यमकृतं जगन्नाथस्तोत्रम्
यम उवाच ।
नमस्ते देवदेवेश सृष्टिस्थित्यन्तकारण ॥ १६॥
त्वयि प्रोतमिदं सर्वं सूत्रे मणिगणा यथा ।
त्वया धृतं त्वया सृष्टं त्वया चाप्यायितं जगत् ॥ १७॥
चन्द्रसूर्यादिरूपेण नित्यं भासयसेऽखिलम् ।
विश्वेश्वरं जगद्योनिं विश्वावासं जगद्गुरुम् ॥ १८॥
विश्वसाक्षिणमाद्यन्तवर्जितं प्रणमाम्यहम् ।
नमः परमकारुण्यजलसम्भृतसिन्धवे ॥ १९॥
परापरपरातीतविभवे विश्वसम्भव ॥ २.२.२०॥
भवसन्तापनीहारभानवे दीनबन्धवे ।
स्वमायारचिताशेषविभवे गुणरज्जवे ॥ २१॥
नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।
महाहवरिपुस्कन्ध कृन्तचक्राय चक्रिणे ॥ २२॥
दंष्ट्रोद्धृत क्षितिभृते त्रयीमूर्तिमते नमः ।
नमो यज्ञवराहाय चन्द्रसूर्याग्निचक्षुषे ॥ २३॥
नरसिंहाय दंष्ट्रोग्रमूर्तिद्रावितशत्रवे ।
यदपाङ्गविलासैकसृष्टिस्थित्युपसंहृतिः ॥ २४॥
उच्चावचात्मको ह्येष भवः सम्भवते मुहुः ।
तममुं नीलमेघाभं नीलाश्ममणिविग्रहम् ॥ २५॥
नीलाचलगुहावासं प्रणमामि कृपानिधिम् ।
शङ्खचक्रगदापद्मधारिणं शुभदायिनम् ॥ २६॥
प्रणताशेषपापौघदारिणं मुरवैरिणम् ।
नमस्ते कमलापाङ्ग सङ्गसंस्कारचक्षुषे ॥ २७॥
श्रीवत्सकौस्तुभोद्भासि मनोहृद्व्यूढवक्षसे ।
यत्पादपङ्कजद्वन्द्वसंश्रयैश्वर्यभागिनी ॥ २८॥
श्रीः संश्रिता जनैः शश्वत्पृथगैश्वर्यदायिनी ।
या परापरसम्भिन्ना प्रकृतिस्ते सिसृक्षया ॥ २९॥
निर्विकारं परं ब्रह्म विकारि ससृजेंऽजसा ।
सर्वलक्षणसम्पूर्णा लक्षितां शुभलक्षणैः ।
लक्ष्मीशोरसि नित्यस्था लक्ष्मीं तां प्रणमाम्यहम् ॥ २.२.३०॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
द्वितीयाध्यायान्तर्गतं यमकृतं जगन्नाथस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । पुरुषोत्तमखण्ड । अध्याय २/१६-३०॥
skandapurANa . vaiShNavakhaNDa . puruShottamakhaNDa . adhyAya 2/16-30..
Proofread by PSA Easwaran