षट्त्रिंशत्संवरस्तुतिः
श्रीसंवरं महावीरं वाराहीं चापि योगिनीम् ।
नमामि सर्वभावेन योगिनीजालनायकम् ॥ १॥
डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् ।
चतुरोऽमृतभाण्डांश्च बोधिचित्तेन पूरितान् ॥ २॥
पुल्लीरमलयोद्भूतं खण्डकपालसंवरम् ।
प्रचण्डालिङ्गणं वीरं नमामि शिरसि स्थितम् ॥ ३॥
जालन्धरात्समुत्पन्नं महाकङ्कालसंवरम् ।
चण्डाल्यालिङ्गणं वीरं शिखादेशे स्थितं नमे ॥ ४॥
ओडियानात्समुद्भूतं कङ्कालनाम संवरम् ।
प्रभावतीसमापन्नं सव्यकर्णस्थितं नमे ॥ ५॥
अर्बुदपीठमध्यस्थं संवरं विकटदंष्ट्रिणम् ।
महानासासमापन्नं पृष्ठदेशे स्थितं नमे ॥ ६॥
गोदावरीसमुद्भूतं सुरावीरिणसंवरम् ।
सम्पुटं वीरमत्याख्या वामकर्णस्थितं नमे ॥ ७॥
रामेश्वरोद्भवं वीरममिताभाख्यसंवरम् ।
खर्वरोसम्पुटं नाथं भ्रुवोर्मध्यस्थितं नमे ॥ ८॥
देवीकोटोद्भवं नाथं वज्रप्रभाख्यसंवरम् ।
लङ्केश्वरीसमापन्नं नमामि नेत्रकोणगम् ॥ ९॥
मारवाख्यात्समुत्पन्नं वज्रदेहाख्यसंवरम् ।
द्रुमच्छायासमापन्नं नमामि स्कन्धदेशगम् ॥ १०॥
कामरूपोद्भवं वीरमङ्गुलिकाख्यसंवरम् ।
ऐरावतीसमापन्नं नमामि कक्षदेशगम् ॥ ११॥
ओकारस्थानसञ्जातं वज्रजटिलसंवरम् ।
भैरवालिङ्गणं वीरं तनुयुगोद्भवं नमे ॥ १२॥
त्रिशकुन्यद्भवं नाथं महावीराख्यसंवरम् ।
वायुवेगासमापन्नं नाभिदेशस्थितं नमे ॥ १३॥
कौशलायां समुद्भूतं वज्रहूङ्कारसंवरम् ।
सुराभक्षीसमापन्नं नमामि नासिकाग्रजम् ॥ १४॥
कलिङ्गपीठसञ्जातं सुप्रभानाम संवरम् ।
श्यामादेवी समापन्नं नमामि मुखभागजम् ॥ १५॥
लम्पाकस्थानसम्भूतं वज्रप्रभाख्यसंवरम् ।
सुभद्रालिङ्गणं वीरं कण्ठदेशोद्भवं नमे ॥ १६॥
काञ्च्याख्यपीठसञ्जातं महाभैरवसंवरम् ।
हयकर्णासमापन्नं नमामि हृदिमध्यगम् ॥ १७॥
हिमालयोद्भवं वीरं विरूपाक्षाख्यसंवरम् ।
खगाननासमापन्नं मेढ्रस्थानगतं नमे ॥ १८॥
प्रेतपुर्यां समुद्भूतं महाबलाख्यसंवरम् ।
चक्रवेगासमापन्नं लिङ्गस्थानगतं नमे ॥ १९॥
गुहदेशात्समुद्भूतं रत्नवज्राख्यसंवरम् ।
खण्डरोहासमापन्नं नमामि गुदमध्यगम् ॥ २०॥
सौराष्ट्रदेशसम्भूतं हयग्रीवाख्यसंवरम् ।
शौण्डिन्यालिङ्गणं वीरं नमामि उरुमध्यगम् ॥ २१॥
सुवर्णद्वीपसञ्जातमाकाशगर्भसंवरम् ।
चक्रवर्मिणीसमापन्नं जङ्घामध्यगतं नमे ॥ २२॥
नगरपीठमध्यस्थं श्रीहेरुकाख्यसंवरम् ।
सुवीरालिङ्गणं वीरं नमाम्यङ्गुलिवर्तिनम् ॥ २३॥
सिन्धुदेशसमुद्भूतं पद्मनृत्याख्यसंवरम् ।
महाबलासमापन्नं पादपृष्ठगतं नमे ॥ २४॥
मरुतीपीठसञ्जातं वैरोचनाख्यसंवरम् ।
चक्रवर्तिनीसमापन्नं नमाम्यङ्गुष्ठमध्यगम् ॥ २५॥
कुलतायाः समुद्भूतं वज्रसत्त्वाख्यसंवरम् ।
महावीर्यासमापन्नं जानुद्वयगत नमे ॥ २६॥
पूर्वद्वारे स्थितं वीरं वज्रचण्डाख्यसंवरम् ।
काकास्यालिङ्गणं वीरं नमामि सुरनायकम् ॥ २७॥
उत्तरद्वारमध्यस्थं वज्रानलाख्यसंवरम् ।
उलूकास्यासमापन्नं नमामि यक्षनायकम् ॥ २८॥
पश्चिमद्वारमध्यस्थं वज्रोष्णीषाख्यसंवरम् ।
श्वानास्यासम्पुटं वीरं नमामि पन्नगाधिपम् ॥ २९॥
दक्षिणद्वारमध्यस्थं वज्रकुण्डलिसंवरम् ।
शूकरास्यासमापन्नं नमामि यमनायकम् ॥ ३०॥
आग्नेयदिग्विमात्रस्थं वज्रयक्षाख्यसंवरम् ।
यमदाढीसमापन्नं नमामि वह्निनायकम् ॥ ३१॥
नैरृत्यदिग्विभाषस्थं वज्रकीलाख्यसंवरम् ।
यमदूतीसमापन्नं नमामि राक्षसाधिपम् ॥ ३२॥
वायव्यदिग्विभागस्थं वज्रमहाबलाह्वयम् ।
यमदंष्ट्रीसमापन्नं नमामि पवनाधिपम् ॥ ३३॥
ईशानदिग्विभागस्थं वज्रभीषणसंवरम् ।
यममथनीसमापन्नं नमामि भूतनायकम् ॥ ३४॥
एतान्देवान् नमस्यामि दिग्विदिक्षु सुसंस्थितान् ।
वीरान् वीरेश्वरीः सर्वा हेरुकं परमेश्वरम् ॥ ३५॥
सहजानन्दात्मकं देवं विशुद्धं ताण्डवान्वितम् ।
डाकिनीजालमध्यस्थं प्रत्यात्मवेद्यगोचरम् ॥ ३६॥
स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् ।
तेन पुण्येन लोकोऽस्तु वज्रडाकपरायणः ॥ ३७॥
इति श्री षट्त्रिंशत्संवरगणचक्रमण्डलस्तुतिः समाप्ताः ॥