ओङ्कारः (प्रणवः )
वैदिकमन्त्रोच्चारणात्पूर्वमुच्चार्यमाणोऽखिलकल्मषापहारकोऽखिलविश्वरक्षकः माङ्गलिकश्चास्ति ``ओङ्कार'' इति शब्दः ।
किमयमोङ्कारः? अवति-रक्षति इत्योङ्कारः । ओङ्कारो ब्रह्मणः पुत्रः गोत्रश्च । गां-पृथिवीं त्रायत इति गोत्रः''(१) । ब्राह्मणो जातः ब्रह्माऽचिन्तयद्- ``अहं केनैकेनाक्षरेणाखिलं विश्वं रचयामि ?पुनश्चोङ्कारादखिलं विश्वमरचयंत् ।
असुरैः परावृताः देवा एकदा ``ओङ्कारं साहाय्यार्थं प्रार्थितवन्तः । ओङ्कारेणोक्तम्-'' किं मे प्रतिफलं भविष्यति? पुनर्देवैरुक्तम् - वरं वृणीष्व । तदा ओङ्कारेण पुनरुक्तम्- ओङ्कारमुच्चारयित्यैव जनाः वेदमन्त्रं वदेयुरन्यथालं तेन मन्त्रोच्चारणेन(२) । ओङ्कारं पुरस्कृत्य देवा असुरान् पराजितवन्तस्तस्मादेवौङ्कारस्योच्चारणं सर्वेषां मन्त्राणामुच्चारणात्पूर्वमेव क्रियते(३) ।
ॐ इति पदस्य कोऽर्थः ? - ``ओङ्कार'' इत्यस्मिन् पदे ``आपृ'' व्याप्तौ धातुः । सर्वं व्याप्नोति इति ``ओङ्कारः'' । ओमिति ब्रह्म(४) । ओमितीदं सर्वम् । बृहत्तमत्वादेव ``ब्रह्म'' इत्युच्यते । तच्च सर्वत्र वर्तते-ईशावास्यमिदं सर्वम् (ईशोपनिषद्) ।
``अव्'' रक्षणे धातोर्निष्पद्यते ``ओङ्कार'' इति पदम् । अवति रक्षत्यखिलं विश्विमिति ओङ्कारः । सर्वत्र व्यापकत्वादेव ``ओङ्कारः'' सर्वेषां रक्षकः । ओमिति ब्रह्म । यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यं प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद् ब्रह्म । ओङ्कारस्य ब्रह्मरूपत्वाद् ओङ्कारादेव इमानि भूतानि जायन्ते, ओङ्कारेण जातानि जीवन्ति ओङ्कारमभिसविशन्ति सर्वाणि भूतानि । अतः मोक्षप्राप्तये मुमुक्षुना ओङ्कारस्य ज्ञानमभिध्यानञ्च कर्तव्यम् । ॐ खं ब्रह्म । आकाशोऽपि विभुत्वाद् ब्रह्म इत्युच्यते । तदेव ओङ्कार इति । ओमिति पदस्य ``आम्'' स्वीकृतिरित्यर्थः । अमरकण्टकपर्वतस्य मध्ये नर्मदातटे ओङ्कारस्तीर्थमस्ति । तत्रावश्यमेव गन्तव्यम् । तत्र पापनाशनमर्चनं दर्शनं दुर्लभं वर्तते(५) ।
ओङ्कारस्य पर्यायाः- ॐ, ओङ्कारः, ओम्, प्रणवः, ब्रह्म, उद्गीथः, आदित्य इति पर्यायाः । य उद्गीथः सः प्रणवः । एषः प्रणव ओमिति । निश्चितं य उद्गीथः सः प्रणवः , यः प्रणवः स उद्गीथः । आदित्य उद्गीथः । आदित्य ॐ इति स्वरन् गच्छति, तस्मादोङ्कारस्योपासना कर्तव्या । ॐ इत्युच्चारयन् उद्गाता सामवेदस्योद्गानं करोति ।
प्रणवः - ओङ्कार एव प्रणवः । प्रकर्षेण नूयते स्तूयतेऽनेन इति प्रणवः । प्रणव ईश्वरस्य वाचक इति योगदर्शने निर्दिष्टम् । आत्मा शरोऽस्ति । प्रणवो धनुरस्ति । ब्रह्म च तल्लक्ष्यमस्ति । यथा धनुराश्रित्य बाणः स्वलक्ष्यं लक्षितुं शक्यते तथैवात्मापि प्रणवमाश्रित्य स्वलक्ष्यं ब्रह्म प्राप्य ब्रह्मैव भवति(६) ।
ओङ्कारस्योत्पत्तिः - ॐकारो ब्रह्म इति स्वीकृतः । सत्यं ज्ञानमनन्तं ब्रह्म । ओमित्येकाक्षरं ब्रह्म । तस्य जन्मनैव भवितं शक्नोति । अतः पारमार्थिकदृष्ट्या नैवोङ्कारस्योत्पत्तिर्जायते, किन्तु व्यावहारिकदृष्ट्या तस्योत्पत्तिः स्वीक्रियते । पुरा ओङ्कारश्च शब्दश्च एतौ द्वावपि ब्रह्मणः कण्ठं भित्त्वा विनिर्गतौ । ब्रह्मणः कण्ठाद् विनिर्गतत्वादेतौ माङ्गलिकौ स्तः(७) ।
अकारोकारमकारणां समुच्चय एव ओङ्कारः । अकारं च उकारं च मकारं च प्रजापतिर्वेदत्रयाददुहत्(८) । यद् वचः ओङ्कारेणारभ्यते तस्य वेदवाचःउत्पत्तिस्थानं ब्रह्मा एव ।
ओङ्कारब्रह्मणोः सम्बन्धः - ओमिति ब्रह्म । ॐ तत् सदिति ब्रह्म त्रिरूपेण निर्दिश्यते(९) । यद्यपि ब्रह्म निर्गुणं नामरूपाभ्यां विरहितमस्ति तथापि तमवगन्तुं व्यावहारिकदृष्ट्या ओम्, ॐ, तत्, सदित्येतानि तस्य नामानि साधनानि सन्ति । ओङ्कार एवाक्षरं ब्रह्म । एतदेवाक्षरं परब्रह्मोपस्य मुमुक्षुर्यदभिलषति तदेवाप्नोति(१०) । ओङ्कारस्य ``अकारम्'' ब्रह्मणो रूपम् ``उकारम्'' विष्णुरूपं मकारञ्च शिवरूपमस्ति(११) । अर्द्धमात्रञ्च परब्रह्मरूपमस्ति'' । इत्थमेकस्मिन्नेव ऊँकारे ब्रह्माविष्णुमहेशादयो देवाः समाहिताः । ओङ्कारे सर्वे देवाः समाहितास्तस्मादेवायम् ओङ्कारः परब्रह्मेत्युच्यते । प्रणवः सर्वत्र व्यापित्वाद् देवीरूपेणापि स्वीक्रियते(१२) ।
ओङ्कारस्य महत्त्वम् - यथा नारीषु पार्वती सदा वन्दनीया पूज्या चास्ति, यथा रसेषु सदैवेक्षुरसः श्रेष्ठोऽस्ति, एवमेव सर्वमन्त्रेषु प्रणवः प्रमुखोऽस्ति(१३) । ओङ्कार एव ब्रह्मणो नेदिष्ठं साधनमस्ति । ओङ्कारस्य जपध्यानाभ्यामात्मप्राप्तिर्जायते । तज्जपस्तदर्थभावनमिति योगसूत्रेण निर्दिष्टम् । ब्रह्मप्राप्तौ ``ओङ्कार'' एव श्रेष्ठालम्बनम् । ओङ्कारं ज्ञात्वा मुमुक्षुर्ब्रह्मलोकं प्राप्य महिमान्वितो जायते ।
ओङ्कारः स्वर्गद्वारम्(१४) । प्रणव एव सर्वेषामादिर्मध्योऽन्तश्च । प्रणवं ज्ञात्वा मुमुक्षुस्तद्रूप एव जायते । प्रणवः सर्वेषां हृदि स्थित ईश्वर एव । सर्वव्यापिनमोङ्कारं ज्ञात्वा विद्वान् शोकाद् विमुच्यते(१५) ।
द्वैतोपशमस्थानं मङ्गलमयमोङ्कारं यो जानाति स मुनिरित्युच्यते ओङ्कारो निर्भयं ब्रह्मपदम् । ओङ्कारे नित्यसमाहितचित्तस्य कुतश्चिद् भयं न जायते(१६) । ओङ्कारमवलम्ब्य विद्वांस्तल्लोकमाप्नोति यच्छान्तमजरमभयं परञ्चास्ति(१७) ।
``ॐ'' इत्येकाक्षरं ब्रह्मास्ति । ओमित्येकाक्षरमुच्चारयन् भगवन्तं श्रीकृष्णञ्चानुस्मरन् यो देहं त्यजति स परं पदं परमां गतिञ्च प्राप्नोति(१८) ।
ओङ्काररूपब्रह्मध्यानपूर्वकयथाशक्तिजपेन सन्ध्यङ्गजपः सिद्ध्यति । योगसिद्धये ओङ्कार ओङ्कारस्योच्चारणं प्रमुखं साधनमस्ति(१९) ।
ओङ्कारस्य प्रयोगः - प्रणवः छन्दसामाद्योऽस्ति(२०) । अतः मन्त्राणामुच्चारणात्प्रागेव प्रणव उच्चार्यते । ब्रह्मवादिनां शास्त्रविधिविहिताः यज्ञदानतपरूपक्रियाः सदैव ओङ्कारस्योच्चारणेनारभ्यन्ते(२१) । यो सर्वत्रोन्नतिमिच्छति स ओङ्कारं ध्यायेत् तञ्च जपेत्(२२) । वेदानामध्ययनात्पूर्वम् अन्ते च ओङ्कारं सर्वः सदा उच्चारयतु(२३) । गायत्रीमन्त्रोच्चारणात्प्रागेवोङ्कार उच्चार्यते । अयमेव एकः पवित्रः पापनाशकोऽन्तःकरणनिर्मलकारकः मन्त्रेषु ``आदौ'' उच्चारणीयोऽस्ति ।
कोऽयमोङ्कारस्याधिकारी - ``अथातो ब्रह्मजिज्ञासा'' (ब्रह्मसूत्रम् १/१/१) । अस्मिन् सूत्रे ``अथ'' ``अतः ब्रह्मजिज्ञासेति त्रीणि पदानि सन्ति । ब्रह्मैव मोक्षरूपं निःश्रेयस् फलम्, अतः मुमुक्षुना ब्रह्मणो जिज्ञासा कर्तव्या । साधनचतुष्टयप्राप्त्यनन्तरमेवात्यन्तनिर्मलस्वान्तो मुमुक्षुर्ब्रह्मावगन्तुं शक्नोति । नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमदमादिसम्पत्षट्क मुमुक्षुत्वानि इति चत्वारि साधनानि । साधनचतुष्टयंसम्पन्नः प्रमाता अधिकारी ओङ्कारं ब्रह्मावगन्तुं शक्नोति । ब्रह्मोपासनायाः साधनरूपेण ``ओङ्कारः'' जप्यते, ध्यायते च । यथा विष्ण्वादीनां प्रतिमासु विष्णुचिन्तनमभेदरूपेण क्रियते, एवमेव ओङ्कारे ब्रह्मणश्चिन्तनमभेदरूपेण क्रियते । प्रायश्चिद्नुष्ठानार्थम् । ``ओङ्कारपूर्वकाष्टसहस्रगायत्रीमन्त्राणां जपः कर्तव्यः । ब्रह्मप्राप्तौ ओङ्कारस्तादृशमेव साधनं यथा कस्यचित्पुरुषस्य प्राप्तौ तस्य नाम साधनं भवंति । ओङ्कारस्य जपेन, तस्य ध्यानेन च चित्तं शान्तमेकाग्रञ्च भवति ।
योगिनो बिन्दुसंयुक्तं कामदं मोक्षदमोङ्कारं नित्यं ध्यायन्ति(२४) । ओमिति ब्रह्म । तस्य ध्यानेन जपेन च ब्रह्मज्ञानं जायते । ब्रह्मवेद ब्रह्मैव भवति । ओङ्कारे सर्वे देवाः समाहिताः वर्तन्ते । ओङ्कार एव परब्रह्म । तस्य जपेन तदर्थभावनेन च योगसिद्धिरचिरेण जायते । यज्ञादीनामारम्भोऽपि ``ओङ्कारोच्चारणपूर्वकं भवति । ओङ्कार एव सर्वेषां रक्षकः, ब्रह्मप्राप्तौ मुख्यसाधनम् अस्ति । ओङ्कार एव मोक्षदः, कामदः, सर्वकल्मषविनाशको माङ्गलिकस्तस्मात्तस्मै ओङ्काराय नमः तस्मै ओङ्काराय नमः
सन्दर्भाः
१. किमयमोङ्कारः, कस्य पुत्रः । गोपथब्राह्मणः, पूर्वभागः १/२५ गोत्रः ब्रह्मणः पुत्रः । तत्रैव १/२५
२. न मामनीरयित्वा ब्राह्मणाः ब्रह्म वदेयुर्यदि वदेयुरब्रह्म तत् स्यादिति । गोपथ ब्राह्मणः,पूर्वभागः १/२५
३. ओङ्कारेणाग्रीघ्रीयाद् देवा असुरान् पराभावयन्त तद् यत् पराभावयन्त तस्मादोङ्कारः पूर्वमुच्यते । तत्रैव १/२२
४. ओमिति ब्रह्म । ओमितीदं सर्वम् । तैत्तरीयोपनिषद् १/८/१
५. ऊँकारेश्वरयात्रा च कार्यात्रैव मुनीश्वर ।
दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम् ॥ नारदपुराणम्, पूर्वखण्डः १२३/१४
६. प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ देवीभागवतपुराणम् ७/३६, वायुपुराणम् २०/५
७. ऊँकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ ॥ नारदपुराणम्, पूर्वखण्डः ५१/१०
८. अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च ॥ मनुस्मृतिः २७६
९. ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । श्रीमद्भगवद्गीता १७/२३
१०. एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ कठोपनिषद् १/२/६
११. अकारं ब्रह्मणो रूपमुकारं विष्णुरूपवत् ।
मकारं रुद्ररूपं स्यादर्धमात्रं परात्मकम् ॥ नारदपुराणम्, पूर्वखण्डः ३४/५५
१२. नमः प्रणवरूपायैः । देवीभागवतपुराणम् ७/३१/५३
१३. प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥ मत्स्यपुराणम् ८६/६
१४. ओङ्कारस्वर्गद्वारं तस्माद् ब्रह्माध्येष्यमाण एतदादिप्रतिपद्यते । आपस्तम्बधर्मसूत्रम्, प्रथमप्रश्नः १३/६
१५. प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ माण्डूक्योपनिषद्, आगमप्रकरणम् २८
१६. युञ्जीतप्रणवे चेतः प्रणवो ब्रह्मनिर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ माण्डूक्योपनिषद्, आगमप्रकरणम् २५
१७. तमोङ्कारेणैवायतनेनान्वेति विद्वान् ।
यत्तच्छान्तमजरममृतमभयं परं चेति ॥ प्रश्नोपनिषद् ५/७
१८. ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ श्रीमद्भगवद्गीता ८/१३
१९.ओङ्कारपदमेवैकं योगिनां योगसिद्धये । शाण्डिल्यस्मृतिः ५/६३
२०. आद्यः प्रणवः छन्दसामिव-रघुवंशम् महाकाव्यम् १/११
२१. तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ श्रीमद्भगवद्गीता १७/२४
२२. अभिजिंघासुः पुरस्तादोङ्कारं प्रयुङ्क्त । गोपथब्राह्मणः, पूर्वभागः १/२२
२३. ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । मनुस्मृतिः २/७४
२४. ऊँकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव ऊँकाराय नमो नमः ॥
श्रीरुद्रयामले उमामाहेश्वरसंवादे शिवषडक्षरस्त्रोतम् ।
लेखकः - डाॅ रामप्रताप तिवारी,
अध्यक्षः संस्कृतविभागे
हे०न०ब० गढ़्वालविश्वविद्यालयस्य
श्रीनगरम्, उत्तराञ्चलः
Encoded and proofread by Saritha Sangameswaran