यदुनाथसुप्रभातम्

यदुनाथसुप्रभातम्

यामिन्यपैति यदुनाथ विमुञ्च निद्रा- मुन्मेषमृच्छति तवोन्मिषितेन विश्वम् । जातः स्त्रयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्तनधिया धरणीतले त्वम् ॥ १॥ अश्रान्तसन्ततिभिराभरणप्रकाशै- रारात्रिकं प्रमुखयन्त्य इवोपचारम् । इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां पद्माननाः पदनिवेशितधन्यहस्ताः ॥ २॥ वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं दौवारिकास्तव गृहीतसुजातवेत्राः । निर्गच्छतः प्रविशतश्च निशामयन्तो नाथ त्वदेकहृदया न भजन्ति तन्द्रीम् ॥ ३॥ विश्वैकतीर्थभजनेन विशुद्धिमन्तो निद्रोज्झिता निगमसीम्नि निशात्यये च । वैतानिकान् विधिवशेन विहृत्य वह्नीन् पुण्याशयाः परिचरन्ति पुरोधसस्ते ॥ ४॥ निद्रावशेन निभृतेक्षणमुत्थितानां चित्राणि मन्थरपदान्यपगत्वरीणाम् । काले गृहीतमुचिते रशनाः कथञ्चि- न्मौनव्रतं जहति मुग्धवधूजनानाम् ॥ ५॥ सन्त्यज्यते तरलमौक्तिकजालदृश्यै- स्तारागणैस्त्रिदशवर्त्म तमालनीलम् । पद्मापतेरमृतनिर्मथनावसाने दुग्धाम्बुराशिपृषतैरिव रूपमग्र्यम् ॥ ६॥ नाथ स्फुरन्त्युपयति द्युमणिप्रकाशे न ज्योतिरिङ्खणगणा न च तारकाद्याः । तेजस्विनोऽपि तमसैव समृद्धिमन्त- स्त्वत्सन्निधौ मुषितभास इव त्वदन्ये ॥ ७॥ आनर्तितान् सललितं दिवसावसाने वाचालरत्नवलयैर्निजहस्ततालैः । निद्रालसान् मृगदृशो गृहनीलकण्ठा- नावासयष्टिशिखरादवरोहयन्ति ॥ ८॥ नृत्यन्त्युदीरितघनक्रमसामकाण्डे नेदीयसीं तव निशम्य विभातनान्दीम् । चित्रातपत्रपरिमण्डलचारुबर्हाः श‍ृङ्गारयोनिशरपत्ररुचो मयूराः ॥ ९॥ निर्गत्य चित्रगरुतो निलयान्तरेभ्यः तारस्वनास्तरुणविद्रुमताम्रचूडाः । रत्नाङ्गणेषु रमणीभिरवेक्ष्यमाणाः क्रीडारणं विदधते कृकवाकुवर्याः ॥ १०॥ प्राप्तस्तुलां हरितकोमलबाह्यपत्रैः किञ्चित्परिस्फुरितशोणमुखैः सरोजैः । वामभ्रुवां वलयपङ्क्तिषु सञ्चरन्त्यो मञ्जु क्वणन्ति मणिपञ्जरशारिकास्ते ॥ ११॥ प्रत्यक्षिते तमसि यास्यति विप्रकर्षं सम्भिन्नभानुमति सम्प्रति जीवलोके । गङ्गायमानसलिलं निजरश्मियोगात् सिष्णासयेव सितभानुरुपैति सिन्धुम् ॥ १२॥ प्रत्यूषधर्मसमयेन समग्रधाम्ना शोषं व्रजत्यमृतरश्मिमयूखपूरे । अह्नाय कैश्चिदभिघातमवाप्नुवन्त्य- स्ताराः प्रयान्ति विलयं तनुबुद्बुदाभाः ॥ १३॥ पत्युस्त्विषां प्रजहतः प्रथमान्धितल्पं सन्ध्यासरोरुहदृशः प्रथमोत्थितायाः । सीमन्तिते तिमिरकुन्तलमध्यभागे सिन्दूरराजिरिव भाति मयूखरेखा ॥ १४॥ ज्योत्स्नापदेशमवधूय सितोत्तरीयं स्तोकावशेषितसदाभरणप्रबन्धा । अङ्गीकरोत्यरुणभावितमङ्गरागं प्राचीदिशा दिनपतिं परिभोक्तुकामा ॥ १५॥ निर्णिज्य सम्प्रति निशाङ्गनिवेशलग्नं कालेयपङ्कमिव सन्तमसं कलङ्कम् । क्षोणीभृतामरुणदीधितयोऽनुरक्ताः पादानलक्तकरसैरिव रञ्जयन्ति ॥ १६॥ प्रादुर्भविष्यति चराचरजन्तुवर्गे प्राप्तारुणेन विधुना तमसा च वेला । आभाति भावितपरस्परदेशयोगा- न्मायाविभक्तिरिव लोहितशुक्लकृष्णा ॥ १७॥ उन्निद्रपद्मनयनः सुभगोत्पलाभः सम्भावितो मुनिगणैरुपपन्नबोधैः । रागोत्तरां श्रियमवाप्य रथाङ्गशोभी जातः स एष समयो जगदेकसेव्यः ॥ १८॥ नीतः श्रमं निहतरात्रिवरूथिनीक- श्चन्द्रातपत्रविनिपातविलुप्तभूमा । प्रत्यूषवैरिविभवेन पराहतात्मा कालप्रतीक्ष इव गच्छति कामवीरः ॥ १९॥ योऽसौ जनस्य दिशतीव सुधानिधानं जातध्वनिः श्रुतिषु जागरदुन्दुभिस्ते । मन्ये स एव मदनस्य निशाचरस्य स्वच्छन्दसौप्तिकनिवृत्तिमभिव्यनक्ति ॥ २०॥ अन्तर्बहिश्च तमसा परिमुच्यमाने जागर्यया जगति सम्प्रति दीप्यमाने । पञ्चायुधश्चिरमपि क्रमशान्तिमिच्छन् निद्रामुपैति हृदयेषु नितम्बिनीनाम् ॥ २१॥ अग्रेभवन् गुरुरिव स्वयमानकाना- मादिष्टसंसदिव कन्थरया तवैषः । व्यक्तप्लुतेन निनदेन विशुद्धवर्णः प्रस्तौति नाथ निगमान् प्रतिबोधनार्हः ॥ २२॥ मुग्धाः स्त्रमुष्टिपरिमेयमनोज्ञमध्याः पर्यायचापलतिका इव पञ्चबाणः । प्रास्थानिकप्रणयदुर्विनयोपशान्त्यै प्रत्यक्षयन् प्रतिनिवर्तयतीव यूनः ॥ २३॥ अन्तश्चकासदसितोत्पलमङ्गयोगाद् भासोन्मदेव परिमीलिततारकार्था । निष्पीतकान्तिमकरन्दरसं प्रतीच्यां नीहारमानुचषकं निदधाति सन्ध्या ॥ २४॥ दृष्ट्वा निमीलितवतीं नियतिप्रभावा- दात्मप्रियां कुमुदिनीमवधूतधमा । च्योतत्तुषारनयनोदकबिन्दुरिन्दुः प्रस्थानमिच्छति महत्प्रतिपन्नदैन्यः ॥ २५॥ भोक्तुं दिवं निजवियोगविलुप्तदीप्तिं प्रागेव तीव्ररुचिना प्रहितेव सन्ध्या । मालिन्ययोगमपनीय करावमर्शैः प्रायो यथार्हमनुलिम्पति कुङ्कुमेन ॥ २६॥ अर्थेन पाटलमनूरुकरानुषङ्गा- दर्थान्तरेण मणिमेचकमन्तरिक्षम् । अस्पृष्टतापमधिरोहति निस्तमस्कं संवीतपीतवसनेन तुलां त्वयैव ॥ २७॥ पद्मापदाम्बुरुहयावकपिङ्गधाम्ना भासा नितान्तमुदयान्तरितस्य भानोः । आरज्यते गगनमद्य जगत्प्रसूते- र्नाभीसरोरुहभुवा रजसेव गात्रम् ॥ २८॥ दग्धुं तमो दनुजवृन्दमिवाम्बुराशे- रुत्तस्थुषो मधुरिपोरिव तिग्मधाम्नः । उन्मेषिणी सुमनसामुदिता पुरस्ता- च्चक्रप्रभामनुकरोति मरीचिमाली ॥ २९॥ दृष्टिद्वयं नियतकालमिदं प्रजाना- मेका निमीलति तथोरितराप्यलक्ष्म्या । तत्तादृशोस्तव दृशोर्युगपत्प्रबोधा- दालोकयोगमनघं भजतां त्रिलोकी ॥ ३०॥ प्राचीनशैलविषये प्रचुरांशुरेखां सन्ध्यादशामरुणरागघृतावसिक्ताम् । कालो निधाय सृजतीव शनैस्तदन्ते तिग्मद्युतिं त्रिभुवनैकमहाप्रदीपम् ॥ ३१॥ पर्याप्तरश्मिनिकरेण सुवृत्तभूम्ना सूर्येन्दुबिम्बयुगलेन समस्थितेन । आभाति कालवणिजा परिकल्प्यमाना नक्तन्दिवक्षणतुलेच नमःस्थलश्रीः ॥ ३२॥ नैशं तमः क्षिपति नन्दितचक्रवाके पद्मानि बोधयति भावितमित्रभावे । दृष्टिं प्रसाधयति दर्शितसत्पथेऽस्मिन् दोषोल्बणा कुमुदिनी बहुमानशून्या ॥ ३३॥ पादस्पृशां दिशति भूमिभृतां प्रकाशं सत्त्वं समेधयति सद्भिरुदीरितार्घ्यः । तेजोगणानपि तिरस्कुरुते स्वदीप्त्या चक्रप्रियस्त्वमिव सम्प्रति चण्डभानुः ॥ ३४॥ आजानपाण्डरतनुः परभागमृच्छन् नीलाम्बरद्युतिमुषा निजलाञ्छनेन । स्फीताकृतिः परिगतो मदरागलक्ष्म्या वीर त्वदग्रज इवैष विभाति चन्द्रः ॥ ३५॥ सन्ध्योपरागसमयं प्रतिलभ्य पुण्यं स्नातुं निशा गगनसौधतलावतीर्णा । आरक्तरूपमवलम्बयता कराग्रं पत्या सह प्रविशतीव परं समुद्रम् ॥ ३६॥ देव त्वयीव दिवसागमजागरूके संरक्तविश्वमुदयं सवितर्युपेते । अस्तं शनैरभिपतन् भजते मृगाङ्क- स्त्वद्वैरिवारवनितावदनेन्द्ववस्थाम् ॥ ३७॥ राजास्तमेति सुहृदा मदनेन सार्धं दीनाकृतिः कुमुदिनी दृढबद्धकोशा । वैरी समेति विषमाश्व इतीव भीता छायाच्छलेन भजते गगनं त्रियामा ॥ ३८॥ आमृश्य रात्रिमरुणोदयजातपुष्पां प्राप्तानुताप इव सत्पथलङ्घनेन । ज्योत्स्नांशुकं द्विजपतिः परिधाय नूनं व्रीडानतो विशति वारिनिधिं विवर्णः ॥ ३९॥ अभ्येति भानुरुदयाद्रिमसह्यतेजाः स्थातुं स एष समयो न ममेति पश्यन् । प्रायः समाश्रयति पाशभृताभिगुप्तं तारापतिश्चरमसागरतोयदुर्गम् ॥ ४०॥ मूले मनाग् भवति मुञ्चति पूर्वभागं शैथिल्यमृच्छति तमालरुचिस्त्रियामा । आकृष्यते चरमशैलवने विहर्तुं सीरायुधेन यमुनेव सुधांशुनेयम् ॥ ४१॥ प्रस्थानकालभजनात् परितोषितेन ज्योत्स्नात्मिकां हरिवधूसहजेन दत्ताम् । प्रायेण नाकवनितानखदीप्तिलक्ष्यां शेषापटीं चमरभूभृदसौ दधार ॥ ४२॥ सूक्ष्माभिरामनिजदीधितिसूत्रलम्बी पर्यन्तलग्नतिमिरुलकदर्शनीयः । सिन्दूररञ्जित इवैष विभाति लक्ष्म्याः सीमन्तमौक्तिकमणिः प्रतिभाति चन्द्रः ॥ ४३॥ प्रालेयरूषितमिदं प्रथमेतराब्धौ मग्नैकदेशमनुयाति मृगाङ्कबिम्बम् । मानच्छिदां मकरकेतनसायकानां शाणोपलं चिरनिघर्षणकर्शितार्थम् ॥ ४४॥ आदौ वराभमुदितं शरपाण्डुमध्ये पश्चान्मधूकपरिधूसरमिन्दुबिम्बम् । सम्पद्यते पुनरदृष्टतमामवस्थां कालार्पितं करजचिह्नमिव क्षपायाः ॥ ४५॥ नैशं तमिस्रमरुणेन विलुप्तसारं निःशेषयन्नयमुदेति मयूखमाली । मत्सेवनेन पुरतो मुषितैकदेशं विद्यावतां व्रजिनरशिमिवान्तरात्मा ॥ ४६॥ उद्गच्छता पुरुषकेसरिणेव पूष्णा काले तमो विदलितं करजैः प्रवालैः । गाढं हिरण्यकशिपोरिव गात्रमन्यत् सन्ध्याच्छलेन रुधिरं क्षरतीव सान्द्रम् ॥ ४७॥ प्राप्तोदयस्य तपनस्य तवेव धाम्ना क्षिप्तो गुहान्तरनिरुद्ध इवान्धकारः । विश्वावलोकननिरोधवियातवृत्ते- रत्याहितस्य परिपाकमिवैष भुङ्क्ते ॥ ४८॥ मग्ना चिरं महति सन्तमसाम्बुराशौ दंष्ट्राभिरामरुचिना दिवसागमेन । उत्क्षिप्यते दनुजशोणितलोहितेन प्रायो वराहवपुषा विभुनेव भूमिः ॥ ४९॥ निद्रामपास्य तमसा च दृशो निरोधं प्रत्यङ्मुखं प्रथमतः प्रथयन् प्रकाशम् । निःश्रेयसप्रतिपदेन निजेन धाम्ना विश्वं समाधिरिव दर्शयते विवस्वान् ॥ ५०॥ आशापरीतमविवेकमिवान्धकारं शङ्काशतास्पदमलक्षितसर्वतत्त्वम् । निर्धूय सम्प्रति निशामिव बाह्यविद्यां तत्त्वावसाय इव भाति विभातकालः ॥ ५१॥ निर्विश्य चन्द्रसितपद्मरसं निशात्मा लोलम्बजातिरभितो लुलितान्यपुष्पा । त्वद्वक्त्रचन्द्रनिरपायरसानिदानीं पद्मानुपैति परितोषितराजहंसान् ॥ ५२॥ नात्यन्ततः कुमुदिनी प्रतिपन्ननिद्रा नातीव बोधमुपयाति सरोजिनी च । एतेन नूनमनयोरविशेषदृश्वा नाथानुवृत्तिनियतेव भवत्यवस्था ॥ ५३॥ पर्यस्यता सुरभिपद्मपरागजालं पक्षानिलेन परिधूननसम्भवेन । सन्धुक्षयन्ति मकरध्वजहव्यवाहं शान्तं पुनः पुनरमी सरसीषु हंसाः ॥ ५४॥ कालोत्थिताः स्थितिभृतो गुणयन्त्रितत्वाद् दानोदकार्द्रकरपुष्करदर्शनीयाः । सम्भावयन्त्यभिमुखाः समयोपयातान् भृङ्गान् वनीपकजनानिव वारणेन्द्राः ॥ ५५॥ गञ्जामुपेत्य मदकुञ्जरगण्डपालीं मत्तान् समीक्ष्य मधुपान् परिघूर्णमानान् । शुद्धानि हन्त कुमुदानि तमस्यपेते भूयस्तदन्वयभयादिव सङ्कुचन्ति ॥ ५६॥ सत्त्वक्षमाधिकतया शयिताः पृथिव्यां निद्रामयीं व्यपगमय्य निजामविद्याम् । निःसङ्गवृत्तिनियताः स्थिरसंयमार्हा मुञ्चन्ति सम्प्रति मदं मुदिता गजेन्द्राः ॥ ५७॥ शैब्यादयस्तव हयाः समयप्रबुद्धा- चत्वार एव निगमा इव मूर्तिमन्तः । आवर्तयन्त्यतनुहेषितवीचिभेदै- र्वैरात्रिकं वटुभिरध्ययनं प्रवृत्तम् ॥ ५८॥ आयोधने विहरणे व्यवधानवन्तः प्राज्यैः परिच्छद परिष्करणोपचारैः । संयोजयन्ति रथयोगविदः शताङ्गं तार्क्ष्यं द्वितीयमिव सारथयस्त्वदीयाः ॥ ५९॥ निद्राविशेषविगमेऽपि मद्रानुषङ्गा- न्मन्दं दृशो मुकुलयन्ति मदावलेन्द्राः । एषामनूरुकिरणैररुणीकृतानां सप्तस्रुतां भवति सान्ध्यपयोदलक्ष्मीः ॥ ६०॥ आलक्ष्यदूरमवरोधगृहादमुष्मात् स्वाभाविकं वदनमारुतसौरमं ते । अम्भोरुहाङ्कणमपत्रपयन् समीरो मन्दं परिभ्रमति मन्दिरदीर्घिकासु ॥ ६१॥ आघूर्णितानि मृदुना पवनेन पद्मा- न्यादेशयन्ति मदलेशमयीमवस्थाम् । निर्गच्छतां तव च वारवधूजनानां निद्रावशेषकलुषाणि विलोचनानि ॥ ६२॥ रेणूत्कराः सरसिजोत्पलकैरवाणां कुर्वन्त्यनूरुतिमिरेन्दुरुचिप्रकाशाः । प्रायः समुद्रतरुणीपरिकर्मभूतां चर्चां नवीनघुसृणागरुचन्द्रनानाम् ॥ ६३॥ अध्यासितं कुमुदतल्पमपोह्य काले पद्मोत्पलानि शनकैः श्रियमाव्रजन्तीम् । सञ्जीवयन्त्यलघुचामरदर्शनीयैः पक्षैः स्वयं परिजना इव राजहंसाः ॥ ६४॥ प्रत्यूषलक्षणरसायनसम्प्रयोगात् ?प्रालेयरश्मिमहसाजरसेव मुक्तः । पद्मोत्पलप्रभृतिभिः परिकर्मवत्यो गृह्णन्ति यौवनदशां गृहदीर्घिकास्ते ॥ ६५॥ औद्यानिकीषु सुमनःस्वनवाप्तपूर्व नूनं सरोरुहवनेषु च नूतनेषु । आदित्सते वदनमारुतसौरभं ते शय्यानिकायमभितो विहरन् समीरः ॥ ६६॥ अर्च्यस्य सम्प्रति सतामवगाढतीर्था मन्ये प्रगृह्य नलिनी मकरन्दमर्घ्यम् । व्यक्तद्विरेफनिनदा विहिताभिमुख्या पत्युस्त्विषां प्रणयतीव करप्रसारम् ॥ ६७॥ ज्योत्स्नासखीं कुमुदिनीं भ्रमरः प्रहृष्यन् निर्विश्य नित्यपरिशुद्धरुचिं निशायाम् । रागादुपैति नलिनीं रजसाभिजुष्टां किं नाम नाचरति मन्मथहस्तवर्ती ॥ ६८॥ सन्ध्याच्छलेन पुरुषोत्तम सम्प्रतं ते सैवाधुना भृगुसुता तमसां निहन्त्री । भूयः समुत्थितवती घृतपुण्डरीका भोगाय सागरगृहाद् भुवनैकयूनः ॥ ६९॥ चन्द्रातपत्रिदिवशैवलिनीप्रवाहे मग्नोत्थितां कमलिनीमुपसेवमानाः । प्रत्यग्रभिन्नमुकुलप्रसृतैः परागै- रुत्थापयन्त्यगरुधूपमिवोत्पलिन्या ॥ ७०॥ पौरन्दरीं दिशमनूरुनिबद्धरागां दृष्ट्वा तथा परिणमत्यपरा दिशापि । स्त्रीणां गतानुगतिकप्रतिमत्तिभाजां ख्यातं ततो भवति कामितकामिनीत्वम् ॥ ७१॥ निद्रायते कुमुदिनी चिरसम्प्रबुद्धा सुप्ता प्रबोधमुपयाति सरोजिनी च । यामेषु वृत्तिमनयोरधिगम्य नूनं शिष्यायितं त्वदवरोधनितम्बिनीभिः ॥ ७२॥ मित्रस्य लुप्ततमसोऽप्यतिरागभाजः सम्प्रोक्षणं मम न युक्तमितीव मत्वा । मीलत्यसौ कुमुदिनी सह तारकाभिः प्राप्तं व्रतं तदिह राजपरिग्रहाणाम् ॥ ७३॥ आमोदयोगमवशात् सहसाश्रयन्ते पत्युस्त्विषां तव च पादनिषेवणेन । क्षिप्तास्त्वया हृदि गृहीतशुचः क्षितीन्द्राः स्वान्तर्निविष्टमधुपाश्च सरोजकोशाः ॥ ७४॥ आविःस्मितैरमरसिन्धुतरङ्गकल्पै- राकेकरप्रियतमाजनदृष्टिभोग्यैः । त्वत्सौखशायनिकसूरिङ्गणेन सार्धं निर्वेशयोगमुपयाम निरीक्षणैस्ते ॥ ७५॥ अधिगतनिलयानामौपवाह्यद्विपानां मदपयसि वितत्वन् मज्जनोन्मज्जनानि । प्रवहति पवमानः स्पन्दयन् मन्दमन्दं परिणमदरुणिम्नः पङ्कजारण्यकोशान् ॥ ७६॥ उपवनमधुपानामुन्मदैः स्वैरगीतै- स्तनुमरुदुपदिष्टोश्चारुलस्यैर्लतानाम् । दरविलुषितदानैर्दन्तिनां कर्णतालैः समयसमुचितं ते भाति सङ्गीतकृत्यम् ॥ ७७॥ हरति रतिविहारैरर्धविस्रंसितानां युवजनहृदयानि श्रान्तपञ्चायुधानि । उपहितगुणमारादुत्थिताभिर्वधूभिः कुटिलनियमिताग्रं गुम्फनं चूलिकानाम् ॥ ७८॥ क्षितिरियमवधूतध्वान्तनीलोत्तरीया विकसितमुखपद्मा व्यक्तसन्ध्याङ्गरागा । अभिमतकरदानान्निर्यपेक्षा त्वदन्यै- रनुभवितुमिव त्वां दर्शयन्त्यात्मरूपम् ॥ ७९॥ मधुन इव दयायाः सामरस्यं दधानैः कमलवनमनन्यां कान्तिमध्यापयद्भिः । फणिपतिरमणीयं देवपर्यङ्कमुज्झन् परिणमय शुभं नः पावनैरक्षिपातैः ॥ ८०॥ दिनमुख इति नाम श्रावितः सूतपुत्रै- रभजत जितनिद्रो जागरं यादवेन्द्रः । सरिदुपगमकाले साधुसंरक्षणार्थी मुनिभिरिव स एव स्तूयमानो मुकुन्दः ॥ ८१॥ धनमिव निगमानां धर्ममुत्तम्भयिष्यन् त्रिजगदनुविधेयं कर्म निष्पाद्य सान्ध्यम् । सितगुणपरिधानैः सेवितो मन्त्रिमुख्यै- रलमकुरुत नाथो हैममास्थानपीठम् ॥ ८२॥ इति श्रीयदुनाथसुप्रभातं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (६९) Proofread by Rajesh Thyagarajan
% Text title            : Yadunatha Suprabhatam
% File name             : yadunAthasuprabhAtam.itx
% itxtitle              : yadunAthasuprabhAtam
% engtitle              : yadunAthasuprabhAtam
% Category              : vishhnu, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org