श्रीयदुगिरिनृसिंहसुप्रभातमङ्गलम्
श्रीमन् संयमि सार्वभौम भगवन् रामानुजार्यप्रभो ।
याता रात्रिरुपागतं शिवमहस्तेजोनिधे जागृहि ।
श्रीमद्यादव शैलनित्यवसते श्रीभाष्यकारश्रिया ।
क्षेमं रङ्गवृषाद्रि हस्तियदुशैलाद्येषु संवर्धय ॥ १॥
कौसल्यासुप्रजाराम पूर्वासन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ २॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ ३॥
योगानन्द नृसिंहदेव भगवन् श्रीयादवाद्रीश्वर
प्रह्लादार्चित पञ्चभागवतदृक् सम्मोददायिन् हरे ।
श्रीरामानुजरक्षकारिविजयिन् त्रातश्चर विश्वं सदा
सालग्रामतनोः सुदर्शनसुखं श्रीसुप्रभातं प्रभो ॥ ४॥
श्री सैन्यनायक पराङ्कुशनाय सूरि
पद्माक्ष राम यमुनाऽये सुपूर्णवर्यैः ।
श्रीलक्ष्मणाखिलवरार्थ मदार्यमुख्यैः
नित्यार्चिताम्रिक विभो तव सुप्रभातम् ॥ ५॥
लक्ष्मीश केशव हरे नृहरे मुरारे
शौरे रमारमणकारण दीनबन्धो ।
इत्यादरेण वदतामिह वाञ्छितार्थ
श्रीमन् नृसिंह जगदीश्वर सुप्रभातम् ॥ ६॥
जय जय नरसिंह नारायणानन्त तुभ्यं नमो
जय जय भुजगेन्द्रशायिन् सुखं योगनिद्राऽस्तु ते ।
जय जय सुप्रभाता निशास्तु प्रसीद प्रभो
जय जय करुणानिधे जागृहि श्रीपते जागृहि ॥ ७॥
माणिक्यादि समप्रभं निजरुधा सन्त्रस्तरक्षोगणं
जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् ।
बाहुभ्यां धृतशङ्खचक्रमभयं दंष्ट्रायवक्रोल्लसत्
ज्वालाजिह्वमुदग्रकेशमनिशं वन्दे नृसिंहं विभुम् ॥ ८॥
माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भवनतानाम् ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ ९॥
इन्दुरविपावकलोचन । महाभुज सशङ्खवरचक्र ॥
राजदरविन्द रुचिरं पदयुगं ते ।
हि मम मूर्ध्नि नरसिंह नरसिंह ॥ १०॥
जय जय भगवन् प्रसीद प्रपन्नार्तहारिन् हरे
विरमतु तव योगनिद्रा विनिद्रारविन्दोपमाम् ।
मयि वरद निधेहि दृष्टिं समुत्तिष्ठ शय्यातलात्
फणिपतिमधितिष्ठ भद्रासनं भद्रमेवास्तु ते ॥ ११॥
आसेदुषा यदुगिरिं क्रिमिकण्ठहेतोः
रामानुजेन बहुशः परिशोधितानी ।
आविर्भवन्तु कुशिकान्वयसौम्यसिंह
सूरिप्रियस्य नृहरे तव मङ्गलानि ॥ १२॥
इति श्रीयदुगिरिनृसिंहसुप्रभातमङ्गलं सम्पूर्णम् ।
Proofread by M K Barman