यदुगिरिनारायणस्तवः
(बाधूलश्रीनिवासार्यकृपासम्पन्नवैभवम् ।
कौशिक श्रीनृसिंहार्य कल्याणगुणमाश्रये ॥ )
तर्कातर्किमुधाग्रहप्रतिवदद्दुर्वादिदुर्वारदु-
र्गर्वोर्वीधरकूटकुट्टनकलादभ्भोलिवाग्गुम्भनः ।
व्यासोन्नीतनिशातनीतिदलितप्रच्छन्नबौद्धव्रजः
श्रीरामावरजो मुनिर्विजयते सिद्धान्तजैत्रध्वजः ॥ १॥
आशासे षट्पदामोदवहां गुरुपरम्पराम् ।
श्रीनारायणपादाब्जमधुधारामिवापरम् ॥ २॥
एधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् ।
यत्र सम्पत्कुमारोऽपि युवराजपदास्पदम् ॥ ३॥
वन्दे भगवतः पादूं वकुलामोदमेदुराम् ।
तत्पदामर्शसम्पन्नमञ्जुशिञ्जामनोरमाम् ॥ ४॥
स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिधृत् ।
वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम् ॥ ५॥
अस्ति स्वस्तिवहं लक्ष्मीसंस्तुतं वस्तु निस्तुलम् ।
भूनीला स्तन कस्तूरीभूषितं यदुभूधरे ॥ ६॥
समिन्धे श्रीतनुलतास्वर्णसबन्धबन्धुरः ।
यदुभूधरकोटीरस्फुरन्मरतकाङ्कुरः ॥ ७॥
ईक्षे प्रतिक्षणं लक्ष्मीपादलाक्षारसोक्षितम् ।
श्रीयादवाचलशिखा शेखरश्यामलोत्पलम् ॥ ८॥
परेषां शङ्खचक्राद्यैः स्वेपामभयमुद्रया ।
हितं प्रियं च कलयन् पायाद्यदुगिरीश्वरः ॥ ९॥
यदभ्यस्तानन्दामृतजलधिकल्लोलकणिका-
रसास्वादाध्माता श्रुतिरपि विहस्ता निववृते ।
स्वकीयं सार्वज्ञ्यं प्रभवति न यस्य स्वविषये
यदुक्ष्माभृन्नाथं तमहह वयं स्तोतुमुदिताः ॥ १०॥
गन्तुं वर्त्म गरुत्मतः प्रयततां खञ्जः स्वयं जानुना
वोढुं वल्गतु डुण्डुभः स्वशिरसा शैषीमशेषां धुरम् ।
स्वैरं प्रक्रमतां वितस्तिविमितस्त्रैविक्रमान् विक्रमान्
आचार्यैः स्तुतमास्तुमो वयममी श्रीयादवाद्रीश्वरम् ॥ ११॥
[अहह गणनां न्यक्कुर्वाणा गुणा यदुभूमिभृत्-
परिबृढ कथं सोढारस्ते पुनः स्तुतिसाहसम् ।
अपि तु भगवन्नेते स्वैरं यतीशवशंवदाः
सरसमथुरस्मेशः सम्प्रत्यतोऽयमुपक्रमः ॥ ]
वार्क्षं माक्षिकमाजिघृक्षति न किं खर्वो न वादिसते
बालः किं शशिनं सिषाधयिषति श्रेयो न किं वालसः ।
तुष्टूषामितरां न किं यतिपते सम्पत्सुतं किं तु तत्
सर्वं प्राप्यरुचिप्रकर्षजमिति प्राज्ञः समाधित्सतु ॥ १२॥
अपि च मम वचांसि प्रायशो वेदवादा-
दपि यदुकुलनाथं स्वैरमावर्जयन्ति ।
न किमु मृगमदेन्दुस्मेरकाश्मीरलेपा-
दपि रमयति गोष्ठोपान्तजम्बालचर्चा ॥ १३॥
प्रियं कुलधनं प्रभुं पितरमीश्वरं मातरं
गुरुं प्रणतवत्सलं परमबन्धुमापत्सखम् ।
यदुक्षितिधरोपरि व्यवसितात्मदानं न को
यतिप्रवरनन्दनं हृदयचन्दनं वन्दते ॥ १४॥
महसां निधये त्रयीशिखामणये मङ्गलमङ्गलात्मने ।
यदुभूधरशृङ्गबन्धवे स्पृहयाम्यद्भुतशीलसिन्धवे ॥ १५॥
अस्मै नमो यदुगिरिप्रवराय सूरि-
सेव्याङ्घ्रये विमलसत्त्वगुणोत्तराय ।
यः श्वेतमृत्तिलकितो घृतवैष्णवश्रीः
श्रीकान्तमव्यवहितं जगतां व्यनक्ति ॥ १६॥
चाम्पेयान्यपचिन्वतामुपवने मालाकृतां श्रीपते-
रानम्योपनयन्ति यत्र कपयः स्वैरं दुरापाण्यपि ।
ईडे क्रोडमुखावखातविततावालावटासेचन-
न्यञ्चत्कुञ्जरपुष्कराम्बुशिशिरं श्रीयादवक्ष्माघरम् ॥ १७॥
यत्रानुषङ्गिकनिवासलवोऽपि सूरि-
संसद्धुराविनिमयश्रियमातनोति ।
तासु प्रसन्नहरिचन्दनशेखरासु
श्रीयादवाचलतटीषु कुटीमुपेयाम् ॥ १८॥
इयमभिवन्द्यतां यदुधराधरमौलिधृता
नृहरिगृहान्तगोपुरसमुन्नतिरुन्मिषिता ।
परिणतभूरिभाग्यजनलोचनभृङ्गकुलं
ललितवतंसकैतकशिखेव सुखाकुरुते ॥ १९॥
रहसि सहरिरंसायातकंसारिकान्ता-
चरणकमलसक्तालक्तरत्नोपकण्ठाः ।
यदुधरणिभृतोऽमी जन्मकान्तारपान्थ-
श्रमहरतरुमृष्टाः सानवो नः पुनीरन् ॥ २०॥
रघुपतिचापकोटिदृढकुट्टनविस्फुटितोपलोच्चलद्-
विमलझरीषु कृष्णबलरोपितकरुपमहीजराजिषु ।
यतिपतिपादरेणुपरिमर्शपवित्रशिलासु निर्भरा
यदुगिरिसानुसीमसु रमेमहि साभिमताः समाः शतम् ॥ २१॥
कुरवकमल्लिकावकुलचम्पककुन्दलता-
र्पितकुसुमावतंसमकरन्दरसोपचिताः ।
यदुकुलदेवतापदसरोजपरागधर-
श्चिरमवगाहिषीय यदुशैलझरीलहरीः ॥ २२॥
पदे तत्र विष्णोः परत्वानुभूत्या
परं निर्वृतास्तस्य सौलभ्यलोभात् ।
यदुक्ष्माभृदन्ते वसन्त्यत्र मुक्ता
नुमस्तान् समस्तांश्चरस्थास्नुरूपान् ॥ २३॥
अधूर्जटिजटाटवीतटकपालसम्पूरणा-
मजह्नुजठरानलक्वथनखिन्नयादःकुलाम् ।
असागरचितावनोपचितसास्थिभस्मोत्करा-
मनुज्झितयदुक्षमाधरपदां भजे स्वर्नदीम् ॥ २४॥
निर्णीचोच्चभिदं निराकृतगुणावद्यावमर्शं जना-
नाप्लावैरनुगृह्णतीं सुरुचिरागाधप्रसन्नाद्भुताम् ।
श्रीमद्यादवभूधरे सुचरितोल्लासावहामन्वहं
कल्याणीमवगाहिषीय करुणां नारायणस्यापराम् ॥ २५॥
हरेर्वराहरूपिणः श्रमाम्बुसम्भवं भवश्रमापहम् ।
भविष्णुविष्णुपद्युपासितं सरश्चरीकरीतु मङ्गलम् ॥ २६॥
सेयं वैष्णवनर्महर्म्यशिखरोदञ्चत्पताकावली-
सङ्घर्षक्षतचन्द्रनिःसृतसुधालिप्तेव देदीप्यते ।
श्वेतद्वीपविवर्तमूर्तिरनघश्रीभूमिनीलासख-
श्रीनारायणचित्तनिर्वृतिकरी नारायणाख्या पुरी ॥ २७॥
अश्रान्तोत्सवबद्धकौतुकयतिक्षोणीशसम्पत्सुत-
प्रस्थानोत्सुकपौरयौवतसुसम्मृष्टप्रतोलीमुखाम् ।
फुल्लत्पल्लवतोरणच्युतमधुस्यन्दापनीतश्रमा--
ऽशेषागन्तुजनामिमामनिमिषं सेवे पुरीं यादवीम् ॥ २८॥
तत्तादृक्षगजेन्द्रमोक्षणरथारोहक्षणस्वर्धुनी-
तीर्थाध्यक्षणपूर्वपर्वमहिते यस्मिन् यतीन्द्राज्ञया ।
आमातङ्गवसिष्ठमेति जनता मुक्तैकरस्यां श्रियं
सोऽयं प्रत्यहमस्तु वज्रमकुटीदिव्योत्सवो वात्सरः ॥ २९॥
स्वाङ्गीकारोपहारीकृतनतदुरिताः स्वाङ्घ्रिरेणुप्रभाव-
प्रेक्षासाक्षीकृतास्मत्सहपठितचतुर्वेदिसर्वापराधाः ।
श्रीमन्नारायणाङ्घ्रिद्वयपरिचरणेश्वर्यगर्वादुदस्त-
श्रीवैकुण्ठोपकण्ठा यदुगिरिकटकस्वामिनो मे स्वदन्ताम् ॥ ३०॥
शुचि रुचिरं मनोज्ञचरितं नलिनाक्षदया-
मृतसरसीरसार्द्रमनुरञ्जितमञ्जुरवम् ।
इदमिह पक्षपातमनिमित्तकमाद्रियते
यदु गिरिहेमसानुरसिकं मयि हंसकुलम् ॥ ३१॥
क्रेतुं नः प्रभवन्ति हन्त यतिराड्जन्मोत्सवोन्मस्तक-
प्रेमव्युत्क्रमनृत्यदार्यचरणोत्क्षिप्ता यदुक्ष्माभृतः ।
धूल्यो याः किल रङ्गवेङ्कटमुखश्रीदिव्यदेशाश्रितै-
रर्च्यन्ते नियमेन तीर्थवटिकारूपेण गोपायिताः ॥ ३२॥
मधुरिपुजलनिधिदृगमृतवीचीकृतपरिचितिमुरुमणिगणकीर्णाम् ।
परिसरनतसुरसदसमुपासे यदुगिरितटभुवि तदजिरवेलाम् ॥ ३३॥
ताम्बूलदर्पणपतद्ग्रहतालवृन्त-
भृङ्गारधौतवसनाभरणस्रगादीन् ।
आबिभ्रतो यतिपतिप्रणिधीन् विभोर्द्वि-
पञ्चाशतः परिजनप्रवरान् भजामः ॥ ३४॥
द्रुहिणसनकयोगिनारायणात्रेयसंरक्षितं
यतिपतिकृपयेह सर्वात्मसेव्यां दशां प्रापितम् ।
निगमशिखरवत् परब्रह्मगर्भं यदुक्ष्माधर-
प्रवणमनुभवेयमानन्दसंज्ञं विमानं मुहुः ॥ ३५॥
शुभेदारस्निग्धाद्भुतमहितसंस्थानमभितः
सरन्तीभिर्भाभिर्हरितयदशेषाश्च हरितः ।
परं ज्योतिः साक्षादकरवमिहानन्दनिलये
विमाने मञ्जूषोन्मिषितमिव ?शातम्मरतकम् ॥ ३६॥
युगपदुदितभास्वत्कोटिधामा सुधाब्धि-
स्नपित इव सुजातस्निग्धदिव्याद्भुतश्रीः ।
भुवनभवनभूषा ज्योतिषां ज्योतिरेष
स्फुरति यदुमहीभृन्मौलिरत्नप्रदीपः ॥ ३७॥
जगत्सम्भवक्षेमशिक्षादिदक्षं
परं क्षोणिलक्ष्मीकटाक्षैकलक्ष्यम् ।
यदुक्ष्माधरे मोक्षदानैकदीक्षं
महः पुण्डरीकाक्षमध्यक्षयामः ॥ ३८॥
अये श्यामोदारः किमयममृताध्मातजलद-
स्तमालद्रुः किंवा पृथुलललितोद्दामविटपः ।
यदुक्ष्माभृत्सानुप्रगुणितविलासो नु कलमः
किमु क्रीडाशैल श्रिय इह महानीलमहितः ॥ ३९॥
दरीधर्ति नीलाद्रिलीलां मुकुन्दो
बरीभर्ति हेमस्नुतां पीतवासः ।
वरीवर्ति चक्राम्बुजं पुष्पवत्तां
चरीकर्ति शृङ्गश्रियं रत्नमौलिः ॥ ४०॥
मुखाम्भोजासक्तः किमलकतमः कोपकलुषः
किमु श्रीमच्चक्षुःस्वजनिवनोत्कः किमथवा ।
जगच्चक्षुः साक्षान्मिषति यदुशैलेशमकुटी-
मिषेण प्रत्यूषे तदिदमुपतिष्टेमहि महः ॥ ४१॥
न्यञ्चन्मौलिमणिप्रभाविनमितं प्रोद्यन्मुखेन्दुद्युति-
प्रत्यावर्तितमूर्ध्वपुण्ड्रविमलच्छायाविभक्ताकृति ।
पार्श्वोच्छृङ्खलशङ्खचक्ररुचिभिः प्रायो विशीर्णं यदु-
क्ष्माभृद्वल्लभचूर्णकुन्तलतमः फालान्तमालम्बते ॥ ४२॥
अमी यदुधराधरेश्वरकिरीटरत्नाकुराः
परत्वमुखरामुहुर्मुहुरभीषयिप्यन्त नः ।
मृदुस्मितसुधारसोक्षितकटाक्षलीलायिता-
न्यकृत्रिमसुशीलतां सपदि नावदिप्यन् यदि ॥ ४३॥
अनिमित्तदयामृतसिक्तमृदुस्मितचन्द्रिकमस्तसमस्ततमः ।
यदुशैलपतेर्मुखमिन्दुसखं प्रमदं मम दृक्कुमुदं कुरुते ॥ ४४॥
दृशोर्विशालमायतं भ्रुवोश्च नीलमन्नतं
स्मिते मृदूद्गतं सितं रदेषु सान्द्रमुज्ज्वलम् ।
स्फुरद्विकासि गण्डयोश्चलं विलम्बि कुन्तले ।
यदुक्षमाधरेशितुर्मुखं सुखं करोति नः ॥ ४५॥
नीलभ्रूमरुकग्रमायतदृगम्भोजं मिषन्नासिका-
चाम्पेयं धवलोर्ध्वपुण्ड्रकपटोदञ्चच्छिखाकैतकम् ।
उत्फुल्लाधरपल्लवं क्षितिरमालीलोचितं कन्धरा-
काण्डोदञ्चि यदुक्षमाधरपतेर्मन्ये मुखं कन्तुकम् ॥ ४६॥
स्फुरच्चक्षुर्मीनाच्छ्रवणललितावर्तमहिताद्
यदुक्ष्माभृत्सानुप्रणयिमुखलावण्यजलधेः ।
सुबासूतेरोष्ठद्वयरुचिरवीची विषमिता-
दुदेति भ्रूवेलावनपिहितभागोऽलिकशशी ॥ ४७॥
भ्रूमध्यतः प्रतिपदिन्दुकलावदात-
श्चेतो धिनोति तिलको यदुशैलबन्धोः ।
लालाटकान्त्यमृतसङ्ग्रहणाय लक्ष्मी-
निक्षिप्तमौक्तचवकश्रियमाददानः ॥ ४८॥
भ्रूसेतुबन्धविधृताक्षितटाककुल्या
कल्या कटाक्षसरणिर्यदुशैलनेतुः ।
निम्नोन्नतस्थलजलादिभिदानपेक्ष-
माप्लावयत्यमुमिमं करुणासकुल्या ॥ ४९॥
अकस्मादस्माकं प्रचुरपरितापप्रशमनैः
कटाक्षोर्मिक्षेपैरनवधिकृपासौरभवहैः ।
सुधासिन्धुः साक्षादयमिह यदुक्ष्माघरतटे
स्वसेवासाम्राज्यौपयिकमभिषेकं वितनुते ॥ ५०॥
तन्मन्दस्मितविस्मितं तदलकावर्तानुवृत्तं मुहु-
स्तद्बिम्बाधररागरक्तमनु तत्सौगन्ध्यसम्मोदितम् ।
तद्भ्रूविभ्रमलब्धविभ्रमशतं तद्द्दृक्तरङ्गोर्मिलं
मच्चेतो यदुशैलवल्लभमुखच्छायोन्मुखं वर्तते ॥ ५१॥
कर्णिकामकरयुग्ममुदग्रं कर्णपाशबडिशं विनिगीर्य ।
वेष्टते यदुगिरीशमुखांशूत्कृष्यमाणमिदमंसतटाकात् ॥ ५२॥
पाञ्चजन्यमुपनीय सरूपं रूपसौष्ठवविवेचनचञ्चुः ।
यादवाचलपतिर्गलकम्बुं तारहारकलितं किमतानीत् ॥ ५३॥
पार्श्वोदञ्चन्न्यञ्चत्कुञ्चद्भुजकल्पविटपमञ्जर्यः ।
शङ्खरथाङ्गगदाभयमुद्रा भद्राय यादवाद्रीन्दोः ॥ ५४॥
श्रीभूमीकुचकुम्भनिर्भरपरीरम्भप्रमोदादिव
श्रीदिव्यायुधभव्यभूषणपरामर्शावलेपादिव ।
तारुण्याद्भुतयौवनव्यतिकरोत्साहादिवामी यदु-
क्ष्माभृद्वल्लभबाहवः सुपृथुलोदग्राः परं जाग्रति ॥ ५५॥
विटपाः किल कल्पपादपानां मधुपावर्जितपल्लवप्रसूनाः ।
यदुशैलपतेर्भुजाः सुवृत्ताः फलवर्गान् सुवतेऽत्र सूरिभोग्यान् ॥ ५६॥
आभ्यामङ्कयतेति वोपनयतः श्रीशङ्खचक्रे उभा-
वेतावाश्रयतेति वक्ति गदया निर्दिश्य पादौ परः ।
मा भैष्टेत्यपरो व्यनक्ति यदुभूभृद्वल्लभास्मादृशा-
माद्याचार्य चतुर्भुजैः प्रगुणयस्याचार्यकप्रक्रियाम् ॥ ५७॥
स्वतः श्यामोदारं तरुणतुलसीदामहरितं
सितं मुक्ताहारैर्मणिवररुचा भास्वरमिदम् ।
रमापादालक्तारूणमिह यदुक्ष्माधरपते-
रुरश्चित्ते धत्ते मम रुचिविभेदान् नवनवान् ॥ ५८॥
श्रीकान्तकल्याणगुणानुषक्तमुक्तावलीसंस्कृतदिव्यधाम ।
वक्षो यदुक्षोणिधरेश्वरस्य मन्ये परं व्योम परार्ध्यभूम ॥ ५९॥
निगिरदपि जगन्ति क्षाममुद्यद्बुभुक्षं
सुचरितसुतभिक्षास्वादसम्पूर्णकामम् ।
यदुवरणिधरेन्दोस्तुन्दमादौ यशोदा-
कलिवकिनकदामग्रन्थिलक्ष्म प्रतीक्षे ॥ ६०॥
श्रीयादवाचलपतेः कल्येव लग्नं
कक्ष्यावनद्धकनकत्सरुखड्गवल्लि ।
गाढं निकृन्तदिव निष्ठुरकर्मबन्ध-
निर्बन्धबन्धुरचतुर्विधदेहबन्धम् ॥ ६१॥
विद्युद्भूम्ना तटित्वानिव नवतरणिच्छाययेवाञ्जनाद्रि-
र्वेलःहैमस्थलीभिर्जलधिरिव नभः सान्द्रसान्ध्यश्रियेव ।
आक्रीडः कर्णिकारैरिव कनककुथेनेव दन्तावलोऽसौ
देवः पीताम्बरेण प्रथयति सुषुमां यादवक्ष्माधरेन्दुः ॥ ६२॥
एवम्प्रायानुपूर्वी यदपि करिकरे स्निग्धता दूरदूरे
रम्भास्तम्भे प्रसक्ता यदपि च कियती स्निग्धता क्वानुपूर्वी ।
स्यातां स्नैग्ध्यानुपूर्यौ कृतकमरतकस्तम्भके नो मृदुत्वं
मन्ये मृग्योपमाने यदुशिखरिपतेरुरुकाण्डप्रकाण्डे ॥ ६३॥
किं काहल्यौ किन्नु पूगीकुहल्यौ श्रीभूवाह्ये किं समीच्यौ कलाच्यौ ।
मुग्धस्निग्धोदारदिव्यानुपूर्व्यौ किंवा जङ्घे श्रीयदुक्ष्माधरेन्दोः ॥ ६४॥
विभोः पादाम्भोजं तदिदमशरण्यैकशरणं
परं प्राप्यं प्राप्तं यदुगिरिशिखाशेखरसखम् ।
यदामर्शादाशु द्रवति भृशमाकाशमवशा-
दपि ग्रावा जीवत्यपि मिषति दग्धामिषमपि ॥ ६५॥
सुचरितसुमतिसहितपरचरणप्रणयमननुगुणमिव परिगणयन् ।
यदुगिरिपरिबृढचरणमशरणः शरणमगममिह परिचरणपरः ॥ ६६॥
क्षमालक्ष्मीकल्पव्रततिविततां नातिशिशिरा-
मनुष्णामभ्यर्णोन्मिषदमृतसौगन्ध्यसुभगाम् ।
भकयध्वभ्रान्तिप्रभवपरितापप्रशमनीं
श्रये पादच्छायां यदुगिरितटीकल्पकतरोः ॥ ६७॥
उद्यन्मौलिमुदारफालमुचितश्चेतोर्ध्वपुण्ड्र शुभो-
दञ्चद्भ्रूलतमायतायतदृगम्भोजं सुजातस्मितम् ।
कम्बुग्रीवमुदग्रबाहुविटपं लक्ष्मीलसद्वक्षसं
वन्दे सुन्दरमध्यमोरुचरण श्रीयादवाद्रीश्वरम् ॥ ६८॥
उत्फुल्लपद्मपदमुल्लसदूरुकाण्डमुद्दामकाञ्चिमुपवीतसुवर्णचेलम् ।
आजानुबाहुमरुणाधरमायताक्षमाशास्महे सपदि यादवशैलनाथम् ॥ ६९॥
शमयति तमः सूते सर्वं धिनोति शुभां धियं
घटयति सतां सक्तिं दत्ते सदार्यसमाश्रयम् ।
भवपथपरिभ्रान्तिं रुन्धे व्यनक्ति परं पदं
यदुगिरिशिखारूढं ज्योतिः किमप्यतिमानुषम् ॥ ७०॥
अव्याजं दयते स्मरत्युपनयत्यालोकतेऽङ्गीकरो-
त्युत्सङ्गे कुरुते प्रसीदति मुहुर्मूर्वानमाजिघ्रति ।
आनन्दाननुभावयत्यभिमतैर्दास्यामृतैः प्लावय-
त्येष श्रीयदुशैलमङ्गलनिधिर्नारायणोऽस्मत्कुलम् ॥ ७१॥
प्रेमार्द्राया कमलया क्षमया समेत
मंसांसघट्टनरसोत्पुलकाङ्गभागम् ।
प्राग्दक्षिणे तदिह संयमिसार्वभौम-
सम्पत्प्रसूतमपरं वपुराविरस्ति ॥ ७२॥
श्रीभूस्तनश्रुतिशिरोयतिशेखराङ्क-
श्रीयादवाचलशिखासुलभोपलग्भम् ।
आपन्नतापहरमाश्रितकामधेनु-
माशास्महे कमपि पूरुषमम्बुजाक्षम् ॥ ७३॥
उत्तुङ्गं मकुटे विशालमलिके वक्रं भ्रुवोरायतं
नेत्रान्ते रुचिरं कपोलफलके स्मेरं मुखाम्भोरुहे ।
स्फीतं वृक्षसि संस्थुलं भुजवने मृग्यं वलने सुसं-
श्लिष्टं पादयुगे यतीन्द्रहृदयावासं महः संश्रये ॥ ७४॥
हस्तारविन्दकलिताभयशङ्खचक्र-
मब्जासनाहितपदाब्जमुदग्रमौलि ।
आविःस्मितं सुवदनं यतिराजसूनोः
संस्थानमेव शरणं शरणार्थिनां नः ॥ ७५॥
अञ्चत्किरीटमलकावृतफालमाय-
न्नेत्राब्जमङकुरितहासमुदग्रनासम् ।
विष्वग्भुजं विपुलवक्षसमीक्षिषीय
सम्पत्सुतं तत इतः पुरतोऽभितश्च ॥ ७६॥
जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित्
कुटीं कुर्वन्नीष्टे परमपदवाटीवितरणे ।
तदर्यागारान्तावकरमपनेतुः किल समाः
शतं भोगस्थानं मम भवतु नारायणपुरम् ॥ ७७॥
अचिन्तयित्वा मद्वृत्तमालोक्याचार्यसन्ततिम् ।
दयानिधे निधेहि त्वद्दासदास्यश्रियं मयि ॥ ७८॥
इति तिरुमलार्यकृतः श्रीयदुगिरिनारायणस्तवः सम्पूर्णः ।
स्तोत्रसमुच्चयः २ (६८)
Proofread by Rajesh Thyagarajan, Divya KS