॥ योगवासिष्ठः ॥

वैराग्यप्रकरणं प्रथमम् । प्रथमः सर्गः । श्रीमहागणपतिचरणारविन्दाभ्यां नमः । ॥ श्रीः ॥ यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च । यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥ १॥ ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः । कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञप्त्यात्मने नमः ॥ २॥ स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ । सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥ ३॥ सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः । अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥ ४॥ सुतीक्ष्ण उवाच । भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित । संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ॥ ५॥ मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् । उभयं वा विनिश्चित्य एकं कथय कारणम् ॥ ६॥ अगस्ति उवाच । उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७॥ केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते । किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ ८॥ अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते । कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥ ९॥ अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः । गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥ १०॥ तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा । अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥ ११॥ प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च । अग्निवेश्य उवाच । किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥ १२॥ अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद । कर्मणोऽस्मान्निवृतेः किं कारणं तन्निवेद्यताम् ॥ १३॥ कारुण्य उवाच । यावज्जिवमग्निहोत्रं नित्यं सन्ध्यामुपासयेत् । प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः ॥ १४॥ न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा । त्यागमात्रेण किन्त्वेते यतयोऽश्नन्ति चामृतम् ॥ १५॥ इति श्रुत्यार्द्वयोर्मध्ये किं कर्तव्यं मया गुरो । इति सन्धिग्धतां गत्वा तूष्णीं भूतोऽस्मि कर्मणि ॥ १६॥ अगस्ति उवाच । इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः । तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७॥ अग्निवेश्य उवाच । श्रृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् । मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥ १८॥ सुरुचिर्नाम काचित्स्त्री अप्सरोगणौत्तमा । उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥ १९॥ रमन्ते कामसन्तप्ताः किन्नर्यो यत्र किन्नरैः । स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ २०॥ दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा । तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥ २१॥ सुरुचिरुवाच । देवदूत महाभाग कुत आगम्यते त्वया । अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥ २२॥ देवदूत उवाच । साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते । अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥ २३॥ वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् । तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥ २४॥ कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना । गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् ॥ २५॥ अप्सरा उवाच । वृत्तान्तः कोअऽभवत्तत्र कथयस्व मम प्रभो । प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥ २६॥ देवदूत उवाच । श्रृणु भद्रे यथावृत्तं विस्तरेण वदामि ते । तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥ २७॥ इत्यहं देवराजेन सुभ्रुराज्ञापितस्तदा । दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥ २८॥ अप्सरोगणसंयुक्तं नानावादित्रशोभितम् । गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥ २९॥ तालवेणुमृदङ्गादि पर्वते गन्धमादने । नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ॥ ३०॥ अरिष्टनेमिं राजानं दूतारोप्य विमानके । आनय स्वर्गभोगाय नगरीममरावतीम् ॥ ३१॥ दूत उवाच । इत्याज्ञां प्राप्य शक्रस्य गृहित्वा तद्विमानकम् । सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥ ३२॥ आगत्य पर्वते तस्मिन्राज्ञो गत्वाऽऽश्रमं मया । निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥ ३३॥ इति मद्वचनं श्रुत्वा संशयानोऽवदच्छुभे । राजोवाच । प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥ ३४॥ गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः । ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ॥ ३५॥ दूत उवाच । स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् । उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥ ३६॥ मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा । कनिष्ठेन तो पुण्येन स्वर्गो भवति तादृशः ॥ ३७॥ परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः । कनिष्ठेषु च सन्तोषो यावत्पुण्यक्षयो भवेत् ॥ ३८॥ क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः । इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९॥ इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत । राजोवाच । नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥ ४०॥ अतः परं महोग्रं च तपः कृत्वा कलेवरम् । त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥ ४१॥ देवदूत विमानेदं गृहीत्वा त्वं यथागतः । तथा गच्छ महेन्द्रस्य सन्निधौ त्वं नमोऽस्तु ते ॥ ४२॥ देव्दूत उवाच । इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम् । यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३॥ पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा । इन्द्र उवाच । दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् । । ४४॥ वाल्मीकेर्ज्ञाततत्त्वस्य स्वभोधार्थं विरागिणम् । सन्देशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥ ४५॥ महर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे । नस्वर्गमिच्छते तत्त्वं प्रबोधाय महामुने ॥ ४६॥ तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् । इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥ ४७॥ मयागत्य पुनस्तत्र राजा वल्मीकजन्मने । निवेदिता महेन्द्रस्य राज्ञा मोक्ष्यस्य साधनम् ॥ ४८॥ ततो वल्मीकजन्मासौ राजानं समपृच्छत । अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥ ४९॥ राजोवाच । भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर । कृतार्थोऽहं भवदृष्ट्या तदेव कुशलं मम ॥ ५०॥ भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद । संसारबन्धदुःखार्ते कथं मुञ्चामि तद्वद ॥ ५१॥ वाल्मीकिरुवाच । श्रृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् । श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥ ५२॥ वसिष्टरामसंवादं मोक्षोपायकथां शुभाम् । ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥ ५३॥ राजोवच । को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा । एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥ ५४॥ वाल्मीकिरुवाच । शापव्याजवशादेव राजवेषधरो हरिः । आहृताज्ञानसम्पन्नः किञ्चिज्ज्ञोऽसौ भवत्प्रभुः ॥ ५५॥ राजोवच । चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे । शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥ ५६॥ वाल्मीकिरुवाच । सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि । वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥ ५७॥ ब्रह्मणा पूजितस्त्र सत्यलोकनिवासिभिः । विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः ॥ ५८॥ सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया । अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९॥ तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् । किञ्चित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥ ६०॥ भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः । विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥ ६१॥ वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् । अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥ ६२॥ भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता । नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३॥ तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः । तवपि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४॥ भृगुणैवं कुमारेण शापितो देवशर्मणा । वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५॥ एतत्ते कथितं सर्वं शापव्याजस्य कारणम् । इदानीं वच्मि तत्सर्वं सावधानमतिः श्रृणु ॥ ६६॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे सूत्रपातनको नाम प्रथमः सर्गः ॥ १॥
द्वितीयः सर्गः दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः । यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥ १॥ वाल्मीकिरुवाच । अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः । नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवान् ॥ २॥ कथोपायान्विचार्यादौ मोक्षोपायानिमानथ । यो विचारयति प्रज्ञो न स भूयोऽभिजायते ॥ ३॥ अस्मिन्रामायणे रामकथोपायान्महाबलान् । एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥ ४॥ शिष्यासास्मि विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने ॥ ५॥ तत एते कथोपाया भरद्वाजेन धीमता । कस्मिंश्चिन्मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ ६॥ अथास्य तुष्टो भगवान्ब्रह्मा लोकपितामहः । वरं पुत्र गृहाणेति तमुवाच महाशयः ॥ ७॥ भरद्वाज उवाच । भगवन्भूतभव्येश वरोअयं मे/ऽद्य रोचते । येनेयं जनता दुःखान्मुच्यते तदुदाहर ॥ ८॥ श्रीब्रह्मोवाच । गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः । तेनेदं यत्समारब्धं रामायणमनिन्दितम् ॥ ९॥ तस्मिञ्छुते नरो मोहात्समग्रात्सन्तरिष्यति । सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥ १०॥ श्रीवाल्मीकिरुवाच । इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् । अभ्यासगच्छत्समं तेन भरद्वाजेन भूतकृत् ॥ ११॥ तूर्णं सम्पूजितो देवः सोऽर्घ्यपाद्यादिना मया । अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥ १२॥ रामस्वभावकथनादस्माद्वरमुने त्वया । नोद्वेगात्स परित्याज्य आसमाप्तेरनिन्दितात् ॥ १३॥ ग्रन्थेनानेन लोकोऽयमस्मात्संसारसङ्कटात् । समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥ १४॥ वक्तुं तदेवमेवार्थमहमागतवानयम् । कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥ १५॥ मम पुण्याश्रमात्तस्मात्क्षणादन्तर्द्धिमागतः । मुहूर्ताभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः ॥ १६॥ तस्मिन्प्रयाते भवत्यहं विस्मयमागतः । पुनस्तत्र भरद्वाजंअपृच्छं स्वस्थया धिया ॥ १७॥ किमतेद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे । इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन तेन मे ॥ १८॥ भरद्वाज उवाच । एतदुक्तं भगवता यथा रामायणं कुरु । सर्वलोकहितार्थाय संसारार्णवतारकम् ॥ १९॥ मह्यं च भगवन्ब्रूहि कथं संसारसङ्कटे । रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥ २०॥ शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी । रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ २१॥ निर्दुःखितां यथैते नु प्राप्तास्तद्ब्रूहि मे स्फुटम् । तथैवाहं भविष्यामि ततो जनतया सह ॥ २२॥ भरद्वाजेन राजेन्द्र वदेत्युक्तोऽस्मि सादरम् । तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ २३॥ श्रृणु वत्स भरद्वाज यथापृष्टं वदामि ते । श्रुतेन येन संमोहमलं दूरे करिष्यसि ॥ २४॥ तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ २५॥ लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस्तधा ॥ २६॥ कृतास्त्रश्चाऽविरोधश्च बोधपारमुपागताः । वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ २७॥ धृष्टिर्जयन्तो भासश्च सत्यो विजय एव हि । विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ २८॥ एतेऽष्टौ मन्त्रिण प्रोक्ताः समनीरागचेतसः । जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ २९॥ एतैर्यथा हुतं दत्तं गृहीतमुषितं स्मृतम् । थथा चेद्वर्तसे पुत्र मुक्त एवासि सङ्कटाअत् ॥ ३०॥ अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिमुदारसत्त्वः । नशोकमायाति न दैन्यमेति गतज्वरस्तिष्ठति नित्यतृप्तः ॥ ३१॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सूत्रपातनको नाम द्वितीयः सर्गः ॥ २॥
तृतीयः सर्गः भरद्वाज उवाच । जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वा राघवमादितः । क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ १॥ श्रीवाल्मीकिरुवाच । भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ २॥ दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते । कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥ ३॥ स चेह सम्भवत्येव तदर्थमिदमाततम् । शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥ ४॥ जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते । वर्णो व्योम्न इवाखेदाद्विचारणामुनाऽनघ ॥ ५॥ दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । सम्पन्नं देत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ६॥ अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह । भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः ॥ ७॥ अशेषेण परित्यागो वासनानां य उत्तमः । मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥ ८॥ क्षीणायां वासनायां तु चेतो गलति सत्वरम् । क्षीणायां शीतसन्तत्यां ब्रह्मन्हिमकणो यथा ॥ ९॥ अयं वासनया देहो ध्रियते भूतपञ्जरः । तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥ १०॥ वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥ ११॥ अज्ञानसुघनाकारा घनाहङ्कारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ १२॥ पुनर्जन्माङ्कुरं त्यक्त्वास्थिता सम्भृष्टबीजवत् । देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥ १३॥ अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु । वासना विद्यते शुद्धा देहे चक्र एव भ्रमः ॥ १४॥ ये शुद्धवासना भूयो न जन्मानर्थभाजनम् । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ १५॥ जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः । तत्तेऽहं श्रृणु वक्ष्यामि जरामरणशान्तये ॥ १६॥ भरद्वाज महाबुद्धे रामक्रममिमं शुभम् । श्रृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥ १७॥ विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः । दिवसान्यनयद्रेहे लीलाभिरकुतोभयः ॥ १८॥ अथ गच्छति काले तु पालयत्यवनिं नृपे । प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ १९॥ तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः । रामस्याभूद्भृशं तत्र कदाचित्गुणशालिनः ॥ २०॥ राघवचिन्तयित्वैवमुपेत्य चरणौ पितुः । हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥ २१॥ श्रीराम उवाच । तीर्थानि देवसद्मानि वनान्यायतनानि च । द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥ २२॥ तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि । न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः ॥ २३॥ इति सं प्रार्थितो राजा वसिष्ठेन समं तदा । विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ २४॥ शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः । मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ २५॥ वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः । स्निग्धै कतिपयैरेव राजपुत्रवरैः सह ॥ २६॥ अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः । निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥ २७॥ निर्गतः स्वपुरात्पौरेस्तूर्यघोषेण वादितः । पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥ २८॥ ग्रामीणललनालोलहस्तपद्मापनोदितैः । लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥ २९॥ आवर्जयन्विप्रगणान्परिश्रृण्वन्प्रजाशिषः । आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥ ३०॥ अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डलात् । स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ ३१॥ नदीतीराणि पुण्यानि वनान्यायतनानि च जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥ ३२॥ मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् । सरस्वतीं शतद्रूं च चन्द्राभागामिरावतीम् ॥ ३३॥ वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा । चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ३४॥ प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा । वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ३५॥ मानसं च क्रमसरस्तथैवोत्तरमानसम् । वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥ ३६॥ अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा । सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥ ३७॥ स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा । स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥ ३८॥ नानाश्चर्यविचित्राणि चतुरब्धितटानि च । विन्ध्यमन्दरकुञ्जांश्च कुलशैलास्थलानि च ॥ ३९॥ राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां च पावनानाश्रमाञ्छुभान् ॥ ४०॥ भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः । चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ४१॥ अमरकिन्नरमानवमानितः समवलोक्य महीमखिलामिमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकमिवेश्वरः ॥ ४२॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तीर्थयात्राप्रकरणं नाम तृतीयः सर्गः ॥ ३॥
चतुर्थः सर्गः श्रीवाल्मीकिरुवाच । रामः पुष्पाञ्जलिव्रातैर्विकीर्णः पुरवासिभिः । प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥ १॥ प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् । ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः ॥ २॥ सुहृद्भिर्भ्रातृभिश्चैव पित्रा द्विजगणेन च । मुहुरालिङ्गिताचारो राघवो न ममौ मुदा ॥ ३॥ तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः । जुघुर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥ ४॥ बभूवाथ दिनान्यष्टौ रामागमन उत्सवः । सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः ॥ ५॥ उवास स सुखं गेहे ततः प्रभृति राघवः । वर्णयन्विविधाकारान्देशाचारानितस्ततः ॥ ६॥ प्रातरुत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि । सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा ॥ ७॥ कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह । स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥ ८॥ जगाम पित्रानुज्ञातो महत्या सेनया वृतः । वराहमहिषाकीर्णं वनमाखेटकेच्छया ॥ ९॥ तत आगत्य सदने कृत्वा स्नानादिकं क्रमम् । समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥ १०॥ एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघव । आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥ ११॥ नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकयानया । परिनिनाय दिनानि स चेष्टया स्तुतसुधारसपेशलयाऽनघ ॥ १२॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दिवसव्यवहारनिरूपणं नाम चतुर्थः सर्गः ॥ ४॥
पन्ञ्चम सर्गः श्रीवाल्मीकिरुवाच । अथोनुषोडशे वर्षे वर्तमाने रघूद्वहे । रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ १॥ भरते संस्थिते नित्यं मातामहगृहे सुखम् । पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥ २॥ जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः । कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ ३॥ कृतायां तीर्थयात्रायां रामो निजगृहे स्थितम् । जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ ४॥ कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे । पाकफुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥ ५॥ कपोलतलसंलीनपाणिः पद्मासनस्थितः । चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह ॥ ६॥ कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः । नोवाच कस्यचित्किञ्चिल्लिपिकर्मार्पितोपमः ॥ ७॥ खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः । चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥ ८॥ एव्ङ्गुणविशिष्टं तं रामं गुणगणाकरम् । आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥ ९॥ तथा तेषु तनुजेषुखेदवत्सु कृशेषु च । सपत्निको महीपालश्चिन्ताविवशतां ययौ ॥ १०॥ का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः । अपृच्छत्स्निग्धया वाचा नैवाकथयदस्य सः ॥ ११॥ न किञ्चित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः । रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥ १२॥ ततो दशरथो राजा रामः किं खेदवानिति । अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ १३॥ इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः । अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते ॥ १४॥ कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति सन्तः । सर्गेण संहृतिजवेन विना जगत्यां भूतानि भूप न महान्ति विकारवन्ति ॥ १५॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कार्श्यनिवेदनं नाम पञ्चमः सर्गः ॥ ५
षष्ठः सर्गः श्रीवाल्मीकिरुवाच । इत्युक्ते मुनिनाथेन सन्देहवति पार्थिवे । खेदवत्यास्थिते मौनं किञ्चित्कालप्रतीक्षणे ॥ १॥ परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु । स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ २॥ एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः । महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥ ३॥ तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल । मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥ ४॥ रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् । नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् ॥ ५॥ ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः । विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥ ६॥ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ ७॥ तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः । सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ८॥ ते गत्वा राजसदनं विश्वामित्रमृषिं ततः । प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा ॥ ९॥ अथास्थानगतं भूपं राजमण्डलमालिनम् । समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ १०॥ देव द्वारि महातेजा बालभास्करभासुरः । ज्वालारुणजटाजूटः पुमाञ्छ्रीमानवस्थितः ॥ ११॥ सभासुरापताकान्तं साश्वेभपुरुषायुधम् । कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥ १२॥ वीक्ष्यमाणे तु याष्टिके निवेदयति राजनि । विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥ १३॥ इति याष्टीकवचनमाकर्ण्य नृपसत्तमः । स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् ॥ १४॥ पदातिरेव सहसा राज्ञां वृन्देन मालितः । वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ १५॥ जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः । ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् ॥ १६॥ केनापि कारणेनोर्वीतलमर्कमुपागतम् । ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ १७॥ जराजरठया नित्यं तपःप्रसररूक्षया । जटावल्या वृतस्कन्धं ससन्ध्याभ्रमिवाचलम् ॥ १८॥ उपशान्तं च कान्तं च दीप्तमप्रतिघाति च । निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ १९॥ पेशलेनातिभीमेन प्रसन्नेनाकुलेन च । गम्भीरेणातिपुर्णेन तेजसा रञ्जितप्रभम् ॥ २०॥ अनन्तजीवितदशासखीमेकामनिन्दिताम् । धारयन्तं करे श्लक्ष्णां कुण्डीमम्लानमानसम् ॥ २१॥ करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः । वीक्षणैरमृतेनेव संसिऽचन्तमिमाः प्रजाः ॥ २२॥ युक्तोयज्ञोपवीताङ्गं धवलप्रोन्नतभ्रुवम् । अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥ २३॥ मुनिमालोक्य भूपालो दूरादेवानताकृतिः । प्रणनाम गलन्मौलिमणिमानितभूतलम् ॥ २४॥ मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् । तत्राभिवादयाञ्चक्रे मधुरोदारया गिरा ॥ २५॥ ततो वसिष्ठप्रमुखाः सर एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ २६॥ दशरथ उवाच । अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ २७॥ यदनादि यदक्षुण्णं यदपायविवर्जितम् । तदानन्दसुखं प्राप्तं मया त्वद्दर्शमान्मुने ॥ २८॥ अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः । भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥ २९॥ एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः । आसनेषु सभास्थानमासाद्य समुपाविशन् ॥ ३०॥ स दृष्ट्वा मालितं लक्ष्म्याभीतस्तमृषिसत्तमम् । प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ३१॥ स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा । प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ३२॥ स राजा पूजितस्तेन प्रहृष्टवदनस्तदा । कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ३३॥ वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः । यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥ ३४॥ क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च । ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ३५॥ यतोचितासनगता मिथः संवृद्धतेजसः । परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् ॥ ३६॥ उपविष्टाय तस्मै स विश्वामित्राय धीमते । पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् ॥ ३७॥ अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत । प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमाना नृपः ॥ ३८॥ यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमवर्षके । यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ३९॥ यथेष्टदारसम्पर्कात्पुत्रजन्माऽप्रजावतः । स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ४०॥ यथेप्सितेन संयोग इष्टस्यागमनं यथा । प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ४१॥ यथा हर्षो नभोगत्या मृतस्य पुनरागमात् । थथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥ ४२॥ ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् । मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ४३॥ कश्च ते परमः कामः किं च ते करवाण्यहम् । पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ४४॥ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः । ब्रह्मर्षित्वमनुप्राप्तः पूजोऽसि भगवन्मया ॥ ४५॥ गङ्गाजलभिषेकेण यथा प्रीतिर्भवेन्मम । तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ४६॥ विगतेच्छाभयक्रोधो वीतरागो निरामयः । इदमत्यद्भुतं ब्रह्मन्यद्वान्मामुपागतः । । ४७॥ शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् । चन्द्रमिम्ब इवोन्मग्नं वेदवेद्य विदांवर ॥ ४८॥ साक्षादिव ब्रह्मणो मे तवाभागमनं मतम् । पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनां मुने ॥ ४९॥ त्वदागमनपुण्येन साधो यदनुरञ्जितम् । अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ५०॥ त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च । आत्मन्येव नमाम्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा ॥ ५१॥ यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव । कृतमित्येव तद्विद्धि मानोऽसीति सदा मम ॥ ५२॥ स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक । भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥ ५३॥ कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः । कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ५४॥ इदमतिमधुरं निशम्य वाक्यं श्रुतिसुखमात्मविदा विनीतमुक्तम् । प्रथितगुणयशा गुणैअर्विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥ ५५॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम षष्ठः सर्गः ॥ ६
स्प्तमः सर्गः श्रीवाल्मीकिरुवाच । तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टमानो महातेजा विश्वामित्रोऽभ्यभाषत ॥ १॥ सदृशं राजशार्दूल तवैवैतन्महीतले । महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २॥ यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् । कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३॥ अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ४॥ यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजान् । तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५॥ बहुशो विहिते तस्मिन्मया राक्षसनायकाः । अकिरस्ते महीं यागे मांसेन रुधिरेण च ॥ ६॥ अवधूते तथाभूते तस्मिन्यागकदम्बके । कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः ॥ ७॥ न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव । तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ८॥ ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ । त्वत्प्रसादादविघ्नेनप्रापयेयं महाफलम् ॥ ९॥ त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् । अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १०॥ तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः । महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११॥ तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् । काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ १२॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तजसा । राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३॥ श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् । त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ १४॥ न च ते राममासाद्य स्थातुं शक्ता निशाचराः । क्रुद्धं केसरिणं दृष्ट्वा वनरेण इवैणकाः ॥ १५॥ तेषां न चान्यः काकुस्थाद्योद्धुमुत्सहते पुमान् । ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ १६॥ वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे । खर्दूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ १७॥ रामस्य राजशार्दूल सहिष्यन्ते न सायकान् । अनारतगता धारा जलदस्येव पांसवः ॥ १८॥ न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव । न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥ १९॥ हन्त नूनं विजानामि हतांस्तान्विद्धि राक्षसान् । नह्यस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ २०॥ अहं वेद्मि महात्मानं रामं राजीवलोचनम् । वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ २१॥ यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् । तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥ २२॥ दशरात्रश्च मे यज्ञो यस्मिन्रामेण राक्षसाः । हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ २३॥ अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः । वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ २४॥ नात्येति कालः कालज्ञ यथायं मम राघव । तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ २५॥ कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥ २६॥ इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः । विरराम महातेजा विश्वामित्रो मुनिश्वरः ॥ २७॥ श्रुत्वा वचो मुनिवरस्य महानुभाव- स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् । नो युक्तियुक्तकथनेन विनैति तोषं धीमानपूरितमनोऽभिमतश्च लोकः ॥ २८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे विश्वामित्रवाक्यं नाम सप्तमः सर्गः ॥ ७
अष्टमः सर्गः वाल्मीकिरुवाच तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमासीन्निश्चेष्टः सदेन्य चेतमब्रवीत् ॥ १॥ ऊनषोडशवर्षोऽयं रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २॥ इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो । तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥ ३॥ इमे हि शूरा विक्रान्ता भृत्या मन्त्रविशारदाः । अहं चैषां धनुष्पाणिर्गोप्ता समरमूर्धनि ॥ ४॥ एभिः सहैव वीराणां महेन्द्रमहतामपि । ददामि युद्धं मत्तानां करिणामिव केसरी ॥ ५॥ बालो रामस्त्वनीकेषु न जानाति बलाबलम् । अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः ॥ ६॥ न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः । नवास्त्रैः शूतकोटिनां तज्ज्ञः समरभूमिषु ॥ ७॥ केवलं पुष्पखण्डेषु नगरोपवनेषु च । उद्यानवनकुञ्जेषु सदैव परिशीलनम् ॥ ८॥ विवर्तुमेष जानाति सह राजकुमारकैः । कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु ॥ ९॥ अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् । हिमेनेव हि पद्माभः सम्पन्नो हरिणः कृशः ॥ १०॥ नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनिम् । अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥ ११॥ सदारः सहभृत्योऽहं तत्कृते मुनिनायक । शरदीव पयोवाहो नूनं निःसारतां गतः ॥ १२॥ ईदृशोऽसौ सुतो बाल आधिनाऽथ वशीकृतः । कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥ १३॥ अपि बालाङ्गनासङ्गादपि साधो सुधारसात् । राज्यादपि सुखायैव पुत्रस्नेहो महामते ॥ १४॥ ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः । पुत्रस्नेहेन सन्तोऽपि कुर्वते तानसंशयम् ॥ १५॥ असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम् । न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥ १६॥ राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा ॥ १७॥ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे । जीवितुं जीविताकाङ्क्षी न रामं नेतुर्मर्हसि ॥ १८॥ नववर्षसहस्राणि मम जातस्य कौशिक । दुःखेनोत्पादितास्त्येते चत्वारः पुत्रका मया ॥ १९॥ प्रधानभूतस्तेष्वेव रामः कमललोचनः । तं विनेह त्रयोऽप्यन्ये धारयन्ति न जीवितम् ॥ २०॥ स एव रामो भवता नीयते राक्षसान्प्रति । यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥ २१॥ चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा । ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥ २२॥ निशाचरबलं हन्तुं मुने यदि तवेप्सितम् । चतुरङ्गसमायुक्तं मया सह बलं नय ॥ २३॥ किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते । कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम् ॥ २४॥ कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् । मामकैर्बालकैर्ब्रह्मन्मया वा कूटयोधिनाम् ॥ २५॥ सर्वं मे शंस भगवन्यथा तेषां महारणे । स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः ॥ २६॥ श्रूयते हि महावीर्यो रावणो नाम राक्षसः । साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ २७॥ स चेत्तव मखे विघ्नं करोति किल दुर्मतिः । तत्सङ्ग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः ॥ २८॥ काले काले पृथब्रह्मन्भूरिवीर्यविभूतयः । भूतेष्वभ्युदयं यान्ति प्रलीयते च कालतः ॥ २९॥ अद्यास्मिंस्तु वयं काल रावणादिषु शत्रुषु । न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः ॥ ३०॥ तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके । मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् ॥ ३१॥ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः । नशक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥ ३२॥ महावीर्यवतां वीर्यमादत्ते युधि राक्षसः । तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः ॥ ३३॥ अयमन्यतमः कालः पेलवीकृतसज्जनः । राघवोऽपि गतो दैन्यं यतो वार्धकजर्जरः ॥ ३४॥ अथवा लवणं ब्रह्मन्यज्ञघ्नं तं मधोः सुतम् । कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् ॥ ३५॥ सुन्दोपसुन्दयोश्चैव पुत्रै वैवस्वतोपमौ । यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् ॥ ३६॥ अथ नेष्यसि चेत्ब्रह्मंस्तद्धतोऽस्म्यहमेव ते । अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥ ३७॥ इत्युक्त्वा मृदु वचनं रघूद्वहोऽसौ कल्लोले मुनिमतसंशये निमग्नः । नाज्ञासीत्क्षणमपि निश्चयं महात्मा प्रोद्वीचाविव जलधौ स मुह्यमानः ॥ ३८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दशरथवाक्यं नाम अष्टमः सर्गः ॥ ८॥
नवमः सर्गः वाल्मीकिरुवाच तच्छुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १॥ करिष्यामिति संश्रुत्य प्रतिज्ञां हातुमर्हसि । स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि ॥ २॥ राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः । न कदाचन जायन्ते शीतांशोरुष्णरश्मयः ॥ ३॥ यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् । हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः ॥ ४॥ वाल्मीकिरुवाच तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि । चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत् ॥ ५॥ क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् । धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत् ॥ ६॥ वसिष्ठ उवाच । इक्ष्कवाकूणां कुले जातः साक्षाद्धर्म इवापरः । भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः ॥ ७॥ धृतिमान्सुव्रतो भूत्वा न धर्मं हातुमर्हसि । त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ॥ ८॥ स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि । मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥ ९॥ करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः । इष्टापूर्तं हरेद्धर्मं तस्माद्रामं विसर्जय ॥ १०॥ इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् । न पालयसि देद्वाक्यं कोऽपरः पालयिष्यति ॥ ११॥ युष्मदादिप्रणीतेन व्यवहारेण जन्तवः । मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि ॥ १२॥ गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा । कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ॥ १३॥ एष विग्रहवान्धर्म एष वीर्यवतां वरः । एष बुद्ध्याऽधिको लोके तपसां च परायणम् ॥ १४॥ एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे । नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन ॥ १५॥ न देवा नर्षयः केचिन्नासुरा न च राक्षसाः । न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः ॥ १६॥ अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् । कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात् ॥ १७॥ ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः । एनमन्वचरन्वीरा दीप्तिमन्तो महौजसः ॥ १८॥ जया च सुप्रभ चैव दाक्षायण्यौ सुमध्यमे । तथोस्तु यान्यपत्यानि शतं परमदुर्जयम् ॥ १९॥ पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा । वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः ॥ २०॥ सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् । सङ्घर्षान्नाम दुर्धर्वान्दुराकारान्बलीयसः ॥ २१॥ एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः । न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि ॥ २२॥ अस्मिन्महासत्त्वतमे मुनीन्द्रे स्थिते समीपे पुरुषस्य साधो । प्राप्तेऽपि मृत्यावमरत्वमेति मा दीनतां गच्छ यथा विमूढः ॥ २३॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम नवमः सर्गः ॥ ९॥
दशमः सर्गः वाल्मीकिरुवाच तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् । सम्प्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥ १॥ दशरथ उवाच । प्रतिहार महाबाहुं रामं सत्यपराक्रमम् । सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥ २॥ इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥ ३॥ देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे । विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥ ४॥ आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः । न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥ ५॥ इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् । सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥ ६॥ कथं कीदृग्विधो राम इति पृष्टो महीभृता । रामभृत्यजनः खिन्नो वाक्यमाह पहीपतिम् ॥ ७॥ देहयष्टिमिमां देव धारयन्त इमे वयम् । खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ॥ ८॥ रामो राजीवपत्राक्षो यतःप्रभृति चागतः । सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ॥ ९॥ यत्नप्रार्थनयामास्कं निजव्यापारमाह्निकम् । सोऽयमाम्लानवदनः करोति न करोति वा ॥ १०॥ स्नानदेवार्चनादानभोजनादिषु दुर्मनाः । प्रार्थितोऽपि हि नातृप्तेरश्रात्यशनमीश्वरः ॥ ११॥ लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे । नच क्रीडति लीलाभिर्धाराभिरिव चातकः ॥ १२॥ माणिक्यमुकुलप्रोता केयूरकटकावलिः । नानन्दयतिउ तं राजन्द्यौः पातविषयं यथा ॥ १३॥ क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु । लतावलयगेहेषु भवत्यति विषादवान् ॥ १४॥ यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च । बाष्पपूर्णेक्षण एव तेनैव परिखिद्यते ॥ १५॥ किमिमा दुःखदायिन्यं प्रस्फुरन्तीः पुराङ्गनाः । इति नृत्तविलासेषु कामिनीः परिनिन्दति । १६॥ भोजनं शयनं यानं विलासं स्नानमासनम् । उन्मात्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ॥ १७॥ किं सम्पदा किं विपदा किं गेहेन किमिङ्गितैः । सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते ॥ १८॥ नोदेति परिहासेषु न भोगेषु निमज्जति । न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥ १९॥ विलोलालकवल्लर्यो हेलावलितलोचनाः । नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥ २०॥ एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च । रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ॥ २१॥ वस्त्रपानाशनादानपराङ्मुखतया तया । परिव्राड्धर्मिणं भूप सोऽनुयाति तपस्विनम् ॥ २२॥ एक एव वसन्देशे जनशून्ये जनेश्वर । न हसत्येकया बुद्ध्या न गायति न रोदिति ॥ २३॥ बद्धपद्मासनः शून्यमना वामकरस्थले । कपोलतलमाधाय केवलं परितिष्ठति ॥ २४॥ नाभिमानमुपादत्ते नच वाञ्छति राजताम् । नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥ २५॥ न विद्मः किमसौ याति किं करोति किमीहते । किं ध्यायति किमायाति कथं किमनुधावति ॥ २६॥ प्रत्यहं कृशतामेति प्रत्यहं याति पाण्डुताम् । विरागं प्रत्यहं याति शरदन्त एव द्रुमः ॥ २७॥ अनुयातौ तथैवैतौ राजच्छत्रुघ्नलक्ष्मणौ । तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥ २८॥ भृत्यै राजभिरम्बाभिः सम्पृष्टोऽपि पुनः पुनः । उक्त्वा न किञ्चिदेवेति तूष्णीमास्ते निरीहितः ॥ २९॥ आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः । इति पार्श्वगतं भव्यामनुशास्ति सुहृज्जनम् ॥ ३०॥ नानाविभवरम्यासु स्त्रीषु गोष्ठीगतासु च । पुरस्थितमिवास्नेहो नाशमेवानुपश्यति ॥ ३१॥ नीतमायुरनायासपदप्राप्तिविवर्जितैः । चेष्टितैरिति काकल्या भूयोभूयः प्रगायति ॥ ३२॥ सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् । प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥ ३३॥ न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् । करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ॥ ३४॥ अप्याकाशसरोजिन्या अप्याकाशमहावने । इत्थमेतन्मन इति विस्मयोऽस्य न जायते ॥ ३५॥ कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः । न भेदयन्ति दुर्भेद्यं धारा इव महोपलम् ॥ ३६॥ आपदामेकमावासमभिवाञ्छसि किं धनम् । अनुशिष्येति सर्वस्वमर्थिने सम्प्रयच्छति ॥ ३७॥ इयामापदियं सम्पदित्येवं कल्पनामयः । मनसोऽभुदितो मोह इति श्लोकान्प्रगायति ॥ ३८॥ हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् । न् जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ॥ ३९॥ रघुकाननशालेन रामेण रिपुघातिना । भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥ ४०॥ न विद्मः किं महाबाहो तस्य तादृशचेतसः । कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥ ४१॥ राजानमथवा विप्रमुपदेष्टारमग्रतः । हसत्यज्ञमिवाव्यग्रः सोऽवधीरयति प्रभो ॥ ४२॥ यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् । नैतद्वस्तु नचैवाहमिति निर्णीय संस्थितः ॥ ४३॥ नारौ नात्मनि नो मित्रे न राज्ये न च मातरि । न सम्पदा न विपदा तस्यास्था न विभो बहिः ॥ ४४॥ निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः । न मूढो न च मुक्तोऽसौ तेन तप्यामहे भृशम् ॥ ४५॥ किं धनेन किमम्बाभिः किं राज्येन किमीहया । इति निश्चयवानन्तः प्राणत्यागपरः स्थितः । ॥ ४६॥ भोगेऽप्यायुषि राज्येषु मित्रे पितरि मातरि । परमुद्वेगमायातश्चातकोऽवग्रहे यथा ॥ ४७॥ इति तोके समायातां शाखाप्रसरशालिनीम् । आपत्तामलमुद्धर्तुं समुदेतु दयापरः ॥ ४८॥ तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् । संसारजालमाभोगि प्रभो प्रतिविषायते ॥ ४९॥ ईदृशः स्यान्महासत्त्वः क इवस्मिन्महीतले । प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥ ५०॥ मनसि मोहमपास्य महामनाः सकलमार्तितमः किल साधुताम् । सफलतां नयतीह तमो हरन् दिनकरो भुवि भास्करतामिव ॥ ५१॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवविषादो नाम दशमः सर्गः ॥ १०॥
एकादशः सर्गः विश्वामित्र उवाच । एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् । इहानयन्तु त्वरिता हरिणं हरिणा इव ॥ १॥ एष मोहो रघुपतेर्नापद्भ्यो न च रागतः । विवेकवैराग्यवतो बोध एव महोदयः ॥ २॥ इहयातु क्षणाद्राम इह चैव वयं क्षणात् । मोहं तस्यापनेष्यामो मारुतोऽद्रेर्घनं यथा ॥ ३॥ एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः । विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे ॥ ४॥ सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् । पीनतां वरवर्णत्व पीतामृत इवैष्यति ॥ ५॥ निजां च प्रकृतामेव व्यवहारपरम्पराम् । परिपूर्णमना मान्य आचरिष्यत्यखण्डितम् ॥ ६॥ भविष्यति महासत्त्वो ज्ञातलोकपरावरः । सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः ॥ ७॥ इत्युक्ते मुनिनाथेन राजा सम्पूर्णमानसः । प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम् ॥ ८॥ एतावताथ कालेन रामो निजगृहासनात् । पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात् ॥ ९॥ वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह । तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव ॥ १०॥ दूरादेव ददर्शासौ रामो दशरथं तदा । वृतं राजसमूहेन देवौघेनेव वासवम् ॥ ११॥ वसिष्ठविश्वमित्राभ्यां सेवितं पार्श्वयोर्द्वयोः । सवशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम् ॥ १२॥ चारुचामरहस्ताभिः कान्ताभिः समुपासितम् । ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ॥ १३॥ वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः । ददृशू राघवं दुरादुपायान्तं गुहोपमम् ॥ १४॥ सत्त्वावष्टब्धगर्भेण शैत्येनेव हिमाचलम् । श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च । ॥ १५॥ सौम्यं समं शुभाकारं विनयोदारमानसम् । कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ॥ १६॥ समुद्यद्यौवनारम्भं वृद्धोपशमशोभनम् । अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम् ॥ १७॥ विचारितजगद्यात्रं पवित्रगुणगोचरम् । महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ॥ १८॥ उदारमार्यमापूर्णमन्तः करणकोटरम् । अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् ॥ १९॥ एवङ्गुणगणाकीर्णो दूरादेव रघूद्वहः । परिमेयस्मिताच्छाच्छस्वहाराम्बरपल्लवः ॥ २०॥ प्रणनाम चलच्चारुचूडामणिमरीचिना । शिरसा वसुधाकम्पलोलदेवाचलश्रिया ॥ २१॥ एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम् । कर्तुमभुआजगामाथ रामः कमललोचनः ॥ २२॥ प्रथमं पितरं पश्चान्मुनी मान्यैकमानितौ । ततो विप्रांस्ततो बन्धुंस्ततो गुरुगणान्सुहृत् ॥ २३॥ जग्राह च ततो दृष्ट्या मनाङ्मूर्ध्ना तथा गिरा । राजलोकेन विहितां तां प्रणामपरम्पराम् ॥ २४॥ विहिताशीर्मुनिभ्यां तु रामः सुसममानसः । आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥ २५॥ पादाभिवन्दनपरं तमथासौ महीपतिः । शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥ २६॥ शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा । आलिलिङ्ग घनस्नेहो राजहंसोऽम्बुजे यथा ॥ २७॥ उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ । भूमौ परिजनास्तीर्णे सोंऽशुकेऽथ न्यविक्षत ॥ २८॥ राजोवाच । पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् । जडवज्जिर्णया बुद्ध्या खेदायात्मा न दीयताम् ॥ २९॥ वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता । पदमासाद्यते पुण्यं न मोहमनुधावता ॥ ३०॥ तावदेवाऽऽपदो दूरे तिष्ठन्ति परिपेलवाः । यावदेव न मोहस्य प्रसरः पुत्र दीयते ॥ ३१॥ श्रीवसिष्ठ उवाच । राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया । दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ॥ ३२॥ किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे । विनिमज्जसि कल्लोलबहुले जाड्यशालिनि ॥ ३३॥ विश्वामित्र उवाच । चलन्निलोत्पलव्यूहसमलोचनलोलताम् । ब्रूहि चेतःकृतां त्यक्वा हेतुना केन मुह्यसि ॥ ३४॥ किंनिष्ठाः के च ते केन कियन्तः कारणेन ते । आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः ॥ ३५॥ मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् । आपत्सु चाऽप्रयोज्यं ते निहीना अपि चाधयः ॥ ३६॥ यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ । सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः ॥ ३७॥ इत्युक्तमस्य सुमते रघुवंशकेतु- राकण्यं वाक्यमुचितार्थविलासगर्भम् । तत्याज खेदमभिगर्जति वारिवाहे बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः ॥ ३८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवसमाश्वासनं नामैकादशः सर्गः॥ ११॥
द्वादशः सर्गः वाल्मीकिरुवाच । इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः । उवाच वचनं चारु परिपूर्णार्थमन्थरम् ॥ १॥ श्रीराम उवाच । भगवन्भवता पृष्टो यथावदधुनाऽखिलम् । कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥ २॥ अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि । क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश्च संस्थितः ॥ ३॥ ततः सदाचारपरो भूत्वाहं मुनिनायक । विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥ ४॥ एतावताथ कालेन संसारास्थामिमां हरन् । समुद्भूतो मनसि मे विचारः सोऽयमीदृशः ॥ ५॥ विवेकेन परीतात्मा तेनाहं तदनु स्वयम् । भोगनीरसया बुद्ध्या प्रविचारितवादिनम् ॥ ६॥ किंनामेदं बत सुखं येयं संसारसन्ततिः । जायते मृतये लोको म्रियते जननाय च । ॥ ७॥ अस्थिराः सर्व एवेमे सचराचरचेष्टिताः । आपदां पतयः पापा भावा विभवभूमयः ॥ ८॥ अयःशलाकासदृशाः परस्परमसङ्गिनः । श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥ ९॥ मनःसमायत्तमिदं जगदाभोगि दृश्यते । मनश्चासदिवाभाति केन स्म परिमोहिताः ॥ १०॥ असतैव वयं कष्टं विकृष्टा मूढबुद्धयः । मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥ ११॥ न केनचिच्च विक्रीता विक्रीता एव संस्थिताः । बत मूढा वयं सर्वे जानाना अपि शाम्बरम् ॥ १२॥ किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः । मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥ १३॥ आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने । मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ॥ १४॥ किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् । यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥ १५॥ एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम । भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥ १६॥ तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति । किमिदं जायते भूयः किमिदं परिवर्धते ॥ १७॥ जरामरणमापच्च जननं सम्पदस्तथा । आविर्भावतिरोभावैर्विवर्धन्ते पुनः पुनः ॥ १८॥ भोगैस्तैरेव तैरेव तुच्छाइर्वयममी किल । पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥ १९॥ अचेतना इव जनाः पवनैः प्राणनामभिः । ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥ २०॥ शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया । जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥ २१॥ संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् । निजलोकभयादेव गलद्बाष्पं न रोदिमि ॥ २२॥ शून्या मन्मुखवृत्तीस्तां शुष्करोदननीरसाः । विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥ २३॥ भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् । दारिद्र्येणेव सुभगो दूरे संसारचेष्टया ॥ २४॥ मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् । दुःखजाल प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥ २५॥ चिन्तानिचयचक्राणि नानन्दाय धनानि मे । सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ २६॥ विविधदोषदशापरिचिन्तनै- र्विततभङ्गुरकारणकल्पितैः । मम न निर्वृतिमेति मनो मुने निगडितस्य यथा वनदन्तिनः ॥ २७॥ खलाः कालेकाले निशि निशितमोहैकमिहिका - गतालोके लोके विषयशतचौराः सुचतुराः । प्रवृताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे रणे शक्तास्तेषां क इव विदुषः प्रोज्झ्यसुभटाः ॥ २८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः ॥ १२॥
त्रयोदशः सर्गः श्रीराम उवाच । इयमस्मिन्स्थितोदारा संसारे परिकल्पिता । श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा ॥ १॥ उल्लासबहुलानन्तकल्लोलानलमाकुलान् । जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥ २॥ चिन्तादुहितरो बह्व्यो भूरिदुर्ललितैधिताः । चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥ ३॥ एषा हि पदमेकत्र न निबध्नाति दुर्भगा । दग्धेवानियताचारमितश्चेतश्च धावति ॥ ४॥ जनयन्ती परं दाहं परामृष्टाङ्गिका सती । विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥ ५॥ गुणागुणविचारेण विनैव किल पार्श्वगम् । राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते ॥ ६॥ कर्मणा तेनतेनैषा विस्तारमनुगच्छति । दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते ॥ ७॥ तावच्छीतमृदुस्पर्शाः परे स्वे च जने जनाः । वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः ॥ ८॥ प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये । पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥ ९॥ न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते । गुप्ता विम्=नाशनं धत्ते मृतिं विषलता यथा ॥ १०॥ श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः । समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ ११॥ एषा हि विषमा दुःखभोगिनां गहना गुहा । घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी ॥ १२॥ सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका । सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥ १३॥ सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी । केदारिका विकल्पानां खेदायभयभोगिनी ॥ १४॥ हिमं वैराग्यवल्लीनां विकारोलूकयामिनी । राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥ १५॥ इन्द्रायुधवदालोलनानारागमनोहरा । लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया ॥ १६॥ चापलावजितारण्यनकुली नकुलीनजा । विप्रलम्भनतात्पर्यजितोग्रमृगतृष्णिका ॥ १७॥ लहरीवैकरूपेण पदं क्षणमकुर्वती । चला दीपशिखेवातिदुर्ज्ञेयगतिगोचरा ॥ १८॥ सिंहीव विग्रहव्यग्रकरीन्द्रकुलपोथिनी । खड्गधारेव शिशिरा तीक्ष्णतीक्ष्णाशयाश्रया ॥ १९॥ नानयापहृतार्थिन्या दुराधिपरिलीनया । पश्याम्यभव्यया लक्ष्म्या किञ्चिद्दुःखादृते सुखम् ॥ २०॥ दूरेणोत्सारिताऽलक्ष्म्या पुनरेव तमादरात् । अहो बताश्लिष्यतीव निर्लज्ज दुर्जना सदा ॥ २१॥ मनोरमा कर्षति चित्तवृत्तिं कदर्थसाध्या क्षणभङ्गुरा च । व्यालावलीगात्रविवृत्तदेहा श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥ २२॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः ॥ १३॥
चतुर्दशः सर्गः श्रीराम उवाच । आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् । उन्मत्तमिव सन्त्यज्य यात्यकाण्डे शरीरकम् ॥ १॥ विषयाशीविषासङ्गपरिजर्जरचेतसाम् । अप्रौढात्मविवेकानामायुरायासकारणम् ॥ २॥ ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे । भावाभावसमाश्वासमायुस्तेषां सुखायते ॥ ३॥ वयं परिमिताकारपरिनिष्ठितनिश्चयाः । संसारभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥ ४॥ युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥ ५॥ पेलवं शरदीवाभ्रमस्नेह इव दीपकः । तरङ्गक इवालोलं गतमेवोपलक्ष्यते ॥ ६॥ तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् । ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ ॥ ७॥ अविश्रान्तमनाः शून्यमायुराततमीहते । दुःखायैव विमूढाऽन्तर्गर्भमश्वतरी यथा ॥ ८॥ संसारसंसृतावस्यां फेनोऽस्मिन्सर्गसागरे । कायवल्ल्याम्भसो ब्रह्मञ्जीवितं मे न रोचते ॥ ९॥ प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते । पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १०॥ तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेन न जीवति ॥ ११॥ जातास्त एव जगति जन्तवः साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥ १२॥ भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः । अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥ १३॥ रूपमायुर्मनो बुद्धिरहङ्कारस्तथेहितम् । भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥ १४॥ अविश्रान्तमनापुर्णमापदां परमास्पदम् । नीडं रोगविहङ्गानामायुरायासनं दृढम् ॥ १५॥ प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् । आख्रुनेव जरच्छ्वभ्रं कालेन विनिहन्यते ॥ १६॥ शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः । रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः ॥ १७॥ प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवाशिभिः । दुःखैरावृश्च्यते क्रूरैर्घुणैरिव जरद्द्रुमः ॥ १८॥ नूनं निगरणायाशु घनगर्धमनारतम् । आख्रुर्मार्जारकेणेव मरणेनावलोक्यते ॥ १९॥ गन्धादिगुणगर्भिण्या शून्ययाऽशक्तिवेश्यया । अन्नं महाशनेनेव जरया परिजीर्यते ॥ २०॥ दिनैः कतिपयैरेव परिज्ञाय गतादरम् । दुर्जनः सुजनेनेव यौवनेनावमुच्यते ॥ २१॥ विनाशसुहृदा नित्यं जरामरणबन्धुना । रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते ॥ २२॥ स्थिरतया सुखभासितया तया सततमुज्झितमुत्तमफल्गु च । जगति नास्ति तथा गुणवर्जितं मरणभाजनमायुरिदं यथा ॥ २३॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः ॥ १४॥
पञ्चदशः सर्गः श्रीराम उवाच । मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते । मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥ १॥ अहङ्कारवशादेव दोषकोशकदर्थताम् । ददाति दीनदीनानां संसारो विविधाकृतिः ॥ २॥ अहङ्कारवशादापदहङ्काराद्दुराधयः । अहङ्कारवशादीहा त्वहङ्कारो ममामयः ॥ ३॥ तमहङ्कारमाश्रित्य परमं चिरवैरिणम् । न भुजे न पिबाम्यम्भः किमु भोगान्भुजे मुने ॥ ४॥ संसाररजनी दीर्घा माया मनसि मोहिनी । ततोऽहङ्कारदोषेण किरातेनेव वागुरा ॥ ५॥ यानि दुःखानि दीर्घाणि विषमाणि महान्ति च । अहङ्कारात्प्रसूतानि तान्यगात्खदिरा इव ॥ ६॥ शमेन्दुसैंहिकेयास्यं गुणपद्महिमाशनिम् । साम्यमेघशरत्कालमहङ्कारं त्यजाम्यहम् ॥ ७॥ नाहं रामो न मे वाञ्छा भावेषु न च मे मनः । शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा ॥ ८॥ अहङ्कारवशाद्यद्यन्मया भुक्तं हुतं कृतम् । सर्वं तत्तदवस्त्वेव वस्त्वहङ्काररिक्तता ॥ ९॥ अहमित्यस्ति देद्ब्रह्मन्नहमापदि दुःखितः । नास्ति देत्सुखितस्तस्मादनहङ्कारिता वरम् ॥ १०॥ अहङ्कारपरित्यज्य मुने शान्तमनस्तया । अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः ॥ ११॥ ब्रह्मन्यावदहङ्कारवारिदः परिजृम्भते । तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥ १२॥ अहङ्कारघने शान्ते तृष्णा नवतडिल्लता । शान्तदीपशिखावृत्त्या क्वापि यात्यतिसत्वरम् ॥ १३॥ अहङ्कारमहाविन्ध्ये मनोमत्तमहागजः । विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥ १४॥ इह देहमहारण्ये घनाहङ्कारकेसरी । योऽयमुल्लसति स्फारस्तेनेदं जगदाततम् ॥ १५॥ तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा । अहङ्कारोग्रखिङ्गेन कण्ठे मुक्तावली कृता ॥ १६॥ पुत्रमित्रकलत्रादितन्त्रमन्त्रविवर्जितम् । प्रसारितमनेनेह मुनेऽहङ्कारवैरिणा ॥ १७॥ प्रमार्जितेऽहमित्यस्मिन्पदे स्वयमपि द्रुतम् । प्रमार्जिता भवन्त्येते सर्व एव दुराधयः ॥ १८॥ अहमित्यम्बुदे शान्ते शनैश्च शमशातिनी । मनोगगनसंमोहमिहिका क्वापि गच्छति ॥ १९॥ निरहङ्कारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः । यत्किञ्चिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥ २०॥ सर्वापदां निलयमध्रुवमन्तरस्थ- मुन्मुक्तमुत्तमगुणेन न संश्रयामि । यत्नादङ्कृतिपदं परितोऽतिदुःखं शेषेण मां समनुशाधि महानुभाव ॥ २१॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे अहङ्कारजुगुप्सा नाम पञ्चदशः सर्गः ॥ १५॥
षोडशः सर्गः श्रीराम उवाच । दोषैर्जर्जरतां याति सत्कार्यादार्यसेवनात् । वातान्तःपिच्छलववच्चेतश्चलति चञ्चलम् ॥ १॥ इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ॥ २॥ न प्राप्नोति क्वचित्किञ्चितप्रप्तैरपि महाधनैः । नान्तः सम्पूर्णतामेति करण्डक इवाम्बुभिः ॥ ३॥ नित्यमेव मुने शून्यं कदाशावागुरावृतम् । न मनो निर्वृतिं याति मृगो यूथादिव च्युतः ॥ ४॥ तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् । परित्यज्य क्षणामपि हृदये याति न स्थितिम् ॥ ५॥ मनो श्चननविक्षुब्धं दिशो दश विधावति । मन्दराहननोद्धूतं क्षीरार्णवपयो यथा ॥ ६॥ कल्लोलकलितावर्तं मायामकरमालितम् । न निरोद्धुं समर्थोऽस्मि मनोमयमहार्णवम् ॥ ७॥ भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् । मनोहरिणको ब्रह्मन्दूरं विपरिधावति ॥ ८॥ न कदाचन मे चेतः स्वामालूनविशिर्णताम् । त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥ ९॥ चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् । धृतिं बध्नाति नैकत्र पञ्जरे केसरी यथा ॥ १०॥ मनो मोहरथारूढं शरीरात्समतासुखम् । हरत्यपहतोद्वेगं हंसः क्षीरमिवाम्भसः ॥ ११॥ अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः । मुनीन्द्र न प्रबुध्यन्ते तेन तप्येऽहमाकुलः ॥ १२॥ क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना । विहगो जालकेनेव ब्रह्मन्बद्धोऽस्मि चेतसा ॥ १३॥ सन्ततामर्षधूमेन चिन्ताज्वालाकुलेन च । वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥ १४॥ क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना । शवं कौलेयकेनेव ब्रह्मन्भुक्तोऽस्मि चेतसा ॥ १५॥ तरङ्गतरलास्फालवृत्तिना जडरूपिणा । तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥ १६॥ अवान्तरनिपाताय शून्ये वा भ्रमणाय च । तृणं दण्डनिलेनेव दूरे नीतोऽस्मि चेतसा ॥ १७॥ संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः । सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥ १८॥ पातालाद्गच्छतां पृथ्वीं पृथ्व्याः पातालगामिना । कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥ ९॥ मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा । बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा ॥ २०॥ वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः । वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः ॥ २१॥ चेतः पतति कार्येषु विहगः स्वामिषेष्विव । क्षणेन विरतिं याति बालः क्रीडनकादिव ॥ २२॥ जडप्रकृतिरालोलो विततावर्तवृत्तिमान् । मनोऽब्धिरहितव्यालो दूरं नयति तात माम् ॥ २३॥ अप्यब्धिपानान्महतः सुमेरून्मूलनादपि । अपि वह्न्यशनात्साधो विषमश्च्चित्तनिग्रहः ॥ २४॥ चित्तं मारणमर्थानां तस्मिन्सति जगत्त्रयम् । तस्मिन्क्षीणे जगन्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २५॥ चितादिमानि सुखदुःखशतानि नून- मभ्यागतान्यगवरादिव काननानि । तस्मिन्विवेकवशस्तनुतां प्रयाते मन्ये मुने निपुणमेव गलन्ति तानि ॥ २६॥ सकलगुणजयाशा यत्र बद्धा महद्भि- स्तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् । विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं जडमलिनविलासां मेघलेखामिवेन्दुः ॥ २७॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वैराग्यचित्तदौरात्म्यं नाम षोडशः सर्गः ॥ १६॥
सप्तदशः सर्गः श्रीराम उवाच । हार्दान्धकारशर्वर्या तृष्णयेह दुरन्त्यया । स्फुरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥ १॥ अन्तर्दाहप्रदायिन्या समूढरसमार्दवः । पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥ २॥ मम चित्तमहारण्ये व्यामोहतिमिराकुले । शून्ये ताण्डविनी जाता भृशमाशापिशाचिका ॥ ३॥ वचोरचितनीहारा कञ्चनोपवनोज्ज्वला । नूनं विकासमायाति चिन्ताकणकमञ्जरी ॥ ४॥ अलमन्तर्भ्रमायैव तृष्णातरलिताशया । आयाता विषमोल्लासमूर्मिरम्बुनिधाविव ॥ ५॥ उद्दामकल्लोलरवा देहार्द्रौ वहतीह मे । तरङ्गतरलाकारा तरतृष्णातरङ्गिणी ॥ ६॥ वेगं संरोद्धुमुदितो वात्ययेव जरत्तृणम् । नीतः कलुषया क्वापि तृष्णया चित्तचातकः ॥ ७॥ यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् । तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ ८॥ पयसीव जरत्पर्णं वायाविव जरत्तृणं। नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥ ९॥ गन्तुमास्पदमात्मीयमसमर्थधियो वयम् । चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ १०॥ तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा । यथा दाहोपशमनमाशङ्के नामृतैरपि ॥ ११॥ दूरं दूरमितो गत्वा समेत्य च पुनः पुनः । भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्त तुरङ्गमी ॥ १२॥ जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा । क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ॥ १३॥ अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया । रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥ १४॥ पुत्रमित्रकलत्रादितृष्णया नित्यकृष्टया । खगेष्विव किरात्येदं जालं लोकेषु रच्यते ॥ १५॥ भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् । खेदयत्यपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥ १६॥ कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी । दशत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥ १७॥ भिन्दती हृदयं पुंसां मायामयविधायिनी । दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥ १८॥ तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् । नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी ॥ १९॥ नित्यमेवातिमलिना कटुकोन्माददायिनी । दीर्घतन्त्री घनस्नेहा तृष्णागह्वरवल्लरी ॥ २०॥ अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता । अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥ २१॥ अनावर्जितचित्तापि सर्वमेवानुधावति । न चाप्नोति फलं किञ्चित्तृष्णा जीर्णेव कामिनी ॥ २२॥ संसारवृन्दे महति नानारससमाकुले । भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी ॥ २३॥ जराकुसुमितारूढा पातोत्पातफलावलिः । संसारजङ्गले दीर्घे तृष्णा विषलता तता ॥ २४॥ यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् । नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥ २५॥ भृशं स्फुरति नीहारे शाम्यत्यालोक आगते । दुर्लङ्घ्येषु पदं धत्ते चिन्ता चपलबर्हिणी ॥ २६॥ जडकल्लोलबहुला चिरं शून्यान्तरान्तरा । क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ॥ २७॥ नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् । पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ २८॥ पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते । चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी॥ इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् । अनारतं च यतते तृष्णा चेष्टेव चैविकी ॥ ३०॥ क्षणमायाति पातालं क्षणं याति नभस्थलम् । क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ ३१॥ सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा । अन्तःपुरस्थमपि या योजयत्यतिसङ्कटे ॥ ३२॥ प्रयच्छति परं जाड्यं परमालोकरोधिनी । मोहनीहारगहना तृष्णा जलदमालिका ॥ ३३॥ सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् । परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ॥ ३४॥ विचित्रवर्णा विगुणा दीर्घा मलिनसऽन्स्थितिः । शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी ॥ ३५॥ अशनिर्गुणसस्यानां फलिता शरदापदाम् । हिमं संवित्सरोजानां तमसां दीर्घयामिनी ॥ ३६॥ संसारनाटकनटी कार्यालयविहङ्गमी । मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥ ३७॥ व्यवहाराब्धिलहरी मोहमातङ्गश्रृङ्खला । सर्गन्यग्रोधसुलभा दुःखकैरवचन्द्रिका ॥ ३८॥ जरामरणदुःखानामेका रत्नसमुद्रिका । आधिव्याधिविलासानां नित्यं मत्ता विलासिनी ॥ ३९॥ क्षणमालोकविमला सान्धकारलवा क्षणम् । व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् ॥ ४०॥ गच्छत्युपशमं तृष्णा कायव्यायामशान्तये । तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥ ४१॥ तावन्मुह्यत्ययं मूको लोको विलुलिताशयः । यावदेवानुसन्धत्ते तृष्णा विषविषूचिका ॥ ४२॥ लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति । तृष्णाविषूचिकामन्त्रचिन्तात्यागो हि कथ्यते ॥ ४३॥ तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया । आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा ॥ ४४॥ रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम् । उत्तानतां नयन्त्याशु सूर्यांशव इवाम्बुजम् ॥ ४५॥ अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः । मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव ॥ ४६॥ अहो बत महच्चित्रं तृष्णामपि महाधियः । दुश्छेदामपि कृन्तन्ति विवेकेनामलासिना ॥ ४७॥ नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः । तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ॥ ४८॥ उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा । प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव ॥ ४९॥ अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् । तृणीकरोति तृष्नैका निमेषेण नरोत्तमम् ॥ ५०॥ संस्तीर्णगहना भीमा घनजालरजोमयी । सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी ॥ ५१॥ एकैक सर्वभुवनान्तरलब्धलक्ष्या दुर्लक्ष्यतामुपगतैव वपुःस्थितैव । तृष्णा स्थिता जगति चञ्चलवीचिमले क्षीरोदकाम्बुतरले मधुरेव शक्तिः ॥ ५२॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तृष्णाभङ्गो नाम सप्तदशः सर्गः ॥ १७॥
अष्टादशः सर्गः श्रीराम उवाच । आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् । देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥ १॥ अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः । युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः ॥ २॥ जडाजडदृशोर्मध्ये दोलायितदुराशयः । अविवेकी विमूढात्मा मोहमेव प्रयच्छति ॥ ३॥ स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् । नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥ ४॥ आगमापायिना नित्यं दन्तकेसरशालिना । विकासस्मितपुष्पेण प्रतिक्षणमलङ्कृतः ॥ ५॥ भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः । लोचनालिबिलाक्रान्तः शिरःपीठबृहत्फलः ॥ ६॥ श्रवदन्तरसग्रस्तो हस्तपादसुपल्लवः । गुल्मवान्कार्यसङ्घातो विहङ्गमकृतास्पदः ॥ ७॥ सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदः । कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥ ८॥ तात सन्तरणार्थेन गृहीतायां पुनः पुनः । नावि देहलतायां च कस्य स्यादात्मभावना ॥ ९॥ देहनाम्नि वने शून्ये बहुगर्तसमाकुले । तनूरुहासङ्ख्यतरौ विश्वासं कोऽधिगच्छति ॥ १०॥ मांसस्नाय्वस्थिवलिते शरीरपटहेऽदृढे । मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥ ११॥ संसारारण्यसंरूढो विलसच्चित्तमर्कटः । चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥ १२॥ तृष्णाभुजङ्गमीगेहं कोपकाककृतालयः । स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ॥ १३॥ सुस्कन्धौघलताजालो हस्तस्तबकसुन्दरः । पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥ १४॥ सर्वेन्द्रियखगधारः सुजानुस्तम्भ उन्नतः । सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ १५॥ मूर्धसञ्जनिताऽऽदीर्घशिरोरुहतृणावलिः । अहङ्कारगृध्रकृतकुलायः सुषिरोदरः ॥ १६॥ विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः । व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ॥ १७॥ कलेवरमहङ्कारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥ १८॥ पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् । रागरञ्जितसर्वाङ्गं नेष्ठं देहगृहं मम ॥ १९॥ पृष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् । आन्त्ररज्जुभिराबद्धं नेष्ठं देहगृहं मम ॥ २०॥ प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् । जरामङ्कोलधवलं नेष्ठं देहगृहं मम ॥ २१॥ चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति । मिथामोहमहास्थूणं नेष्ठं देहगृहं मम ॥ २२॥ दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् । दुरीहादग्धदासीकं नेष्ठं देहगृहं मम ॥ २३॥ मलाढ्यविषयव्यूहभाण्डोपस्करसङ्कटम् । अज्ञानक्षारवलितं नेष्ठं देहगृहं मम ॥ २४॥ गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् । दीर्घदोर्दारुसुदृढं नेष्ठं देहगृहं मम ॥ २५॥ प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् । चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥ २६॥ मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्व्यूहं नेष्ठं देहगृहं मम ॥ २७॥ सर्वाङ्गकुड्यसङ्घातघनरोमयवाङ्कुरम् । संशून्यपेटविवरं नेष्ठं देहगृहं मम ॥ २८॥ नखोर्णनाभिनिलयं सरमारणितान्तरम् । भाङ्कारकारिपवनं नेष्ठं देहगृहं मम ॥ २९॥ प्रवेशनिर्गमव्यग्रवातवेगमनारतम् । वितताक्षगवाक्षं तन्नेष्ठं देहगृहं मम ॥ ३०॥ जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्ठं देहगृहं मम ॥ ३१॥ त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् । मनः सदारवुनोत्खातं नेष्ठं देहगृहं मम ॥ ३२॥ स्मितदीपप्रभोद्भासि क्षणमानन्दसुन्दरम् । क्षणं व्याप्तं तमःपूरैर्नेष्ठं देहगृहं मम ॥ ३३॥ समस्तरोगायतनं वलीपलितपत्तनम् । सर्वाधिसारगहनं नेष्ठं देहगृहं मम ॥ ३४॥ अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा । तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥ ३५॥ देहालयं धारयितुं न शक्नोमि मुनीश्वरः । पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥ ३६॥ किं श्रिया किं च राज्येन किं कायेन किमीहितैः । दिनैः कपितयैरेव कालः सर्व निकृन्तति ॥ ३७॥ रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने । नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३८॥ मरणावसरे काया जीवं नानुसरन्ति ये । तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥ ३९॥ मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः । न सन्त्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥ ४०॥ पवनस्पन्दतरलं पेलवः कायपल्लवः । जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥ ४१॥ भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् । तनुतामेत्य यत्नेन विनाशमनुधावति ॥ ४२॥ तान्येव सुखदुःखानि भावाभावमयान्यसौ । भूयोऽप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥ ४३॥ सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् । नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥ ४४॥ जराकाले जरामेति मृत्युकाले तथा मृतिम् । सम एवाविशेषज्ञः कायो भोगिदरिद्रयोः ॥ ४५॥ संसारम्भोधिजठरे तृष्णाकुहरकान्तरे । सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥ ४६॥ दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः । संसाराब्धाविहोह्यन्ते कञ्चित्तेषु नरं विदुः ॥ ४७॥ दीर्घदौरात्म्यवलया निपातफलपातया । न देहलतया कार्यं किञ्चिदस्ति विवेकिनः ॥ ४८॥ मज्जन्कर्दमकोशेषु झटित्येव जरां गतः । न ज्ञायतेयात्यचिरात्कः कथं देहदर्दुरः ॥ ४९॥ निःसारसकलारम्भाः कायाश्चपलवायवः । रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥ ५०॥ वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः । आगच्छतश्च भगवञ्छरीरस्य कदाचन ॥ ५१॥ बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ । तान्मोहमदिरोन्मत्तान्धिग्धिगस्तु पुनः पुनः ॥ ५२॥ नाहं देहस्य नो देहो मम नायमहं तथा । इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ ५३॥ मानावमानबहुला बहुलाभमनोरमाः । शरीरमात्रबद्धास्थं ग्नन्ति दोषदृशो नरम् ॥ ५४॥ शरीरश्वभ्रशायिन्या पिशाच्या पशलाङ्गया । अहङ्कारचमत्कृत्या छलेन छलिता वयम् ॥ ५५॥ प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया । मिथ्याद्यानकुराक्षस्या छलिता कष्टमेकिका ॥ ५६॥ न किञ्चिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना । चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ ५७॥ दिनैः कतिपयैरेव निर्झराम्बुकणो यथा । पतत्ययमयत्नेन जरठः कायपल्लवः ॥ ५८॥ कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव । व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥ ५९॥ मिथाज्ञानविकारेऽस्मिन्स्वप्नसम्भ्रमपत्तने । काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥ ६०॥ तडित्षु शरदभ्रेषु गन्धर्वनगरेषु च स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ६१॥ सततभङ्गुरकार्यपरम्परा विजयिजातजयं हठवृत्तिषु । प्रबलदोषमिदं तु कलेवरम् तृणमिवाहमपोह्य सुखं स्थितः ॥ ६२॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कायजुगुप्सा नामाष्टादशः सर्गः ॥ १८॥

% Text title            : yogavAsiShTha
% File name             : yogavAsiShTha18.itx
% itxtitle              : yogavAsiShThaH
% engtitle              : Yogavasishtha
% Category              : yoga
% Location              : doc_yoga
% Sublocation           : yoga
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Latest update         : May 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP