अद्वयपरमार्था नामसङ्गीतिः

अद्वयपरमार्था नामसङ्गीतिः

ॐ नमः श्रीमहामञ्जुनाथाय । अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः । त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः ॥ १॥ विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः । प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहः ॥ २॥ भृकुटीतरङ्गप्रमुखैरनन्तैर्वज्रपाणिभिः । दुर्दान्तदमकैर्वीरैर्वीरवीभत्सरूपिभिः ॥ ३॥ उल्लालयदिभिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः । प्रज्ञोपायमहाकरुणाजगदर्थकरैः परैः ॥ ४॥ हृष्टतुष्टाशयैर्मुदितैः क्रोधविग्रहरूपिभिः । बुद्धकृत्यकरैर्नाथैः सार्द्धं प्रणतविग्रहै ॥ ५॥ प्रणम्य नाथं सम्बुद्धं भगवन्तं तथागतम् । कृताञ्जलिपुटो भूत्वा इदमाह स्थितोऽग्रतः ॥ ६॥ मद्धिताय ममार्थाय अनुकम्पाय मे विभो । मायाजालाभिसम्बोधेर्यथालाभि भवाम्यहम् ॥ ७॥ अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसाम् । हिताय सर्वसत्त्वानामनुत्तरफलाप्तये ॥ ८॥ प्रकाशयतु सम्बुद्धो भगवान् शास्ता जगद्गुरुः । महासमयतत्त्वज्ञ इन्द्रियाशयवित् परः ॥ ९॥ भगवन्! ज्ञानकायस्य महोष्णीषस्य गीष्पतेः । मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः ॥ १०॥ गम्भीरार्थामुदारार्थां महार्थामसमां शिवाम् । आदिमध्यान्तकल्याणीं नामसङ्गीतिमुत्तामाम् ॥ ११॥ यातीतैर्भाषिता बुद्धैर्भाषिष्यन्ते ह्यानागताः । प्रत्युत्पन्नाश्च सम्बुद्धा यां भाषन्ते पुनः पुनः ॥ १२॥ मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते । महावज्रधरैर्हृष्टैरमेयैर्मन्त्रधारिभिः ॥ १३॥ अहं चैनां धारयिष्याम्यानिर्याणाद् दृढाशयः । यथा भवाम्यहं नाथ सर्वसम्बुद्धगुह्यधृक् ॥ १४॥ प्रकाशयिष्ये सत्त्वानां यथाशयविशेषतः । अशेषक्लेशनाशाय अशेषाज्ञानहानये ॥ १५॥ एवमध्येष्य गुह्येन्द्रो वज्रपाणिस्तथागतम् । कृताञ्जलिपुतो भूत्वा प्रह्वकायःस्थितोऽग्रतः ॥ १६॥ इति अध्येषणाज्ञानगाथाः षोडश । अथ शाक्यमुनिर्भगवान् सम्बुद्धो द्विपदोत्तमः । निर्णमय्यायतां स्फीतां स्वजिह्वां स्वमुखाच्छुभाम् ॥ १७॥ स्मितं सन्दश्र्य लोकानामपायत्रयशोधनम् । त्रिलोकाभासकरणं चतुर्मारारिशासनम् ॥ १८॥ त्रिलोकमापूरयन्त्या ब्राह्म मधुरया गिरा । प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् ॥ १९॥ साधु वज्रधर श्रीमन् साधु ते वज्रपाणये । यस्त्वं जगद्धितार्थाय महाकरुणयान्वितः ॥ २०॥ महार्थां नामसङ्गीतिं पवित्रामघनाशिनीम् । मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः ॥ २१॥ तत्साधु देशयाम्येषः अहं ते गुह्यकाधिप । श‍ृणु त्वमेकाग्रमनास्तत्साधु भगवन्निति ॥ २२॥ इति प्रतिवचनज्ञानगाथाः षट् । अथ शाक्यमुनिर्भगवान् सकलं मन्त्रकुलं महत् । मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयम् ॥ २३॥ लोकलोकोत्तरकुलं लोकालोककुलं महत् । महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् ॥ २४ । इति षट्कुलावलोकनज्ञानगाथे द्वे । इमां षण्मन्त्रराजानां संयुक्तामद्वयो दयाम् । अनुत्पादधर्मिणीं गाथां भाषते स्म गिराम्पतेः ॥ २५॥ अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि । ज्ञानमूर्तिरहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् ॥ २६॥ ॐ वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये । ज्ञानकायवागीश्वरारपचनाय ते नमः ॥ २७॥ इति मायाजालाभिसम्बोधिक्रमगाथास्तिस्रः । तद्यथा भगवान् बुद्धः सम्बुद्धोऽकारसम्भवः । अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः ॥ २८॥ महाप्राणो ह्यनुत्पादो वागदाहारवर्जितः । सर्वाभिलापहेत्व्ग्र्यः सर्ववाक्सुप्रभास्वरः ॥ २९॥ महामहमहारागः सर्वसत्त्वरतिङ्करः । महामहमहाद्वेषः सर्वक्लेशमहारिपुः ॥ ३०॥ महामहमहामोहो मूढधीमोहसूदनः । महामहमहाक्रोधो महाक्रोधरिपुर्महान् ॥ ३१॥ महामहमहालोभः सर्वलोभनिषूदनः । महाकामो महासौख्यो महामोदो महारतिः ॥ ३२॥ महारूपो महाकायो महावर्णो महावपुः । महानामा महोदारो महाविपुलमण्डलः ॥ ३३॥ महाप्रज्ञायुधधरो महाक्लेशाङ्कुशोऽग्रणीः । महायशा महाकीर्तिर्महाज्योतिर्महाद्युतिः ॥ ३४॥ महामायाधरो विद्वान् महामायार्थसाधकः । महामायारतिरतो महामायेन्द्रजालिकः ॥ ३५॥ महादानपतिः श्रेष्ठो महाशीलधरोऽग्रणीः । महाक्षान्तिधरो धीरो महावीर्यपराक्रमः ॥ ३६॥ महाध्यानसमाधिस्थो महाप्रज्ञाशरीरधृक् । महाबलो महापायः प्रणिधिर्ज्ञानसागरः ॥ ३७॥ महामैत्रीमयोऽमेयो महाकारुणिकोऽग्रधीः । महाप्रज्ञो महाधीमान् महोपायो महाकृतिः ॥ ३८॥ महाऋद्धिबलोपेतो महावेगो महाजवः । महर्द्धिको महेशाख्यो महाबलपराक्रमः ॥ ३९॥ महाभवाद्रिसम्भेत्ता महावज्रधरो धनः । महाक्रूरो महारौद्रो महाभयभयङ्कर ॥ ४०॥ महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः । महायाननयारुढो महायाननयोत्तमः ॥ ४१॥ इति वज्रधातुमण्डलज्ञानगाथाश्चतुर्दश । महावैरोचनो बुद्धो महामौनी महामुनिः । महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः ॥ ४२॥ दशपारमिताप्राप्तो दशपारमिताश्रयः । दशपारमिताशुद्धिर्दशपारमितानयः ॥ ४३॥ दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः । दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् ॥ ४४॥ दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः । अशेषविश्वार्थकरो दशाकारवशी महान् ॥ ४५॥ अनादिर्निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः । भूतवादी यथावादी तथाकारी अनन्यवाक् ॥ ४६॥ अद्वयो द्वयवादी च भूतकोटिव्यवस्थितः । नैरात्म्यसिंहनिर्णादी कुतीथ्र्यमृगभीकरः ॥ ४७॥ सर्वत्रगोऽमोघगतिस्तथागतमनोजवः । जिनो जितारिर्विजयो चक्रवर्ती महाबलः ॥ ४८॥ गणमुख्यो गणाचार्यो गणेशो गणपतिर्वशी । महानुभावो धौरेयोऽनन्यनेयो महानयः ॥ ४९॥ वागिशो वाक्पतिर्वाग्मी वाचस्पतिरनन्तगोः । सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः ॥ ५०॥ अवैवर्तिको ह्यनागामो खड्गः प्रत्येकनायकः । नानानिर्याणनिर्यातो महाभूतैककारणः ॥ ५१॥ अर्हन् क्षीणास्रवो भिक्षुर्वीतरागो जितेन्द्रियः । क्षेमप्राप्तोऽभयप्राप्तः शीतीभूतो ह्यानाविलः ॥ ५२॥ विद्याचरणसम्पन्नः सुगतो लोकवित्परः । निर्ममो निरहङ्कारः सत्यद्वयनयस्थितः ॥ ५३॥ संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः । कैवल्यज्ञाननिष्ठियुतः प्रज्ञाशस्त्रो विदारणः ॥ ५४॥ सद्धर्म्मो धर्मराड् भास्वान् लोकालोककरः परः । धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः ॥ ५५॥ सिद्धार्थः सिद्धसङ्कल्पः सर्वसङ्कल्पवर्जितः । निर्विकल्पोऽक्षयो धातुर्धर्मधातुः परोऽव्ययः ॥ ५६॥ पुण्यवान् पुण्यसम्भारो ज्ञानं ज्ञानाकरं महत् । ज्ञानवान् सदसज्ज्ञानी सम्भारद्वयसम्भृतः ॥ ५७॥ शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियाम्पतिः । प्रत्यात्मवेद्यो ह्यचलः परमाद्यस्त्रिकायधृक् ॥ ५८॥ पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः । पञ्चबुद्धात्ममुकुटः पञ्चचक्षुरसङ्गधृक् ॥ ५९॥ जनकः सर्वबुद्धानां बुद्धपुत्रः परोवरः । प्रज्ञाभवोद्भवो योनिर्धर्मयोनिर्भवान्तकृत् ॥ ६०॥ घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः । गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् ॥ ६१॥ वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः । जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः ॥ ६२॥ विद्याराजोऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत् । महोष्णीषोऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः ॥ ६३॥ सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः । विश्वरूपी विधाता च पूज्यो, मान्यो महाऋषिः ॥ ६४॥ कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् । रत्नत्रयधरः श्रेष्ठस्त्रियानोत्तमदेशकः ॥ ६५॥ अमोघपाशो विजयी वज्रपाशो महाग्रहः । वज्राङ्कुशो महापाशः वज्रभैरवभीकरः ॥ ६६॥ इति सुविशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः । क्रोधराट् षण्मुखो भीमः षण्णेत्रः षड्भुजो बली । दंष्ट्राकरालः कङ्कालो हलाहलः शताननः ॥ ६७॥ यमान्तको विघ्नराजो वज्रवेगो भयङ्करः । विघुष्टवज्रो हृद्वज्रो मायावज्रो महोदरः ॥ ६८॥ कुलिशेशो वज्रयोनिर्वज्रमण्डो नभोपमः । अचलैकजटाटोपो गजचर्मपटार्द्रधृक् ॥ ६९॥ हाहाकारो महाघोरो हीहीकारो भयानकः । अट्टहासो महाहासो वज्रहासो महारवः ॥ ७०॥ वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखः । वज्रचण्डो महामोदो वज्रहूङ्कारहूङ्कृतिः ॥ ७१॥ वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः । विश्ववज्रधरो बज्री एकवज्री रणञ्जहः ॥ ७२॥ वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः । वज्रावेशो महावेशः शताक्षो वज्रलोचनः ॥ ७३॥ वज्ररोमाङ्कुरतनुर्वज्ररोमैकविग्रहः । वज्रकोटिनखारम्भो वज्रसारघनच्छवि ॥ ७४॥ वज्रमालाधरः श्रीमान् वज्राभरणभूषितः । हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः ॥ ७५॥ मञ्जुघोषो महानादस्त्रैलोक्यैकरवो महान् । आकाशधातुपर्यन्तघोषो घोषवतां वरः ॥ ७६॥ इत्यादर्शज्ञानगाथाः पादेन सार्धं दश । तथताभूतनैरात्म्यभूतकोटिरनक्षरः । शून्यतावादिवृषभो गम्भीरोदारगर्जनः ॥ ७७॥ धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः । अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः ॥ ७८॥ अरूपो रूपवानग्र्यो नानारूपो मनोमयः । सर्वरूपावभासश्रीरशेषप्रतिबिम्बधृक् ॥ ७९॥ अप्रधृष्यो महेशाख्यस्त्रैधातुकमहेश्वरः । समुच्छ्रितार्यमार्गस्थो धर्मकेतुर्महोदय ॥ ८०॥ त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापति । द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः ॥ ८१॥ लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः । नाथस्त्राता त्रिलोकाप्तः शरणं ताय्यनुत्तरः ॥ ८२॥ गगनाभोगसम्भोगः सर्वज्ञज्ञानसागरः । अविद्याण्डकोशसम्भेत्ता भवपञ्जरदारणः ॥ ८३॥ शमिताशेषसङ्क्लेशः संसारार्णवपारगः । ज्ञानाभिषेकमुकुटः सम्यक्सम्बुद्धभूषणः ॥ ८४॥ त्रिदुःखदुःखशमनस्त्र्यन्तोऽनन्तस्त्रिमुक्तिगः । सर्वावरणनिर्मुक्त आकाशसमतां गतः ॥ ८५॥ सर्वक्लेशमलातीतस्त्र्यध्वानध्वगतिं गतः । सर्वसत्त्वमहानागो गुणशेखरशेखरः ॥ ८६॥ सर्वोपधिविनिर्मुक्तो व्योमवत्र्मनि सुस्थितः । महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः ॥ ८७॥ महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः । सर्वसत्त्वार्थकृत्कर्त्ता हितैषी सत्त्ववत्सलः ॥ ८८॥ शुभाशुभज्ञः कालज्ञः समयज्ञः समयो विभुः । सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः ॥ ८९॥ गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः । सर्वमङ्गलमाङ्गल्यः कीर्तिर्लक्ष्मीर्यशः शुभः ॥ ९०॥ महोत्सवो महाश्वासो महानन्दो महारतिः । सत्कारः सत्कृतिर्भूतिः प्रमोदः श्रीर्यशस्पतिः ॥ ९१॥ वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः । महाभयारिः प्रवरो निःशेषभयनाशनः ॥ ९२॥ शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् । पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः ॥ ९३॥ महाब्रतधरो मौञ्जी ब्रह्मचारी ब्रतोत्तमः । महातपास्तपोनिष्ठः स्नातको गौतमोऽग्रणी ॥ ९४॥ ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणमाप्तवान् । मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः ॥ ९५॥ निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणमन्तगः । सुखदुःखान्तकृन्निष्ठा वैराग्यमुपधिक्षयः ॥ ९६॥ अजयोऽनुपमोऽव्यक्तो निराभासो निरञ्जनः । निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनाश्रवः ॥ ९७॥ अरजो विरजो विमलो वान्तदोषो निरामयः । सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित्परः ॥ ९८॥ विज्ञानधर्मतातीतो ज्ञानमद्वयरूपधृक् । निर्विकल्पो निराभोगस्त्र्यध्वसम्बुद्धकार्यकृत् ॥ ९९॥ अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः । ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः ॥ १००॥ वागीश्वरो महावादी वादिराड् वादिपुङ्गवः । वदतांवरो वरिष्ठो वादिसिंहोऽपराजितः ॥ १०१॥ समन्तदर्शी प्रामोद्यस्तेजोमाली सुदर्शनः । श्रीवत्सः सुप्रभो दीप्तिर्भाभासुरकरद्युतिः ॥ १०२॥ महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तरः । अशेषभैषज्यतरुः क्लेशव्याधिर्महारिपुः ॥ १०३॥ त्रैलोक्यतिलकः कान्तः श्रीमान् नक्षत्रमण्डलः । दशदिग्व्योमपर्य्यन्तो धर्मध्वजमहोच्छ्रयः ॥ १०४॥ जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः । पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः ॥ १०५॥ सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक् । सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः ॥ १०६॥ वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः । सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः ॥ १०७॥ सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः । सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती ॥ १०८॥ वज्रसूर्य्यमहालोको वज्रेन्दुविमलप्रभः । विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः ॥ १०९॥ सम्बुद्धवज्रपर्यङ्को बुद्धसङ्गीतिधर्मधृक् । बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् ॥ ११०॥ विश्वमायाधरो राजा बुद्धविद्याधरो महान् । वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः ॥ १११॥ दुःखच्छेदमहायानवज्रधर्ममहायुधः । जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर्यथार्थवित् ॥ ११२॥ सर्वपारमितापूरी सर्वभूमिविभूषणः । विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुहृत्प्रभः ॥ ११३॥ मायाजालमहोद्योगः सर्वतन्त्राधिपः परः । अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् ॥ ११४॥ समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः । सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रदृक् ॥ ११५॥ सर्वभावस्वभावाग्य्रः सर्वभावस्वभावधृक् । अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् ॥ ११६॥ एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक् । सर्वधर्माभिसमयो भूतान्तमुनिरग्रधीः ॥ ११७॥ स्तिमितः सुप्रसन्नात्मा सम्यक्सम्बुद्धबोधिधृक् । प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः ॥ ११८॥ इति प्रत्यवेक्षणज्ञानगाथाः द्वाचत्वारिंशत् । इष्टार्थसाधकः परः सर्वापायविशोधकः । सर्वसत्त्वोत्तमो नाथः सर्वसत्त्वप्रमोचकः ॥ ११९॥ क्लेशसङ्ग्रामशूरैकः अज्ञानरिपुदर्पहा । धीश‍ृङ्गारधरः श्रीमान् वीरबीभत्सरूपधृक् ॥ १२०॥ बाहुदण्डशताक्षेपपदनिक्षेपनर्त्तनः । श्रीमच्छतभुजाभोगगगनाभोगनर्त्तनः ॥ १२१॥ एकपादतलाक्रान्तमहीमण्डतले स्थितः । ब्रह्माण्डशिखराक्रान्तपादाङ्गुष्ठनखे स्थितः ॥ १२२॥ एकार्थोऽद्वयधर्मार्थः परमार्थोऽविनश्वरः । नानाविज्ञप्तिरूपार्थश्चित्तविज्ञानसन्ततिः ॥ १२३ । अशेषभावार्थरतिः शून्यतारतिरग्रधीः । भवरागाद्यतीतश्च भवत्रयमहारतिः ॥ १२४॥ शुद्धः शुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः । बालार्कमण्डलच्छायो महारागनखप्रभः ॥ १२५॥ इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् । महामणिमयूखश्रीर्बुद्धनिर्वाणभूषणः ॥ १२६॥ लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः । महास्मृतिधरस्तत्त्वश्चतुःस्मृतिसमाधिराट् ॥ १२७॥ बोध्यङ्गकुसुमामोदस्तथागतगुणोदधिः । अष्टाङ्गमार्गनयवित् सम्यक्सम्बुद्धमार्गवित् ॥ १२८॥ सर्वसत्त्वमहासङ्गो निःसङ्गो गगनोपमः । सर्वसत्त्वमनोजातः सर्वसत्त्वमनोजवः ॥ १२९॥ सर्वसत्त्वेत्द्रियार्थज्ञः सर्वसत्त्वमनोहरः । पञ्चस्कन्धार्थतत्त्वज्ञः पञ्चस्कन्धविशुद्धधृक् ॥ १३०॥ सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः । सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः ॥ १३१॥ द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् । चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥ १३२॥ द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् । विंशत्याकारसम्बोधिर्विबुद्धः सर्ववित्परः ॥ १३३॥ अमेयबुद्धनिर्माणकायकोटिविभावकः । सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् ॥ १३४॥ नानायाननयोपायजगदर्थविभावकः । यानत्रितयनिर्यात एकयानफले स्थित ॥ १३५॥ क्लेशधातुविशुद्धात्मा कर्मधातुक्षयङ्करः । ओघोदधिसमुत्तीर्णो योगकान्तारनिसृतः ॥ १३६॥ क्लेशोपक्लेशसङ्क्लेशसुप्रहीणसवासनः । प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् ॥ १३७॥ सर्वसंज्ञाप्रहोणार्थो विज्ञानार्थो निरोधकृत् । सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः ॥ १३८॥ सर्वसत्त्वमनोऽन्तस्थस्तच्चित्तसमताङ्गतः । सर्वसत्त्वमनोह्लादी सर्वसत्त्वमनोरतिः ॥ १३९॥ सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः । निःसन्दिग्धमतिस्त्र्यर्थः सर्वार्थस्त्रिगुणात्मकः ॥ १४०॥ पञ्चस्कन्धार्थस्त्रिकालः सर्वक्षणविभावकः । एकक्षणाभिसम्बुद्धः सर्वबुद्धस्वभावधृक् ॥ १४१॥ अनङ्गकायः कायाग्य्रः कायकोटिविभावकः । अशेषरूपसन्दर्शी रत्नकेतुर्महामणिः ॥ १४२॥ इति समताज्ञानगाथाश्चतुर्विशतिः । सर्वसम्बुद्धबोद्धव्यो बुद्धबोधिरनुत्तरः । अनक्षरो मन्त्रयोनिर्महामन्त्र कुलत्रयः ॥ १४३॥ सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः । पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः ॥ १४४॥ सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् । अकलः कलनातीश्चतुर्थध्यानकोटिधृक् ॥ १४५॥ सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित् । समाधिकायः कायाग्य्रः सर्वसम्भोगकायराट् ॥ १४६॥ निर्माणकायः कायाग्य्रो बुद्धनिर्माणवंशधृक् । दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् ॥ १४७॥ देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः । अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः ॥ १४८॥ उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः । प्रख्यातदशदिग्लोको धर्मदानपतिर्महान् ॥ १४९॥ मैत्रीसन्नाहसन्नद्धः करुणावर्मवर्मितः । प्रज्ञाखड्गो धनुर्बाणः क्लेशाज्ञानरणञ्जहः ॥ १५०॥ मारारिर्मारजिद्वीरश्चतुर्मारभयान्तकृत् । सर्वमारचमूजेता सम्बद्धो लोकनायकः ॥ १५१॥ वन्द्यः पूज्योऽभिवाद्यश्च माननीयश्च नित्यशः । अर्चनीयतमो मान्यो नमस्यः परमो गुरुः ॥ १५२॥ त्रैलोक्यैकक्रमगतिर्व्योमपर्य्यन्तविक्रमः । त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृतिः ॥ १५३॥ बोधिसत्त्वो महासत्त्वो लोकातीतो महर्द्धिकः । प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वमागतः ॥ १५४॥ आत्मवित्परवित्सर्वः सर्वीयो ह्यग्रपुद्गलः । सर्वोपमामतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः ॥ १५५॥ धर्मदानपतिः श्रेष्ठश्चतुर्मुद्रार्थदेशकः । पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् ॥ १५६॥ परमार्थविशुद्धश्रीस्त्रैलोक्यसुभगो महान् । सर्वसम्पत्करः श्रीमान् मञ्जुश्रीः श्रीमतांवरः ॥ १५७॥ इति कृत्यानुष्ठानज्ञानगाथाः पञ्चदश । नमस्ते वरदवज्राग्य्र भूतकोटे नमोऽस्तु ते । नमस्ते शून्यतागर्भ बुद्धबोधे नमोऽस्तु ते ॥ १५८॥ बुद्धराग नमस्तेऽस्तु बुद्धकाम नमो नमः । बुद्धप्रीते नमस्तुभ्यं बुद्धमोद नमो नमः ॥ १५९॥ बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः । बुद्धवाच नमस्तुभ्यं बुद्धभाव नमो नमः ॥ १६०॥ अभवोद्भव नमस्तुभ्यं नमस्ते बुद्धसम्भव । गगनोद्भव नमस्तुभ्यं नमस्ते ज्ञानसम्भव ॥ १६१॥ मायाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक । नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमोऽस्तु ते ॥ १६२॥ इति अद्वयपरमार्था नामसङ्गीतिः समाप्ता ।
% Text title            : Advayaparamartha Nama Sangitih
% File name             : advayaparamArthAnAmasangItiH.itx
% itxtitle              : advayaparamArthAnAmasaNgItiH
% engtitle              : advayaparamArthAnAmasangItiH
% Category              : misc, buddha
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DSBC staff
% Proofread by          : Miroj Shakya
% Indexextra            : (Scan, Text 1, 2)
% Acknowledge-Permission: Prof. Miroj Shakya, Text  Nagarjuna Institute of Exact Methods, Digital Sanskrit Buddhist Canon Project, University of the West https://www.dsbcproject.org/
% Latest update         : March 8, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org