ।
छाया समेन (समेव)स्वपथेन यान्तं
तरस्विनं तार्क्ष्यमिवातिशेते ॥ १८-१६॥
महीयसो वेगवशेन मध्ये
सीमन्तयन्नेष शरत्पयोदान् ।
यदृच्छया सम्भृतचामरश्रीः
सन्दृश्यते देवि तवौपवाह्यः ॥ १८-१७॥
वियत्पयोधिं तरतां विशालं
विमानदीप्तेन गरुत्मता नः ।
इयं पुरः शैलवनोपपन्ना
विश्वम्भरा भाति विलोमगेव ॥ १८-१८॥
शरद्धनस्तोम इवोपसीदन्
सन्दृश्यते (किं दृश्यते)किन्नरनाथशैलः ।
सन्ध्याविहारच्युतसंहतात्मा
शम्भोरिवोद्धूलनभस्मराशिः ॥ १८-१९॥
सुधायमानां धनदस्य सौधे
स्वाभाविकीमस्य गिरेरभिख्याम् ।
पर्याकुलैर्विष्णुपदीतरङ्गै-
राम्रेडयन्तीव हराट्टहासाः ॥ १८-२०॥
अमुष्य दीप्तोन्नतदन्तभूम्नो
नक्षत्रमालार्चि(ञ्चि ?)ततुङ्गमौलेः ।
पादेषु भान्ति स्फटिकाः प्रभूताः
नाकद्विपस्येव नखेन्दुबिम्बाः ॥ १८-२१॥
उदग्रवज्रव्रणकर्कशानां
पर्याप्तसारेण भुजार्गलानाम् ।
अनेन विख्यापितविक्रमं तद्
रक्षः पुरा रामशरव्यमासीत् ॥ १८-२२॥
अयं वनैः श्यामनितम्बभागो
गौरः स्वयं गैरिकसम्भृतश्रीः ।
वलाहकग्राह्यगुणान्तरीयं
मदारुणं व्यञ्जयते मदा(मा)र्यम् ॥ १८-२३॥
अस्मिन् धनाधीश्वरराजधान्या-
माकर्णितं हैमवतीसखेन ।
त्वत्कीर्त्युपघ्नं शृणु किन्नरीणां
गृहेगृहे किन्नरकण्ठि गीतम् ॥ १८-२४॥
निशम्य दिव्यद्रुमसम्भवानां
नूनं रवं नूपुरमञ्जरीणाम् ।
उड्डीयमानाः प्रतियन्त्यमी त्वां
मञ्जुस्वराः मानसहंसदाराः ॥ १८-२५॥
इतो हिरण्यप्रमुखैः प्र(प्रमुखोप)भुक्ता
शोणाधरे शोणितराजधानी ।
आदौ समुत्खातपुनर्निखातैः
कैलासशृङ्गैरिव भाति सौधैः ॥ १८-२६॥
मृदङ्गनादेन मृगाङ्कमौलिं
प्रसादयन् पालयतीह दैत्यान् ।
बलेरपत्यं बलिनां विजेता
बाणासुरो बाहुसहस्रशाली ॥ १८-२७॥
रामास्त्ररन्ध्रोदितहंसयूथं
क्रौञ्चं गिरिं लक्षय दूरलक्ष्यम् ।
पीतां पुनः श्रोत्रपथेन काले
भागीरथीं जह्नुमिवोद्वमन्तम् ॥ १८-२८॥
अमुष्य दूरादसिताक्षि ; दृष्टिं
दिव्ये गिरौ दातुमिहार्हसि त्वम् ।
मरुद्गणेन ह्यमुनोन्नतेन
स्वाहारसम्भूतिरमन्थि सिन्धुः ॥ १८-२९॥
विलग्नदैत्येश्वरशोणितानां
वैकुण्ठकेयूरजुषां मणीनाम् ।
अयत्नशाणोपलतामपुष्यन्
आर्द्राः सुधाबिन्दुभिरस्य कूटाः ॥ १८-३०॥
लक्ष्मीसुधासञ्जननाय तूर्णं
विमथ्नता वेगमनेन दत्तम् ।
आवर्तभेदैरधुनाऽप्यगाधै-
रर्थापयन्त्यम्बुनिधेर्महौघाः ॥ १८-३१॥
अमोघबाणस्य मुनेरशोष्ये
फेनायमानानि यशःपयोधौ ।
गतागतैर्हंसकुलान्यमूनि
च्छायापथं सञ्जनयन्त्यपूर्वम् ॥ १८-३२॥
धृतिक्षमं देवि सुरस्रवन्त्याः
सिद्धाश्रितं शम्भुमिव द्वितीयम् ।
परिष्कृतिं भारतवर्षसीम्नः
प्राप्ता वयं पर्वतसार्वभौमम् ॥ १८-३३॥
अनुप्रविष्टं गिरिजासखीभिः
पर्यन्तसंस्तम्भितभूतवर्गम् ।
अदूरतश्चैत्ररथात्प्रभूतं
वैहारिकं पश्य वनं पुरारेः ॥ १८-३४॥
अभङ्गुरैराहतयोरनङ्गः
शृङ्गारदिग्धैरिह चित्रपुङ्खैः ।
अभिन्नमन्योन्यलयादकार्षीत्
देहं द्वयोरर्धसमीक्ष्यभेदम् ॥ १८-३५॥
दिवा महानीलमयूखजालै-
र्नक्तं प्रकाशेन महौषधीनाम् ।
पश्यन्त्यमुष्मिन् परिवृत्तिशून्यं
कालं सदा कर्बुरमादितेयाः ॥ १८-३६॥
अलुप्तमेघद्युतिरिन्द्रनीलै-
र्वज्रैरसौ नित्यतटित्प्रकाशः ।
प्रवृत्तगङ्गास्तनितो दधाति
प्रावृड्गुणान् प्रीणितनीलकण्ठः ॥ १८-३७॥
अमुष्य मूर्धन्युपपत्य निम्नै-
श्चतुर्दिशं विष्णुपदी प्रयाति ।
चतुर्भिरुन्मीलितराशिभेदा
वेधोमुखैर्वेदमयीव विद्या ॥ १८-३८॥
सरित्सहस्रैरभिगम्यमाना
शिलोच्चयैरन्तरिता दधाति ।
प्रवालमुक्ताप्रभृतेः प्रसूतिः
पत्नी पयोधेरियमानुरूप्यम् ॥ १८-३९॥
त्रयीमिव क्षालितविश्वपङ्कां
त्रैलोक्यलक्ष्म्या इव सत्त्वशुद्धिम् ।
तपोधनाः सर्व इमां भजन्ते
धर्मस्य निश्रेणिमिव प्रभूताम् ॥ १८-४०॥
प्रख्यातगोत्रप्रभवेऽपि नित्यं
परिग्रहे भूयसि वर्तमाने ।
त्वयैव मां वेत्ति कलत्रवन्तं
नाथं नदीनामनयैव लोकः ॥ १८-४१॥
पतद्ग्रहे तिष्ठति रुक्मशैले
धर्मद्रवैरात्मभुवाऽर्च्यमानः ।
अस्याः प्रसूतिः परमस्य पुंसः
पादो नभस्सागरपारदृश्वा ॥ १८-४२॥
त्रिभिस्त्रिलोकीमनघैः स्वपूरैः
तारागणाम्रेडितशीकरौघैः ।
विमार्जयन्ती वृजिनात् पुनीते
विष्णोरियं विक्रमवैजयन्ती ॥ १८-४३॥
अभुग्नभागान्तरितैः पयोभिः
सम्भिद्यमानैरियमन्तरेषु ।
नगेन्द्रमूर्धन्युपयाति शोभां
नक्षत्रमालेव गजेन्द्रकुम्भे ॥ १८-४४॥
स्रोतोभिरस्याः परिपूर्यमाणः
सुधामयं सिन्धुमिवाऽऽदधानैः ।
अपां पतिर्नित्यमबिन्धनेन
ज्वालावता नूनमशोषितोऽभूत् ॥ १८-४५॥
भगीरथप्रार्थितसिद्धिमेनां
पृथक्प्रवाहां पृथिवीं पुनानाम् ।
भस्मीकृतानां सगरात्मजानां
प्राहुः सुधां प्रापितदेवभावाम् ॥ १८-४६॥
स्थानानुरूपं प्रसृतैः प्रवाहै-
र्महद्भिरेषा मधुरावदातैः ।
प्रालेयशैलात् प्रथितानुभावा
प्रवर्तते वागिव वश्यवाचः ॥ १८-४७॥
उदीरितास्तार्क्ष्यजवानिलेन
त्वन्नूपुरान्नूनमधीतनादाः ।
भवन्त्यमी स्वागतवादिनस्ते
भागीरथीसैकतराजहंसाः ॥ १८-४८॥
प्रदीयते सुन्दरि दूरकृष्टै-
र्दिव्येन ते शेखरसौरभेण ।
मयूरपिञ्छातपवारण-
श्रीर्मन्दाकिनीहेमसरोजभृङ्गैः ॥ १८-४९॥
वहन्नसौ काञ्चनपद्मरेणून्
व्योमापगावीचिविहारशीलः ।
विलुप्तपत्राङ्कुरमानने ते
स्वेदोद्गमं न क्षमते समीरः ॥ १८-५०॥
अस्याः समीरैरपनीतगन्धा-
न्यलक्तकैरङ्कितसैकतानि ।
स्वैरोपभोगं सुरसुन्दरीणां
विवृण्वते तीरलतागृहाणि ॥ १८-५१॥
रहस्त्वदाश्लेषरसोत्सुकस्य
त्वदेकदृष्टेरपि विश्वदृष्टेः ।
वियन्नदी लोचनयोरसौ मे
विहन्ति लक्ष्यान्तरपक्षपातम् ॥ १८-५२॥
दिव्यं बदर्याश्रममेतदन्ते
देवैः स्तुतं दक्षिणतः प्रतीयाः ।
निःश्रेयसं दर्शयतीव वृत्त्या
नारायणो यत्र नरेण सार्धम् ॥ १८-५३॥
निवृत्तरागैः परिचर्यमाणो
नाथः स्वयं नाकनिकेतनानाम् ।
धन्यै(अन्यै)रनन्यैरनुपालनीयं
धर्मं निजं धारयतीह शुद्धम् ॥ १८-५४॥
तृतीयवर्णप्रभवे निजाङ्गे
स्त्रीरत्नमुत्पाद्य विहारयोगी ।
इहाऽऽत्मसम्मोहनलालसाना-
मपत्रपामप्सरसामकार्षीत् ॥ १८-५५॥
अन्यच्च दूरादनघं तदीयं
प्राग्दक्षिणं भाति तपोवनाग्र्यम् ।
भजन्ति यस्मिन् पदयोरमुष्य
न्यासं शुभं निश्चितयोगलक्ष्याः ॥ १८-५६॥
अत्र स्थितं श्रान्तिजुषां मुनीनां
छायालकृष्णाजिनपल्लवेन ।
वैरोचनेर्दानजलावसेकात्
वर्धिष्णुना वामनपादपेन ॥ १८-५७॥
इमानि च प्रेयसि तापसाना-
मेकान्तहृद्यानि तपोवनानि ।
इहैकपादस्थितिमेतदीयां
धर्मो युगे धारयतीव तुर्ये ॥ १८-५८॥
तमो निगीर्णे सकृदेव पुंसा-
मासीदतामाश्रमहव्यवाहाः ।
इहौषधाख्या(दी)नि हवींषि भुक्त्वा
धूमोपलक्ष्यं ध्रुवमुद्वमन्ति ॥ १८-५९॥
निजाश्रमेभ्यः प्रतिनिर्जिहानाः
दूरादमी दर्शितपूर्णकुम्भाः ।
सत्याशिषः सम्प्रति साधुवाक्यै-
रभ्यर्चयन्त्याहितवह्नयस्त्वाम् ॥ १८-६०॥
समीपवृक्षेष्विह बद्धनीडाः
शिक्षोपपन्नां श्रुतिमुद्गृणन्तः ।
शकुन्तयः शोणमुखा भजन्ते
सब्रह्मचर्यं सह तीक्ष्णधीभिः ॥ १८-६१॥
धर्मस्य सम्भूतिरिवाग्रतस्ते
सान्दीपि(प?)नेराश्रमभूमिरेषा ।
अधीतिनो यत्र मम त्रिवेद्या-
मन्तः(मास)स्थिरालोक इवान्तरात्मा ॥ १८-६२॥
समग्ररत्नौघमिवाब्धितोयं
तारागणैराप्तमिवान्तरिक्षम् ।
विशङ्कटं विन्ध्यहिमाद्रिमध्यं
पुण्यं प्रिये भूषितमेतदार्यैः ॥ १८-६३॥
पितृक्रियानिर्वृतजामदग्न्यं
क्षिप्तैनसां क्षेत्रमिदं कुरूणाम् ।
समेयुषां संयुगदीक्षयैतत्
देहत्यजां दक्षिणतो न पन्थाः ॥ १८-६४॥
सव्ये भवत्याः सरयूसमेता
रम्येयमाभाति पुरी रघूणाम् ।
दयाविपाकेन चराचराणां
दिव्यं पदं यत्र दिदेश रामः ॥ १८-६५॥
तमालषण्डैस्तमसेव दृ(सृ?)ष्टै-
र्वामेतरो वामविलोचने नः ।
वसुन्धराकुन्तलकान्तिचोरैः
कान्तैरसौ भाति कलिन्दशैलः ॥ १८-६६॥
दिवाकरेणात्र बिलेषु नूनं
बन्दीकृतानां बहुलक्षपाणाम् ।
छायाविशेषैः प्रचितैस्तदर्हा-
माप्यायनामारचयन्ति वृक्षाः ॥ १८-६७॥
इतः प्रभूतात् पितुराव्रजन्ती
कालिन्द्यसौ कालियदोषमुक्ता ।
समेत्य सख्येव सुरस्रवन्त्या
सरित्पतिं शुद्धिमती प्रयाति ॥ १८-६८॥
स्वमूलशैलस्य विभाति शृङ्गे
धातूपरक्ते सवितुस्सुतेयम् ।
महावराहस्य महीव पूर्वं
दंष्ट्राङ्कुरे दानवशोणिताङ्के ॥ १८-६९॥
यमस्वसुस्तन्वि यथार्थनामा
मान्या समीपे मधुरा विभाति ।
सुपर्वणां यत्र सभां सुधर्मां
भूमेरहं भूषणतामनैषम् ॥ १८-७०॥
पिबत्यसौ पश्चिमदक्षिणाशां
नूनं खगेशोऽयमनूनवेगः ।
विलोकितानामिह न व्यवस्था
नेदीयसां देवि दवीयसां वा ॥ १८-७१॥
त्रयीमयस्तन्वि तवौपवाह्यः
कालक्रमादापन(त)तो धरण्यां (ण्याः)।
सामाभिरामध्वनिभिः समन्तात्
पक्षानिलैर्मार्जयतीव दोषान् ॥ १८-७२॥
आ पश्चिमादम्बुनिधेरवन्ध्या
शरत्प्रसूतैः क्षितिरस्य सस्यैः ।
दिवौकसां दर्शितभागधेया
दिशत्यसौ लोचनदिष्टवृद्धिम् ॥ १८-७३॥
सरित्प्रवाहैर्व्यतिकीर्यमाणैः
सङ्कल्पयोनेरिव शिल्पभेदैः ।
पश्य प्रिये त्वं परिवृत्य किञ्चित्
दिव्योपमान् जानपदान् विशेषान् ॥ १८-७४॥
तवैष जीर्णश्चलयन् पुरस्तात्
विद्युन्मयीं वेत्रलतां प्रतन्वीम् ।
बिभर्ति शुद्धो धृतकञ्चुकश्रीः
प्रायः प्रतीहारपदं पयोदः ॥ १८-७५॥
आदाय शालिस्तबकान् अदूरात्
प्राप्ता शुकश्रेणिरसौ विभाति ।
त्वदागमप्रीतशरत्प्रयुक्ता
वैहायसी वन्दनमालिकेव ॥ १८-७६॥
आरक्तफुल्लैररविन्दिनीनां
सूनैरमी नूतनसूर्यकल्पैः ।
त्वत्कान्तिमाध्वीमनुभूय रक्तै-
र्नेत्रैरिवाभान्ति समुद्रदाराः ॥ १८-७७॥
करेणुकाभिः सह गाहमानाः
पयः प्रसन्नं शरदापगानाम् ।
अमी निमीलन्नयनाः कपोलै-
राविर्मदैराविलयन्ति नागाः ॥ १८-७८॥
स एष सप्तच्छदरेणुजालैः
क्रीडन्निवालिम्पति गन्धवाहः ।
वन्यद्विपानां व्रजतां प्रतीपं
मदप्रवाहैर्मलिनान् कपोलान् ॥ १८-७९॥
अभिन्नवर्णा गृहिणीव भव्या
वेलाटवी वारिनिधेर्विभाति ।
नित्यानुभूतामपि नव्यबुद्ध्या
रसैरसौ निर्विशतीव हृष्यन् ॥ १८-८०॥
तरङ्गवेगात् तरलाम्बुधारी
गृह्णात्यसौ गारुडरत्नवर्णः ।
वसुन्धरावारिरुहस्य पार्श्वे
सिद्धोदयां श्यामलपत्रशोभाम् ॥ १८-८१॥
विभाति पर्यन्तमही पयोधेः
फेनैरसौ वीचिकरप्रकीर्णैः ।
अभ्यर्चितानां त्रिदशातिथीना-
माहारशेषैरिव पर्युदस्तैः ॥ १८-८२॥
प्रवालवह्नौ परिदीप्यमाने
मुञ्चन्त्यसौ मौक्तिकलाजवर्षम् ।
अमुष्य वेला धृतवेपथुस्ते
वैवाहिकीं स्मारयति स्म वेलाम् ॥ १८-८३॥
स्वसम्भवं सम्प्रति पारिजातं
दृष्ट्वा चिरप्रोषितसन्निवृत्तम् ।
आलिङ्गनार्थीव तरङ्गहस्तान्
आविर्मणीन् उन्नमयत्युदन्वान् ॥ १८-८४॥
अहीन्द्रनिश्वासमरुत्प्रणुन्नै-
रावर्तसम्भेदिभिरेष फेनैः ।
उपायनं दित्सुरिवाम्बुधिस्ते
मुक्तातपत्राणि मुहुः प्रसूते ॥ १८-८५॥
वेलाचलादर्भकपञ्चवक्त्रान्
विहङ्गपातेन जिघृक्षमाणान् ।
निमज्जनोन्मज्जनवेगभूम्ना
मातङ्गयादांसि विलोभयन्ति ॥ १८-८६॥
प्रवालमुक्तामणिभिः प्रदिष्टैः
प्रत्याहृतैः पत्रलताङ्कुराद्यैः ।
अन्योन्यभूषापरिवृत्तिलीलां
करोत्यसौ कूल(तीर)भुवा पयोधिः ॥ १८-८७॥
वर्णं महानीलमणिप्रकाशैः
स्मितद्युतिं मौक्तिकचन्द्रिकाभिः ।
बिम्बाधरं विद्रुमभङ्गभेदैः
व्यनक्त्यसौ तन्वि तवाम्बुराशिः ॥ १८-८८॥
विवृण्वती बाडबवह्निदीप्तिं
विद्योतते विद्रुमपङ्क्तिरेषा ।
देवेन सम्पीडितयोस्त्रिधाम्ना
दैत्येन्द्रयोरान्त्रपरम्परेव ॥ १८-८९॥
महावराहस्य खुराद्रिघातैः
क्षुण्णः प्रविद्धो रघुवीरबाणैः ।
विसंस्थुलद्वीपतयोपलक्ष्यै-
र्वीरव्रणैरेष विभाति रूढैः ॥ १८-९०॥
सम्भृत्य तोयं सहसोज्जिहानान्
सेन्द्रायुधान् पश्य घनान् सनादान् ।
उदन्वता दुर्जयमन्तरिक्षं
जेतुं प्रवृत्तानिव तस्य पुत्रान् ॥ १८-९१॥
अपां तरङ्गैरयमन्तरङ्गै-
राप्लावयिष्यन् समये धरित्रीम् ।
समीनयूधस्तनुते सरस्वान्
सन्नाहगन्धीनि गतागतानि ॥ १८-९२॥
असौ परप्रेमपदं स्वभावा-
दापूर्यमाणो महता रसेन ।
आत्मेव दृष्टः सहसा प्रजाना-
मदर्शनेच्छामितरेषु दत्ते ॥ १८-९३॥
गरुत्मतः कम्पितदिव्यवृक्षं
पक्षानिलं पातुमुपेत्य नागाः ।
वितन्वतेऽबालमणिप्रकाशै-
रसूर्यबालातपमन्तरिक्षम् ॥ १८-९४॥
मरुद्भिराघूर्णितसाद्रिनागै-
र्वेगोद्भवैरस्य विमथ्यमानः ।
उत्क्षिप्तशङ्खप्रकरापदेशात्
भूयः सुधामुद्गिरतीव सिन्धुः ॥ १८-९५॥
दोधूयमानं विविधोर्मियोगात्
छायागरुत्मन्तमवेक्ष्य भीताः ।
आवर्तशैलीमभिनेतुमिच्छ-
न्त्यङ्गैरमी कुण्डलितैर्भुजङ्गाः ॥ १८-९६॥
सफेनहासो जटिलः प्रवालै-
रुद्वर्तयन् ऊर्मिभुजैर्भुजङ्गान् ।
विडम्बयत्येष निसर्गभीमः
कस्यापि कल्पान्तनटस्य लीलाम् ॥ १८-९७॥
अशेषतः सोऽयमचिन्त्यभूमा
कुम्भीकुमारेण निपीतवान्तः ।
सिष्णासया सम्पततोऽपि दृष्ट्वा
द्विजाधिपान् वेपत इत्यवैमि ॥ १८-९८॥
प्रदर्शितात्मभ्रमणेन नूनं
प्रत्यायितां मन्दरनर्तकेन ।
सव्यापसव्यैर्भ्रमणैस्तरस्वी
रम्यामसौ पुष्यति रासलीलाम् ॥ १८-९९॥
तैस्तैरसौ निर्मथितो विधूतः
सङ्क्षोभितो बन्धनपीडनाद्यैः ।
प्रसादगाम्भीर्यनिधिः प्रथिम्ना
क्षमान्वयं नोज्झति शीतलात्मा ॥ १८-१००॥
विमथ्य विश्राणितमेतदीयं
दैत्यद्विषा देवि मरुत्वदाद्याः ।
सारं पिबन्तस्त्रिदशाः कदाऽपि
द्राघीयसीं नानुभवन्ति निद्राम् ॥ १८-१०१॥
कलत्रवन्तं पुरुषं पुराणं
कपालिनं चन्द्रकलावतंसम् ।
ऐरावताद्यैः प्रचितान् अकार्षीत्
वैमानिकान् एष महावदान्यः ॥ १८-१०२॥
इदं जगद्दर्शिततारतम्यं
यद्भ्रूलतालास्यविशेषनिघ्नम् ।
प्रजापतीनां जननीमजन्यां
तामेष देवीमनघामसूत ॥ १८-१०३॥
वराय दत्वा निरवद्ययूने
कन्यामसौ कौस्तुभयौतकं च ।
महोत्सवे वाहनभोजनाद्यै-
रानर्च देवान् इतरान् यथार्हम् ॥ १८-१०४॥
जगन्त्यशेषाणि यदेकदेशे
पर्यङ्कतां तस्य गतः प्रथिम्ना ।
अलङ्घनीयं महिमानमन्यै-
र्भजत्यसौ भावितशेषभावः ॥ १८-१०५॥
अनर्घमाद्यं हरिनीलरत्नं
लक्ष्मीदृशा नित्यनिदर्शनीयम् ।
नभःप्रतिच्छन्दनिभेन नून-
मन्तर्गतं व्यञ्जयति स्वधाम्ना ॥ १८-१०६॥
मधुद्विषो वर्णमुषां मणीनां
त्रासव्यपायेऽपि तिरोहितानाम् ।
उदन्तमाख्यातुमिवोर्मिमाली
करान् असौ कर्षति वीचिहस्तैः ॥ १८-१०७॥
पश्यामि सौहार्दवतां तवाक्ष्णा
तरङ्गनिम्नोन्नतलङ्घनेन ।
उद्वर्तितानां महसां मणीना-
मूर्ध्वं प्रसर्पन्तमिवोर्मिमन्तम् ॥ १८-१०८॥
अन्वेषयन् दित्सितदक्षिणोऽह-
माचार्यसान्दीपिनिसूनुवृत्तम् ।
आविष्टशङ्खासुरसन्निवेशं
प्राञ्चं महाशङ्खमिहान्वविन्दम् ॥ १८-१०९॥
यादोनिधाने यदुराजधान्याः
सम्प्राप्तये सेतुरिहोपकॢप्तः ।
रामेण सीतापतिना निबद्धे
लङ्कापथे लाघवमादधाति ॥ १८-११०॥
अमूनि कैलासनिभान्यदूरात्
सिद्धाङ्गनासेव्यलतागृहाणि ।
पुण्यानि सत्ये पुलिनानि सिन्धो-
श्चिरेण दृष्टिं चरितार्थयन्ति ॥ १८-१११॥
तटप्रदेशेषु तरङ्गहस्तैः
प्रसारयन् सम्प्रति फेनपङ्क्तीः ।
सभाजनार्थं तनुते भवत्याः
प्रायः पदन्यासपटीमुदन्वान् ॥ १८-११२॥
विलङ्घयन् व्योमपथेन सिन्धुं
त्वद्दर्शने दीप्तकुतूहलानाम् ।
रथस्तवासौ त्वरयाऽतिशेते
मनोरथं विष्णुपदीवधूनाम् ॥ १८-११३॥
सुरद्रुमस्त्वद्विरहालसानां
तवागमं सूचयितुं सखीनाम् ।
मधुव्रतीनां मधुरैः प्रणादैः
प्रियंवदं प्रेषयतीव गन्धम् ॥ १८-११४॥
विजित्य सङ्ख्ये नरकं सनाकं
प्रत्यागतं मां प्रतिगन्तुकामाः ।
पौराः प्रहर्षोपनतैः प्रणादै-
रम्भोनिधेरन्तरयन्ति घोषान् ॥ १८-११५॥
विधाय तार्क्ष्यं गगनाब्धिपोतं
सार्धं मया देवि समाव्रजन्तीम् ।
प्रत्युद्गतेव प्रतिभाति भव्या
दूरादियं द्वारवती पुरी त्वाम् ॥ १८-११६॥
निबद्धजैत्रध्वजपङ्क्तिरम्या
पुष्पैरसौ पूरि(जि)तराजमार्गा ।
सदामजाम्बूनदतोरणश्रीः
सौधत्विषा सूचयतीव हर्षम् ॥ १८-११७॥
पदे परस्मिन्निव नित्यमस्यां
शुद्धेन सत्त्वेन विभूषितायाम् ।
धर्मस्य वासाः प्रथिताः पृथिव्यां
सरित्पतौ गोष्पदवद्भवन्ति ॥ १८-११८॥
स्वरश्मिनिष्पादितसूर्यभेदा-
मर्चिर्मुखैरञ्चि(र्चि)तभव्यभागाम् ।
निवृत्तिधर्मे नियतस्थितीनां
नैश्श्रेयसीं पद्धतिमाहुरेनाम् ॥ १८-११९॥
सौधोपरुद्धत्रिदिवावकाशां
छायासमाक्रान्तभुजङ्गलोकाम् ।
पुरीमिमां भूषितसिन्धुमध्यां
कुत्र स्थितां वेत्सि कुतोमुखां वा ॥ १८-१२०॥
उदन्वता खातवती समन्ता-
दयत्नवप्रायिततुङ्गवेला ।
न शक्यते सात्यकिना सनाथा
नाथैः सुराणामपि जेतुमेषा ॥ १८-१२१॥
प्राकारचक्रं यदुराजधान्याः
पश्यैतदुत्तुङ्गमसूर्यलङ्घ्यम् ।
यद्भावमेवं भजते यथार्थं
सङ्कोचमृच्छन्निव चक्रशैलः ॥ १८-१२२॥
निर्मुक्तशेषोरगनिर्विशेषै-
र्निकेतनैरुन्नमितान्तरिक्षम् ।
उदग्रतालध्वजमेतदग्रे
सीमान्तरं सीरभृतो गुरोर्नः ॥ १८-१२३॥
अभौमसम्भाव्यविभूतियोगं
हैमं सुरत्नैरचिरोपनीतैः ।
अनुत्तमादुत्तरमार्यधाम्नः
ख्यातं त्वया गेहमिदं मदीयम् ॥ १८-१२४॥
प्रतीक्षमाणान् अधिचन्द्रशालं
पश्य त्वया शिक्षितचारुलास्यान् ।
त्वत्केशहस्तस्वजनैः कलापै-
र्गोपानसीश्छादयतो मयूरान् ॥ १८-१२५॥
आहारभेदैरुचितैर्भवत्या
संरक्षितानां तनयाभिमानात् ।
शृणु त्वदालोकनतर्षभाजां
प्रजल्पितं पञ्जरशारिकाणाम् ॥ १८-१२६॥
सीमन्तमुक्तामणिसन्निकर्षात्
प्रसूतिचित्रीकृतशुक्तिरम्याः ।
अमी पुरस्तात् भवतीसखीना-
मन्तर्मुदामञ्जलयः स्वदन्ते ॥ १८-१२७॥
मायाधिकेन विधिना मनसेव सृष्टै-
राभाति यादवगृहैरनघा पुरीयम् ।
नाभागनाहुषनलादिनराधिपाना-
माजानसम्पदपहास(वलेप)मिवाऽऽदधानैः ॥ १८-१२८॥
नित्यं धनेशनगरीं निधिभिः प्रभूता-
माखण्डलेन महिताममरावतीं च ।
प्रत्येकधामविभवैः परिभूय दृप्ता
सौधैरियं प्रहसतीव सुधावदातैः ॥ १८-१२९॥
इत्यालपन्तमथ तार्क्ष्यरथेन कृष्णं
हेमाद्रिणा हरितशैलमिवोपनीतम् ।
पौराः समीक्ष्य मुदिताः सह वल्लभाभिः
पद्मावृतां दिवमकुर्वत दृष्टिपातैः ॥ १८-१३०॥
प्रत्युद्गतप्रियसखीजनदत्तहस्तां
सत्यां त्रयीमयरथादवतारयिष्यन् ।
नाथस्तदा नगरमध्यनभःप्रदेशा-
दासीदति स्म निजसौधसमीपरथ्याम् ॥ १८-१३१॥
व्यतिकरितसुवेलां विश्वकर्मप्रसूतिं
लवणजलधिगुप्तामाप लङ्कामिवान्याम् ।
धनपतिबहुमान्यां धर्मसेतुर्यदूनां
दुरधिगमसमीपां द्वारकां राजधानीम् ॥ १८-१३२॥
विजयिनमुपयातं वीक्ष्य सत्यासहायं
व्यतनुत मुदितेव द्वारका वन्दिकृत्यम् ।
अमरतरुसमीरैः प्रेषितैराहृताना-
मुपवनमधुपानामुन्मदानां प्रणादैः ॥ १८-१३३॥
स्तुतिशतमुखराभिः स्वर्गनेतुः स जेता
सविनयमनुयातः सत्यभामासखीभिः ।
निजमगमदगारं निर्विशन् प्रेयसीनां
स्मरशरशयितानां मन्दमभ्युत्थितानि ॥ १८-१३४॥
अभिगतमुषया तदाऽनिरुद्धं
बलितनयेन बलीयसा निरुद्धम् ।
यदुपरिषदि सर्वलोकदर्शी
कलहरुचिः कथयाम्बभूव योगी ॥ १८-१३५॥
बाणाभिख्यं बलिसुतमथो बद्धबन्धुं जिगीषुः
सेनोत्थानं सुमहति पुरे श्वस्तनं घोषयित्वा ।
चिन्तारूढत्रिभुवनहितश्चिन्तनीयो मुनीनां
वासागारं प्रभुरधिगतो वासतेयीं निनाय ॥ १८-१३६॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयये
महाकाव्ये स्वर्गावतरणमार्गवर्णनं नाम अष्टादशस्सर्गः ॥
॥ प्राबोधिकं नाम एकोनविंशः सर्गः १९॥
नित्यप्रबुद्धमपि निर्मलया स्वदृष्ट्या
निद्राणवत् दरनिमीलितनेत्रपद्मम् ।
प्राबोधिकीभिरुपसेदुरितीव वाग्भिः
स्वाधीनमर्त्यतनयं(वपुषं)श्रुतिवन्दिनस्तम् ॥ १९-१॥
यामिन्यपैति यदुनाथ विमुञ्च निद्रां
उन्मेषमृच्छति तवोन्मिषितेन विश्वम् ।
जातः स्वयं खलु जगद्धितमेव कर्तुं
धर्मप्रवर्तनधिया धरणीतले त्वम्(ऽस्मिन्)॥ १९-२॥
अश्रान्तसन्ततिभिराभरणप्रकाशैः
आरात्रिकं प्रमुखयन्त्य इवोपचारम् ।
इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां
पद्माननाः पदनिवेशनधन्यहस्ताः ॥ १९-३॥
वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं
दौवारिकास्तव गृहीतसुजातवेत्राः ।
निर्गच्छतः प्रविशतश्च निशामयन्तो
नाथ त्वदेकहृदया न भजन्ति तन्द्रीं (न्द्राम्)॥ १९-४॥
विश्वैकतीर्थभजनेन विशुद्धिमन्तो
निद्रोज्झिता निगमसीम्नि निशात्यये च ।
वैतानिकान् विधिवशेन विहृत्य वह्नीन्
पुण्याशयाः परिचरन्ति पुरोधसस्ते ॥ १९-५॥
निद्रावशेन निभृतेक्षणमुत्थितानां
द्वित्राणि मन्थरपदान्यपगत्वरीणाम् ।
काले गृहीतमुचिते रशनाः कथञ्चित्
मौनव्रतं जहति मुग्धवधूजनानाम् ॥ १९-६॥
सन्त्यज्यते तरलमौक्तिकजालदृश्यैः
तारागणैस्त्रिदशवर्त्म तमालनीलम् ।
पद्मापतेरमृतनिर्मथनावसाने
दुग्धाम्बुराशिपृषतैरिव रूपमग्र्यम् ॥ १९-७॥
नाथ स्फुरन्त्युपयति द्युमणिप्रकाशे
न ज्योतिरिङ्गणगणा न च तारकाद्याः ।
तेजस्विनोऽपि तमसैव समृद्धिमन्तः
त्वत्सन्निधौ मुषितभास इव त्वदन्ये ॥ १९-८॥
आनर्तितान् सललितं दिवसावसाने
वाचालरत्नवलयैर्निजहस्ततालैः ।
निद्रालसान् मृगदृशो गृहनीलकण्ठान्
आवासयष्टिशिखरादवरोहयन्ति ॥ १९-९॥
नृत्यन्त्युदीरितघनस्तनितामकाण्डे
नेदीयसीं तव निशम्य विभातनान्दीम् ।
चित्रातपत्रपरिमण्डलचारुबर्हाः
शृङ्गारयोनिशरपत्ररुचो मयूराः ॥ १९-१०॥
निर्गत्य चित्रगरुतो निलयान्तरेभ्यः
तारस्वनास्तरुणविद्रुमताम्रचूडाः ।
रत्नाङ्कणेषु रमणीभिरवेक्ष्यमाणाः
क्रीडारणं विदधते कृकवाकुवर्याः ॥ १९-११॥
प्राप्तास्तुलां हरितकोमलबाह्यपत्रैः
किञ्चित्परिस्फुरितशोणमुखैः सरोजैः ।
वामभ्रुवां वलयपङ्क्तिषु सञ्चरन्त्यो
मञ्जु क्वणन्ति मणिपञ्जरशारिकास्ते ॥ १९-१२॥
प्रत्यक्षिते तमसि यास्यति विप्रकर्षं
सञ्छन्नभानुमति सम्प्रति जीवलोके ।
गङ्गायमानसलिलं निजरश्मियोगात्
सिष्णासयेव सितभानुरुपैति सिन्धुम् ॥ १९-१३॥
प्रत्यूषघर्मसमयेन समग्रधाम्ना
शोषं व्रजत्यमृतरश्मिमयूखपूरे ।
अह्नाय कैश्चिदभिघातमवाप्नुवत्य-
स्ताराः प्रयान्ति विलयं तनुबुद्बुदाभाः ॥ १९-१४॥
पत्युस्त्विषां प्रजहतः प्रथमाब्धितल्पं
सन्ध्यासरोरुहदृशः प्रथमोत्थितायाः ।
सीमन्तिते तिमिरकुन्तलमध्यभागे
सिन्दूरराजिरिव भाति मयूखरेखा ॥ १९-१५॥
ज्योत्स्नापदेशमवधूय सितोत्तरीयं
स्तोकावशेषितसदाभरणप्रबन्धा ।
अङ्गीकरोत्यरुणभावितमङ्गरागं
प्राची दिशा दिनपतिं परिभोक्तुकामा ॥ १९-१६॥
निर्णिज्य सम्प्रति निशाङ्गनिवेशलग्नं
कालेयपङ्कमिव सन्तमसं कलङ्कम् ।
क्षोणीभृतामरुणदीधितयोऽनुरक्ताः
पादान् अलक्तकरसैरिव रञ्जयन्ति ॥ १९-१७॥
प्रादुर्भविष्यति चराचरजन्तुवर्गे
प्राप्ताऽरुणेन विधुना तमसा च वेला ।
आभाति भावितपरस्परलेशयोगा
मायाविपक्तिरिव लोहितशुक्लकृष्णा ॥ १९-१८॥
उन्निद्रपद्मनयनः सुभगोत्पलाभः
सम्भावितो मुनिगणैरुपपन्नबोधैः ।
रागोत्तरां श्रियमवाप्य रथाङ्गशोभी
जातः स एष समयो जगदेकसेव्यः ॥ १९-१९॥
नीतः श्रमं निहतरात्रिवरूथिनीकः
चन्द्रातपत्रविनिपातविलुप्तभूमा ।
प्रत्यूषवैरिविभवेन पराहतात्मा
कालप्रतीक्ष इव गच्छति कामवीरः ॥ १९-२०॥
योऽसौ जनस्य दिशतीव सुधानिधानं
जातध्वनिः श्रुतिषु जागरदुन्दुभिस्ते ।
मन्ये स एव मदनस्य निशाचरस्य
स्वच्छन्दसौप्तिकनिवृत्तिमभिव्यनक्ति ॥ १९-२१॥
अन्तर्बहिश्च तमसा परिमुच्यमाने
जागर्यया जगति सम्प्रति दीप्यमाने ।
पञ्चायुधश्चिरपरिश्रमशान्तिमिच्छन्
निद्रामुपैति हृदयेषु नितम्बिनीनाम् ॥ १९-२२॥
अग्रे भवन् गुरुरिव स्वयमानकानां
आदिष्टसम्पदिव कन्धरया तवैषः ।
व्यक्तप्लुतेन निनदेन विशुद्धवर्णः
प्रस्तौति नाथ निगमान् प्रतिबोधशङ्खः ॥ १९-२३॥
मुग्धाः स्वमुष्टिपरिमेयमनोज्ञमध्याः
पर्यायचापलतिका इव पञ्चबाणः ।
प्रास्थानिकप्रणयदुर्विनयोपशान्त्यै
प्रत्यक्षयन् प्रतिनिवर्तयतीव यूनः ॥ १९-२४॥
अन्तश्चकासदसितोत्पलमङ्कयोगात् (लक्षात् )
भासोन्मदेव परिमीलिततारकार्धा ।
निष्पीतकान्तिमकरन्दरसं प्रतीच्यां
नीहारभानुचषकं निदधाति सन्ध्या ॥ १९-२५॥
दृष्ट्वा निमीलितवतीं नियतिप्रभावात्
आत्मप्रियां कुमुदिनीमवधूतधामा ।
च्योतत्तुषारनयनोदकबिन्दुरिन्दुः
प्रस्थानमिच्छति महत् प्रतिपन्नदैन्यः ॥ १९-२६॥
भोक्तुं दिवं निजवियोगविलुप्तदीप्तिं
प्रागेव तीव्ररुचिना प्रहितेव सन्ध्या ।
मालिन्ययोगमपनीय करावमर्शैः
प्रायो यथार्हमनुलिम्पति कुङ्कुमेन ॥ १९-२७॥
अर्धेन पाटलमनूरुकरानुषङ्गात्
अर्धान्तरेण मणिमेचकमन्तरिक्षम् ।
अस्पृष्टतामधिरोहति निस्तमस्कं
संवीतपीतवसनेन तुलां त्वयैव ॥ १९-२८॥
पद्मापदाम्बुरुहयावकपिङ्गभासा (धाम्ना)
भासा नितान्तमुदयान्तरितस्य भानोः ।
आरज्यते गगनमद्य जगत्प्रसूतेः
नाभीसरोरुहभुवा रजसेव गात्रम् ॥ १९-२९॥
दग्धुं तमो दनुजवृन्दमिवाम्बुराशेः
उत्तस्थुषो मधुरिपोरिव तिग्मधाम्नः ।
उन्मेषिणी सुमनसामुदिता पुरस्तात्
चक्रप्रभामनुकरोति मरीचिमाला ॥ १९-३०॥
दृष्टिद्वयं नियतकालमिदं प्रजानां
एका निमीलति तयोरितराऽप्यलक्ष्या ।
तत्तादृशोस्तव दृशोर्युगपत्प्रबोधात्
आलोकयोगमनघं भजतां त्रिलोकी ॥ १९-३१॥
प्राचीनशैलविषये प्रचुरांशुरेखां
सन्ध्यादशामरुणरागघृतावसिक्ताम् ।
कालो निधाय सृजतीव शनैस्तदन्ते
तिग्मद्युतिं त्रिभुवनैकमहाप्रदीपम् ॥ १९-३२॥
पर्याप्तरश्मिनिकरेण सुवृत्तभूम्ना
सूर्येन्दुबिम्बयुगलेन समस्थितेन ।
आभाति कालवणिजा परिकल्प्यमाना
नक्तन्दिवक्षणतुलेव नभस्स्थलश्रीः ॥ १९-३३॥
नैशं तमः क्षिपति नन्दितचक्रवाके
पद्मान् प्रबोधयति भावितमित्रभावे ।
दृष्टिं प्रसाद(ध)यति दर्शितसत्पथेऽस्मिन्
दोषोल्बणा कुमुदिनी बहुमानशून्या ॥ १९-३४॥
पादस्पृशां दिशति भूमिभृतां प्रकाशं
सत्त्वं समेधयति सद्भिरुदीरितार्घ्यः ।
तेजोगणानपि तिरस्कुरुते स्वदीप्त्या
चक्रप्रियस्त्वमिव सम्प्रति चण्डभानुः ॥ १९-३५॥
आजानपाण्डरतनुः परभागमृच्छन्
नीलाम्बरद्युतिमुषा निजलाञ्छनेन ।
स्फीताकृतिः परिगतो मदरागलक्ष्म्या
वीर त्वदग्रज इवैष विभाति चन्द्रः ॥ १९-३६॥
सन्ध्योपरागसमयं प्रतिलभ्य पुण्यं
स्नातुं निशा गगनसौधतलावतीर्णा ।
आरक्तरूपमवलम्बयता कराग्रं
पत्या सह प्रविशतीव परं समुद्रम् ॥ १९-३७॥
देव त्वयीव दिवसागमजागरूके
संरक्तविश्वमुदयं सवितर्युपेते ।
अस्तं शनैरभिपतन् भजते मृगाङ्कः
त्वद्वैरिवारवनितावदनेन्द्ववस्थाम् ॥ १९-३८॥
राजाऽस्तमेति सुहृदा मदनेन सार्धं
दीनाकृतिः कुमुदिनी दृढबद्धकोशा ।
वैरी समेति विषमाश्व इतीव भीता
छायाच्छलेन भजते गगनं त्रियामा ॥ १९-३९॥
आमृश्य रात्रिमरुणोदयजातपुष्पां
प्राप्तानुताप इव सत्पथलङ्घनेन ।
ज्योत्स्नांशुकं द्विजपतिः परिधाय नूनं
व्रीडानतो विशति वारिनिधिं विवर्णः ॥ १९-४०॥
अभ्येति भानुरुदयाद्रिमसह्यतेजाः
स्थातुं स एष समयो न ममेति पश्यन् ।
प्रायः समाश्रयति पाशभृताऽभिगुप्तं
तारापतिश्चरमसागरतोयदुर्गम् ॥ १९-४१॥
मूले मनाग् भवति मुञ्चति पूर्वभागं
शैथिल्यमृच्छति तमालरुचिस्त्रियामा ।
आकृष्यते चरमशैलवने विहर्तुं
सीरायुधेन यमुनेव सुधांशुनेयम् ॥ १९-४२॥
प्रस्थानकालभजनात् परितोषितेन
ज्योत्स्नात्मिकां हरिवधूसहजेन दत्ताम् ।
प्रायेण नाकवनितानखदीप्तिलघ्वीं
शेषापटीं चरमभूभृदसौ बिभर्ति (दधाति)॥ १९-४३॥
सूक्ष्माभिरामनिजदीधितिसूत्रलम्बी
पर्यन्तलग्नतिमिरालकदर्शनीयः ।
सिन्दूररञ्जित इवैष विभातलक्ष्म्याः
सीमन्तमौक्तिकमणिः प्रतिभाति चन्द्रः ॥ १९-४४॥
प्रालेयरूषितमिदं प्रथमेतराब्धौ
मग्नैकदेशमनुयाति मृगाङ्कबिम्बम् ।
मानच्छिदां मकरकेतनसायकानां
शाणोपलं चिरनिघर्षणकर्शितार्धम् ॥ १९-४५॥
आदौ वराभमुदितं शरपाण्डु मध्ये
पश्चान्मधूकपरिधूसरमिन्दुबिम्बम् ।
सम्पद्यते पुनरदृश्यतमामवस्थां
कालार्पितं करजचिह्नमिव क्षपायाः ॥ १९-४६॥
नैशं तमिस्रमरुणेन विलुप्तसारं
निश्शेषयन् अयमुदेति मयूखमाली ।
सत्सेवनेन पुरतो मुषितैकदेशं
विद्यावतां वृजिनराशिमिवान्तरात्मा ॥ १९-४७॥
उद्गच्छता पुरुषकेसरिणेव पूष्णा
काले तमो विदलितं करजैः प्रवालैः ।
गाढं हिरण्यकशिपोरिव गात्रमन्यत्
सन्ध्याच्छलेन रुधिरं क्षरतीव सान्द्रम् ॥ १९-४८॥
प्राप्तोदयस्य तपनस्य तवेव धाम्ना
क्षिप्तो गुहान्तरनिरुद्ध इवान्धकारः ।
विश्वावलोकननिरोधवियातवृत्तेः
अत्याहितस्य परिपाकमिवैष भुङ्क्ते ॥ १९-४९॥
मग्ना चिरं महति सन्तमसाम्बुराशौ
दंष्ट्राभिरामरुचिना दिवसागमेन ।
उत्क्षिप्यते दनुजशोणितलोहितेन
प्रायो वराहवपुषा विभुनेव भूमिः ॥ १९-५०॥
निद्रामपास्य तमसा च दृशो निरोधं
प्रत्यङ्मुखं प्रथमतः प्रथयन् प्रकाशम् ।
निःश्रेयसप्रतिपदेन निजेन धाम्ना
विश्वं समाधिरिव दर्शयते विवस्वान् ॥ १९-५१॥
आशापरीतमविवेकमिवान्धकारं
शङ्काशतास्पदमलक्षितसर्वतत्त्वम् ।
निर्धूय सम्प्रति निशामिव बाह्यविद्यां
तत्त्वावसाय इव भाति विभातकालः ॥ १९-५२॥
निर्विश्य चन्द्रसितपद्मरसं निशात्मा
लोलम्बजातिरभितो लुलितान्यपुष्पा ।
त्वद्वक्त्रचन्द्रनिरपायरसान् इदानीं
पद्मान् उपैति परितोषितराजहंसान् ॥ १९-५३॥
नात्यन्ततः कुमुदिनी प्रतिपन्ननिद्रा
नातीव बोधमुपयाति सरोजिनी च ।
एतेन नूनमनयोरविशेषदृश्या
नाथानुवृत्तिनियतेव भवत्यवस्था ॥ १९-५४॥
पर्यस्यता सुरभिपद्मपरागजालं
पक्षानिलेन परिधूननसम्भवेन ।
सन्धुक्षयन्ति मकरध्वजहव्यवाहं
शान्तं पुनःपुनरमी सरसीषु हंसाः ॥ १९-५५॥
कालोत्थिताः स्थितिभृतो गुणयन्त्रितत्वात्
दानोदकार्द्रकरपुष्करदर्शनीयाः ।
सम्भावयन्त्यभिमुखाः समयोपयातान्
भृङ्गान् वनीपकजनानिव वारणेन्द्राः ॥ १९-५६॥
गञ्जामुपेत्य मदकुञ्जरगण्डपालिं
मत्तान् समीक्ष्य मधुपान् परिघूर्णमानान् ।
शुद्धानि हन्त कुमुदानि तमस्यपेते
भूयस्तदन्वयभयादिव सङ्कुचन्ति ॥ १९-५७॥
सत्त्वक्क्षमाधिकतया शयिताः पृथिव्यां
निद्रामयीं व्यपगमय्य निजामविद्याम् ।
निस्सङ्गवृत्तिनियताः स्थिरसंयमार्हाः
मुञ्चन्ति सम्प्रति मदं मुदिता गजेन्द्राः ॥ १९-५८॥
सैन्या(शैब्या)दयस्तव हयाः समये प्रबुद्धाः
चत्वार एव निगमास्तव मूर्तिमन्तः ।
आवर्तयन्त्यतनुहेषितवीचिभेदैः
वैरात्रिकं (वैभातिकं)वटुभिरध्ययनं प्रवृत्तम् ॥ १९-५९॥
आयोधने विहरणेऽप्यवधानवन्तः
प्राज्यैः परिच्छदपरिष्करणोपचारैः ।
संयोजयन्ति रथयोगविदः शताङ्गं
तार्क्ष्यं द्वितीयमिव सारथयस्त्वदीयम् ॥ १९-६०॥
निद्रावशेषविगमेऽपि मदानुषङ्गात्
मन्दं दृशौ मुकुलयन्ति मदावलेन्द्राः ।
एषामनूरुकिरणैररुणीकृतानां
सप्तस्रुतां भवति सान्ध्यपयोदलक्ष्मीः ॥ १९-६१॥
आकृष्य (आलक्ष्य)दूरमवरोधगृहादमुष्मात्
स्वाभाविकं वदनमारुतसौरभं ते ।
अम्भोरुहां गुणमपत्रपयन् समीरो
मन्दं परिभ्रमति मन्दिरदीर्घिकासु ॥ १९-६२॥
आघूर्णितानि मृदुना पवनेन पद्मा-
न्यावेदयन्ति मदलेशमयीमवस्थाम् ।
निर्गच्छतां तव च वारवधूजनानां
निद्रावशेषकलुषाणि विलोचनानि ॥ १९-६३॥
रेणूत्कराः सरसिजोत्पलकैरवाणां
कुर्वन्त्यनूरुतिमिरेन्दुरुचिप्रकाशाः ।
प्रायः समुद्रतरुणीपरिकर्मभूतां
चर्चां नवीनघुसृणागुरुचन्दनानाम् ॥ १९-६४॥
अध्यासितं कुमुदतल्पमपोह्य काले
पद्मोत्पलानि शनकैः श्रियमाव्रजन्तीम् ।
संवीजयन्त्यलघुचामरदर्शनीयैः
पक्षैः स्वयं परिजना इव राजहंसाः ॥ १९-६५॥
प्रत्यूषलक्षणरसायनसम्प्रयोगात्
प्रालेयरश्मिमहसा जरसेव मुक्ताः ।
पद्मोत्पलप्रभृतिभिः परिकर्मवत्यो
गृह्णन्ति यौवनदशां गृहदीर्घिकास्ते ॥ १९-६६॥
औद्यानिकीषु सुमनस्स्वनवाप्तपूर्वं
नूनं सरोरुहवनेषु च नूतनेषु ।
आदित्सते वदनमारुतसौरभं ते
शय्यानिकाय्यमभितो विहरन् समीरः ॥ १९-६७॥
अर्च्यस्य सम्प्रति सतामवगाढतीर्था
मन्ये प्रगृह्य नलिनी मकरन्दमर्घ्यम् ।
व्यक्तद्विरेफनिनदा विहिताभिमुख्या
पत्युस्त्विषां प्रणयतीव करप्रसारम् ॥ १९-६८॥
ज्योत्स्नासखीं कुमुदिनीं भ्रमरः प्रहृष्यन्
निर्विश्य नित्यपरिशुद्धरुचिं निशायाम् ।
रागादुपैति नलिनीं रजसाऽभिजुष्टां
किं नाम नाचरति मन्मथहस्तवर्ती ॥ १९-६९॥
सन्ध्याछलेन पुरुषोत्तम साम्प्रतं ते
सैवाधुना (पूर्वोदिता ?)भृगुसुता तमसां निहन्त्री ।
भूयस्समुत्थितवती धृतपुण्डरीका
भोगाय सागरगृहाद्भुवनैकयूनः ॥ १९-७०॥
चन्द्रातपत्रिदिवशैवलिनीप्रवाहे
मग्नोत्थितां कमलिनीमुपसेवमानाः ।
प्रत्यग्रभिन्नमुकुलप्रसृतैः परागैः
उत्थापयन्त्यगुरुधूपमिवोत्पलिन्यः ॥ १९-७१॥
पौरन्दरीं दिशमनूरुनिबद्धरागां
दृष्ट्वा तथा परिणमत्यपरा दिशाऽपि ।
स्त्रीणां गतानुगतिकप्रतिपत्तिभाजां
ख्यातं ततो भवति कामितकामिनीत्वम् ॥ १९-७२॥
निद्रायते कुमुदिनी चिरसम्प्रबुद्धा
सुप्ता प्रबोधमुपयाति सरोजिनी च ।
यामेषु वृत्तिमनयोरधिगम्य नूनं
शिष्यायितं त्वदवरोधनितम्बिनीभिः ॥ १९-७३॥
मित्रस्य लुप्ततमसोऽप्यतिरागभाजः
सम्प्रेक्षणं मम न युक्तमितीव मत्वा ।
मीलत्यसौ कुमुदिनी सह तारकाभिः
प्राप्तं व्रतं तदिह राजपरिग्रहाणाम् ॥ १९-७४॥
आमोदयोगमवशात् सहसाऽऽश्रयन्ते
पत्युस्त्विषां तव च पादनिषेवणेन ।
क्षिप्तास्त्वया हृदि गृहीतशुचः क्षितीन्द्राः
स्वान्तर्निविष्टमधुपाश्च सरोजकोशाः ॥ १९-७५॥
आविस्स्मितैरमृतसिन्धुतरङ्गकल्पैः
आकेकरप्रियतमाजनदृष्टिभोग्यैः ।
त्वत्सौखशायनिकसूरिगणेन सार्धं
निर्वेशयोगमुपयाम निरीक्षणैस्ते ॥ १९-७६॥
अधिगतनिलयानामौपवाह्यद्विपानां
मदपयसि वितन्वन् मज्जनोन्मज्जनानि ।
प्रवहति पवमानः स्पन्दयन् मन्दमन्दं
परिणमदरुणिम्नः पङ्कजारण्यकोशान् ॥ १९-७७॥
उपवनमधुपानामुन्मदस्वैरगीतैः
तनुमरुदुपदिष्टैश्चारुलास्यैर्लतानाम् ।
दरविलुलितदानैर्दन्तिनां कर्णतालैः
समयसमुचितं ते भाति सङ्गीतकृत्यम् ॥ १९-७८॥
हरति रतिविहारैरर्धविस्रंसितानां
युवजनहृदयानि श्रान्तपञ्चायुधानि ।
उपहितगुणमारादुत्थिताभिर्वधूभिः
कुटिलनियमिताग्रं गुम्भनं चूलिकानाम् ॥ १९-७९॥
क्षितिरियमवधूतध्वान्तनीलोत्तरीया
विकसितमुखपद्मा व्यक्तसन्ध्याङ्गरागा ।
अभिमतकरदाना निर्व्यपेक्षा त्वदन्यैः
अनुभवितुमिव त्वां दर्शयत्यात्मरूपम् ॥ १९-८०॥
मधुन इव दयायास्सामरस्यं दधानैः
कमलवनमनन्यां कान्तिमध्यापयद्भिः ।
फणिपतिरमणीयं देव पर्यङ्कमुज्झन्
परिणमय शुभं नः पावनैरक्षिपातैः ॥ १९-८१॥
दिनमुखमिति नाम श्रावितःसूतपुत्रै-
रभजत जितनिद्रो जागरं यादवेन्द्रः ।
सरिदप(शरदुप)गमकाले साधु संरक्षणार्थं
मुनिभिरिव स एव स्तूयमानो मुकुन्दः ॥ १९-८२॥
धनमिव निगमानां धर्ममुत्तम्भयिष्यन्
त्रिजगदनुविधेयं(यः?)कर्म निष्पाद्य सान्घ्यम् ।
सितगुणपरिधानैः सेवितो मन्त्रिमुख्यैः
अलमकुरुत नाथो हैममास्थानपीठम् ॥ १९-८३॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये प्राबोधिकं नाम एकोनविंशःसर्गः ॥
॥ उषाविवाहो नाम विंशः सर्गः २०॥
अथोपहूतैः पुरुहूतजेता
सेनेश्वरैरप्रतिमानवीर्यैः ।
अभीषुभिः सूर्य इवाभिदीप्तः
कुबेरगुप्तां ककुभं प्रतस्थे ॥ २०-१॥
प्रयाणतूर्यध्वनिरस्य भूयान्
घर्मान्तजीमूतरवानुकारी ।
अनर्तयद्धर्ममयूरमाद्यं
प्राप्तस्थितिं पादयुगेन भूम्याम् ॥ २०-२॥
नभः पृथिव्योरुपदिष्टकम्पे
नाथस्य यात्रापटहप्रणादे ।
उषेतरासां नयनं चकम्पे
वामेतरं बाणपुराङ्गनानाम् ॥ २०-३॥
तस्येन्दुबिम्बं सितमातपत्रं
भास्वान् मणीन्द्रो महनीयतेजाः ।
ताराश्च मुक्तावलया(यो?)विरेजुः
शिखी रथाङ्गाकृतिरात्मधाम्नः ॥ २०-४॥
अग्रे मुकुन्दस्य तदग्रजन्मा
दैत्यैस्समं जन्यविहारमिच्छन् ।
अवाहयद्यादवभूपतीनां
वरूथिनीं शम्बरवैरिपूर्वाम् ॥ २०-५॥
कथञ्चिदुत्क्षिप्तकरेण सोढं
भुग्नाग्रभोगं भुजगेश्वरेण ।
आसन्नभारात्ययजातहर्षा
विश्वम्भरा सैन्यभरं विषेहे ॥ २०-६॥
प्रस्थानभाजि प्रथमे यदूनां
पृथ्वी स्वयं तद्बलरेणुलक्षात् ।
भारावतारप्रियवादलुब्धा
प्रायो ययौ पद्मभुवस्सकाशम् ॥ २०-७॥
अशेषतश्छादयता दिगन्तान्
आरोहता भूमिभृतां च मूर्ध्नः ।
प्रायेण सेनारजसा स्वमेव
प्रादुष्कृतं लाघवमुल्बणेन ॥ २०-८॥
रथादिघोषैरथ शार्ङ्गपाणेः
कल्पात्ययैकार्णवनादकल्पैः ।
वित्रासितेव त्रिदशारिलक्ष्मीः
इयेष गन्तुं यदुवीरदुर्गम् ॥ २०-९॥
अथ क्षणादात्मभुवं प्रयान्तं
परिष्कृतं पञ्चभिरायुधाग्र्यैः ।
आशाबलेन स्वयमुत्तराशा
प्रायः प्रतीयाय जगत्प्रतीक्ष्यम् ॥ २०-१०॥
पुरं ततः शोणितपूर्वमग्रे
ददर्श दैत्याधिपदर्पहन्ता ।
खगेन्द्रपक्षानिलतीव्रघातात्
त्रासादिवोत्कम्पितकेतुहस्तम् ॥ २०-११॥
पुरोपकण्ठे पुरभिन्नियोगात्
प्राकारभावं प्रमथा भजन्तः ।
प्रलम्बहन्तुः प्रसमीक्ष्य वेगं
भीताः पलायन्त भृशार्तनादाः ॥ २०-१२॥
इतस्ततस्सम्पततां यदूनां
व्यक्तानुबन्धं बिरुदैरुदारैः ।
सुरद्विषः शुश्रुवुरेकतानं
कलध्वनिं काञ्चनकाहलीनाम् ॥ २०-१३॥
कशाग्रसंस्पर्शममृष्यमाणैः
समीरवेगैः समरावलिप्ताः ।
उदग्रहेषामुखरैस्तुरङ्गैः
वृष्ण्यन्धका वैरिपुरीमवृण्वन् ॥ २०-१४॥
उद्वेलवेगान् स्तनतो गभीरं
और्वप्रतिच्छन्दविदीप्तदृष्टीन् ।
अचोदयन् दानववप्रभङ्गे
स्तम्बेरमान् सागरपोतकल्पान् ॥ २०-१५॥
प्राकारभङ्गे प्रसभं प्रयुक्ताः
दम्भोलिभीमायतदन्तकाण्डाः ।
ऊर्ध्वप्रवृत्तैर्निजहस्ततालैः (नालैः)
उत्तम्भयामासुरिवान्तरिक्षम् ॥ २०-१६॥
असह्यवेगैः सहसा बलौघै-
राक्रम्यमाणा बलिना यदूनाम् ।
प्रचुक्षुभे दैत्यपुरी प्रभूता
संवर्तभिन्नेव समुद्रवेला ॥ २०-१७॥
यथार्थशौर्या यदुवीरयोधाः
स्थानानि चित्तानि च दानवानाम् ।
व्यकम्पयन् विक्रमसत्कथानां
सिद्धान्तभागैरिव सिंहनादैः ॥ २०-१८॥
जहार चित्तानि बिभेद सौधान्
श्रोत्राण्यरीणां बधिरीचकार ।
अनन्यशब्दं च जगद्वितेने
घोरस्तदा यादवसैन्यधोषः ॥ २०-१९॥
विमथ्यमानात् स्वपुराद्यदूनां
मन्थाचलेनेव महाबलेन ।
विनिष्पपात त्रिदशारिनेता
काले समुद्रादिव कालकूटः ॥ २०-२०॥
स रोषरूक्षो बहुदीप्तहेतिः
दिशो दिधक्षन्निव दैत्यवह्निः ।
कृष्णाम्बुवाहप्रमुखं प्रतस्थे
तापच्छिदा तेन शमं प्रयास्यन् ॥ २०-२१॥
सरित्पतीनामिव सन्निपाते
वार्ष्णेयदैतेयबलोदधीनाम् ।
अदभ्रसङ्घोषमभूतपूर्वं
युगान्तसंवादि बभूव युद्धम् ॥ २०-२२॥
बलद्वयक्षुण्णमहीतलोत्थं
रजस्तदा संवृतसर्वलोकम् ।
अकल्पयत् स्वेतरतत्त्वलोपात्
अपञ्चभूतामिव विश्वसृष्टिम् ॥ २०-२३॥
प्रथीयसा सूक्ष्मनिरन्तरेण
क्षौमाभिरामेण परागभूम्ना ।
प्रच्छन्नसेनाङ्गतया तदानीं
आसीज्जयश्रीरवकुण्ठितेव ॥ २०-२४॥
रजोनुबन्धादभिसंवृताङ्गी
भास्वत्करस्पर्शमनश्नुवाना ।
निवारिताशाविततिस्तदाऽऽसीत्
नभस्स्थली नाकिभिरप्यदृश्या ॥ २०-२५॥
रणाख्यदर्शे रजसोत्थितेन
प्रच्छाद्यमाने तमसेव भानौ ।
निस्त्रिंशधारासलिले निमग्नाः
शुद्धिं परामन्वभवन् सुयोधाः ॥ २०-२६॥
असृक्छटासारवशात् ध्वजिन्या
रजस्समेते तमसि प्रशान्ते ।
सत्त्वानुरूपं विदधे प्रमोदं
समान् मिथस्सम्मुखयन् प्रकाशः ॥ २०-२७॥
ततो हरस्त्रातुमानाः स्वभक्तं
दत्ताभयं दानवसार्वभौमम् ।
अनुद्रुतो भूतगणैरनन्तैः
प्रत्युद्ययौ विश्वपतिं प्रकुप्यन् ॥ २०-२८॥
तमुन्मदोदग्रवृषाधिरूढं
सिताचले मेरुमिव ज्वलन्तम् ।
शरैः प्रतिप्रास्थित शार्ङ्गधन्वा
देवं सुधासूतिकलावतंसम् ॥ २०-२९॥
शिलीमुखैः शौरिधनुर्विमुक्तैः
विस्मारितान् पूर्वविकत्थनानि ।
पलायमानान् प्रमथान् अशेषान्
मेने पशूनेव पतिः पशूनाम् ॥ २०-३०॥
आस्वादनीं दानवशोणितानां
अकुण्ठितामद्रिविदारणेऽपि ।
अनाहतास्त्रो युधि शम्बरारिः
संस्तम्भयामास गुहस्य शक्तिम् ॥ २०-३१॥
क्लेशादिदोषैरपराहतेन
क्रीडामनुष्येण जनार्दनेन ।
ज्वरे निरस्ते गिरिशप्रयुक्ते
वीतज्वरं विश्वमिदं बभूव ॥ २०-३२॥
अथ प्रयुक्तान् असुरेन्द्रगुप्त्यै
प्रसह्य वह्नीनपि पञ्च जित्वा ।
अजृम्भयद् भावितजृम्भणास्त्रो
वृषध्वजं विष्णुरचिन्त्यभूमा ॥ २०-३३॥
शरव्यभूतत्रिपुरेऽप्यमोघं
शूलायुधे शौर्यमवेक्ष्य शौरेः ।
पुरन्दरप्रत्युपरोधजातं
व्ययोजयन् विस्मयमादितेयाः ॥ २०-३४॥
बाणः सहस्रेण भुजैः स(प्र)माद्यन्
आत्मानुरूपैरसुरैः समेतः ।
असह्यशस्त्रास्त्रबलो बलादीन्
प्रत्यग्रहीत् प्रत्ययितप्रभावान् ॥ २०-३५॥
स वज्रनिर्घोषनिभाट्टहासो
गात्रेण रुन्धन् गगनावकाशम् ।
उदग्रधन्वा शरवृष्टिमुग्रां
उत्पातजीमूत इवोज्जगार ॥ २०-३६॥
शरासनैरर्धसहस्रसङ्ख्यैः
योद्धुं प्रवृत्तो युगपत्प्रकृष्टैः ।
प्रतिद्रुतान् प्रार्दयत प्रकुप्यन्
एकः समस्तानपि यादवाग्र्यान् ॥ २०-३७॥
अथ क्षणादन्तरितान्तरिक्षा
वात्या विहङ्गेन्द्रविहारजाता ।
अलातचक्रप्रतिमान् अकार्षीत्
बाणाशनीन् बाणघनप्रसूतान् ॥ २०-३८॥
गरुत्मतः पक्षमरुत्प्रचारात्
दूरीकृतो वारुणनागपाशैः ।
उषासहायः सरथः सधन्वा
जग्राह दैतेयबलस्य पार्ष्णिम् ॥ २०-३९॥
विनिघ्नतो दैत्यबलौघमग्रे
चापाभियोगो युधि शम्बरारेः ।
चकार चक्रीकृतचन्द्रलेखं
शम्भोश्शिरःकम्पमनन्यलभ्यम् ॥ २०-४०॥
रामोऽपि लङ्काधिपतेस्समानान्
मुसल्यवृत्तीन् मुसलेन भिन्दन् ।
चमत्कृतिं चक्रधरस्य कुर्वन्
आदत्त सङ्ग्रामविहारमग्र्यम् ॥ २०-४१॥
उदग्रशृङ्गोल्बणबाहुभूम्ना
सञ्चारिकैलासनिभेन तेन ।
अमृष्यता क्षिप्रमकारि सैन्यं
नागाधिपेनेव वनं नलानाम् ॥ २०-४२॥
स लाङ्गलाकर्षणनिर्विचेष्टान्
निष्पिष्य नागान् निषधप्रमाणान् ।
रणक्षितिं शोणितमांसपङ्कैः
आमग्ननिस्पन्दरथान् अकार्षीत् ॥ २०-४३॥
हलायुधोत्क्षिप्तरथौघपूर्णं
समीक्ष्य देवाः सहसाऽन्तरिक्षम् ।
आशङ्क्य दैतेयबलोपयानं
दृढार्गलां देवपुरीमकुर्वन् ॥ २०-४४॥
प्रभुश्च किञ्चित् प्रथयन् अमर्षं
क्रीडोचितान् प्रेक्ष्य कृताभियोगान् ।
विव्याध बाणानुचरान् अयोध्यः
शार्ङ्गोदधेरूर्मिनिभैः शरौघैः ॥ २०-४५॥
अदृष्टतूणीरमनुप्लवान्यैः
अग्राह्यसन्धानविमोक्षबाणम् ।
अमंसतैनं स्थिरचापचक्रं
प्रत्येकमात्माभिमुखं प्रतीपाः ॥ २०-४६॥
निषङ्गदत्ताग्रकरे मुरारौ
निर्भिद्य दैत्यान् भुवमाविशन्तः ।
लक्ष्याणि दूरादलभन्त बाणाः
रसातलस्थैरपि दानवेन्द्रैः ॥ २०-४७॥
न सेहिरे शार्ङ्गपयोदजातां
नाराचवृष्टिं दनुजेन्द्रयोधाः ।
अमोघवाचा कविना प्रयुक्तां
अन्तर्वतीं सूक्तिमिवानभिज्ञाः ॥ २०-४८॥
यतोयतो दानवसैन्यमासीत्
ततस्ततो दैत्यचमूरपायात् ।
गतानि तेजस्तमसोरिवाऽऽरात्
आशाविकल्पेन तयोरभूवन् ॥ २०-४९॥
अशूरसन्दर्शनतापशान्त्यै
स्वहेतिधारागृहमाश्रयन्तीम् ।
विहारयामासुरिव स्ववृत्त्या
वीरश्रियं वृष्णिकुलप्रवीराः ॥ २०-५०॥
कृपाणभिन्नद्विपकुम्भमुक्ता
मुक्ताः पतन्त्यो रणवप्रभूमौ ।
प्ररोहतां वीरयशस्तरूणां
बीजान्यभूवन् बहुधा विकीर्णाः ॥ २०-५१॥
द्विपाचलेभ्यः शरवृष्टिपातैः
आपातितानां रुधिरापगानाम् ।
अकल्पयन् योधमुखेन्दुकॢप्ताः
कौमुद्वतीं सम्पदमट्टहासाः ॥ २०-५२॥
अदृश्यतान्योन्यविलूनशीर्षै-
रारब्धमन्योन्यकृतप्रशंसैः ।
अनेकरूपैकसुराङ्गनाप्तैः
अपास्तवैरं रणरङ्गनृत्तम् ॥ २०-५३॥
प्रयोजितैः प्राणतृणैः प्रगल्भा
रथ्याभिगम्येषु रणापणेषु ।
क्षणप्रभालोलतरैरविन्दन्
यावद्युगान्तानि यशोधनानि ॥ २०-५४॥
कृतापदानाः कृशजीविताशाः
स्वनाथनामाङ् क जयोक्तिमन्तः ।
जयश्रियं दोष्णि निवेशयन्तः
कीर्ंइत दिगन्तावसथामकुर्वन् ॥ २०-५५॥
अमोघशस्त्रास्त्रतरङ्गभीमे
वैरोपसन्दर्शितबाडबाग्नौ ।
विकत्थनं संयति विक्लवानां
वीरोदधौ गोष्पदवद्विलिल्ये ॥ २०-५६॥
जिगीषुभिर्जीवितसंशयाख्या
दोलाऽधिरूढा दृढवैरबन्धा ।
अदूरतो यादवमर्षवेगं (गात्)(यावदमर्षवेगं)
मिथः प्रतिक्षेपशतानि चक्रे ॥ २०-५७॥
शरप्रयोगोचितविप्रकर्षं
सम्पादयिष्यन्त्यपराङ्मुखानाम् ।
प्रशंसनीयानि बभूवुराजौ
पश्चात्प्रयातानि धनुर्धराणाम् ॥ २०-५८॥
प्रतीपवृत्त्या प्रतिगृह्य शूराः
शत्रुप्रयुक्तां शरवृष्टिमुग्राम् ।
त्रिविष्टपानोकहपुष्पवृष्टिं
वैमानिकैरन्वभवन् विमुक्ताम् ॥ २०-५९॥
तस्मिन् अघच्छेदिनि धर्मयुद्धे
कायत्यजां कृष्णसमीक्षितानाम् ।
सुहृद्द्विषद्भेदवतां समोऽभूत्
स्वर्गापवर्गान्तगतिः सुपन्थाः ॥ २०-६०॥
बभूव कीर्त्या धृतकेतकश्रीः
निस्त्रिंशधाराधरपङ्क्तिनीला ।
रणस्थली यादवदानवानां
आकालिकी प्रावृडिवास्त्रवर्षैः ॥ २०-६१॥
अलङ्घनीया रथवारणाद्यैः
आसागरादप्रतिघप्रवाहाः ।
उदग्रभूभृत्प्रभवाः पृथिव्यां
उत्तस्थिरे शोणितशैवलिन्यः ॥ २०-६२॥
ज्वलत्प्रतापानलजातदीप्तिः
समिद्वती सैन्ययुगस्य लीला ।
जयश्रिया वीरपतिंवराया
वैवाहिकी सम्पदिवाबभासे ॥ २०-६३॥
अमर्षवैश्वानरधूमलेखां
अन्योन्यसंहारनिशां कृपाणीम् ।
अवेक्ष्य मृत्योर्भ्रुकुटीमनन्दन्
वीराः स्वविक्रान्तिशिरीषमालाम् ॥ २०-६४॥
मनस्विनः संयति वीरशय्या-
मभूषयन् प्रीतिकृतः शिवानाम् ।
सुखावहाः स्वर्गविलासिनीनां
विहारशय्यामपि वीरलोके ॥ २०-६५॥
समाश्रितैराहवसत्रदीक्षां
कुर्वद्भिरन्योन्यमिवोपकारम् ।
अलभ्यत श्लाघितमप्सरोभिः
दैत्यैर्मनुष्यैरपि देवभूयम् ॥ २०-६६॥
पर्यस्तपादं पतितैः पृथिव्यां
वज्राहतैरद्रिगणैरिवान्यैः ।
द्विपेन्द्रयूथैर्द्रुतसर्पिणीनां
द्वीपायितं शोणितवाहिनीनाम् ॥ २०-६७॥
हतावशिष्टा दनुजेन्द्रभृत्याः
प्रद्युम्नविक्रान्तिभयान्निवृत्ताः ।
तत्केतुचिह्नस्मरणेन बिभ्युः
निशाम्य दृष्टीर्निजवल्लभानाम् ॥ २०-६८॥
स्वकोपचापेन ततः प्रणुन्नो
महेश्वरानुग्रहसंहितात्मा ।
अतीत्य मौर्वीमिव दैत्यसेनां
बाणः स्वयं शौरिबलं विवेश ॥ २०-६९॥
व्यभज्यत व्याप्तहयोर्मिजालं
बलं यदूनां बलिनन्दनेन ।
एकेन पर्याप्तभुजाद्रिभूम्ना
नाथो नदीनां नलसेतुनेव ॥ २०-७०॥
अस्त्राणि तेन प्रहितानि तूर्णं
विहारभूम्ना वितथानि कृत्वा ।
युगान्तसूर्यायुतयोगदीप्तं
रामानुजन्मा जगृहे रथाङ्गम् ॥ २०-७१॥
अथाच्छिनद्भीषणसत्त्वसारां
भुजाटवीं भूतपतेस्समक्षम् ।
चक्रेण सङ्कल्पनिभेन कृष्णः
किं वा विधौ वैरिणि केन रक्ष्यम् ॥ २०-७२॥
अवृण्वत क्ष्मां हरिचक्रलूना
महत्तरा बाणभुजाः पतन्तः ।
महेन्द्रहस्तप्रहितेन पूर्वं
वज्रेण भिन्ना इव सानुमन्तः ॥ २०-७३॥
अमर्त्यशत्रोरवलेपहेतौ
बहिर्द्वये बाहुवने विलूने ।
दयाधनः (घनः)संयति दैत्यहन्ता
प्रदीप्तमस्त्रं प्रतिसञ्जहार ॥ २०-७४॥
अनीकिनीमाश्रितदीर्घनिद्रां
बाणो निकृत्तामपि बाहुपङ्क्तिम् ।
अजातखेदो बुबुधे न नूनं
विपद्भिरश्रान्तधियो हि वीराः ॥ २०-७५॥
अशान्तदर्पस्त्वसुरो भुजाभ्यां
विकृष्टधन्वा विससर्ज बाणान् ।
तदैनमन्वीक्ष्य निहन्तुमैच्छत्
जन्योद्धतं दैत्यमनन्यजन्यः ॥ २०-७६॥
ततस्तमव्याहतदिव्यशक्तिं
मध्याह्नमार्ता(र्त)ण्डविदीप्तहेतिम् ।
पश्यन् मुकुन्दं प्रतिबोधभूम्ना
जयोक्तिपूर्वं गिरिशो जगाद ॥ २०-७७॥
मैवं प्रभो मत्परिवारभूतं
बलेस्सुतं बाधितुमर्हसि त्वम् ।
मयैष रक्ष्यो दनुजस्त्वयाऽपि
स्वभक्तबुद्ध्यैव समीक्षणीयः ॥ २०-७८॥
त्वमादिदेवः त्रियुगस्त्रिधामा
शुद्धामशुद्धां च विभाव्य सृष्टिम् ।
अकर्मतन्त्रैरवतारभेदैः
क्रीडस्यनन्तैरपि जन्तुजातैः ॥ २०-७९॥
अयं स ते वेदमयो गरुत्मान्
वेदैरशेषैरपि वेद्यसे त्वम् ।
विभागमृच्छन्त्यमरास्त्वदन्ये
शाखैकदेशेषु शकुन्तकल्पाः ॥ २०-८०॥
सिसृक्षतस्ते भुवनानि सप्त
प्रसादतो नाथ बभूव वेधाः ।
संहर्तुकामस्य तवैव कोपात्
अहं त्वया दत्तनिजाधिकारः ॥ २०-८१॥
अविक्रियश्चेष्टयसि त्वमेको
विश्वानि भूतानि विहारशक्त्या ।
अचेष्टमानप्रकृतीन्ययांसि
स्थाता(स्वतोऽ)ऽप्ययस्कान्त इवाभिमुख्यात् ॥ २०-८२॥
अलङ्घ्यमायागुणजालभीतान्
अनन्यचित्तान् अनुकम्पमानः ।
स्वदत्तयैव स्वपदाब्जभाजा
भक्त्या स्वयं तारयसे भवाब्धिम् ॥ २०-८३॥
भारावताराय भुवोऽवतीर्णं
भवन्तमन्तर्हितदिव्यभावम् ।
संस्थापयन्तं नियमेन धर्मं
धर्मं परं वेदविदो विदुस्त्वाम् ॥ २०-८४॥
विधाय दैत्यप्रकृतीन् अशेषान्
नामावशेषान् नरलोकपालान् ।
करिष्यसि त्वं करुणार्द्रचेताः
नाथ क्षितिं नावमिवास्तभाराम् ॥ २०-८५॥
दयाक्षमाभ्यामिह दीव्यसि त्वं
लक्ष्मीमहीभ्यामिव लालितात्मा ।
तत् क्षम्यतामस्य मदेकभक्तेः
आजानतः स्वात्मचमत्क्रियेयम् ॥ २०-८६॥
नाथो यदूनामिति भूतनाथे
स्वभक्तरक्षामभियाचमाने ।
अतर्कितप्रत्युपकारलेशा-
माकस्मिकीमाद्रियतानुकम्पाम् ॥ २०-८७॥
प्रविश्य देहं पुनरुत्पतन्त्या
स्वमौलिभाजेव सुरस्रवन्त्या ।
वाचा मनः प्रीतिमिवोद्वमन्तं
शौरिस्तदा शूलिनमित्युवाच ॥ २०-८८॥
तवैष भक्तो मम चेति मन्ये
क्षान्तस्ततो नित्यमसौ मयाऽपि ।
न चास्ति बन्धोरपि साम्पराये
वीरव्रतं धारयतोपकारः ॥ २०-८९॥
विहारनृत्तानि वितन्वतस्ते
वल्गुध्वनिं वादयिता मृदङ्गम् ।
भजत्वविच्छिन्नधृतिर्भवन्तं
दत्ताभयो दैत्यपतिर्मयाऽसौ ॥ २०-९०॥
अथान्वमंस्त त्रिजगन्नियन्ता
पत्युः पशूनां प्रणयानुरोधात् ।
बाणावरोधप्रमदाजनानां
स्थायीनि मङ्गल्यविभूषणानि ॥ २०-९१॥
ततोऽसुरेन्द्रः प्रणिपातपूर्वं
जगत्परित्राणरतं जगाद ।
उषानिरुद्धान्वयतः समीक्ष्याः
भृत्या वयं प्रीतधिया त्वयेति ॥ २०-९२॥
हिरण्यरत्नानि हिरण्यपूर्वैः
बलादुपात्तान्युपदाय बाणः ।
निरोधखिन्नावुचितोपचारैः
आनर्च सस्नेहमुषानिरुद्धौ ॥ २०-९३॥
सम्बन्धिभावप्रतिपत्तिभाजा
सन्धाय बाणेन स सत्यसन्धः ।
उषापतेर्यौतकलाभलक्ष्या(क्षा)त्
जेता जहारैव विपक्षलक्ष्मीम् ॥ २०-९४॥
हरेण दत्तां हरिणाऽपि बाणः
स्थिरीकृतामप्रतिघामभीतिम् ।
तनुत्रयन् वर्जितलेखवैरः
शमान्वितामास्थित शम्भुसेवाम् ॥ २०-९५॥
यथार्थनामानमथानिरुद्धं
कृत्वा सभार्यं कृतकृत्यचेताः ।
सबन्धुसैन्यः सविशेषदृश्यां
प्रत्याययौ विश्वपतिः पुरीं स्वाम् ॥ २०-९६॥
देवाः सहस्रनयनं दनुजेन्द्रमन्ये
निर्धूतमानमनघेन निशामयन्तः ।
कूपोदकप्रभवकूर्मनयेन जातां
अस्वामिकप्रभुपरिग्रहबुद्धिमौज्झन् ॥ २०-९७॥
नीतस्त्रिलोकपतिना निजराजधानीं
भूयः प्रजात इव पौरजनैः प्रतीतः ।
दैत्येश्वरस्य सुतया सहितः स रेमे
रागाधिको रतिपतेरनघः कुमारः ॥ २०-९८॥
अथ तमुषासहायमुपयातमुपायनवान्
जनपदपत्तनप्रभृतिकादुपगम्य जनः ।
उपचरति स्म सम्यगुपपन्नधृतिर्बहुधा
यदुनगरे विवाहविजयोत्सवयन्त्रितधीः ॥ २०-९९॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये उषाविवाहो नाम विंशस्सर्गः
॥ पौण्ड्रकादिवधो नाम एकविंशः सर्गः २१॥
वासुदेव इति नाम दधानः
पौण्ड्रकस्तदनु भूरिमदान्धः ।
मानुषत्वकवचान्तरितेन
स्पर्धते स्म हरिणा हतचित्तः ॥ २१-१॥
हेतिपञ्चकमधारयत श्री-
वत्सकौस्तुभमुखानि च मूढः ।
ऐश्वराणि चरितानि च पूर्वा-
ण्यात्मनः स्वयमजूघुषदाप्तैः ॥ २१-२॥
इन्द्रजालकुहनादिषु दाक्ष्यात्
ईश एष इति मोहितलोकः ।
अध्यशेत भुजगेश्वरशय्यां
आरुरोह विहगेन्द्रविवर्तम् ॥ २१-३॥
अन्वहं च महतीं वनमालां
माल्यकृद्भिरुपकल्प्य बभार ।
नामधेयमदिशत् सचिवानां
नाकनायकविशेषनिरूढम् ॥ २१-४॥
बद्धकृत्रिमभुजान्तरयुग्मं
शस्यमानमनुजीविजनेन ।
विश्वकर्तुरवतार इति स्वं
बह्वमंस्त बधिरो निगमेषु ॥ २१-५॥
इत्थमीश्वरविडम्बनरूपं
नाटकीयमनुरुध्य विहारम् ।
शोच्यतामपि परावरविद्भिः
हास्यतामपि जगाम जगद्भिः ॥ २१-६॥
मस्तकस्थितदुरत्ययमृत्योः
तस्य दूत उपसृत्य जगाद ।
कृत्यशेषविनिवेशितचित्तं
निर्भयो नृपतिसंसदि नाथम् ॥ २१-७॥
कृष्णकृष्ण गदतो गिरमर्थ्यां
संशृणुष्व महतीमिह मत्तः ।
अप्रमत्तमतिभिस्सह मित्रैः
आप्तवाक्यमवधीर्य न सिद्धिः ॥ २१-८॥
अस्ति कश्चिदवधारितभूमा
पूरुषः श्रुतिगणेषु पुराणः ।
स क्षितिं परिगृहीतविहारः
पौण्ड्रकत्वमधिगम्य भुनक्ति ॥ २१-९॥
तस्य नित्यनिरुपाधिकभूम्नो
विश्वभोक्तुरधिगम्य तितिक्षाम् ।
भुज्यते नियतकर्मविपाकैः
युष्मदादिभिरिला बहुभागा ॥ २१-१०॥
अर्थतत्त्वमिदमश्रुतपूर्वं
शृण्वताऽत्र(द्य)भवताभवितव्यम् ।
निश्चलीकृतहिताहितसीम्ना
जिष्णुना यदुकुलस्य विभूत्यै ॥ २१-११॥
आदिशत्यखिललोकनियन्ता
त्वामसौ भजनसौहृदनिघ्नः ।
ईशितव्यगणनालिखितस्त्वं
मा कृथा वितथमीश्वरमानम् ॥ २१-१२॥
बाह्यवर्त्मनि परावरतत्त्व-
व्यत्ययेन विनिवृत्तसतत्वे ।
चित्तवृत्तिमधिरोप्य विमूढाः
श्रेयसो हि बहिरेव भवन्ति ॥ २१-१३॥
ईश्वरस्त्वमसि चेत् कुत एवं
न(स)त्वदग्रज इति प्रमितिः स्यात् ।
द्वौ युवां परम इत्यपि दुःस्थं
कस्ततो विषम एव न चान्यः ॥ २१-१४॥
अर्थवादकुहनाभिरपि स्वान्
ईश्वरान् विगणयन्ति सुरेन्द्राः ।
निष्प्रमाणजनुषो जनवादात्
कःस्विदीश इति विश्वसिति स्वम् ॥ २१-१५॥
गोपिकाभिरपि कर्मभिरास्तां
बद्ध एव यदि मुक्तिविधाता ।
अदूभुतस्थितिरनान्तरबाह्यः
सप्तमस्तु समयोऽयमपूर्वः ॥ २१-१६॥
इष्ट एव तु मदीश्वरभावः
त्वन्मुखैर्न खलु शक्यनिरोधः ।
मत्सुखादिषु कथं विशयानैः
मत्परत्वमपदं प्रतिषेध्यम् ॥ २१-१७॥
नामधेयमनपायि मदीयं
त्यज्यतां प्रथय दासतया वा ।
चिह्नधारणमनेन गतार्थं
कल्पनेन कथमीश्वरभावः ॥ २१-१८॥
तादधीन्यनियमं यदि बुद्ध्वा
सोऽहमित्यनुबुभूषसि तत् स्यात् ।
अन्यथा तु निगृहीतिरलङ्घ्या
राजभावतृषितैरिव भृत्यैः ॥ २१-१९॥
पाप्मनां तमसि पातयितॄणां
आत्मचौर्यमधिराजपदस्थम् ।
चोदितेन नियतोऽपि हृतात्मा
चोरदण्डमवशादुपयाति ॥ २१-२०॥
अभ्युपेतबडिशामिषनीतिं
प्राप्तुमिच्छुरधिकारमयोग्यम् ।
इष्टमर्थमनवाप्य वराकः
प्रत्यवैति सहसा परतन्त्रः ॥ २१-२१॥
नापराध्यति क एव नियत्या
पण्डितस्तु विनिवृत्य समिन्धे
अस्ति चाद्य शरणागतिरर्थ्या
मत्परस्य तव जीवितुमिच्छोः ॥ २१-२२॥
इत्युदीरितवति प्रणिधौ तं
प्रत्युवाच विहसन् प्रभुराद्यः ।
पथ्यमद्य वचनं तव मन्ये
यद्ब्रवीषि चिरलिप्सितमेतत् ॥ २१-२३॥
उग्रसेनभृतका वयमेते
नेशितार इति विभ्रमवन्तः ।
सम्प्रति त्वदुपदेशमहिम्ना
भावयेमहि तवेश्वरभावम् ॥ २१-२४॥
त्वय्यनीश्वरमतिं न च कुर्मः
त्वं परोऽसि नियमेन परस्मात् ।
त्वां दिदृक्षव इमे वयमाशु
त्वत्पदं गतभियः प्रतियामः (म )॥ २१-२५॥
त्वादृशं प्रमितिमत्तमदृष्ट्वा
त्वय्यनादरवतामतिलोके ।
यामिमां वदसि वाचमनूचीं
भागधेयमिव पक्वमिदं नः ॥ २१-२६॥
द्रक्ष्यते शरणमेत्य विभुस्ते
क्षेप्य(प्स्य?)ते च न मयैव न चक्रम् ।
गच्छ शीघ्रमभिधत्स्व तमीशं
त्वामुपैति कुकुरध्वजिनीति ॥ २१-२७॥
आत्तहेतिरपसर्पनिवृत्तौ
चिन्तिताप्तमधिरुह्य सुपर्णम् ।
प्रास्थित प्रतिबलावसथाय
प्राणितत्रिदशभूतिरनन्तः ॥ २१-२८॥
साहसैकरसिकेन ततोऽसौ
पौण्ड्रकेण युयुधे यदुवीरः ।
तत्सखित्वमुपगम्य च पार्ष्णिं
गृह्णता सपदि काशिनृपेण ॥ २१-२९॥
तत्र वैरिपृतने समकालं
पूर्वपश्चिमतया प्रपतन्त्यौ ।
भावयन्नुभयतोमुखभावं
प्रत्यविध्यदधिसायकधन्वा ॥ २१-३०॥
वैरिसैन्यविततेषु समन्तात्
दिङ्मुखेषु सममेव पृषत्कैः ।
तस्य दीप्तरुचिभिर्विनिपेते
मध्यगस्य किरणैरिव पूष्णः ॥ २१-३१॥
विद्विषौ युगपदुत्थितवन्तौ
सागराविव विलिङ्घितवेलौ ।
रूपिणी इव रजस्तमसी द्वे
सत्त्ववृत्ति(मूर्ति?)रनघः स जघान ॥ २१-३२॥
अस्तमेवमनयद् यदुभास्वान्
तावुभौ जगदुपद्रवहेतू ।
पूर्वतश्च परतश्च भवन्तौ
दुर्ग्रहाविव दुरासददीप्तिः ॥ २१-३३॥
तस्य तावुभयतो निपतन्तौ
भग्नबाहुविटपायुधपुष्पौ ।
जग्मतुः पृथुकभावविहार-
क्षिप्यमाणयमलार्जुनकक्ष्याम् ॥ २१-३४॥
नामचिह्नवसनाभरणाद्यैः
नाथसम्पदनुकारनिरूढैः ।
पौण्ड्रकस्थितिमवाप्य सृगालो-
ऽप्यन्वभूत् किल गतिं च तदीयाम् ॥ २१-३५॥
विद्विषां विहितवीरगतीनां
द्वारकोपगमितैर्द्विरदाद्यैः ।
कौरवाध्युषितभागविभक्तेः(क्तैः)
आहितप्रतिभरा क्षितिरासीत् ॥ २१-३६॥
पातितेषु विमतेष्विति नाम
प्राप्य यादवपुरं परमेष्ठी ।
प्रेयसीभिरविभक्तरसाभि-
र्वीतरागसुभगो विजहार ॥ २१-३७॥
जीवयुक्तमितरच्च विचित्रं
द्यूतमर्पितपणं विदधानः ।
भाविभारतमहाहवसिद्धेः
सूचनं वितनुते स्म शुभंयुः ॥ २१-३८॥
तोषितत्रिनयनस्य नृशंसः
काशिराजतनयस्य पुरोधाः ।
कल्पिताहुतिरजीजनदुग्रां
कालवह्निपदवीमिव कृत्याम् ॥ २१-३९॥
साऽभिपत्य यदुवीरसकाशं
हेतिराजविभवेन हताशा ।
जन्मधामनि निजे नियमस्थं
जञ्जपूकमभिसृत्य जघान ॥ २१-४०॥
निर्ददाह नगरीमथ काशीं
विस्फुलिङ्ग इव माधवदीप्तेः ।
यादवग्रसनकौतुकवत्या
कृत्यया सह (स च)रथाङ्गकृशानुः ॥ २१-४१॥
स्यन्दनद्विरदवाजिपदाति-
प्राज्यसौधपरिपाटिसमृद्ध्या ।
चक्रवह्निविभवेन तदाऽभूत्
चन्द्रशेखरविलेपनभूमा ॥ २१-४२॥
क्षेत्रमेतदविमुक्तसमाख्यं
मुक्तियोग्यमुपसृष्टमयोग्यैः ।
इत्यवेक्ष्य दहनेन तदर्हां
संस्क्रियामिव चकार सुदृष्टिः ॥ २१-४३॥
अप्रशान्तरुषमद्भुतदीप्तं
दग्धवैरिपुरमायुधराजम् ।
निर्जराः प्रतिनिशामयमानाः
बिभ्यति स्म जगदुश्च जयोक्तिम् ॥ २१-४४॥
दैवतैरपि चतुर्मुखमुख्यैः
दत्तसत्कृतिरसौ जितकाशी ।
इष्टनिर्वहणनिर्वृतचित्तं
विष्टरश्रवसमभ्युपपेदे ॥ २१-४५॥
आसुरप्रकृतिकेषु निरस्ते-
ष्वेवमेभिरनुपालितसख्यः ।
वानरो भुजबलेन बबाधे
दुर्मतिर्जगदिदं द्विविदाख्यः ॥ २१-४६॥
भूधरान् उदहरद् भुजशाली
प्रक्षिपंश्च नगराणि ममर्द ।
क्षोभयन् जलनिधीन् अनुवेलं
प्लावयंश्च वसुधां प्रजहर्ष ॥ २१-४७॥
अन्यवीररहितामिव मत्वा
वारिराशिरशनामवलिम्पन् ।
आत्मनः सदृशमाद्रियतैकं
धेनुकप्रमथनेन नियुद्धम् ॥ २१-४८॥
एकदा हलधरस्य विहारे
सम्पतन् अमितचापलचेष्टः ।
द्वारकोपवनपादपभेदी
विश्वतः किलकिलां विततान ॥ २१-४९॥
तालकेतुयुवतीर्विहरन्तीः
त्रासयन् मुखविकारविशेषैः ।
क्रीडनोपकरणानि विभिन्दन्
क्ष्वेडितानि विदधे विधिलूनः ॥ २१-५०॥
तं प्रवृत्तकपिकृत्यमदूरात्
बाधितप्रतिबलो बलदेवः ।
जङ्गमस्फटिकभूधरकल्पो
रुक्मशैलरुचिरं निरुरोध ॥ २१-५१॥
वानरेण सुहृदा दनुजानां
यातुधानसमरप्रथितेन ।
प्रेषितां द्रुमशिलोच्चयवृष्टिं
निष्पिपेष मुसलेन हलास्त्रः ॥ २१-५२॥
आपतन् अपसरन्नपि भेजे
ग्राह्यतामिव च दुर्ग्रहतां च ।
अग्रतोऽभवदलक्ष्यत पश्चात्
अप्रतर्क्यरभसो हरिवीरः ॥ २१-५३॥
तौ परस्परगवेषितरन्ध्रौ
कामपालकपिसैनिकपालौ ।
योजितोद्धतकरौ युयुधाते
दर्पदारुणदिशागजसत्तौ ॥ २१-५४॥
तं प्रलम्बदमनः प्लवगेन्द्रं
विप्लुतं पुनरपि प्लवमानम् ।
कालपाशनिगृहीतमरातिं
कल्पमानमभवाय विवेद ॥ २१-५५॥
सव्यदक्षिणपरिक्रमणाभ्यां
द्रागलातमयचक्रनिरीक्ष्यः ।
आततान हलपाणिमदूरा-
दग्निसालवलयस्थमिवारिः ॥ २१-५६॥
तं गृहीतगरुडानिलवेगं
सर्वतो युगपदेव समीक्ष्य ।
लाङ्गली जलधिलङ्घनदक्षं
लाघवेन लघयन् विचचार ॥ २१-५७॥
अन्धकारमिव तं प्रतिरुन्धन्
अर्यमेव मुसली निजदीप्त्या ।
दिङ्मुखान्यकलुषाणि वितन्वन्
विश्वदृष्टिविभवाय बभूव ॥ २१-५८॥
घूर्णिताकुलितकौरवधाम्ना
लाङ्गलेन ललितोद्धतलीलः ।
यूथनाथमवरुध्य कपीनां
मौलिघातमवधीन्मुसलेन ॥ २१-५९॥
वज्रपाणिमहिताद्भुतभूम्ना
वानरेण निहतेन स रामः ।
व्याचकार विनताभयदाता
पूर्वरामचरितं पुनरुक्तम् ॥ २१-६०॥
धर्ममर्मभिदि दैवविपाकात्
उद्धृते द्विविदनामनि शल्ये ।
रेवतीरमणरेचितखेदा
नाकिनश्च मुनयश्च ननन्दुः ॥ २१-६१॥
त्रासितेषु विबुधेषु तदग्रे
पीतवन्तममृतं बलभद्रः ।
प्रापयत् प्लवगमुख्यमितीव
स्वर्गिभिस्सह सुधाशनभावम् ॥ २१-६२॥
भूतले हलधराहितगुप्तौ
सारभूतसुभटग्रहणेन ।
उञ्छवृत्तिरुदरभ्भरिरासीत्
तादृशेन तपसैव कृतान्तः ॥ २१-६३॥
एवमीषदवरोपितभारां
भावयन् भुवमतोषयदार्यान् ।
पूर्वदेवजनितान् अभिनिघ्नन्
पूर्वजेन सहितो यदुनाथः ॥ २१-६४॥
भार्गवादिभिरबाधितभूम्नां
निर्ममेष्वपि निकारपराणाम् ।
सौभहंसडिभिकप्रभृतीनां
सूदनैरलघयच्च धरित्रीम् ॥ २१-६५॥
उग्रसेनविनिवेशितराज्यां
उन्नमय्य यदुवंशविभूतिम् ।
तस्य दिग्विजयकौतुकमाद्यः
सप्तलोकतिलको विततान ॥ २१-६६॥
तन्नियोगमथ शेखरयित्वा
स्वप्रशासनवशंवदविश्वः ।
यावदुक्तनियताखिलवृत्तीन्
यादवान् उपनिनाय सुधर्माम् ॥ २१-६७॥
आत्मकल्पितधृतेरथ राज्ञः
सन्निधौ सचिवपीठनिविष्टः ।
मन्त्रणाय महतो यदुमुख्यान्
सम्मुखान् प्रतिननन्द मुकुन्दः ॥ २१-६८॥
अभजत नरपालमुग्रसेनं
बहुमनुते स्म यदूंस्तथाऽपि तुङ्गः ।
क्वचिदभिलपने विभक्तिशक्त्या
स्वगुणविभूतिगुणीभवन्निवैकः ॥ २१-६९॥
अधिगुणहरिवंशवीरसङ्गात्
अपचितवासवसङ्गमाभिलाषा ।
अतिशयरुचिरां वहन्त्यभिख्यां
अचकमतेव सभा(सदा)तदाधिराज्यम् ॥ २१-७०॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये पौण्ड्रकादिवधो नाम एकविंशःसर्गः ॥
॥ द्विग्विजयो नाम द्वाविंशः सर्गः २२॥
अथ देवानिवाऽऽहूतान् नरदेवान् अभाषत ।
देवदानवसामान्यदैवतं देवकीसुतः ॥ २२-१॥
एष वः क्ष्मापतिः शास्ति विधातेव प्रजापतीन् ।
महेन्द्र इव धर्मेण सुधर्मामास्थितः स्वयम् ॥ २२-२॥
शेखरीकृतभूभारः शेषत्वेन विभोः स्थितः ।
वेदयत्ययमार्योऽपि मित्रभूतान् अमित्रजित् ॥ २२-३॥
वयं भवन्तो ये चान्ये महान्तः सर्व एव ते ।
विश्वगुप्तौ जगत्कर्त्रा विनियुक्ता विभूतयः ॥ २२-४॥
तदस्माभिरवस्थेयं धर्मवर्त्मनि शाश्वते ।
बिभ्यद्भिरनघादेशात् वज्रादिव समुद्यतात् ॥ २२-५॥
द्विषन्तः ख्यातनामानो नामशेषास्तथाऽप्यसौ ।
समुद्रवसना विष्वक् तामसैरवकुण्ठिता ॥ २२-६॥
अंसकस्तूरिका भूमिर्भवतां बाहुशालिनाम् ।
अजुगुप्सापदं न स्यादसद्वृत्तिमलीमसा ॥ २२-७॥
शङ्कितप्रचयः शेषः शूत्रणां शुष्मणामिव ।
आयतौ सुखमिच्छद्भिर्न युक्तः क्षन्तुमीश्वरैः ॥ २२-८॥
अतस्त्राणाय साधूनां दुष्कृतां दमनं क्षमम् ।
कडङ्करीयरोधो हि कलमोत्सेधकारणम् ॥ २२-९॥
पुष्यतां पाण्डरं छत्त्रं पुण्डरीकमिव श्रियः ।
धर्मोऽधर्मश्च नान्योऽस्ति रक्षणोपेक्षणे(णात्)भुवः ॥ २२-१०॥
पूर्वपूर्वनरेन्द्राणामुच्छिष्टमपि मेदिनी ।
सोमपीथिनयात् ग्राह्या स्वधर्माध्वरमास्थितैः ॥ २२-११॥
अविवेकविभावर्यां धर्ममार्गमपङ्किलम् ।
द्रष्टुं दीप इव न्यस्तो नायकेन नयागमः ॥ २२-१२॥
अवलम्ब्य जगद्धातुर्हस्तमागमविग्रहम् ।
स्वयमुद्धरताऽऽत्मानं स्वैरं पातालपातिनम् ॥ २२-१३॥
व्यसनासारवेगानां वारणं न प्रकल्प(ल्प्य)ते ।
उपदेशैरनार्याणामुत्तानच्छत्रसन्निभैः ॥ २२-१४॥
पण्डितप्रहतेनैव सत्पथेन सदोदिताः ।
विषमेषु स्खलन्तोऽपि न दुर्गतिमवाप्स्यथ ॥ २२-१५॥
भूपरिक्रमणादन्या भवतामतिभास्वताम् ।
तमसामिव शूत्रूणां निरासे कीदृशी क्रिया ॥ २२-१६॥
जिगीषूणां च युष्माकं न जेतव्यपदे स्थितम् ।
कौरवैरनुकूलानां विपाकैरिव कर्मणाम् ॥ २२-१७॥
अवरोध्याः स्वयं दक्षैरक्षिपद्भिरनेहसम् ।
करिणां कर्णडोलाभिः कम्पिता इव सम्पदः ॥ २२-१८॥
नीतिपद्धतिरक्षोभ्या भवद्भिरधिगम्यताम् ।
नियता स्वर्गसौधस्य निश्श्रेणिरिव शाश्वती ॥ २२-१९॥
खलत्यागः सुहृत्प्राप्तिरितीदं कवचद्वयम् ।
वहध्वं मन्त्रदेहस्य भेदं परिजिहीर्षवः ॥ २२-२०॥
धातूनामिव कोपेषु प्रकृतीनामचेतसाम् ।
पातुमर्हथ पर्याप्तं प्रसादनरसायनम् ॥ २२-२१॥
अनीतिमदिरां त्यक्त्वा लोभादिविषदूषिताम् ।
अगदङ्कारमादद्ध्वं प्रज्ञाऽमृतमनुत्तमम् ॥ २२-२२॥
लुलिताशेषसन्मार्गं लोकवेदविरोधिनम् ।
परित्यजत दुर्मानं पाषण्डमतजीवितम् ॥ २२-२३॥
गुणशैलाग्रमारोप्य शनैरात्मानमात्मना ।
नित्यशङ्कितविभ्रंशं निध्यायत शुभंयवः ॥ २२-२४॥
त्रिविधानि विधेयानि सम्पत्सु च विपत्सु च ।
करणानीव मित्राणि गोपायत गुणग्रहात् ॥ २२-२५॥
अप्रशान्तेषु विस्रम्भमतिशङ्कां सुहृत्सु च ।
नीतिसन्दंशिना ऋद्धेः समुद्धरत कण्टकौ ॥ २२-२६॥
सपञ्चाङ्गेन मन्त्रेण नीतिमाहात्म्यनिर्विषाम् ।
नियच्छत निजाङ्गेषु भुजङ्गीमिव सम्पदम् ॥ २२-२७॥
अवधीरयताधर्म्यामर्थकामैकसाधिकाम् ।
नृशंसप्रेयसीं नीतिं नारीहृदयदारुणाम् ॥ २२-२८॥
प्रमादसप्तकं त्यक्त्वा प्रबुध्योपायसप्तकम् ।
अङ्गसप्तकसम्पत्त्या जयत द्वीपसप्तकम् ॥ २२-२९॥
अरातिगणकूटस्थान् आदौ जयत दुर्जयान् ।
अपदक्रोधलोभादीन् अशेषार्थविरोधिनः ॥ २२-३०॥
आन्तरेण बलेनैव द्विविधां वहत क्षमाम् ।
यस्य सत्त्वेऽप्यसत्त्वेऽपि गतार्थं षड्विधं बलम् ॥ २२-३१॥
न शापो नाभिचरणं न वह्निर्न विषं तथा ।
नास्त्राणि न च शस्त्राणि यथा तीक्ष्णतमा क्षमा ॥ २२-३२॥
विपक्षजातिभाजोऽपि क्षुद्रान् अनपकुर्वतः ।
सुपर्ण इव भूनागान् उपेक्षध्वं तरस्विनः ॥ २२-३३॥
कृपणान् क्षममाणोऽपि महासत्त्वो न दैन्यभाक् ।
मृगेन्द्र इव भिन्नेभः स्वदंष्ट्रालेहिनः खगान् ॥ २२-३४॥
देवान् अतिशयानानां दैत्यदानवरक्षसाम् ।
विनिपातनिदानानि स्वयमन्वीक्ष्य सुख्यत ॥ २२-३५॥
यशःप्राणहरान् घोरान् व्यामोहविषपादपान् ।
समीक्षाशाणघृष्टेन द्यत शास्त्रेण शस्त्रिणः ॥ २२-३६॥
श्रुतशी(शा)लिभिरुक्तानि दुरुत्सेकज्वरातुराः ।
अप्रियाण्यपि पथ्यानि मा जिहासत जातुचित् ॥ २२-३७॥
कलिसन्धिसमाघ्रातं त्यजन्तः कर्म कर्बुरम् ।
सदसत्प्रेक्षणे स्यात सर्वतो दत्तदृष्टयः ॥ २२-३८॥
पल्लवोपमकौमारे प्रसूनोपमयौवने ।
स्थिरं फलमुपादद्ध्वं जङ्गमे जीवितद्रुमे ॥ २२-३९॥
मिषतां मीलतां वाऽपि द्रुतं धावति जीविते ।
अनघं तनुत क्षेम्यमान्तरं धनमक्षयम् ॥ २२-४०॥
अकालनियतोच्छ्रायमतिसूर्येन्दुपावकम् ।
क्षात्त्रं क्षपितजाड्यं वः क्षमं तेजः समेधितुम् ॥ २२-४१॥
असम्प्लावितसप्ताब्धिरत्रिलोकीतमोपहा ।
अदिक्सूतसुधालिप्तिर्यस्य कीर्तिः स किम्प्रभुः ॥ २२-४२॥
सुधां सुमनसो यस्य स्वादयन्ति यशोमयीम् ।
स राजा वृद्धिमाप्नोति क्षीयते न च कालतः ॥ २२-४३॥
त्यक्तसान्त्वेन कठिनान् विद्रावयत तेजसा ।
अयसस्तापसेकाभ्यामवस्था कादृशी भवेत् ॥ २२-४४॥
प्रसाधितदिशो युष्मान् विमुक्तान्यमहीभृतः ।
सम्पदः प्रतिपत्स्यन्ते सरितः सागरानिव ॥ २२-४५॥
स एष पुरतो याता प्राज्ञः परिमृशन् पथः ।
सङ्कल्प इव युष्माकं सात्यकिःसत्यविक्रमः ॥ २२-४६॥
परिवारेण सम्पन्नस्त्यक्तकोशश्च कार्यतः ।
नन्दकोऽयमनिस्त्रिंशः सम्मतो मम शत्रुजित् ॥ २२-४७॥
जैत्रं ध्वजमिवोदग्रमेनमाहितलक्षणम् ।
अनुयात दिशो जेतुमस्त्रवेदमिवापरम् ॥ २२-४८॥
वनसिंहनयाद् गुप्तिर्मानतर्कक्रमादपि ।
परस्परपुरस्कारात् भवित्री भवतामिह ॥ २२-४९॥
अपि युष्माभिरेतावदहङ्कारग्रहोज्झितैः ।
अङ्गीकृतममुह्यद्भिरातुरैरिव भेषजं (भोजनम्)॥ २२-५०॥
इति सूक्तिसुधां पीत्वा शौरिवक्त्रेन्दुनिस्सृताम् ।
सहसा नरदेवास्ते सौमनस्यं प्रपेदिरे ॥ २२-५१॥
तदुक्तिं शुकवत् सर्वे सँल्लपन्तः परस्परम् ।
प्रहर्षमदधुस्तस्य प्रविष्टा नीतिपञ्जरम् ॥ २२-५२॥
तृषितैरिव ते श्रोत्रैः सम्भू(भृ)तश्रुतिसौरभाम् ।
पपुः प्रियहितां तस्य परिशुद्धां सरस्वतीम् ॥ २२-५३॥
असन्देहविपर्यासामसङ्कीर्णहिताहिताम् ।
त्रयीमिव गिरं तस्य मानयन्ति स्म ते नृपाः ॥ २२-५४॥
अथ यादवयूथेन सहितः संयुगप्रियः ।
सात्यकिः प्रचितोत्तंसः प्रतस्थे भर्तुराज्ञया ॥ २२-५५॥
धर्मगुप्तिकृतादेशः स मेने मधुवैरिणा ।
अपृथक्त्वमिवापन्नमन्यदायुधपञ्चकम् ॥ २२-५६॥
स्वकेतुकल्पनापूर्वं नियुक्तं हरिणा स्वयम् ।
तमेव तादृशाकारं तममन्यन्त यादवाः ॥ २२-५७॥
स वीरः शासनं भर्तुः शिरस्त्राणमिवोद्वहन् ।
अमन्यत जितप्रायाः सह दिक्पतिभिर्दिशः ॥ २२-५८॥
पयोधिं तर्णकपदं पर्वतं सिकतामयम् ।
पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ २२-५९॥
प्रयाणपटहस्तस्य प्रलयाम्बुदडम्बरः ।
नूनमानर्तयामास भुवं सह पयोधिभिः ॥ २२-६०॥
प्रयान्ती पृतना सद्यः प्रणादैर्द्यामपूरयत् ।
वैरिवासकसज्जानां गणैरप्सरसामपि ॥ २२-६१॥
अधिरुह्य रथं जैत्रं स बभौ तार्क्ष्यसन्निभम् ।
जिगीषितदिशाचक्रश्चक्रपाणिरिवापरः ॥ २२-६२॥
दिव्यदुन्दुभिघोषेण पुष्पवर्षेण भूयसा ।
अशरीरिजयोक्त्या च तेन जज्ञे जितं जगत् ॥ २२-६३॥
स विष्णुरिव विक्रान्त्या बलिध्वंसोद्यतो बली ।
सुषुवे त्रिषु लोकेषु कीर्ंइत त्रिपथगामिव ॥ २२-६४॥
ततो बुद्बुदफेनाभैः प्रचितां छत्रचामरैः ।
निनाय पृतनां प्राचीं गङ्गामिव भगीरथः ॥ २२-६५॥
पृतनासागरौघेन पालयन् सागराम्बराम् ।
वीरो वेतसवृत्तीनां न भङ्गमभिसन्दधे ॥ २२-६६॥
महद्भिरपि तत्सैन्ये सम्पतद्भिः सुहृद्बलैः ।
न वृद्धिरभवद् दृश्या वर्षतोयैरिवाम्बुधौ ॥ २२-६७॥
अशोभत पताकाग्रैरग्रहस्तैरनीकिनी ।
निर्दिश्य गणयन्तीव जेतव्यविषयान् निजैः ॥ २२-६८॥
तमीदिवसयोस्तत्र पृथिव्याकाशयोरपि ।
समपद्यत तादात्म्यं सैन्यरेणुसमुत्थितम् ॥ २२-६९॥
असूचीमुखभेद्यं तत् अचन्द्रार्कप्रतिक्रियम् ।
रुरोध द्विषतां दृष्टिं रजसा जनितं तमः ॥ २२-७०॥
अप्रतीपमरुत्क्षिप्तः परागः प्रसरन् पुरः ।
आसन्नविनिपातानां वैवर्ण्यमदिशत् द्विषाम् ॥ २२-७१॥
धूमकम्बलसान्द्रेण रेणुना गगनस्थली ।
नमन्तीं सैन्यभारेण शनैरनुजगाम गाम् ॥ २२-७२॥
पृथिवीं वर्धयन्तीव पृतना खण्डयन्त्यपि ।
परागैः पूरयामास खातं सगरजन्मनाम् ॥ २२-७३॥
ध्वजपल्लविता सेना शस्त्रपुष्पा परागिणी ।
बभौ चञ्चूर्यमाणेव मृत्योरुपवनस्थली ॥ २२-७४॥
सा नूनमनुकुर्वाणा सिन्धुपत्न्यौ सितासिते ।
कुटिलप्रतिकूलर्द्धि(र्द्धिः)कूलङ्कषगतिर्ययौ ॥ २२-७५॥
विश्वतःप्रसृतिस्तस्या बभूव बहुपद्धतेः ।
वाहबन्धनकीलानामपर्याप्तवनद्रुमा ॥ २२-७६॥
अविच्छिन्नगुणांश्चक्रे निस्त्रासान्निजसेनया ।
हारानिव भुवः शुद्धान् अग्रहारान् परार्पितान् ॥ २२-७७॥
अनाश्रमपदासन्नामभीषितकृषीवलाम् ।
अनैषीन्महतीं सेनामविरुन्धानगोपनीम् ॥ २२-७८॥
स्वदेशादविशेषेण स्वीकृते शत्रुमण्डले ।
न योधा जगृहुस्तत्र किञ्चिदस्वामिसम्मतम् ॥ २२-७९॥
विहारास्तस्य जन्येषु विमतानेव निघ्नतः ।
समं ददृशिरे देवैस्तत्तज्जानपदैरपि ॥ २२-८०॥
अदीनसत्त्वः शत्रूणां दीनसंरक्षणव्रती ।
अन्वकम्पत धात्रीभिरुपनीतान् स्तनन्धयान् ॥ २२-८१॥
अदृष्टसैन्यरजसामबाणस्पर्शवेदिनाम् ।
पश्यन् क्वचिदमित्राणां स जिह्राय पलायनम् ॥ २२-८२॥
स मिथश्शौर्यसङ्घर्षादरातीन् अभिनिघ्नतः ।
पुनरुद्दीपयामास सत्कारेण गरीयसा ॥ २२-८३॥
क्रोधपावकदीप्तानां हेतीनां यदुपुङ्गवाः ।
विदधुस्तत्र वैरिस्त्रीबाष्पतोयेन सेचनम् ॥ २२-८४॥
निहतप्रतिमातङ्गदन्तत्सरुपरिष्कृतान् ।
द्विषतां मौलिशाणेषु खड्गान् मुहुरशातयन् ॥ २२-८५॥
शस्त्रधाराधरैस्तत्र विक्रमारण्यबर्हिणीम् ।
विपुले भुजशैलाग्रे वीरश्रियमनर्तयन् ॥ २२-८६॥
नियतं हेतयस्तेषां निपीते वह्निवारिणी ।
निदधुः शत्रुनारीणां चित्तेषु नयनेषु च ॥ २२-८७॥
अलभन्त क्षणात् तेषां पुरतः परिपन्थिनः ।
धनुषा नमता स्वर्गं वपुषा तु वसुन्धराम् ॥ २२-८८॥
घूर्जरान् पारशीकांश्च प्रागेव भृतकीकृतान् ।
अपश्चात्पदविन्यासान् अकरोदग्रयायिनः ॥ २२-८९॥
मध्यदेशं वशीकृत्य योगीव प्रथमं मनः ।
प्रत्यन्तबहिरक्षाणि त्याजितार्थान्यथा(र्थानि सोऽ)करोत् ॥ २२-९०॥
गृहीतचरमाभ्भोधीन् गरुत्मानिव जग्रसे ।
धन्विनस्तुरगोपेतान् विमुखान् भुजगानिव ॥ २२-९१॥
यदवस्तत्र निस्त्रासा यवनैः स्तनयित्नुभिः ।
शैला इव दधुर्भीमां शरवृष्टिमुदीरिताम् ॥ २२-९२॥
रक्तचन्दनदिग्धास्ते यशोभिः स्रग्विणस्तदा ।
जयश्रीपरिरम्भार्थं नैपथ्यमिव भेजिरे ॥ २२-९३॥
कपिचूषिततालभैः कृत्तैर्यवनमूर्धभिः ।
ददृशे कालभृत्यानां दत्तपिण्डेव मेदिनी ॥ २२-९४॥
पीते यवनसैन्याब्धौ तत्कोपबडबाग्निना ।
शकाद्याः शरणं जग्मुः शङ्कातङ्केनसात्यकिम् ॥ २२-९५॥
प्रवाळपल्लवास्तीर्णां रत्नपुष्पौघकर्बुराम् ।
विहारपदवीं मेने वेलामपरवारिधेः ॥ २२-९६॥
प्रचेतसाऽपि दुष्प्रापैः प्रवालमणिमौक्तिकैः ।
तं पोतवणिजस्तत्र प्रभूतैः पर्यतोषयन् ॥ २२-९७॥
निर्धूतनिगमांस्तत्र नैगमान् अपरान्तजान् ।
स वैद्य इव दुर्व्याधीन् दुर्जयान् अजयद् विभुः ॥ २२-९८॥
विहरन् वारुणीभाजा स वीरो विजयश्रिया ।
बभूव बर्बरस्त्रीणां परिदेवनदेशिकः ॥ २२-९९॥
उदनह्यन्त वार्ष्णेयाः कुन्तलान् समरश्लथान् ।
प्रवाळैरपराम्भोधेरान्त्रैरिव समुद्धृतैः ॥ २२-१००॥
ततो विलुलितम्लेच्छः पश्चिमोदधिवेलया ।
अनिलप्रेयसीमाशाममनुष्यपदं ययो ॥ २२-१०१॥
हारीतहरितैस्तत्र महार्घैर्मणिराशिभिः ।
गृहीतैरन्वगृह्यन्त तेन पोतोपजीविनः ॥ २२-१०२॥
पश्चिमां दिशमाक्रम्य प्राङ्मुखं रथमास्थितम् ।
विपरीतगतिं सूर्यमुदीच्यास्तमजानत ॥ २२-१०३॥
स कृष्णवर्त्मविहृतिर्युगान्त इव संयुगे ।
अमित्रलोकमदहत् दीप्तहेतिगणोल्बणः ॥ २२-१०४॥
अनभ्रविद्युत्प्रतिमाः सायकास्तस्य धन्विनः ।
अभवन् हूणनारीणामश्रुवर्षपुरस्सराः ॥ २२-१०५॥
द्विषतो देवदृश्येषु रणरङ्गेषु दीव्यतः ।
ताण्डवं ग्राहयामास निपातितशिरोधरान् ॥ २२-१०६॥
अपरस्परसापेक्षान् अतूणीरप्रकाशकान् ।
अशंसत् प्रतियोधानप्यवधीरितजीवितान् ॥ २२-१०७॥
महान्तो मण्डलं चेरुर्मध्येप्रतिबलं द्विपाः ।
प्रलयोदन्वदावर्ते भ्रमन्त इव पर्वताः ॥ २२-१०८॥
तत्र सैन्यरजश्चक्रे प्रतीचीरपि वाहिनीः ।
असमाहितबुद्धीनां चित्तवृत्तीरिवाऽऽविलाः ॥ २२-१०९॥
त्रासमुक्तं पुनस्तत्र सिन्धुकाम्भोजयोषिताम् ।
अश्रुबिन्दुभिराबन्धि मौक्तिकस्तनमण्डनम् ॥ २२-११०॥
अकृष्टपच्यघुसृणामच्छिन्नौघमहापगाम् ।
अघर्मग्लपितारण्यामनघां भुवमन्वभूत् ॥ २२-१११॥
अश्वीयखुरनिष्पिष्टभूधरक्षोदभूयसा ।
राजवीथीसमां चक्रे रजसा वालुकां नदीम् ॥ २२-११२॥
ग्रामणेरिव तैस्तस्य सैनिकैरवरोधिताः ।
स्त्रियः पुरुषधर्माणः स्त्रीत्वमेवोपलम्भिताः ॥ २२-११३॥
बलेन महताऽऽस्कन्द्य मैनाकपितरं गिरिम् ।
प्रलयोदन्वदारोहमाकालिकमलम्भयत् ॥ २२-११४॥
समाजमिव शैलानां विश्वरूपमिव प्रभुम् ।
उत्तम्भनमिव व्योम्नः स निदध्यौ सकौतुकम् ॥ २२-११५॥
श्वशुरं भूतनाथस्य स्कन्दमातामहं गिरिम् ।
प्रसूतिं सर्वरत्नानां पृथिवीधेनुतर्णकम् ॥ २२-११६॥
गृहीतास्त्याजितत्रासा मेनापतिवनौकसः ।
मार्गमादिदिशुस्तस्य वह्नेरिव समीरणाः ॥ २२-११७॥
तमारुह्य निरैक्षन्त जिघृक्षन्त इवान्धकाः ।
विकल्पितरवीन्द्वग्नीन् मेरुकैलासमन्दरान् ॥ २२-११८॥
ददृशे (ददर्श)गगनं तत्र दिवाऽपि व्यक्ततारकम् ।
गौरीहारमणिप्रख्यैर्गङ्गानिर्झरशीकरैः ॥ २२-११९॥
सुभगां किन्नरीणां च स्वगुणामोदमेदुराम् ।
गीतिं निशामयामासुः(स)गजशार्दूलकर्षणीम् ॥ २२-१२०॥
गुहासु यमिनां मेने सैन्यघोषमशृण्वताम् ।
शृण्वतामपि सिंहानां समं सामिनिमीलनम् ॥ २२-१२१॥
अपश्यत् तत्र(श्यंस्तत्र)दूरस्थमन्तिकस्थमिवोन्मुखः ।
कैलासं किन्नरेन्द्रस्य कीर्तिकन्दमिवोत्थितम् ॥ २२-१२२॥
चमरान् सिंहशाबांश्च गन्धनाभिमृगानपि ।
जगृहुस्तत्र वार्ष्णेयाः प्रियासम्प्रीणनार्थिनः ॥ २२-१२३॥
गुञ्जाहारभृतः श्यामा बर्होल्लासितकुन्तलाः ।
प्रवालवसनाः प्रेक्ष्य जहसुः शबराङ्गनाः ॥ २२-१२४॥
शिखरांसपरिष्कारैः सैन्यद्विपमदैर्बभौ ।
कल्कितः क्ष्माभृतां नाथः कस्तूरीस्थासकैरिव ॥ २२-१२५॥
श्रुत्वा गिरिगुहानूक्तं तत्सैन्यगजगर्जितम् ।
अपि सिंहाः पलायन्त वन्यद्विरदभेदिनः ॥ २२-१२६॥
प्रदीप्तरत्नशिरसं प्रालेयपरिपाण्ड(ण्डु)रम् ।
प्रदक्षिणं व्यतीयाय शेषयित्वा महीधरम् ॥ २२-१२७॥
अथ कस्तूरिकामोदैरधिवासितभूधरान् ।
यशसाऽऽवास्य नेपालान् यदुवीरः स्वदेशयत् (न् )॥ २२-१२८॥
पर्वतेन्द्रप्रतिनिधीन् प्रागुत्तरमहीधरान् ।
सुप्रतीकविषाणाग्रैरवैक्षत गवाक्षितान् ॥ २२-१२९॥
द्वीपपर्वतदुर्गेषु द्विपसिंहनिभान् द्विषः ।
सङ्ग्राममृगयास्थायी जग्राह च जघान च ॥ २२-१३०॥
प्रभञ्जन इवाम्भोदान् पक्षीन्द्र इव पन्नगान् ।
प्राच्यान् प्रच्यावयामास पञ्चवक्त्र इव द्विपान् ॥ २२-१३१॥
शोषितप्राच्यजलधिः शौर्यबाडबवह्निना ।
ससर्ज तद्वधूचित्तेष्वशोष्यं शोकवारिधिम् ॥ २२-१३२॥
यदूनां हेतयस्तत्र शत्रुशोणितपाटलाः ।
प्रतापज्वलनज्वालासम्पदं प्रतिपेदिरे ॥ २२-१३३॥
कृपाणिकाभिः कुकुराः कम्पिताभिरकम्पयन् ।
द्विषतां तद्वधूनां च चित्तदक्षिणलोचने ॥ २२-१३४॥
विजह्रुर्यादवास्तत्र विबुधस्त्रीवरप्रदाः ।
शराणां लक्षदातारः शत्रुसम्मतविक्रमाः ॥ २२-१३५॥
(यादवास्तत्र शत्रूणां कृत्तेषुं (षून्)नूनमप्रतीन् ।
आशातधान्वा दृश्येषु शिरोजालेषु सायकान् ॥
(अधिज्यधन्वा व्यकिरत् शिरोजातेषु सायकान् )
विक्रमप्रभवे तेषां विजयश्रीस्वयंवरे ।
वन्दिकृत्यं द्विषश्चक्रुरप्सरोभिः स्वयंवृताः ॥ २२-१३६॥
रमापतिपदोत्पन्नां रत्नाकरपतिंवराम् ।
पुण्यां सरितमासीदत् पुरभिन्मौलिमालिकाम् ॥ २२-१३७॥
स मेने जाह्नवीं यान्तीमर्थमेकमिवार्णवम् ।
प्रवाहैर्बहुधा भिन्नैर्भाषाभिरिव भारतीम् ॥ २२-१३८॥
कृपाणधारातीर्थेन शोधयित्वा कृतागसः ।
त्रिदिवं प्रापयामास वङ्गांस्त्रिपथगान्तरे ॥ २२-१३९॥
विक्षिपन् भुवि निस्त्रिंशो वक्त्रपुष्पाणि वैरिणाम् ।
रणरङ्गनटस्यास्य सूत्रधार इवाभवत् ॥ २२-१४०॥
सैन्यदन्तिमदोपेतैः शत्रुस्त्रीबाष्पकज्जलैः ।
गङ्गां रविसुतां चक्रे यशसा तां च तन्मयीम् ॥ २२-१४१॥
आत्तसारा द्विषस्तत्र मुक्तास्तेन महीयसा ।
अदृश्यन्त यथापूर्वं दन्तिभुक्तकपित्थवत् ॥ २२-१४२॥
पृथुवीचिगणां तीर्त्वा पृथिवीसहजां नदीम् ।
बाधिताशेषगौडेन बलेनार्णवमाद्रवत् ॥ २२-१४३॥
अलभन्त महीपालाः पुरतस्तस्य निर्भयाः ।
नतेन धनुषा नाकं वपुषा च वसुन्धराम् ॥ २२-१४४॥
विशन्तो वाहिनीं तस्य त्रिस्रोतसमिवापराम् ।
त्रिदिवं प्रत्यपद्यन्त प्रतियोधा निरागसः ॥ २२-१४५॥
कुटिलान् प्रगुणीकृत्य स्वनामाक्षरभूषितान् ।
जङ्गमान् दर्शयामास जयस्तम्भान् महीतले ॥ २२-१४६॥
शालीनिव सतस्त्रातुं तत्र तत्र प्ररोहतः ।
यवसौघनिभान् याप्यान् उज्जहार यदूद्वहः ॥ २२-१४७॥
प्रतापाग्निं पुरस्कृत्य भुव(भूय)स्सागरवाससः ।
वेलावलयसम्पन्नं करं जग्राह तत्र सः ॥ २२-१४८॥
पुरन्दरसमः पूर्वं जित्वा पौरन्दरीं दिशम् ।
दीक्षितः सत्परित्राणे दक्षिणाभिमुखोऽभवत् ॥ २२-१४९॥
उपदीकृत्य सर्वस्वमुपसन्नयदूद्वहाः ।
प्राचीमविकलामृद्धिमुत्कलाः प्रतिपेदिरे ॥ २२-१५०॥
प्रहितानथ कालिङ्गैः पन्थानमुपरुन्धतः ।
रुरोध सिंहनादेन यदुसिंहः स सिन्धुरान् ॥ २२-१५१॥
स तान् गैरिकरक्ताङ्गान् सप्तधा स्रुतनिर्झरान् ।
जङ्गमानिव विन्ध्यादीन् जगृहे गन्धहस्तिनः ॥ २२-१५२॥
प्रतियुध्य परिश्रान्तान् गृहीत्वा गजयोधिनः ।
चक्रलिङ्गधरांश्चक्रे कालिङ्गान्किङ्करीकृतान् ॥ २२-१५३॥
स तेषामपि सामन्तान् आहूतान् विन्ध्यदुर्गतः ।
दक्षान् द्विरदशिक्षायां चक्रे निजनिषादिसात् ॥ २२-१५४॥
वैरिवारणमूर्धन्यैर्मौक्तिकैर्लाजतां गतैः ।
रणाग्निर्दर्शयामास व्यूढां तेन जयश्रियम् ॥ २२-१५५॥
दारितद्विरदांस्तत्र सिंहानिव महाजवान् ।
ननन्द स्वभटान् दृष्ट्वा नखरश्रितमौक्तिकान् ॥ २२-१५६॥
विपक्षान् भूभृतस्तत्र कुर्वता निर्विचेष्टितान् ।
देवो हरिहयस्तेन द्विरूपत्वमिवान्वभूत् ॥ २२-१५७॥
अपर्युषितपानीयामनघस्रोतसं शुभाम् ।
गङ्गामिव विभक्ताङ्गीं प्राप गोदावरीं ततः ॥ २२-१५८॥
अशालीनमनस्त्वेऽपि स्वाश्रितत्राणमिच्छताम् ।
आन्ध्राणामात्मदातॄणां ददावभयदक्षिणाम् ॥ २२-१५९॥
पतिरक्षणतुष्टानां स्वगुणग्रथिताक्षरैः ।
आन्ध्रेश्वरपुरन्ध्रीणां सङ्गीतैः प्रत्यनन्द(न्द्य)त ॥ २२-१६०॥
आद्यं द्रमिडदेशानां तुण्डीरमथ मण्डलम् ।
विवेश भूषितं यूपैर्वेधसो वाजिमेधिकैः ॥ २२-१६१॥
क्षिप्तदोषः स तं देशं क्षीरसिन्धुगुणाधिकम् ।
शुद्धधर्मपरिष्कारं श्वेतद्वीपममन्यत ॥ २२-१६२॥
परित्यक्तपथांस्तत्र स काञ्चीकटकत्यजः ।
आहूय स्थापयामास धर्म्यान् धर्मधुरन्धरः ॥ २२-१६३॥
प्रलोभयन्तीं ललितैस्ततः प्रथमलक्षितैः ।
दर्शनीयेषु चोलेषु दिदृक्षामन्ववर्तत ॥ २२-१६४॥
अथ कन्यां कवेरस्य ददर्श कनकाश्रिताम् ।
अपदिष्टनदीरूपाममृतस्येव देवताम् ॥ २२-१६५॥
उदारलहरीलास्यां ललितावर्तरासिकाम् ।
रसिकः प्रैक्षत नदीं रङ्गपर्यन्तनर्तकीम् ॥ २२-१६६॥
रथसेतुनिरुद्धा सा रत्नाकरमनोरथात् ।
अवरुह्य जगामेव सह्यस्य पितुरन्तिकम् ॥ २२-१६७॥
दक्षिणापथगङ्गायाः स तस्या दिव्यसम्पदः ।
ददौ रविसुताश्लेषं दानवर्षेण दन्तिनाम् ॥ २२-१६८॥
जननीमिव तां लक्ष्म्याः पाथोनिधिपतिव्रताम् ।
नियमैरुचितैर्भेजे निगमख्यातवैभवाम् ॥ २२-१६९॥
यशोभिस्सह चोलानामिक्षुनिष्यन्दसम्मितं (निभम्)।
पयः सह्यपयस्विन्याः पपुर्यादवयूथपाः ॥ २२-१७०॥
जहसुर्जागरूकास्ते जङ्घालगुणशालिनाम् ।
दृष्ट्वा द्रमिडयोधानामवस्कन्दमनोरथम् ॥ २२-१७१॥
त्रिविष्टपनिभांस्तत्र दृष्ट्वा जनपदान् बहून् ।
अचमत्कारमन्येषु भूमिभागेष्वधत्त सः ॥ २२-१७२॥
तत्र दर्पममित्राणां मित्राणामपि साध्वसम् ।
अखण्डयदपर्यायात् अत्याखण्डलविक्रमः ॥ २२-१७३॥
रङ्गमात्मभुवस्तत्र रम्यनिर्माणमातृकाम् ।
अनन्तपीठिकारूढमभ्यर्च्य मुदितो ययौ ॥ २२-१७४॥
दिवाऽपि दीपसापेक्षं गहनं संश्रितान् गजैः ।
स चोरांश्चूर्णयामास चोलपाण्ड्योपघातिनः ॥ २२-१७५॥
रम्यपत्तनसम्बाधां रत्नसैकतशोभिनीम् ।
व्यलोकयत सम्प्रीतो वेलाविपिनपद्धतिम् ॥ २२-१७६॥
मैनाकमहसा दीप्तं सेतुसीमन्तितोदकम् ।
दमितं रघुवीरेण ददर्शाब्धिं स दक्षिणम् ॥ २२-१७७॥
परिखां प्रेक्ष्य लङ्कायाः पयोधिं प्रजहर्ष सः ।
ताराभूषितदेहस्य त्रिदिवस्येव दर्पणम् ॥ २२-१७८॥
सहसोत्पततां तत्र धन्विनो लघुविक्रमाः ।
उदधिं दन्तिनक्राणां कुम्भरत्नै(क्तै)रपूरयन् ॥ २२-१७९॥
गगनं च निरालम्बमगाधं च महोदधिम् ।
वीक्ष्य ते बह्वमन्यन्त हनूमन्तं गतागतम् ॥ २२-१८०॥
स भेजे सरितां पत्युः पुलिनं वृष्णिपुङ्गवः ।
आसीदविधवा गङ्गा प्रसन्ने यत्र राघवे ॥ २२-१८१॥
व्यलोकत च विस्मेरो लङ्कागोपुरमुत्तरम् ।
रघुवीरशरव्रातपरिकल्पितजालकम् ॥ २२-१८२॥
परिभूतरवस्तस्य सैन्यघोषेण सागरः ।
अधिकं क्षोभमापन्नस्त्रासभिन्न इवाभवत् ॥ २२-१८३॥
तमालान् प्रतिमातङ्गत्रासादालानमण्डलान् ।
ममृदुर्नूनमावार्य मदान्धा गन्धसिन्धुराः ॥ २२-१८४॥
नलसेतुं ततो नीत्वा दृष्टमुक्तानदीमुखः ।
वीरो विश्रमयामास दुर्निवारां वरूथिनीम् ॥ २२-१८५॥
कृतव्यावर्तनास्तत्र केतकीरेणुरूषिताः ।
द्विषः स्कन्धांश्च दुधुवुर्हयास्तुमुलहेषिताः ॥ २२-१८६॥
धनुषा शार्ङ्गभीमेन सामिविष्फारितेन सः ।
लज्जितोदधिघोषेण लङ्काद्वीपमकम्पयत् ॥ २२-१८७॥
प्रतापदूतवशगाः प्राज्यरत्नोपहारिणः ।
अजीवन् यदुसिंहस्य पादमाश्रित्य सिंहलाः ॥ २२-१८८॥
महतीमुपदां तेषां द्विपरत्नादिशालिनीम् ।
स सङ्गृह्य पुनश्चक्रे न मनः सेतुबन्धने ॥ २२-१८९॥
द्विरदान् सिंहलेन्द्रस्य द्विचतुर्दन्तशोभिनः ।
पोतभूतांस्त्रिकूटस्य पोतानीतान् अमन्यत ॥ २२-१९०॥
यशोरत्नाकरस्तस्य बभौ पाण्ड्यसमर्पितैः ।
सैन्यकञ्चुकपर्याप्तैर्मुक्तापुलिनमण्डलैः ॥ २२-१९१॥
सोमवंशभुवां तत्र भूभृतां यदुपुङ्गवः ।
सयूथ्यभावमुद्भाव्य शङ्काज्वरमपानुदत् ॥ २२-१९२॥
स मारुतिपदन्यासादञ्चिताग्रामधित्यकाम् ।
प्रभुः प्रदक्षिणीचक्रे महेन्द्रस्य महीभृतः ॥ २२-१९३॥
उपभुक्ता बभौ तेन मलयस्य वनस्थली ।
सैन्यसम्मर्दसम्भूतैरेलाचन्दनसौरभैः ॥ २२-१९४॥
पतगेन्द्रध्वजत्रासात् भ्रष्टकुण्डलितात्मनाम् ।
जगृहुर्यादवास्तत्र फणारत्नानि भोगिनाम् ॥ २२-१९५॥
पृतनां तस्य सम्प्रेक्ष्य पृषद्भावितसागराम् ।
मानमात्मनि तत्याज मलयाश्रमतापसः ॥ २२-१९६॥
मरुतस्तत्र नागानां मृदितैलासुगन्धयः ।
चन्दनद्रुमसक्तानां प्रीतिकोपकृतोऽभवन् ॥ २२-१९७॥
पटीरस्कन्धविषयास्तत्र तेषां भुजङ्गमाः ।
अभजन्त फणारत्नैरवातक्षोभ(क्षेप)दीपताम् ॥ २२-१९८॥
मुक्ताभरणभूयिष्ठा रत्न(क्त)चन्दनरञ्जिता ।
चकाशे यादवी सेना सतारेव पितृप्रसूः ॥ २२-१९९॥
निदाघमिव पर्जन्यो निरासे सात्यकिः परम् ।
प्रयुक्तैरग्रतो नागैः प्रावृषेण्यैरिवाम्बुदैः ॥ २२-२००॥
युगपत् प्रत्यविध्यन्त युद्धे तस्य शरैर्द्विषः ।
अपाङ्गैश्च सुरस्त्रीणामसितोत्पलमेचकैः ॥ २२-२०१॥
शस्त्रकेलिं परित्यज्य स्वकान्ताकेशभङ्गुराम् ।
जगृहुः केरलास्तत्र जैत्रमस्त्रमिवाञ्जलिम् ॥ २२-२०२॥
अदूरावस्थितो रामस्तत्र वृष्णिवरूथिनीम् ।
शशङ्के विस्मयाविद्धः सप्तार्णवसमाहृतिम् ॥ २२-२०३॥
भुग्नभागस्ततः सह्यस्तदाक्रमणयन्त्रितः ।
प्रणिनंसुरिवाबोधि पर्यस्तशकटोपमः ॥ २२-२०४॥
अग्रस्कन्धेन गोकर्णं महेन्द्रमपि मूलतः ।
अवस्कन्द्य यदुश्रेष्ठः स्कन्धावारं न्यवीविशत् ॥ २२-२०५॥
जित्वा सह्याश्रितं वीरो जामदग्न्य इवापरः ।
दूरमुत्सारयामास द्विषद्बलमहार्णवम् ॥ २२-२०६॥
चारुचन्दनसम्पन्नशैलस्तनमनोहराम् ।
बुभुजे दक्षिणामाशां मौक्तिकाकरमेखलाम् ॥ २२-२०७॥
तत्र वेलानिलोद्धूतराजतालरवान्वितम् ।
स्वर्गीतं स्वादु शुश्राव भुजङ्गस्त्रीमुखोदितम् ॥ २२-२०८॥
चोलकेरलपाण्ड्यानां पश्यन् अनुगतिं प्रभुः ।
चकार पुनराधानं धर्म्यं हुतभुजामिव ॥ २२-२०९॥
कालदृष्टिकरालाभिरुल्काभिरिव हेतिभिः ।
दुर्मदद्विरदोदग्रान् त्रासयामास तौलुवान् ॥ २२-२१०॥
खेटकर्परगूढाङ्गान् कीलयित्वा शरैर्द्विषः ।
स्थलकूर्मैरिवाकीर्णं चकार रणभूतलम् ॥ २२-२११॥
शरैरभ्यर्चितास्तेन कोङ्कणाः समराङ्कणे ।
पुष्पवृष्टिभिरानर्चुस्तमेव त्रिदशीकृताः ॥ २२-२१२॥
कु पिताः कोङ्कणस्त्रीणां गण्डूषमधुगर्भितान् ।
बभञ्जुरमितामोदान् वकुलान् वृष्णिकुञ्जराः ॥ २२-२१३॥
प्रमादानिव तान् सप्त देशान् अतिपतन् प्रभुः ।
स ममर्द महाराष्ट्रं सैन्यदक्षिणभागतः ॥ २२-२१४॥
अपश्यद् ऋश्यमूकान्ते शेषमौलिमणिप्रभाम् ।
रामसायकरन्ध्रेण निस्सरन्तीं नभस्स्पृशम् ॥ २२-२१५॥
कामक्रोधाविवास्कन्द्य सह्यविन्ध्यौ समाहितः ।
विजिग्ये विषमांस्तत्र विषयान् सत्त्वमास्थितः ॥ २२-२१६॥
चापघोषेण निर्भिन्नचक्रवालाद्रिसन्धिना ।
कुञ्जलीनान् द्विषस्तत्र दिवाभीतान् अभे(भी)षयत् ॥ २२-२१७॥
अवन्ध्यतपसा विन्ध्यः स्तम्भितः कुम्भजन्मना ।
यदुपुङ्गवमातङ्गैर्वर्धमान इवाभवत् ॥ २२-२१८॥
सूर्यरोधितरुच्छन्नां असूर्यम्पश्यवीचिकाम् ।
सोमवंश्याः सुधां तत्र पपुः सोमसमुद्भवाम् ॥ २२-२१९॥
तेषां विहरतां तत्र शिञ्जिनीबद्धरावणाम् ।
कार्तवीर्यजलक्रीडां कथयन्ति स्म तापसाः ॥ २२-२२०॥
नगरीं हेहयेन्द्रस्य कारार्पितदशाननाम् ।
नलादीनां च शिथिलां सनिर्वेदमदर्शयन् ॥ २२-२२१॥
रथवाजिपदक्षुण्णविन्ध्यमस्तकरेणुभिः ।
रेवामाचामयामास रिपुस्त्रीबाष्पवर्धिताम् ॥ २२-२२२॥
ववृधे समरस्तत्र सुभग(ट?)स्वर्गसङ्क्रमः ।
सिद्धगन्धर्वयूथानां चित्तताण्डवदेशिकः ॥ २२-२२३॥
स्फुलिङ्गैः खड्गनिष्पिष्टदन्तदम्भोलिसम्भवैः ।
आसीत् द्विरदमेघानामचिरद्युतिकल्पना ॥ २२-२२४॥
सव्यालमृगसङ्कीर्णा रम्यतुङ्गरथद्रुमा ।
विससर्प चमूस्तत्र विन्ध्यवन्येव जङ्गमा ॥ २२-२२५॥
तालद्वयसजङ्घाग्र्याः कुम्भैरुत्तम्भिताम्बराः ।
गर्जितैस्त्रासयामासुर्गजा वनमतङ्गजान् ॥ २२-२२६॥
बलयन्त्रणया तत्र गृहीतैर्विपिनद्विपैः ।
व्यवर्धयत तां सेनां विन्ध्यपादैरिवोन्नतैः ॥ २२-२२७॥
यूथैर्द्विरदशैलानां कनत्कदलिकावनैः ।
अन्तरं पूरयामास विन्ध्यनीहारभूभृतोः ॥ २२-२२८॥
अरातिवनितानेत्रैरश्रुधाराधरैरिमाम् ।
वीरो वसुमतीमित्थं विदधे देवमातृकाम् ॥ २२-२२९॥
धर्मयूपनिभैस्तस्य जयस्तम्भैः समन्ततः ।
प्ररूढाद्भुतरोमाञ्चा प्रत्यभासत मेदिनी ॥ २२-२३०॥
जिताशेषविपक्षस्य बद्धमुक्तावभासिनी ।
अभवत् ककुभां तस्य कीर्तिः श्रवणभूषणम् ॥ २२-२३१॥
इति ग्राह्यकराश्चक्रे हरितो हरितोषकृत् ।
वीरः सुरभिणा स्वेन यशसाऽऽवासिताम्बराः ॥ २२-२३२॥
हृतसर्वस्वदीनानां व्रीडामपनुदन्निव ।
अदिशत् क्षौममाशानां यशोभिर्हंसलक्षणैः ॥ २२-२३३॥
स चक्रवत् परिक्रम्य क्षमाचक्रमरिन्दमः ।
क्षपयित्वा रिपून् सर्वान् शौरिपार्श्वं पुनर्ययौ ॥ २२-२३४॥
सैन्यसिन्धुपथस्तस्य स्थलीशेषितकण्टकः ।
विदधे विस्मयोन्निद्रप्रीतिकण्टकितां भुवम् ॥ २२-२३५॥
तमेवमखिलामाशां परिक्रम्योदयस्थितम् ।
प्रद्योतनसमं पौराः प्रहृष्टाः प्रत्युपासत ॥ २२-२३६॥
सैन्यघोषसमाहूतौ ततो हरिहलायुधौ ।
तमभ्याजग्मतुर्दूरादुग्रसेनपुरोगमौ ॥ २२-२३७॥
ददृशे सात्यकिस्तत्र राममुख्यैः सराजकः ।
अन्यैः सह दिशापालैराखण्डल इवापरः ॥ २२-२३८॥
अभिवन्द्य स तान् वन्द्यान् अभिव्यक्तपराक्रमः ।
तदनुप्लवभावेन प्राविशत् द्वारकां पुरीम् ॥ २२-२३९॥
प्रस्थितौ परिमेयानि पश्चादुपचितानि सा ।
जग्रसे यदुसैन्यानि जगन्तीव हरेस्तनुः ॥ २२-२४०॥
अष्टासु दिक्षु विभवैरुपसङ्गृहीतैः
यक्षास्पदप्रहसनी यदुराजधानी ।
सत्यानुभाववसुदेवसुतप्रसत्त्यै
सम्भूतदिक्पतिविभूतिरिवाबभासे ॥ २२-२४१॥
अभ्यर्च्य पूर्वविभवादधिकैः प्रदिष्टैः
नाकाधिपानिव नवोपहृतान् नरेन्द्रान् ।
धर्मानुपालननियोगनिरूढचित्तान्
प्रास्थापयत् प्रतिदिशं प्रथमो यदूनाम् ॥ २२-२४२॥
मणिमकुटसहस्रैर्वासुदेवस्य भूपाः
पदसविधनिषण्णां पादुकामर्चयित्वा ।
प्रतिययुरुपलब्धैः पारिजातप्रसूनैः
सुरभयितुमुपेत्य स्वावरोधान् प्रसाद्यान् ॥ २२-२४३॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये द्विग्विजयो नाम द्वाविंशःसर्गः
॥ भूभारहरणं नाम त्रयोविंशः सर्गः २३॥
अथाधिकारच्यवनात् य इन्द्राः
पञ्चाभवन् पाण्डुसुताः पृथिव्याम् ।
जयार्थिनस्ते जगदेकनाथं
प्रपेदिरे सत्त्वधनाः सदाराः ॥ २३-१॥
तमोपहैस्तत्त्वविदामृषीणां
वाक्यैस्त्रिवेदीमनुसञ्जिहानैः ।
कृ ष्णं यथावत् कृतिनो विदन्तः
तस्याभवन् प्राणसमाः सखायः ॥ २३-२॥
तदाश्रयास्तत्प्रणिधेयकृत्याः
तेनैव नाथेन सदा सनाथाः ।
अपारयन् योगिभिरप्यजय्यान्
बाह्यान्तरान् जेतुमरातिवर्गान् ॥ २३-३॥
प्रतिक्रियाः प्राग्भवदुष्कृतानां
प्राणोपरोधेऽपि निरुद्धपापाः ।
धीरास्त्रिलोकीसुहृदः प्रसादात्
विपाकरम्या विपदः प्रसेहुः ॥ २३-४॥
अलङ्घयन् विश्वपतेः प्रसादात्
वृत्तिं पराचीमिव वीतरागाः ।
अरातिभिश्छद्मविधिप्रवीणैः
आपादितामग्निजलादिपीडाम् ॥ २३-५॥
कलिङ्गनीतिं कलहैकतानां
कर्णं च पार्थेन निबद्धवैरम् ।
आस्थाय दुश्शासनपूर्वजन्मा
धर्मोत्तरान् जेतुमियेष पार्थान् ॥ २३-६॥
स राजसूयक्रतुधर्मपत्नीं
भीमेन गाण्डीवभृता च मान्याम् ।
द्यूतच्छलप्रापितदासभावां
साध्वीं मुधा पर्यभवत् सभायाम् ॥ २३-७॥
अनन्यनाथां स्थितिमाप्नुवत्या
नाथः स्वसम्बोधननामगर्भम् ।
शुश्राव दूरान्तरितोऽपि शौरिः
प्राक्रोशनं पार्थपतिव्रतायाः ॥ २३-८॥
मिथ्याविचारान्मिषतां गुरूणां
प्रभुः सतां पाण्डवधर्मपत्नीम् ।
दुश्शासनव्याकुलितोत्त(तान्त)रीया-
मक्षय्यकौशेयवतीमकार्षीत् ॥ २३-९॥
अवाप्तुकामाः प्रबलैरमित्रैः
अक्षच्छलेनापहृतं स्वराज्यम् ।
निक्षिप्तकर्तव्यभरा बभूवुः
सत्त्वाधिकाः सात्वत(सात्त्विक)यूथनाथे ॥ २३-१०॥
स्वातन्त्र्यगन्धद्विरदाङ्कुशेन
स्वेनैव शीलेन विनीयमानः ।
अनन्यलभ्यं प्रतिलम्भितोऽभूत्
प्रभुः स्वयं पाण्डवदूतभावम् ॥ २३-११॥
स तादृशीमाद्रियत त्रिधामा
प्रेष्यक्रियां प्रेषितदेववृन्दः ।
ननु प्रभूणां निरपेक्षभूम्नां
प्रसाधनं भक्तजने गुणत्वम् ॥ २३-१२॥
अपि प्रभूतानुगुणक्रियाभ्यः
श्लाघापदं तत्त्वविदां बभूव ।
अनन्यतन्त्रस्य विभोस्तदेतत्
नाथोचितं नन्तृषु पारतन्त्रयम् ॥ २३-१३॥
तपस्यतः पुत्रसमुद्भवार्थं
मार्गागतं मोचयतः पिशाचम् ।
अजन्मनो जन्मभृतश्च शौरेः
स्वामित्वसंवादि बभूव दूत्यम् ॥ २३-१४॥
सरोषसीरायुधहेतिशक्त्या
साचीकृतां कौरवराजधानीम् ।
अद्यापि गङ्गासलिलप्रवाहे
प्रक्रान्तपातामिव सम्प्रपेदे ॥ २३-१५॥
खद्योतवत् दर्शितखञ्जदीप्तीन्
प्रज्ञादृशो भूमिभृतः सभायाम् ।
प्राप्तोदयो भानुरिव त्रिधामा
प्रच्छादयामास कुरून् स्वधाम्ना ॥ २३-१६॥
तदागमेन प्रतिपन्नहर्षाः
तद्दर्शनेनाऽऽहितपारवश्याः ।
अतर्कितप्रस्मृतवैरबन्धाः
वृत्तिं द्विषन्तो विदधुर्यथार्हम् ॥ २३-१७॥
उलूखले भक्तगुणे च बद्धं
गुणोत्तरे गोपवधूस्तने च ।
इयेष बन्धुं जगदेकबन्धुं
दुर्योधनो दुस्त्यजमृत्युपाशः ॥ २३-१८॥
प्रकाशयन् किञ्चिदिवाप्रमेयः
प्रभावमात्मीयमनन्यवेद्यम् ।
मुहुः प्रतीपाचरणोत्सुकानां
मोघाशतां मूढधियामकार्षीत् ॥ २३-१९॥
स्ववेदितं संसदि धार्तराष्ट्रे
सन्धित्सतो धर्मसुतस्य वाक्यम् ।
अनाददाने मुरभिन्निवृत्तः
सानुग्रहो विग्रहमन्वमंस्त ॥ २३-२०॥
नरांशजुष्टेन धनञ्जयेन
रथी भवन् सारथिरात्मना च ।
धनुर्भृता तोत्त्रभृता च भेजे
पृथक्त्वमैक्यं च यथाप्रमाणम् ॥ २३-२१॥
रथाधिरूढं च रथं च रक्षन्
यथार्थतो दर्शयति स्म यन्ता ।
त्रय्यन्तचिन्तानिरपेक्षमीशः
तत्तादृशं तत्त्वविभागमाद्यम् ॥ २३-२२॥
पुरःस्थिते गोप्तरि विश्वहेतौ
पश्चादवस्थायिनि तत्प्रवर्त्ये (तन्नियम्ये)।
अनन्ययोगात् स रथो बभार
प्राधीतवेद्यां प्रणवप्रवृत्तिम् ॥ २३-२३॥
प्रभुर्बभौ प्रग्रहतोत्त्रपाणिः
कालात्मना भावितपाशदण्डः ।
यदा, तदा देवगणेन मेने
शान्तं बलं शान्तनवप्रधानम् ॥ २३-२४॥
धुरन्धरः स्वर्गनिकेतनानां
धुर्योत्थितैर्धूसरितो रजोभिः ।
रराज मध्ये रथयूथपानां
गोष्ठे पशूनामिव गोपवेषः ॥ २३-२५॥
समुद्रसङ्घातनिभे नृपाणां
सैन्यद्वये संयति सम्प्रवृत्ते ।
अस्थानकारुण्यवशान्निवृत्तं
धनञ्जयं वीतशुचं वितेने ॥ २३-२६॥
फलादपि स्वादुतमप्ररोहं
प्रोत्साहने सख्युरिवोद्यतः सः ।
जगद्धितार्थाय जगौ दयावान्
अन्यैरविज्ञेयमनन्यधर्मम् ॥ २३-२७॥
चिरन्तनस्नेहदयादिमूलं
चिन्तार्णवं निस्तरतो दुरन्तम् ।
किरीटिनः केशवसूक्तिरासीत्
कालोचिता काचन पोतपात्री ॥ २३-२८॥
अभङ्गुरैर्धौतफलानुषङ्गात्
विद्याशरैर्विश्वगुरोरुपात्तैः ।
विवेकधन्वा विषमान् अजैषीत्
अन्तस्स्थितान् जिष्णुररातिसङ्घान् ॥ २३-२९॥
उपघ्नभूतां श्रुतिवल्लरीणा-
मुपास्त तुष्यन् उपदेशमुद्राम् ।
नखांशुभिः क्षिप्ततमःकलङ्कां
नाथस्य पार्थो नतपूर्वभागः ॥ २३-३०॥
विभक्तसामान्यविशेषधर्मा
प्रादुर्बभूवोपनिषत् प्रभोर्या ।
स एव तां व्यासमुनिः समीचीं
पर्यग्रहीत् भारतवेदवक्ता ॥ २३-३१॥
अभञ्जनीयां परधर्मसत्तां (क्तां)
अनश्वरीं भारतसूर्यदीप्तिम् ।
विदुः श्रुतीनामनघां वयस्यां
गीतामसम्मूढजनाविगीताम् ॥ २३-३२॥
कपिध्वजस्तस्य विभोरपश्यत्
तदर्पितं चक्षुरवाप्य दिव्यम् ।
विरिञ्चि(ञ्च)पूर्वैरपि दुर्निरीक्षं
विश्वाश्रयं रूपमशेषमूर्तेः ॥ २३-३३॥
तस्मिन् अभिव्याप्तसमस्तलोके
स तत्स्वरूपेण विकल्प्यमाने ।
विडम्बितान् गोपुरधारिबिम्बैः
देवान् विभोरैक्षत दिव्यदेहे ॥ २३-३४॥
प्रख्यातदीक्षं प्रणतार्तिभङ्गे
पार्थस्तदा दैत्यरिपुं प्रपन्नः ।
विनाशयामास बलं रिपूणां
विपत्प्रतीकारपरेण सख्या ॥ २३-३५॥
स्वहस्तपद्माञ्चिततोत्त्रपाशः
स्वच्छन्दलीलासहधर्मचारी ।
गतागतैरप्रतिमैः स चक्रे
जयश्रियो जैत्ररथेन डोलाम् ॥ २३-३६॥
सविस्मयः संयति सव्यसाची
तत्तादृशा सारथिना समेतः ।
मनोजवानां निजसायकाना-
मग्रेसरं स्यन्दनमन्वपश्यत् ॥ २३-३७॥
यथा नियच्छत्ययमिन्द्रियाश्वान्
जीवाश्रये देहरथे निबद्धान् ।
तथाऽर्जुनस्यन्दनधुर्यनेता
बभूव नान्येन निदर्शनीयः ॥ २३-३८॥
यदेकदेशे निखिलं तदन्यत्
त(य)द्देहभागेषु च संविभक्तम् ।
रथैकदेशे तमवेक्ष्य पार्थः
प्राबुद्ध तं सारथिमप्रतर्क्यम् ॥ २३-३९॥
निवर्तितं वैरिजनोपमर्दात्
न्यस्तं रथे चक्रमुपाददानः ।
नतप्रतिज्ञानुपरोधहेतोः
आत्मप्रतिज्ञामजहात् स्वतन्त्रः ॥ २३-४०॥
द्विषत्प्रयुक्तं दुरपोहमस्त्रं
भुजान्तरालेन विभुः प्रतीच्छन् ।
विधाय वैकल्पिकवैजयन्तीं
प्रच्छादितं प्राणयति स्म पार्थम् ॥ २३-४१॥
निवेशितां तस्य पदे च पूजां
निशाम्य गङ्गामिव चन्द्र(शम्भु)मौलौ ।
अनन्यसामान्यममंस्त सख्युः
सङ्कोचवैदेशिकमीश्वरत्वम् ॥ २३-४२॥
दिवाकरेऽनस्तमितेऽतिगाढं
तमः सृजंस्तामसमोहनार्थम् ।
प्रपन्नरक्षाप्रतिपन्नदीक्षः
सत्याभिसन्धं विदधे सखायम् ॥ २३-४३॥
सुरैरशेषैरपि जातरोषैः
स दुर्जयान् भीष्ममुखान् जिगाय ।
सहायशक्त्या युधि सव्यसाची
किं दुष्करं केशवमाश्रितानाम् ॥ २३-४४॥
स्वप्नः किमासीदथवेन्द्रजालं
बभूव गन्धर्वपुरी किमेषा ।
इतीव शङ्कां विदधे प्रलीना
पताकिनी कौरवपाण्डवानाम् ॥ २३-४५॥
आकृष्टदेवासुरसाम्परायैः
ओजस्विनां शस्त्रभृतामुदन्तैः ।
प्रायस्तदा प्रत्यवहारलीलां
आकालिकीं विश्वभुगन्वभुङ्क्त ॥ २३-४६॥
जिघांसुरष्टादश सम्पतन्तीः
अक्षौहिणीरद्भुतभीमरूपाः ।
स्वतन्त्रयामास मिथः प्रतीपान्
सूत्रावसक्तानिव दारुमर्त्यान् ॥ २३-४७॥
कृषीवलः स्थावरजङ्गमानां
क्षेत्रे कुरूणां समकालपाकान् ।
अनीकशालीन् भुजशालिवर्गैः
फलोपपन्नान् प्रभुरित्यलावीत् ॥ २३-४८॥
निस्तीर्य सङ्ग्राममहासमुद्रं
संसारपोतेन परेण सख्या ।
धनञ्जयस्तत्पदमेव भेजे
निर्धूतनीहारदिवाकराभः ॥ २३-४९॥
द्रौणिस्तदा सौप्तिकमाददा(धा)नः
कृपेण सार्धं कृतवर्मणा च ।
हताहितैः पाण्डुसुतैरवाप्तं
सैन्यावशेषं शमयाम्बभूव ॥ २३-५०॥
इत्थं दशाष्टौ च निपात्य भूमा-
वक्षौहिणीरद्भुतभीमरूपाः ।
सतां पतिः सत्त्वसमृद्धिरोगात् (योगात्)
उल्लाघितामातनुतेव पृथ्वीम् ॥ २३-५१॥
विभुः स्वसङ्कल्पहतान् विनिघ्नन्
धर्मैकतानेन धनञ्जयेन ।
प्रतोदसन्दंशिकयोदहार्षीत्
पाञ्चालकन्यापरिभूतिशल्यम् ॥ २३-५२॥
परास्त्रविस्रंसितमुत्तरायाः
पद्मासनाद्यैरपि पूजितेन ।
गङ्गाधरण्योः प्रभवेन गर्भं
पस्पर्श पादेन परावरेशः ॥ २३-५३॥
विप्लोषितं द्रौणिशरेण बालं
सञ्जीवयन् पादरजः प्रभावात् ।
वधूकृतक्षुद्रशिलाविशेषं
रामानुजो राममिवान्वकार्षीत् ॥ २३-५४॥
तस्य श्रुतिश्रेणिशिरोधृतानां
स्पर्शः प्रजेशादिभिरीप्सितोऽभूत् ।
परीक्षिदुत्थानपरीक्षितानां
अघच्छिदामङ्घ्रिरजःकणानाम् ॥ २३-५५॥
अजातदीनां (अजस्तदानीं)कालस्य
दीप्तामिव खड्गरेखाम् ।
विपक्षसंहारमहाभुजङ्गीं
वेणीं प्रियैः संय(श)मयाम्बभूव ॥ २३-५६॥
पितामहाय प्रततान पार्थः
शरप्रयुक्तं शयनं यदग्र्यम् ।
योगासनं योजितचित्तधैर्यं
तदेव पर्याप्तगुणं तदाऽऽसीत् ॥ २३-५७॥
विन्यस्य धर्मतनये विजयाधिकारं
सख्याऽर्जुनेन यशसेव धनुर्धराणाम् ।
दध्मौ स दैत्यमथनो युधि पाञ्चजन्यं
वृष्ण्यन्धकादिपरिशेषितभूमिभारः ॥ २३-५८॥
प्रत्यानिनाय रथमात्तजयः स जन्यात्
धन्यावलोकनधनञ्जयदर्शनीयः ।
सारथ्यसंविदवधीरितहेतिजुष्टः
सेनापरागपरिधूसरकुन्तलश्रीः ॥ २३-५९॥
आलिङ्ग्य गाढमवगाढरसं रणाब्धौ
वीरव्रणैः कृतविभूषणमिन्द्रसूनुम् ।
अन्यावतारपरिकल्पनकेलिलोभात्
ऐक्यं निनाय निजमंशमिवान्यनिष्ठम् ॥ २३-६०॥
रणभुवि शरतल्पे लीलया शायितेन
स्वपदसमुदितायाः सूनुना सिद्धसिन्धोः ।
अनतिचिरविलम्बादाप्तकामं धरित्रीं
कलिमिव शमयिष्यन् ख्यापयामास धर्मान् ॥ २३-६१॥
अप्रत्यूहितसार्वभौमविभवैरभ्यर्चितः पाण्डवैः
प्रत्यावृत्ति(त्त)महोत्सवेन मुदितां प्राप्तः पुरीं द्वारकाम् ।
प्रत्यक्षं प्रथयाम्बभूव विहरन् प्रीतः प्रियाभिः समं
शुद्धः सामपदागमैरधिगतां स्वाधीनतां श्रीपतिः ॥ २३-६२॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये भूभारहरणं नाम त्रयोविंशः सर्गः ॥
॥ भोगाभ्युदयो नाम चतुर्विंशः सर्गः २४॥
अथ निजविभवादजातशत्रौ
प्रशमितशत्रुबले निवेश्य भूमिम् ।
परिचरणफलं प्रभुः प्रयच्छन्
अमितगुणाभिररंस्त वल्लभाभिः ॥ २४-१॥
क्रतुविधिनियतोऽप्यकर्मवश्यः
परिचितकामरसोऽपि वीतरागः ।
नगरवसतिरप्यशेषवासः
कथमिव केन विभुः स वर्णनीयः ॥ २४-२॥
अनुगमितमिदं स्वदाररक्षां
अनघमनोभवतन्त्रमाननीयम् ।
निरुपधिकरसस्य नेतुरासीत्
नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥ २४-३॥
श्रुतिशतमहिते पदे परस्मिन्
सितजलधौ रविमण्डले च सिद्धाम् ।
बहुमतिमतिशय्य सा बभासे
नरकरिपोरवरोधभूमिरग्र्या ॥ २४-४॥
निधिगणमुखवान्तनिष्कराशिः
प्रचितगुणा मणिभिः स्यमन्तकाद्यैः ।
प्रमुदितमहिषीगणेन चक्रे
यदुनगरी विभुना निवासभूमिः ॥ २४-५॥
अविकलविभवस्य विश्वमूर्ते-
रधिवसनं यदुवीरराजधान्याम् ।
अनुदिनमनपायिनीं प्रतिष्ठा-
मभिलषतामनुचिन्तनीयमासीत् ॥ २४-६॥
सह मुनिभिरुपास्त धर्ममाद्यं
व्यवहरणानि ददर्श वेदविद्भिः ।
अरमत च वधूजनैर्यथार्हं
बहुतनुरक्रमतो विचित्रशक्तिः ॥ २४-७॥
अपि युगपदवाप्तनैकदेहैः
उपनतयोगबलैः स्वकर्मनिघ्नैः ।
धृतबहुवपुषा जगद्विधात्रा
जितकरणेन तु भुज्यते तदर्थः ॥ २४-८॥
यदुपतिरधिरूढचन्द्रशालः
सह दयिताभिरनन्यमानसाभिः ।
जलनिधिमभितः प्रदर्शयंस्ताः
निजमिव धाम निवेदयाम्बभूव ॥ २४-९॥
निजपदमनपायमाश्रितानां
प्रभुरपवर्गदशामिव प्रयच्छन् ।
अमितबहुगुणामनन्यलभ्यां
अतनुत कामपि सम्पदं प्रियाणाम् ॥ २४-१०॥
स्वयमुदवसिते स्ववासधन्ये
त्रिषु भुवनेषु समामिवाद्भुतानाम् ।
अतनुत समवायमात्मयोगात्
अतिशयिनीमथवा विभुः समृद्धिम् ॥ २४-११॥
विधिसदनमुखेष्वदृष्टपूर्वां
प्रथितपरस्परसम्मतिं समृद्धिम् ।
यदुपतिदयितागृहेषु पश्यन्
मुदमभजद्भुवि नारदो मुनीन्द्रः ॥ २४-१२॥
ललितरुचिषु कल्पवृक्षपोतैः
उपवनराजिषु तस्य सञ्चरिष्णोः ।
अदधुरवयवैर्मुदं मुरारेः
अनुकृतपुष्पफलादिकैस्तरुण्यः ॥ २४-१३॥
अधिगतकुसुमापचायलीलः
प्रमदवनानि विभूषयन् स्वधाम्ना ।
प्रजनितमदनो मनस्विनीभिः
गुणसुरभिः सुरभिः स्वयं स मेने ॥ २४-१४॥
परिपणमिव मन्मथोत्सवानां
प्रथमविकस्वरपद्मदर्शनीयम् ।
अनुदितबहुविभ्रमं वधूनां
अभिनवयौवनमन्वभुङ्क्त नाथः ॥ २४-१५॥
अमृतमयपयःपरिप्लुतानां
विषमगुणेषु विहारवापिकानाम् ।
कमलकुवलयादिषु प्रियाणां
मुखनयनस्मितकान्तिमभ्यनन्दत् ॥ २४-१६॥
अवितथमहिमा निजप्रसादात्
अनघमनोरथतोषितासु तासु ।
स्वपरिजनतया सुरैर्नियुक्ताः
निरदिशदप्सरसो निदेशभाजः ॥ २४-१७॥
बहिरुपनगरं बलानि दृष्ट्वा
सह यदुभिः समये निवर्तमानम् ।
ददृशुरधिगवाक्षमेकचित्ताः
रथतुरगादिषु रामपश्चिमं तम् ॥ २४-१८॥
विधिवदनुविधाय देवयात्रां
प्रतिपुरवीथिपरिक्रमेण दृश्यम् ।
पतिमनुददृशुस्तमेव दूरात्
अचरमदेवमनन्यदेवतास्ताः ॥ २४-१९॥
बहुविधमुपहारजातमग्र्यं
सुरपतिभिः स्वयमाहृतं मुकुन्दः ।
अपि गगनचरैरदृष्टपूर्वं
सममवरोधजनस्य संविभेजे ॥ २४-२०॥
उपचितशिखरे वदान्यरत्नैः
उचितगुहाश्रितहंसतूलतल्पे ।
बहुरिव स बभौ विहारशैले
प्रतिमणिभित्तिविभक्तचारुबिम्बः ॥ २४-२१॥
युगपदखिलमादरेण साक्षात्
युवतिजनस्य निदर्शयन् मुकुन्दः ।
असकृदुपगमय्य चित्रशालाः
अनघसमाधिदशामिवाऽऽततान ॥ २४-२२॥
अनितरमनसां स्ववल्लभानां
नरकजिता निरपायवैभवेन ।
भवभयविनिवारिणी स्वभक्तिः
ललितविहारमुखेन लम्भिताऽभूत् ॥ २४-२३॥
प्रमुदितविबुधाहृतप्रकॢप्तैः
कनकसरोजवनैरलङ्कृतानाम् ।
अतिशयमवरोधदीर्घिकाणा-
मधिसुरसिन्धु समीक्षितं निदध्यौ ॥ २४-२४॥
विहरति वनिताजने तदीयैः
अपलपितामवलोकनप्रभावैः ।
पुनरपि हरिनीलरत्नभासा
दधुरसितोत्पलसम्पदं सरस्यः ॥ २४-२५॥
स्थिरधृतिमधिरोप्य रत्नडोलां
गुणघटितामिव माधवः स्वमायाम् ।
अगमयत गतागतान्यभीक्ष्णं
सुकृतजुषः स्वयमङ्गनाः स्वतन्त्रः ॥ २४-२६॥
रुचिरकनकशृङ्गवक्त्रवान्तैः
प्रतितनु कुङ्कुमवारिभिः प्रसिञ्चन् ।
अजनयदनुरागयोगमन्त-
र्बहिरपि तोयविहारतो वधूनाम् ॥ २४-२७॥
नवमणिपरिकल्पितेषु नाथः
कमलवनान्तरकेलिमन्दिरेषु ।
श्रिय इव सुदृशो गृहीतपद्माः
हृदि निदधे पुरुषोत्तमः प्रतीतः ॥ २४-२८॥
दिशिदिशि मकरन्दवर्षदिग्धां
विविधपरागविभक्तचूर्णचित्राम् ।
भुवमभजत साकमङ्गनाभिः
पुल(चुल)कितदृष्टिषु पुष्पमण्डपेषु ॥ २४-२९॥
अनुविहितमहोत्सवो यथार्हं
वितरणतोषितवन्दिबन्धुवर्गः ।
परिणयनविधिं लतावधूना-
मतनुत चूतवरैः प्रियार्पितानाम् ॥ २४-३०॥
सुतबहुमत(ति)भागिनां शुकाना-
मुपहृतदिव्यरसोपभोगभाजाम् ।
श्रुतिमधुरगिरां स्वशिक्षिताना-
मतिशयसिद्धिमदर्शयत् प्रियाभ्यः ॥ २४-३१॥
अनुकृतनिजशक्तिभिः प्रियाभिः
सह गुणबन्धविभक्तसन्निवेशैः ।
मुहुरिह निपतद्भिरुत्पतद्भिः
करणवशैरिव कन्दुकैरदीव्यत् ॥ २४-३२॥
निजयुवतिषु यद्यपि त्रिधामा
नयनपिधानविहारमाजहार ।
न तदनुचरितं तथाऽपि ताभिः
त्रिभुवनदृष्टिनिरोधशङ्किनीभिः ॥ २४-३३॥
श्रुतिविहितमवन्ध्य(र्ज)यन् स्वधर्मं
प्रतिदिनमन्यपरो यदा बभूव ।
तदुपचरणतस्तदाऽपि (स चापि?)तासां
समजनयत् प्रियभोगमेव कालः ॥ २४-३४॥
मणिपरुवकमञ्जुलस्तनीभिः
मधुसमयापगमे वराङ्गनाभिः ।
सितमणिविहितान् स यन्त्रधारा-
व्यतिकरशीतलितान् अभुङ्क्त सौधान् ॥ २४-३५॥
स्फटिकसदनदीप्तिदत्तहस्तां
मुरभिदसेवत सादरं सदारः ।
अपजलदनिशोदितस्य शोभां
हलधरकान्तिभृतस्तुषारभासः ॥ २४-३६॥
अगुरुभिरसितैरनूरुगौरैः
नवघुसृणैरपि निर्विवेश नाथः ।
हिमऋतुमवरोधसुन्दरीणां
स्तनपरिरम्भसमर्पितैर्विलिप्तः ॥ २४-३७॥
अनलशकटिकाभिरप्यजय्यं
शिशिरसमीरणमञ्जसा जिगाय ।
अविरलपरिरम्भलम्भनीयैः
स्तनकलशोष्मभिरात्मवल्लभानाम् ॥ २४-३८॥
उपनिषदुपदेशसाभिलाषैः
उपचरितो मुनिभिः सनन्दनाद्यैः ।
रतिपतिसमयस्थितो वधूनां
ललितकलागमदेशिको बभूव ॥ २४-३९॥
कलमधुरगिरां कलाप्रसङ्गात्
अतिमदनोपनिषत् परं रहस्यम् ।
प्रियहितरुचिराक्षरं प्रियाणां
श्रुतिषु चकर शिखामणिः श्रुतीनाम् ॥ २४-४०॥
निरुपधिकनिजप्रभावगर्भं
परिषदि विश्वपतिः प्रियासहायः ।
किमपि निशमयाम्बभूव गीतं
प्रमुदितकिन्नरदम्पतिप्रयुक्तम् ॥ २४-४१॥
मृदुकरतललीलया मृदङ्गान्
असमयनर्तितनीलकण्ठयूथान् ।
ध्वनयति दयिते विडूरभूमेः
श्रियमिव ताः पुलकोद्गमैरपुष्यन् ॥ २४-४२॥
करकमलपरिग्रहेण धन्यां
वरतनुसंसदि वादयन् विपञ्चीम् ।
अविदितगमनाय गायकैः स्वैः
उपरतगीतिभिरुन्मुखैः सिषेवे ॥ २४-४३॥
श्रुतिमधुसुभगैरदीनहृद्यैः
श्रुतघननादशिखण्डिनीगणश्रीः ।
मधुरिपुवनिताजनः समाजे
ध्वनिभिरमाद्यत दिव्यदुन्दुभीनाम् ॥ २४-४४॥
सललितकरणाङ्गहारहृद्यं
सह दयिताभिरुदारदिव्यनाट्यम् ।
अनुदिनमनिमेषदर्शनीयं
जितमधुरप्सरसां ददर्श नृत्यम् ॥ २४-४५॥
अभिनयमभिनन्द्य नर्तकीनां
स्वयमुपदिष्टमलङ्घितोपदेशम् ।
पुनरपि मुदितस्तमेव युञ्जन्
अविदितपूर्वमिवाऽऽदरादपश्यत् ॥ २४-४६॥
प्रतियुवतिगृहीतनैकरूपः
प्रणयवतीभिरनन्य इत्युपेतः ।
अपहृतमणिपादुकः कयाचित्
पदमपि गन्तुमशक्नुवन्निवासीत् ॥ २४-४७॥
अनवहिततया सखीसमक्षं
द्रुतमुपहूय समाख्ययेतरस्याः ।
मु(रु)षितमनसमद्भुतैर्विलासैः
इदमपि नाम तवेत्युवाच मुग्धाम् ॥ २४-४८॥
समुचितदिनलङ्घनं सपत्न्याः
परिपणितं स्वयमभ्युपेत्य नाथः ।
स्मितमधुरमुखो जितः कयाचित्
विवश इवाक्षविहारतो बभूव ॥ २४-४९॥
अनुगतनिजबिम्बमेनमन्या
मणिमुकुरस्थमवेक्ष्य मन्दहासम् ।
न खलु तदवलोकनाय पश्चात्
व्यतनुत साचिविधिं तदेकतृप्ता ॥ २४-५०॥
पुलकिनि कुचकुड्मले परस्याः
कथमपि साध्वसकम्पिताग्रहस्तः ।
स्थिरचरजगदेकदिव्यशिल्पी
विषमतमं विलिलेख पत्रभङ्गम् ॥ २४-५१॥
मृदुसुरभिसुजातबन्धुराभिः
प्रणिदधदग्रनिबद्धपङ्कजाभिः ।
मुहुरसितदृशां स्वकण्ठयोग्यां
भुजलतिकाममिमीत मालिकाभिः ॥ २४-५२॥
अभजत स च ताश्च दूतिकानां
अमृतपरिप्लुतभेषजायमानैः ।
प्रतिदिनमिदमादिमं प्रमोदं
प्रणयविरोधसितासितैर्वचोभिः ॥ २४-५३॥
निजपदपरिचारकाङ्क्षिणीभिः
कतिषु भवेषु समर्चिताङ्घ्रिपद्मः ।
प्रतिविधिमभजत् प्रसाधिकावत्
प्रियपरिकर्मविधानतः स तासाम् ॥ २४-५४॥
निजसमुदयसम्भवैर्निशायां
प्रणयपयोनिधिवीचिकाविसर्पैः ।
प्रणतिभिरिव विभ्रमैः प्रियाणां
बहुमतिभेदमवाप यादवेन्दुः ॥ २४-५५॥
शरदुपगमशोधिता इवाऽऽपः
तुहिनकरोदयनिर्मला इवाशाः ।
मुरभिदुपगमप्रशान्तखेदाः
प्रतिययुरुन्मनसस्तमायताक्ष्यः ॥ २४-५६॥
अमृतमयमिवोदधिं तमुच्चैः
अनुसखि लोचनशुक्तिभिः पिबन्त्यः ।
अवशनियतचित्तवृत्तिमेकां
अदधुरदृष्टपरस्परामवस्थाम् ॥ २४-५७॥
स्मरजनकतनुः स्वदर्शिनीनां
ननु विरहः सुदृशां निमेष एव ।
इति किल विगणय्य विश्वकर्ता
नियतमकल्पयदप्सरस्त्वमासाम् ॥ २४-५८॥
अनुचरबहुमानमाप्तुकामैः
अवसरबिद्भिरनुस्मृतात्मरक्षैः ।
अनुदिनमुपनीतमादितेयैः
अमृतमपाययत प्रियाः प्रतीतः ॥ २४-५९॥
प्रियवचनशतैरुदारवादी
रहसि मनुश्श्रुतिरञ्जकैर्विचित्रैः ।
मुखकमलमधूपमैः प्रकामं
मदमुदिता इव मानिनीरकार्षीत् ॥ २४-६०॥
अतिशयितगुणैः प्रियोपभोगात्
वसनविभूषणमालिकादिभिस्ताः ।
मुदमधिकतमां दधुस्तरुण्यः
प्रणयरसो हि रसप्रकर्षहेतुः ॥ २४-६१॥
अभिलपनमनस्क्रियातिपाति-
न्यनुबुभुजे यदुपुङ्गवेन तासाम् ।
अतिशयमितरेतरं प्रयच्छ-
न्त्यभिनवयौवनसम्पदप्रकम्प्या ॥ २४-६२॥
अजनिषत कुतो नु भागधेयात्
त्रिभुवनमङ्गलदीपिकाः शुभाङ्ग्यः ।
यदुपतिसहधर्मचारिणीभिः
सुखमनघं भुवि याभिरन्वभावि ॥ २४-६३॥
अधिभुजगपति श्रियोपभुक्तं
युगपरिपाकविहारिणं युवानम् ।
नरपतिबहुमानतो नताङ्ग्यः
सुलभमिवान्वभवन् स्वतल्पभाजम् ॥ २४-६४॥
शकयुवतिकपोलपाण्डराभैः
शशिशकलैरिव नागवल्लिपत्रैः ।
स्मरसुभटयशोनिभैरनन्दत्
युवतिजनोपहृतैस्तदर्पितैस्ताः ॥ २४-६५॥
जगदुपजननादिजातभूम्नः
क इव वधूजनमोहनो विहारः ।
कथमिव स कुतश्च कीर्तनीयः
प्रथितमनोभवतन्त्रपारदृश्वा ॥ २४-६६॥
यतिभिरनुबुभूषितः स ताभिः
यदुपतिरद्भुतरूपवेषशीलः ।
निरुपधिकरसामृतौघसिन्धुः
सततमपूर्वमपूर्वमन्वभावि ॥ २४-६७॥
हरिपरिचरणेन तोषितानां
हरिणदृशां विभवं विभावयन्तः ।
अपजहसुरवाप्तसंयमाः स्वान्
अपरिमितान् अणिमादिसिद्धिभेदान् ॥ २४-६८॥
सरित इव मृगीदृशस्तमेकं
महितगुणौघमहोदधिं भजन्त्यः ।
अबिभरुरनपायमैकरस्यं
मुनिगणितश्च स एव मुक्तभोगः ॥ २४-६९॥
अनुभवरसतो जगत्प्रसूतेः
अपचितसुप्तिसुषुप्तिसम्भवास्ताः ।
वितमसि विषये स्थिता इवासन्
विरतिविहीनविहारजागरेण ॥ २४-७०॥
प्रतिदिनमितरेतरानुगुण्यात्
प्रचितमयोगवियोगसम्प्रयोगैः ।
रसमधिकमवापुरायताक्ष्यः
प्रणयिनि शार्ङ्गिणि भागधेयभूम्ना ॥ २४-७१॥
रविरुचिरमणिप्रदीपकेषु
स्फुरदसितागुरुधूमधूपितेषु ।
सह युवतिगणैः (जनैः)क्षणोपमेयां
अनयत वासगृहेषु वासतेयीम् ॥ २४-७२॥
पुलकितवपुषां सवेपथूनां
घनरसभावितघर्मबिन्दुभाजाम् ।
श्लथमिव सुदृशाममुष्टिमेयं
चिकुरमगुम्भयदद्भुतं चिरेण ॥ २४-७३॥
स्ववधूरवधूतभौमभावाः
स्वदमानाः स्वयमात्मनैव तृप्तः ।
अनुभूय न तृप्यति स्म नाथः
तमपि प्रेमविलीनचेतसस्ताः ॥ २४-७४॥
चपलप्रतिकूलतीक्ष्णरूक्षाः
स्त्रिय इत्यागमिकैर्निदर्शितार्थः ।
प्रथितो यदुवीरवल्लभाभिः
परिवादोऽयमपाकृतः पृथिव्याम् ॥ २४-७५॥
शरणागतसर्वपापमोक्षे
कृतसङ्कल्पमिहानुभूय कृष्णम् ।
परितोऽपि तथाविधानुभूतिः
स्मरलब्धा प्रतिलम्भिता प्रियाभिः ॥ २४-७६॥
अनघामनपायभक्तिरूपां
अनुभूतिं यदुवीरवल्लभानाम् ।
अनुकर्तुमपि प्रवर्तमानैः
अवशैरेव समाहितैरभावि ॥ २४-७७॥
उदधौ बहवो रमा बभूवुः
यदि वैकैव गृहीतनैकरूपा ।
इति नाम विमर्शमादधानाः
दयिताः प्रेक्ष्य ननन्द देववन्द्यः ॥ २४-७८॥
अजितस्य विशालतुङ्गभूम्ना
भुजमध्येन पयोधरैश्च तासाम् ।
इतरेतरसंवृतत्वमासीत्
परिरम्भे परितो मिथस्समत्वम् ॥ २४-७९॥
परिहासकुतूहली प्रियाणां
विहितद्यूतविहारकौतुकानाम् ।
उभयत्र जयं जगाद पृष्टः
कितवस्थेयपदे निवेशितस्सन् ॥ २४-८०॥
स्वयमादिकविः प्रकल्पिताभिः
प्रणयोल्लङ्घनरौक्ष्यमुत्तितीर्षुः ।
प्रहसन् बहुशः प्रहेलिकाभिः
मतिमौढ्यं विदधे मनस्विनीनाम् ॥ २४-८१॥
एकीभवद्भिरयुतैरपि मन्मथानां
यत्कान्तिबिन्दु(सिन्धु)पृषतानुकृतिर्न शक्या ।
सम्प्रेक्ष्य तं यदुपतिं यमिनोऽपि नूनं
स्त्रीभावमेव मनसा बिभराम्बभूवुः ॥ २४-८२॥
कृष्णानुभूतिविभवेन कृतार्थभावाः
तद्वल्लभास्त्रिदशमातृतयाऽचकासुः ।
यत्पादपङ्कजपरागजुषां शशंसुः
जन्माद्भुतं जगति गुल्मलतादिकानाम् ॥ २४-८३॥
श्यामो बभूव किमसौ सुदृशां कटाक्षैः
श्यामास्तदन्वयवशादथवा तरुण्यः ।
ताभिः किमस्य ववृधे महिमा महीयान्
तासामनेन यदि वेति बुधैः शशङ्के ॥ २४-८४॥
अग्राम्यमेव परिहासरसं वितेने
नाश्लीलमाह न मृषा न च मर्मभेदि ।
धर्माविरुद्धविभवोचितकामकामः
स्त्रीणां वरेण बुभुजे वरदो वरस्त्रीः ॥ २४-८५॥
ताराभिरिन्दुरिव भानुरिव प्रभाभिः
युक्तो वशाभिरिव वारणयूथनाथः ।
विद्याभिरात्मविदिवाभ्यधिकं विरेजे
योगेश्वरो युवतिभिस्सह मोदमानः ॥ २४-८६॥
पायम्पायं प्रेयसः कान्तिमाध्वीं
माद्यन्तीभिर्मञ्जुलालापिनीभिः ।
प्रत्येकोक्तिश्लाघनप्रीणिताभिः
प्रायो भोगाः पर्यवाह्यन्त ताभिः ॥ २४-८७॥
करणव्यपायसमये पुनर्भवं
विनिवर्त्य शाश्वतसुखं प्रदास्यता ।
स्वपदानुभूतिरुदपादि तादृशी
सुदृशां स्वसम्मति(सन्मति?)भृतां गदाभृता ॥ २४-८८॥
तद्गतेन मनसा विवशानां
तन्मयीकृतधियामिव तासाम् ।
अप्रलुप्तरहसामभजेतां
स्वप्नजागरदशे अविशेषम् ॥ २४-८९॥
श्रियमनपायिनीं वसुमतीमिव दत्तकरां
सह महिषीगणेन विभुरेक इवानुभवन् ।
यदुभिरनन्त-तार्क्ष्य-पृतनेशनिभैस्सहितो
निजपदमस्मरन्निह निवासमरोचयत ॥ २४-९०॥
उपचितचित्रधर्ममुपशान्तविपक्षभयं
मुदितवधूजनः स मुखरं निगमध्वनिभिः ।
बहुविधरत्नशालि बहुमान्यसमग्रगुणं
वलयसमं भुजस्य वसुधावलयं बुभुजे ॥ २४-९१॥
अनितरजनलभ्यां प्रीतिमासेदुषीभिः
सुचिरमनुबभूवे स्वर्गमोक्षातिशायी (दिदायी)।
निरुपधिकरसाब्धिं निर्विशन्तीभिराद्यः (द्यं)
कुलयुवतिभिरित्थं कोऽपि शृङ्गारभूमा ॥ २४-९२॥
सहजबलसमेतः शक्रपूर्वैरजय्यः
समुदितविषमास्त्रस्तादृशानन्दहेतुः ।
अविदित(तथ?)रचनेन स्वेन पार्थाय गीतः
स्वयमजनि स कामः कोऽपि धर्माविरुद्धः ॥ २४-९३॥
स्वपदनलिनभाजां स्वर्गमोक्षौ यथार्हं
करणविगमकाले कल्पयिष्यन् क्रमेण ।
मधुरिपुरिह नूनं मन्दपुण्यैरलभ्यौ
समतनुत विहारैस्तावुभौ सम्प्रयुक्तौ ॥ २४-९४॥
नारीदृष्ट्या नियमितधियो नाकनाथेश्वरत्वं
सम्भोगे च प्रवणमनसः शाश्वतं ब्रह्मचर्यम् ।
अत्रैकस्यां पुरि निवसतः सर्वलोकाधिकत्वं
निध्यायन्तस्त्वरितमतरन् दुस्तरां तस्य मायाम् ॥ २४-९५॥
आसीदेवं परिणतमधिद्वारकं द्वापरान्ते
व्यासप्रख्याविभजनभवद्वेदशाखोपमानाम् ।
चिन्तातीतं यदुपतिमनःप्रीतिचिन्तामणीना-
मेकं तासां भवरसभुजां भाग्यमेकातपत्रम् ॥ २४-९६॥
गुरुभिरनघचित्तैराहितोदारभूमा
सुरभितरसमेतत् सूनृतं वेङ्कटेशः ।
व्यतनुत यदुवीरप्रीतिमिच्छन् प्रभूतां
कविकथकमृगेन्द्रः क्षेमदं काव्यरत्नम् ॥ २४-९७॥
॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये
महाकाव्ये भोगाभ्युदयो नाम चतुर्ंविंशः सर्गः ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटनाथाय वेदान्तगुरवे नमः ॥
Compiled by Seshadri