अचिन्त्यस्तवः
ॐ नमो भगवते बुद्धाय ।
प्रतीत्यजानां भावानां नैःस्वभाव्यं जगाद यः ।
तं नमामि सदा बुद्धमचिन्त्यमनिदर्शनम् ॥ १॥
यथा त्वया महायाने धर्मनैरात्म्यं महात्मना ।
विदितं सन्देशितं तद् बुद्धिमद्भयः करुणावशात् ॥ २॥
प्रत्ययेभ्यः समुत्पन्नमनुत्पन्न त्वयोदितम् ।
स्वभावेन च तज्जातमिति शून्यं प्रकाशितम् ॥ ३॥
यद्वत्प्रतीत्यजाच्छब्दात् प्रतिशब्दसमुद्भवः ।
मायामारीचिवच्चापि तथा भवसमुद्भवः ॥ ४॥
मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः ।
यद्यजाताः सह स्वप्नैर्न स्यात्तद्दर्शनादिकम् ॥ ५॥
हेतुप्रत्ययसम्भूता यथा ते कृतकाः स्मृताः ।
तद्वत्प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ ६॥
अतस्तत्कर्तृकं सर्व यत्किञ्चिद्वाललापनम् ।
रक्तमुष्टिप्रतीकाशमयथार्थ प्रकाशितम् ॥ ७॥
कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् ।
कस्य नाशादतीतं स्यादुत्पित्सुः किमपेक्ष्यसे ॥ ८॥
स्वस्मान्न जायते भावः परस्मान्नोभयादपि ।
न सन्नासन्न सदसत् कुतः कस्योद्भवस्तदा ॥ ९॥
अजाते न स्वभावोऽस्ति कुतः स्वस्मात्समुद्भवः ।
स्वभावाभावसिद्ध परस्मादप्यसम्भवः ॥ १०॥
स्वत्वे सति परत्वं स्यात् परत्वे स्वत्वमिष्यते ।
आपेक्षिकी तयोः सिद्धिः पारावारमिवोदिता ॥ ११॥
यदा नापेक्ष्यते किञ्चित् कुतः किञ्चित्तदा भवेत् ।
यदा नापेक्ष्यते दीर्घ कुतो ह्रस्वादिकं तदा ॥ १२॥
अस्तित्वे सति नास्तित्वं दीर्घ ह्रस्वं यथा सति ।
नास्तित्वे सति चास्तित्वं यत्तस्मादुभयं न सत् ॥ १३॥
च एकत्वादि तथाऽनेकमतीतानागतादि ।
सङ्क्लेशं व्यवदानं च सम्यक् मिथ्या स्वतः कुतः ॥ १४॥
स्वत एव हि यो नास्ति भावः सर्वोऽस्ति कस्तदा ।
पर इत्युच्यते योऽयं न विना स्वस्वभावतः ॥ १५॥
न स्वभावोऽस्ति भावानां परभावो तदाऽस्ति न । तर
भावाग्रहग्रहावेशः परतन्त्रोऽस्ति कस्तदा ॥ १६॥
आदावेव शमं याताः स्वभावेन च निर्वृताः ।
अनुत्पन्नाश्च तत्त्वेन तस्माद् धर्मास्त्वयोदिताः ॥ १७॥
निःस्वभावास्त्वया धीमन् रूपाद्याः सम्प्रकाशिताः ।
फेनबुबुदमायाभ्रमरीचिकदलीसमाः ॥ १८॥
इन्द्रियरुपलब्धं यत् तत्तत्त्वेन भवेद् यदि ।
जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं तदा ॥ १९॥
जातत्वमप्रमाणत्वमथास्य कृततामपि ।
विपरीतमविज्ञानमिन्द्रियाणां त्वमूचिवान् ॥ २०॥
अज्ञानेनावृतो येन यथावन्न प्रदृश्यते ।
लोकस्तेन यथाभूतमिति मत्वा स्वयोदितम् ॥ २१॥
अस्तीति शाश्वती दृष्टि स्तीत्युच्छेददर्शनम् ।
तेनान्तद्वयनिर्मुक्तो धर्मोऽयं देशितस्त्वया ॥ २२॥
चतुष्कोटिविनिर्मुक्तास्तेन धर्मास्त्वयोदिताः ।
विज्ञानस्य प्रविज्ञेया जाता विमुक्तगोचरा ॥ २३॥
स्वप्ने तु जनकोद्भूतं द्विचन्द्रादीक्षणं यथा ।
भूतं तद्वस्तु नोद्भूतं तथा दृष्टं जगत् त्वया ॥ २४॥
उत्पन्नश्च स्थितो नष्टः स्वप्ने यद्वत् सतस्तथा ।
न चोत्पन्नः स्थितो नष्ट उक्तो लोकार्थतस्त्वया ॥ २५॥
को नाशः सम्भवो दृष्टो यथा स्वप्ने तथेतरः ।
सम्भवः सर्वभावानां विभवोऽपि तथा मतः ॥ २६॥
रागादिकं तथा दुःखं दुःखसङ्क्लेशसंसृतिः ।
सम्भारपूर्णात्मोक्तिः स्वप्नवद् भाषितं त्वया ॥ २७॥
जातं तथैव नो जातमागतं गतमित्यपि ।
मुक्तो बद्धस्तथा ज्ञानो द्वयमिच्छेन्न तत्त्ववित् ॥ २८॥
उत्पत्तिर्यस्य नैवास्ति तस्मात् का निर्वृतिर्भवेत् ।
मायागजप्रकाशत्वादादिशान्तस्त्वमर्थतः ॥ २९॥
उत्पन्नोऽपि न वोत्पन्नो यद्वन्मायागजो मतः ।
उत्पन्नं च तथा विश्वं न वोत्पन्नं च तत्त्वतः ॥ ३०॥
अमेयैश्च प्रमेयाणां प्रत्येकं निर्वृतिः कृता ।
लोकनाथैहि सत्त्वानां त कश्चिन्मोचितश्च तैः ॥ ३१॥
ते च सत्त्वाश्च नो जाता येनैव तेन ते स्फुटम् ।
न कैश्चिन्मोचितः कश्चिदिति प्रोक्तं महामुने ॥ ३२॥
मायाकारकृतं यद्वत् वस्तु शून्यं तथेतरत् ।
वस्तुशून्यं जगत्सर्वा स्वयोक्तं कारकस्तथा ॥ ३३॥
कारकोऽपि कृतोऽन्येन कृतोऽन्येन कर्तृत्वम् । नातिवर्तते ।
अथवा ताक्रियाकर्ता कारकस्य प्रसज्यते ॥ ३४॥
नाममात्र जगत्सर्वमित्युच्चैर्भाषितं त्वया ।
अभिधानात् पृथग्भूतमभिधेयं न विद्यते ॥ ३५॥
कल्पनामात्रमित्यस्मात् सर्वधर्माः प्रकाशिताः ।
कल्पनाप्यसती प्रोक्ता यथा शून्य विकल्प्यते ॥ ३६॥
भावाऽभावद्वयातीतमनातीतश्च कुत्रचित् ।
न चा नं न च ज्ञेयं न चास्तिज्ञा नैव नास्तिवत् ॥ ३७॥
यन्न चैकं न चानेकं नोभयं न च नोभयम् ।
अनालयमथाव्यक्तमचिन्त्यमनिदर्शनम् ॥ ३८॥
यन्नोदेति न च व्येति नोच्छेदि न च शाश्वतम् ।
चाकाशप्रतीकाशं नाक्षरज्ञानगोचरम् ॥ ३९॥
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
तथाविधश्च सद्धर्मस्तत्समश्च तथागतः ॥ ४०॥
तत्तत्त्वं परमार्थोऽपि तथता द्रव्यमिष्यते ।
भूतं तदविसंवादि तद्वोधाद् बुद्ध उच्यते ॥ ४१॥
बुद्धानां सत्त्वधातोश्च तेनाभिन्नस्त्वमर्थतः ।
आत्मनश्च परेषां च समता तेन ते मता ॥ ४२॥
भावेभ्यः शून्यता नान्या न च भावोऽस्ति तां विना ।
तस्मात्प्रतीत्यजा भावास्त्वया शून्याः प्रकाशिताः ॥ ४३॥
हेतुप्रत्ययसम्भूता परतन्त्रा संवृतिः ।
परतन्त्रमिति प्रोक्तं परमार्थस्त्वकृत्रिमः ॥ ४४॥
स्वभावः प्रकृतिस्तत्त्वं द्रव्यं वस्तु सदित्यपि ।
नास्ति वैकल्पिको भावः परतन्त्रस्तु विद्यते ॥ ४५॥
अस्तीति कल्पिते भावः समारोपस्त्वयोदितः ।
नास्तीति कृतकोच्छेदादुच्छेदश्च प्रकाशितः ॥ ४६॥
तत्त्वज्ञाने न चोच्छेदो न च शाश्वतता मता ।
वस्तुशून्यं जगत्सर्व मरीचिप्रतिमं मतम् ॥ ४७॥
मृगतृष्णाजलं यद्वन्नोच्छेदि न च शाश्वतम् ।
तद्वत्सर्व जगत्प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ ४८॥
द्रव्यमुत्पद्यते यस्य तस्योत्पादादिकं भवेत् ।
अन्तवानान्तवाश्चापि लोकस्तस्य प्रसज्यते ॥ ४९॥
ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति ।
यदोभयमनुत्पन्नमिति बुद्धे तदास्ति किम् ॥ ५०॥
इति मायादि दृष्टान्तः स्फुटमुक्त्वा भिषग्वरः ।
देशयामास सद्धर्म सर्वदृष्टिचिकित्सितम् ॥ ५१॥
एतत्तत्परम तत्त्वं निःस्वभावत्वदेशना ।
भावग्रहगृहीतानां चिकित्सेयमनुत्तरा ॥ ५२॥
धर्मयाज्ञिक! तेनैव धर्मयज्ञ निरन्तरम् ।
अभीष्टमीजे त्रैलोक्ये निष्कषाये निरन्तरम् ॥ ५३॥
वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः ।
नैरात्म्यसिंहनादोऽयमद्भुतो नदितस्त्वया ॥ ५४॥
शून्यताधर्मगम्भीरा धर्मभेरी पराहता ।
नै स्वभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ ५५॥
धर्मयौतकमाख्यातं बुद्धानां शासनामृतम् ।
नीतार्थमिति चोद्दिष्टं धर्माणां शून्यतैव हि ॥ ५६॥
उत्पादनिरोधादिसर्वज्ञत्वादिदेशना ।
नेयार्था सा मता नाथ भाषिता संवृतिश्च सा ॥ ५७॥
प्रज्ञापारमिताम्भोधेर्योऽत्यन्तं पारमागतः ।
पुण्यगुणरत्नाढयस्त्वद्गुणार्णवपारगः ॥ ५८॥
इति स्तुत्वा जगन्नाथमचिन्त्यमनिदर्शनम् ।
यदवाप्तं मया पुण्यं तेनास्तु त्वत्सम जगत् ॥ ५९॥
इति अचिन्त्यस्तवः सपूर्णः ।