ओङ्कारः (प्रणवः )

ओङ्कारः (प्रणवः )

वैदिकमन्त्रोच्चारणात्पूर्वमुच्चार्यमाणोऽखिलकल्मषापहारकोऽखिलविश्वरक्षकः माङ्गलिकश्चास्ति ``ओङ्कार'' इति शब्दः । किमयमोङ्कारः? अवति-रक्षति इत्योङ्कारः । ओङ्कारो ब्रह्मणः पुत्रः गोत्रश्च । गां-पृथिवीं त्रायत इति गोत्रः''(१) । ब्राह्मणो जातः ब्रह्माऽचिन्तयद्- ``अहं केनैकेनाक्षरेणाखिलं विश्वं रचयामि ?पुनश्चोङ्कारादखिलं विश्वमरचयंत् । असुरैः परावृताः देवा एकदा ``ओङ्कारं साहाय्यार्थं प्रार्थितवन्तः । ओङ्कारेणोक्तम्-'' किं मे प्रतिफलं भविष्यति? पुनर्देवैरुक्तम् - वरं वृणीष्व । तदा ओङ्कारेण पुनरुक्तम्- ओङ्कारमुच्चारयित्यैव जनाः वेदमन्त्रं वदेयुरन्यथालं तेन मन्त्रोच्चारणेन(२) । ओङ्कारं पुरस्कृत्य देवा असुरान् पराजितवन्तस्तस्मादेवौङ्कारस्योच्चारणं सर्वेषां मन्त्राणामुच्चारणात्पूर्वमेव क्रियते(३) । ॐ इति पदस्य कोऽर्थः ? - ``ओङ्कार'' इत्यस्मिन् पदे ``आपृ'' व्याप्तौ धातुः । सर्वं व्याप्नोति इति ``ओङ्कारः'' । ओमिति ब्रह्म(४) । ओमितीदं सर्वम् । बृहत्तमत्वादेव ``ब्रह्म'' इत्युच्यते । तच्च सर्वत्र वर्तते-ईशावास्यमिदं सर्वम् (ईशोपनिषद्) । ``अव्'' रक्षणे धातोर्निष्पद्यते ``ओङ्कार'' इति पदम् । अवति रक्षत्यखिलं विश्विमिति ओङ्कारः । सर्वत्र व्यापकत्वादेव ``ओङ्कारः'' सर्वेषां रक्षकः । ओमिति ब्रह्म । यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यं प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद् ब्रह्म । ओङ्कारस्य ब्रह्मरूपत्वाद् ओङ्कारादेव इमानि भूतानि जायन्ते, ओङ्कारेण जातानि जीवन्ति ओङ्कारमभिसविशन्ति सर्वाणि भूतानि । अतः मोक्षप्राप्तये मुमुक्षुना ओङ्कारस्य ज्ञानमभिध्यानञ्च कर्तव्यम् । ॐ खं ब्रह्म । आकाशोऽपि विभुत्वाद् ब्रह्म इत्युच्यते । तदेव ओङ्कार इति । ओमिति पदस्य ``आम्'' स्वीकृतिरित्यर्थः । अमरकण्टकपर्वतस्य मध्ये नर्मदातटे ओङ्कारस्तीर्थमस्ति । तत्रावश्यमेव गन्तव्यम् । तत्र पापनाशनमर्चनं दर्शनं दुर्लभं वर्तते(५) । ओङ्कारस्य पर्यायाः- ॐ, ओङ्कारः, ओम्, प्रणवः, ब्रह्म, उद्गीथः, आदित्य इति पर्यायाः । य उद्गीथः सः प्रणवः । एषः प्रणव ओमिति । निश्चितं य उद्गीथः सः प्रणवः , यः प्रणवः स उद्गीथः । आदित्य उद्गीथः । आदित्य ॐ इति स्वरन् गच्छति, तस्मादोङ्कारस्योपासना कर्तव्या । ॐ इत्युच्चारयन् उद्गाता सामवेदस्योद्गानं करोति । प्रणवः - ओङ्कार एव प्रणवः । प्रकर्षेण नूयते स्तूयतेऽनेन इति प्रणवः । प्रणव ईश्वरस्य वाचक इति योगदर्शने निर्दिष्टम् । आत्मा शरोऽस्ति । प्रणवो धनुरस्ति । ब्रह्म च तल्लक्ष्यमस्ति । यथा धनुराश्रित्य बाणः स्वलक्ष्यं लक्षितुं शक्यते तथैवात्मापि प्रणवमाश्रित्य स्वलक्ष्यं ब्रह्म प्राप्य ब्रह्मैव भवति(६) । ओङ्कारस्योत्पत्तिः - ॐकारो ब्रह्म इति स्वीकृतः । सत्यं ज्ञानमनन्तं ब्रह्म । ओमित्येकाक्षरं ब्रह्म । तस्य जन्मनैव भवितं शक्नोति । अतः पारमार्थिकदृष्ट्या नैवोङ्कारस्योत्पत्तिर्जायते, किन्तु व्यावहारिकदृष्ट्या तस्योत्पत्तिः स्वीक्रियते । पुरा ओङ्कारश्च शब्दश्च एतौ द्वावपि ब्रह्मणः कण्ठं भित्त्वा विनिर्गतौ । ब्रह्मणः कण्ठाद् विनिर्गतत्वादेतौ माङ्गलिकौ स्तः(७) । अकारोकारमकारणां समुच्चय एव ओङ्कारः । अकारं च उकारं च मकारं च प्रजापतिर्वेदत्रयाददुहत्(८) । यद् वचः ओङ्कारेणारभ्यते तस्य वेदवाचःउत्पत्तिस्थानं ब्रह्मा एव । ओङ्कारब्रह्मणोः सम्बन्धः - ओमिति ब्रह्म । ॐ तत् सदिति ब्रह्म त्रिरूपेण निर्दिश्यते(९) । यद्यपि ब्रह्म निर्गुणं नामरूपाभ्यां विरहितमस्ति तथापि तमवगन्तुं व्यावहारिकदृष्ट्या ओम्, ॐ, तत्, सदित्येतानि तस्य नामानि साधनानि सन्ति । ओङ्कार एवाक्षरं ब्रह्म । एतदेवाक्षरं परब्रह्मोपस्य मुमुक्षुर्यदभिलषति तदेवाप्नोति(१०) । ओङ्कारस्य ``अकारम्'' ब्रह्मणो रूपम् ``उकारम्'' विष्णुरूपं मकारञ्च शिवरूपमस्ति(११) । अर्द्धमात्रञ्च परब्रह्मरूपमस्ति'' । इत्थमेकस्मिन्नेव ऊँकारे ब्रह्माविष्णुमहेशादयो देवाः समाहिताः । ओङ्कारे सर्वे देवाः समाहितास्तस्मादेवायम् ओङ्कारः परब्रह्मेत्युच्यते । प्रणवः सर्वत्र व्यापित्वाद् देवीरूपेणापि स्वीक्रियते(१२) । ओङ्कारस्य महत्त्वम् - यथा नारीषु पार्वती सदा वन्दनीया पूज्या चास्ति, यथा रसेषु सदैवेक्षुरसः श्रेष्ठोऽस्ति, एवमेव सर्वमन्त्रेषु प्रणवः प्रमुखोऽस्ति(१३) । ओङ्कार एव ब्रह्मणो नेदिष्ठं साधनमस्ति । ओङ्कारस्य जपध्यानाभ्यामात्मप्राप्तिर्जायते । तज्जपस्तदर्थभावनमिति योगसूत्रेण निर्दिष्टम् । ब्रह्मप्राप्तौ ``ओङ्कार'' एव श्रेष्ठालम्बनम् । ओङ्कारं ज्ञात्वा मुमुक्षुर्ब्रह्मलोकं प्राप्य महिमान्वितो जायते । ओङ्कारः स्वर्गद्वारम्(१४) । प्रणव एव सर्वेषामादिर्मध्योऽन्तश्च । प्रणवं ज्ञात्वा मुमुक्षुस्तद्रूप एव जायते । प्रणवः सर्वेषां हृदि स्थित ईश्वर एव । सर्वव्यापिनमोङ्कारं ज्ञात्वा विद्वान् शोकाद् विमुच्यते(१५) । द्वैतोपशमस्थानं मङ्गलमयमोङ्कारं यो जानाति स मुनिरित्युच्यते ओङ्कारो निर्भयं ब्रह्मपदम् । ओङ्कारे नित्यसमाहितचित्तस्य कुतश्चिद् भयं न जायते(१६) । ओङ्कारमवलम्ब्य विद्वांस्तल्लोकमाप्नोति यच्छान्तमजरमभयं परञ्चास्ति(१७) । ``ॐ'' इत्येकाक्षरं ब्रह्मास्ति । ओमित्येकाक्षरमुच्चारयन् भगवन्तं श्रीकृष्णञ्चानुस्मरन् यो देहं त्यजति स परं पदं परमां गतिञ्च प्राप्नोति(१८) । ओङ्काररूपब्रह्मध्यानपूर्वकयथाशक्तिजपेन सन्ध्यङ्गजपः सिद्ध्यति । योगसिद्धये ओङ्कार ओङ्कारस्योच्चारणं प्रमुखं साधनमस्ति(१९) । ओङ्कारस्य प्रयोगः - प्रणवः छन्दसामाद्योऽस्ति(२०) । अतः मन्त्राणामुच्चारणात्प्रागेव प्रणव उच्चार्यते । ब्रह्मवादिनां शास्त्रविधिविहिताः यज्ञदानतपरूपक्रियाः सदैव ओङ्कारस्योच्चारणेनारभ्यन्ते(२१) । यो सर्वत्रोन्नतिमिच्छति स ओङ्कारं ध्यायेत् तञ्च जपेत्(२२) । वेदानामध्ययनात्पूर्वम् अन्ते च ओङ्कारं सर्वः सदा उच्चारयतु(२३) । गायत्रीमन्त्रोच्चारणात्प्रागेवोङ्कार उच्चार्यते । अयमेव एकः पवित्रः पापनाशकोऽन्तःकरणनिर्मलकारकः मन्त्रेषु ``आदौ'' उच्चारणीयोऽस्ति । कोऽयमोङ्कारस्याधिकारी - ``अथातो ब्रह्मजिज्ञासा'' (ब्रह्मसूत्रम् १/१/१) । अस्मिन् सूत्रे ``अथ'' ``अतः ब्रह्मजिज्ञासेति त्रीणि पदानि सन्ति । ब्रह्मैव मोक्षरूपं निःश्रेयस् फलम्, अतः मुमुक्षुना ब्रह्मणो जिज्ञासा कर्तव्या । साधनचतुष्टयप्राप्त्यनन्तरमेवात्यन्तनिर्मलस्वान्तो मुमुक्षुर्ब्रह्मावगन्तुं शक्नोति । नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमदमादिसम्पत्षट्क मुमुक्षुत्वानि इति चत्वारि साधनानि । साधनचतुष्टयंसम्पन्नः प्रमाता अधिकारी ओङ्कारं ब्रह्मावगन्तुं शक्नोति । ब्रह्मोपासनायाः साधनरूपेण ``ओङ्कारः'' जप्यते, ध्यायते च । यथा विष्ण्वादीनां प्रतिमासु विष्णुचिन्तनमभेदरूपेण क्रियते, एवमेव ओङ्कारे ब्रह्मणश्चिन्तनमभेदरूपेण क्रियते । प्रायश्चिद्नुष्ठानार्थम् । ``ओङ्कारपूर्वकाष्टसहस्रगायत्रीमन्त्राणां जपः कर्तव्यः । ब्रह्मप्राप्तौ ओङ्कारस्तादृशमेव साधनं यथा कस्यचित्पुरुषस्य प्राप्तौ तस्य नाम साधनं भवंति । ओङ्कारस्य जपेन, तस्य ध्यानेन च चित्तं शान्तमेकाग्रञ्च भवति । योगिनो बिन्दुसंयुक्तं कामदं मोक्षदमोङ्कारं नित्यं ध्यायन्ति(२४) । ओमिति ब्रह्म । तस्य ध्यानेन जपेन च ब्रह्मज्ञानं जायते । ब्रह्मवेद ब्रह्मैव भवति । ओङ्कारे सर्वे देवाः समाहिताः वर्तन्ते । ओङ्कार एव परब्रह्म । तस्य जपेन तदर्थभावनेन च योगसिद्धिरचिरेण जायते । यज्ञादीनामारम्भोऽपि ``ओङ्कारोच्चारणपूर्वकं भवति । ओङ्कार एव सर्वेषां रक्षकः, ब्रह्मप्राप्तौ मुख्यसाधनम् अस्ति । ओङ्कार एव मोक्षदः, कामदः, सर्वकल्मषविनाशको माङ्गलिकस्तस्मात्तस्मै ओङ्काराय नमः तस्मै ओङ्काराय नमः

सन्दर्भाः

१. किमयमोङ्कारः, कस्य पुत्रः । गोपथब्राह्मणः, पूर्वभागः १/२५ गोत्रः ब्रह्मणः पुत्रः । तत्रैव १/२५ २. न मामनीरयित्वा ब्राह्मणाः ब्रह्म वदेयुर्यदि वदेयुरब्रह्म तत् स्यादिति । गोपथ ब्राह्मणः,पूर्वभागः १/२५ ३. ओङ्कारेणाग्रीघ्रीयाद् देवा असुरान् पराभावयन्त तद् यत् पराभावयन्त तस्मादोङ्कारः पूर्वमुच्यते । तत्रैव १/२२ ४. ओमिति ब्रह्म । ओमितीदं सर्वम् । तैत्तरीयोपनिषद् १/८/१ ५. ऊँकारेश्वरयात्रा च कार्यात्रैव मुनीश्वर । दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम् ॥ नारदपुराणम्, पूर्वखण्डः १२३/१४ ६. प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ देवीभागवतपुराणम् ७/३६, वायुपुराणम् २०/५ ७. ऊँकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ ॥ नारदपुराणम्, पूर्वखण्डः ५१/१० ८. अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च ॥ मनुस्मृतिः २७६ ९. ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । श्रीमद्भगवद्गीता १७/२३ १०. एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ कठोपनिषद् १/२/६ ११. अकारं ब्रह्मणो रूपमुकारं विष्णुरूपवत् । मकारं रुद्ररूपं स्यादर्धमात्रं परात्मकम् ॥ नारदपुराणम्, पूर्वखण्डः ३४/५५ १२. नमः प्रणवरूपायैः । देवीभागवतपुराणम् ७/३१/५३ १३. प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥ मत्स्यपुराणम् ८६/६ १४. ओङ्कारस्वर्गद्वारं तस्माद् ब्रह्माध्येष्यमाण एतदादिप्रतिपद्यते । आपस्तम्बधर्मसूत्रम्, प्रथमप्रश्नः १३/६ १५. प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ माण्डूक्योपनिषद्, आगमप्रकरणम् २८ १६. युञ्जीतप्रणवे चेतः प्रणवो ब्रह्मनिर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ माण्डूक्योपनिषद्, आगमप्रकरणम् २५ १७. तमोङ्कारेणैवायतनेनान्वेति विद्वान् । यत्तच्छान्तमजरममृतमभयं परं चेति ॥ प्रश्नोपनिषद् ५/७ १८. ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ श्रीमद्भगवद्गीता ८/१३ १९.ओङ्कारपदमेवैकं योगिनां योगसिद्धये । शाण्डिल्यस्मृतिः ५/६३ २०. आद्यः प्रणवः छन्दसामिव-रघुवंशम् महाकाव्यम् १/११ २१. तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ श्रीमद्भगवद्गीता १७/२४ २२. अभिजिंघासुः पुरस्तादोङ्कारं प्रयुङ्क्त । गोपथब्राह्मणः, पूर्वभागः १/२२ २३. ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । मनुस्मृतिः २/७४ २४. ऊँकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ऊँकाराय नमो नमः ॥ श्रीरुद्रयामले उमामाहेश्वरसंवादे शिवषडक्षरस्त्रोतम् । लेखकः - डाॅ रामप्रताप तिवारी, अध्यक्षः संस्कृतविभागे हे०न०ब० गढ़्वालविश्वविद्यालयस्य श्रीनगरम्, उत्तराञ्चलः Encoded and proofread by Saritha Sangameswaran
% Text title            : OMkAraH lekhaH
% File name             : OMkAraHlekhaH.itx
% itxtitle              : OMkAraH (lekhaH) 
% engtitle              : OMkAraHlekhaH
% Category              : misc, article
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Ramapratap Tiwari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Saritha Sangameswaran
% Proofread by          : Saritha Sangameswaran
% Indexextra            : (Scan)
% Latest update         : February 11, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org