अमरवाणी संवादः
सहृदयायां पत्रिकायां १९१५ ख्रिस्ताब्दे प्रकाशितोऽयं अमरवाणीनामधेयः सुसंवादः ।
॥ श्रीः ॥
॥ अमरवाणी ॥
रामशास्त्री - पण्डितवर्य चिराद्दृष्टोऽसि । कथं वर्तते गैर्वाणीप्रवचनं युष्मदीयाङ्ग्लमहापाठशालायाम् ।
लक्ष्मणशास्त्री - जिह्रेम्यहं वक्तुम् । बह्वीषु आङ्ग्लकलाशालासु एषा अनुपयुक्तेति अर्धचन्द्रं दत्त्वा निष्कासिता । मदीये विद्यालये तु यथेयं स्वयमेव क्षीणा क्रमेणादर्शनं गच्छेत् तथा प्रयत्न अनुष्ठीयते ।
राम - किमपराद्धमनया तपस्विन्या ।
लक्ष्मण - तस्याः सत्तैवापराध्यति ।
राम - न खल्ववगच्छामि ।
लक्ष्मण - सा हि पूर्वमेव आङ्ग्लैर्विपश्चिद्वरैः मृतकोटिषु परिगणिता । अस्मदीयाः पण्डितास्तु न तथा मन्यन्ते । एते ह्येनां चिरजीविनीं देववाणीम् अमृतकोटिषु गणयन्ति ।
राम - परस्परविरुद्धमिदमाशयद्वयं विमृश्यकोटिमाटीकते ।
लक्ष्मण - किमत्र विमर्शेन । ते ते स्वीयं सिद्धान्तं सोपपत्तिकं निरूपयितुमुद्युञ्जते । तस्मादियं मृता अमृता चेत्यभ्युपगन्तव्यमेव ।
राम - विरुद्धधर्माणामेकत्र समावेशः कथमभ्युपगन्तव्यः सूक्ष्मदर्शिभिः ।
लक्ष्मण - अस्तीत्येके नायमस्तीति चैके इत्युक्तरीत्या पाश्चात्यानां तन्मतानुयायिनां चैषा मृतैव । अस्माकं तु नित्येयममरवाणी ।
राम - कैर्हेतुभिरेषा मृतेति निश्चिता पाश्चात्यैः ।
लक्ष्मण - स्वीयेन दौर्भाग्येन ।
राम - कस्य ।
लक्ष्मण - उभयोरपि ।
राम - पाश्चात्यानां गैर्वाण्याश्च दौर्भाग्यममुत्र निदानमित्याशङ्कत इव ते हृदयम् ।
लक्ष्मण - आं तथा पाश्चात्याः प्रायः सर्वेष्वपि विषयेषु अभिनन्दनीयं बुद्धिवैशद्यमावहन्तीति सर्वविदितमिदम् । अथाप्येते गैर्वाण्याः स्वरूपं कार्त्स्न्येनावगन्तुं न प्रभवन्ति । गैर्वाण्यपि आत्मनः सौन्दर्यमस्माकं सर्वेणापि प्रकारेण प्रदर्शयन्ती पाश्चात्यैः केवलं चर्ममेदोमांसादिविरहिता अस्थिमात्रावशेषा परिदृश्यते । किं क्रियतामस्मिन् दैवायत्ते कर्मविपाके ।
राम - नेदं विश्वसनीयम् । भाषापठने सर्वेप्यधिकारिण एव । अस्माभिरवगता विषयाः पाश्चात्यैर्नाबोधिषत इति किल भवानाह ।
लक्ष्मण - कः संशयः । पाश्चात्यानां भाषायां पाण्डित्यं नास्ति । छन्दसाम् अध्ययने यावानानन्दः श्लोकानां पठने यावती रसस्फूर्तिः रमणीयानां पद्यानामनुशीलने यावानाह्लादः सरसानां गद्यानामुच्चारणे यावती च प्रीतिः समुन्मिषति इत्यादिकं स्वानुभवेनेमे ज्ञातुं न शक्नुवन्ति ।
राम - किमेतावता ।
लक्ष्मण - सरसैर्वाग्विलासैरावर्जितलोकलोचनां हावभावादिभिराकृष्टयुवजनमानसां सुन्दरीमनुपश्यन्तः कविवराः तस्या विलासविभ्रमादिकं प्रशंसन्ति । तामेव मूकीभूतवाग्व्यापारां रुग्णशय्यामधिगतामनुपश्यन्तो भिषग्वराः नासादीनामवयवानां च परस्परमानुगुण्यं जठरादीनाम् अन्तर्नाडीनां च मानोन्मानादिष्वौचित्यं च प्रशंसन्ति । एवमेव गैर्वाणीविषये वयं कविवराः पाश्चात्यास्तु भिषग्वराः । इयानेव भेदः ।
राम - भाषायाः सौकुमार्यविज्ञाने अस्मदीयेष्वपि शास्त्रिवर्येषु परस्परमाशयभेद उपलभ्यते । इदमेवाभिप्रेत्य नीलकण्ठदीक्षितेनोक्तम्
वाचं कवीनामुपलालयन्यां
भुङ्क्ते रसज्ञो युवतिं युवेव ।
तामेव भुङ्क्ते ननु तार्किकोऽपि
प्राणान्हरन्भूत इव प्रविष्टः ॥ इति
लक्ष्मण - सत्यम् । तार्किकाः शाब्दबोधविचारतत्पराः शाब्दिकाः प्रक्रियानिपुणाः मीमांसकाः न्यायसंचारवेदिनः वेदान्तिनः अध्यात्मरहस्यावगमबद्धदीक्षाः स्वीयसंस्कारानुगुणं भाषाया रसमास्वादयन्ति । भिन्नरुचिर्हि लोकः इति न्यायमनुसृत्य रसास्वादनप्रकारे भेदः स्वाभाविक एव । अथापि भाषायाः सौन्दर्यसौकुमार्यादिविषये अस्मदीयपण्डितानाम् आशयः प्रायेण एकरूप एव ।
राम - पाश्चात्याः किमर्थमीदृशान्गुणान् न गणयन्ति ।
लक्ष्मण - ते हि धातूनां प्रकृतीनां प्रत्ययानां च स्वरूपविज्ञाने महान्तं परिश्रममङ्गीकृत्य भाषाणां परस्परसंबन्धावेदकं नवीनं किमपि शास्त्रं निर्माय तदङ्गतया गैर्वाणीपठनोद्यममनुतिष्ठन्ति ।
राम - इदमप्यावश्यकमेव किल ।
लक्ष्मण - अस्थीनि शरीरस्य आवश्यकानीत्यत्र कस्य वा विप्रतिपत्तिः । शुष्कास्थिपरिशीलनेन भाषायाः सौकुमार्यादिकं न ज्ञायेत । मनुष्यशरीरस्य वानरशरीरस्य च सौसादृश्यमनेकेष्वंशेषूपलभ्यते इत्यतो हेतोः मनुष्यो वानरात्समुत्पन्नः इति सिद्धान्तितं केनचित्पाश्चात्यपण्डितेन । एवमेव गैर्वाण्याः भाषान्तराणां च प्रकृतिप्रत्ययधातुस्वरूपेषु संवादः सादृश्यं वा वर्तते इति हेतोः तासामेकस्मिन्गणे निवेशः अङ्गीक्रियते । आर्यभाषागणः द्रमिडभाषागणः इत्यादयो भाषाशास्त्रे निरूप्यन्ते ।
राम - किं प्रयोजनमनया काकदन्तपरीक्षया ।
लक्ष्मण - भाषाशास्त्रं नामेदं वैदुष्यस्य निकषत्वेन परिगण्यते पाश्चात्यैः ।
राम - तर्हि यद्यद्भाषाशास्त्रे नोपयुज्यते तत्सर्वं पठनानर्हमिति ते विश्वसन्तीति प्रतिभाति ।
लक्ष्मण - विषयान्तराणां पठनेन बुद्धिवैशद्यं न लभ्यते इति ते विश्वसन्ति ।
राम - सर्वः कान्तमात्मीयं पश्यति ।
राम - निरूपणशीला हीमे सदसद्विवेचनचतुराः कथमेवमात्मदोषान्न पश्यन्ति ।
लक्ष्मण - ईश्वरमायैवात्र निदानम् ।
राम - हेतुनानेन न संतुष्यामि । समीचीनं कारणमन्वेषणीयम् ।
लक्ष्मण - किञ्चिद्विचिन्त्य । आत्मदोषावगमः सत्वगुणसंपन्नानामेव संभवति । आहारशुद्धौ सत्वशुद्धिः । मधुमांसप्रायमाहारमनुसेवतामेतेषां कथं सत्वोद्रेकस्यावसरः । राजसा हीमे पार्थिवभोगानुसेवनमेव जीवितफलं मन्वाना आत्मानुशासनप्रकारं नैव जानन्ति । देहात्मवादिनो बहव एतेषूपलभ्यन्ते ।
राम - देववाण्यामतिमहान्तमादरमाविष्कृर्वन्तीमे इति किल मया श्रुतम् । अतः शास्त्रपरिशीलनेन तैरात्मगुणसंपत्तिरधिगन्तुं शक्यते खलु ।
लक्ष्मण - उक्तः किल मया तेषां गैर्वाणीपठनसंप्रदायः ।
राम - कोऽयम् ।
लक्ष्मण - वेद्गतानि पदानि परिशील्य भाषाणामपि षट् भावविकाराः सन्तीति निश्चित्य भाषाशास्त्रमेकं रचयित्वा स्वकपोलकल्पितान् सिद्धान्ताभासान् सर्वत उद्घोषयन्ति ।
राम - प्राचीनैवेयं सरणिः श्रीमद्भिर्यास्कप्रमुखैर्नैरु क्तैरुपदिष्टैवेति श्रूयते । पाश्चात्यानां भाषास्वरूपमधिकृत्य आशयविशेषाः निरुक्तपठनादेव समुत्पन्ना इति किल कथयन्ति ।
लक्ष्मण - पुरा सर्वेप्यस्मत्पूर्वपुरुषाः कुत्रचिद्गिरिप्रान्तदेशे अवसन् । ततो जनबाहुल्यात् तेषु केचित्प्रतीचीं दिशं गत्या ईरोप् देशे कृतनिलया बभूवुः । केचन दक्षिणाभिमुखं प्रस्थिताः भारतवर्षमिममाजग्मुः । अतः आङ्ग्ला वयं च आर्याः विप्रकृष्टा बान्धवाः इत्यादयः सिद्धान्ताभासाः यास्कादिभिः स्वप्नेप्यविदिताः पाश्चात्यैरुद्घुष्यन्ते ।
राम - तावता किं नः च्छिन्नम् ।
लक्ष्मण - पञ्चमाः ब्राह्मणाश्च एकजातीया इति सिद्धान्तः कथमभिजनैर्नाभ्युपगम्यते ।
राम - पञ्चमाः आर्याणामागमनात्पूर्वमेवेमं देशमधिवसन्तः द्रामिडा इति व्यवह्रियन्ते ।
लक्ष्मण - वयमपि द्रमिडभाषां व्याहरन्तः द्रामिडा एव ।
राम - अस्मदीया प्राचीनभाषा गैर्वाण्येव । चिरं द्रमिडेषु निवसन्तः द्रमिडभाषामभ्यस्य व्यवहारे तामेव भाषां प्रयुञ्ज्महि । तावता वयं द्रमिडा न भवेम ।
लक्ष्मण - द्रमिडभाषाया अपि गैर्वाण्येव मातृभूता ।
राम - न हि न हि । द्रमिडभाषासु गैर्वाणीमयानि कानिचन पदानि प्रवेशमलभन्त । तथैव बह्वीषु भाषासु भाषान्तरगतानां पदानां स्वीकारस्तदा तदा संभवत्येव ।
लक्ष्मण - गैर्वाण्यभावे द्रमिडभाषाया असंभव एव ।
राम - द्रमिडभाषा व्यवहारेषु सर्वदोषयुक्ता जीवति । गैर्वाणी तु न तथा ।
लक्ष्मण - द्रमिडभाषायाः भाषात्वमेव न मया अभ्युपगम्यते ।
राम - भवता नाभ्युपगम्यते चेदपि अन्यैरभ्युपगम्यते ।
लक्ष्मण - द्रमिडभाषायां संपूर्णा वर्णावलिर्नास्ति । क ख ग घ इति चतुर्णामपि स्थाने क इत्येक एव वर्णः द्राविड्याम् ।
राम - आङ्ग्लवाण्यां F Z W इति वर्णानि सन्ति । तानि गैर्वाण्यां नोपलभ्यन्ते इति हेतोः गैर्वाण्याः भाषात्वमपवदितुं को वा शक्नुयात् ।
लक्ष्मण - भवता निर्दिष्टानि वर्णानि अर्धाक्षराणि । तेषामभाव एव गैर्वाण्या उत्कर्षाधायकः इति पण्डिता मन्यन्ते ।
राम - अनुस्वारविसर्गादयोऽपि अर्धाक्षरत्वेन परिगण्यन्ते शाब्दिकैः ।
लक्ष्मण - तादृशानां वर्णानामभावे कथमिव भाषा प्रयोगोपयोगिनी भवेत् ।
राम - तत्तद्वर्णास्तत्तद्भाषाणां प्रयोगे अत्यन्तमावश्यका एब ।
लक्ष्मण - आङ्ग्लभाषा हि नाम मया बहुवारं श्रुता । पक्षिणां वाशितमिवात्यन्तमव्यक्तमुच्चार्यते किलेयम् ।
राम - तद्भाषाभिज्ञानां सा व्यक्तैवेत्यनुश्रूयते ।
लक्ष्मण - गैर्वाण्यां श्रुतायां यावच्छ्रवणसुखमनुभूयते तावन्नास्ति आङ्ग्लवाण्यामिति भाषाद्वयवेदिनो मन्यन्ते ।
राम - किंदेशीयास्ते ।
लक्ष्मण - अस्मद्देशीया एव ।
राम - भाषाद्वयवेदिनामाङ्ग्लानामस्मिन्विषये कीदृशोऽभिप्राय इति अपि नाम जानीषे ।
लक्ष्मण - तादृशाः पाश्चात्येषु न सन्ति ।
राम - मोक्षमूलभट्टादयो बहवः गैर्वाण्यां विचक्षणा इति जनाः कथयन्ति ।
लक्ष्मण - सत्यम् । परं हीमे गैर्वाणीं सुस्वरमुच्चयारयितुं न प्रभवन्ति ।
राम - न कोऽपि हिन्दुदेशीयः आङ्ग्लवाणीसमुच्चारणे ऐरोपीयमनुकर्तुं शक्नोतीति ते विश्वसन्ति ।
लक्ष्मण - भोः शास्त्रिवर्य शापितोऽसि ब्राह्मणकाम्यया । तथ्यं वक्तव्यम् । यथा अस्मदीया आङ्ग्लवाण्यां प्रावीण्यमधिगच्छन्ति तथा आङ्ग्ला गैर्वाण्यां नैपुण्यमावहन्ति इति सशपथमुच्यताम् । अस्मदीयाः केचन आङ्ग्लवाण्युच्चारणे आङ्ग्लानप्यधरीकुर्वन्ति इति मया सशपथं वक्तुं शक्यते एव ।
राम - आङ्ग्लवाण्यां तादृशं प्रवेशमधिगतवन्तः अस्मदीयाः गैर्वाणीं विद्विषन्ति ।
लक्ष्मण - अत्र नैते तपस्विनः अपराध्यन्ति । परं पाश्चात्यविद्याभ्यासेन यद्यदैहिकसुखस्यानुपयुक्तं तत्सर्वं परिवर्जनीयमिति दृढः संस्कारः संभवत्येतेषाम् ।
राम - गैर्वाणीश्रवणेन श्रुतिसुखं भवति किल ।
लक्ष्मण - न किञ्चिदेतत् ।
राम - तर्हि संगीतश्रवणमपि तादृशमेव ।
लक्ष्मण - सत्यम् । संगीतमपि साहित्यं सरस्वत्याः स्तनद्वयम् इत्यभियुक्ता वदन्ति । अथापि देववाण्यामादरो न भवति पापात्मनाम् ।
राम - ये हि नाम गैर्वाणीमाद्रियन्ते त एव पुण्यजन्मान
इति हि भवान्मन्यते ।
लक्ष्मण - अथ किम् ।
राम - भो मर्षय । गैर्वाण्यां निष्णाताः पण्डिताः प्रायेण असूयालवः अन्योदयासहिष्णवः दुरभिमानिनः परस्परं कलहायमाणाः पुण्यजनानतिशेरते । अतस्तादृशविद्याभ्यासेन न काप्यात्मगुणसंपत्तिरधिगम्यत इति तस्यामादराभाव आधुनिकानामिति तर्कयामि ।
लक्ष्मण - उत्तानहृदयाः पण्डिताः असूयां क्रोधं चान्तर्निगूहितुं न शक्नुवन्ति । आङ्ग्लवाण्यभिज्ञास्तु ।
बहिः सर्वाकारप्रगुणरमणीयं व्यवहरन्
पराभ्यूहस्थानान्यपि लघुतराणि स्थगयति ।
जनं विद्वानेकः सकलमभिसंधाय कपटैः
तटस्थः स्वानर्थान्घटयति च मौनं च भजते ॥
इत्युक्तरीत्या आकारगोपनं कुर्वन्तोऽप्यन्तःपदुप्रसरामसूयां निरोद्धुमशक्नुवन्तः गूढमन्येषां विप्रियमाचरन्ति ।
राम - उत्तानहृदयः क्षोभेन हृद्गतमखिलं बहिर्वमन् यथाजातेषु परिगण्यते ।
लक्ष्मण - कापट्यादपि ऋजुतैव स्पृहणीया ।
राम - क्रोधेन सदसि वाक्पारुष्येणात्मनो मनोविकाराविष्पकरणमेव ऋजुता चेन्नमस्तादृशेभ्यः ऋजुकेभ्यो विद्वद्भयः ।
लक्ष्मण - केचन स्वभावेनैव क्रोधनाः तदा तदा बुद्धिविक्षेपेण यत्किमप्याचरन्ति । तादृशाः सर्वत्रोपलभ्यन्ते । अत्र गैर्वाणी नापराध्यति । उक्तं चाभियुक्तैः ।
यः स्वभावो हि यस्यास्ते स नित्यं दुरतिक्रमः ।
श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम् ॥
इति । मया हि नाम सर्वसमैवेयमसूया पण्डितास्तां निष्फलं बहिः प्रकाशयन्ति आङ्ग्लास्तु न तथा इत्यभिप्रायः सूचितः ।
राम - तर्हि जनानां गैर्वाण्यामनादरस्य किं कारणम् ।
लक्ष्मण - वित्तेषणैव ।
राम - वित्तेषणेयं भगवती सर्वानप्याकुलयति ।
लक्ष्मण - गैर्वाणीपठनेन प्रभूतं द्रविणमार्जयितुं न शक्यते । भाषेयं मृता तदभिज्ञाश्च मृतप्रायाः इति प्रायो राजभाषावेदिनो मन्यन्ते ।
राम - भाषायां पाण्डित्यसंपादनं केवलमात्मसंस्काराय न तु द्रविणार्जनाय इति विश्वसन्ति देशान्तरीयाः ।
लक्ष्मण - पुरा अस्मद्देशेप्येवमेवासीत् । अध्यापनं नाम विप्राणां स्वीया वृत्तिः । प्रतिफलमनपेक्ष्यैव वेदाः शास्त्राणि चाध्यापनीयानि । यो हि विद्वानात्मना पठितस्य शास्त्रस्य प्रवचनं विनैव देहयात्रां करोति स ह्यन्यस्मिन् जन्मनि ब्रह्मराक्षसो भवति । अद्य तु सर्वस्यापि प्राचीनधर्मस्योत्सर्गः क्वचित्क्वचिद्विपरीताचरणमपि विपश्चिद्भिर्निश्शङ्कमनुष्ठीयते ।
इति शम् ॥
शब्दार्थ (हिन्दी, English )
१. जिह्रेमि - लज्जित होता हूँ । I feel embarrassed
२. सत्ता - अस्तित्व । Existence
३. अर्धचन्द्रं दत्त्वा - गला दबाना । Hold by neck
४. विपश्चिद्वरैः - विद्वानों द्वारा । by the scholars
५. सोपपत्तिकम् - आधारसहित । with substance
६. आटीकते - घूमता-फिरता है । moves about
७. उद्युञ्जते - उद्यम करते हैं । (They’re) trying to
८. बुद्धिवैशद्यम् - कुशाग्रबुद्धि । Sharp-intellect
९. कार्त्स्न्येन - पूर्ण रूप से । by entirety
१०. दैवायत्ते - भाग्याधीन में । under control of destiny
११. कर्मविपाके - कर्मफलसिद्धान्त में । In the ripening of actions
१२. छन्दसाम् - वेदों के । of the vedas
१३. समुन्मिषति - उदित होती है । rises
१४. भिषग्वराः - औषध देने वालें । Doctors of medicines
१५. अवयवानाम् - अंगों का । of body organs
१६. वाग्व्यापारः - बोल-चाल । Conversation
१७. विप्रतिपत्तिः - मतभेद । Disagreement
१८. भिन्नरुचिः - अलग-अलग रुचि रखने वाला । of different interests
१९. सौकुमार्य - कोमलता । Delicacy
२०. द्रमिडभाषागणः - द्रविड भाषा समूह । Dravidian Language Family
२१. वैदुष्यस्य - विद्वत्ता का । of scholarliness
२२. निकषत्वेन - कसौटी के आधार से । as the qualities of touch-stone
२३. निरूपणशीलाः - निर्धारण करने वालें । Analysts
२४. सदसद्विवेचनम् - सत्य और असत्य का अंतर करना । Discrimination between the real and the unreal
२५. सत्वोद्रेकः - सत्यभाव का उदय । Rise of true nature
२६. अनुसेवताम् - सेवन करने वालों का । Of the consumers
२७. पार्थिवभोगान् - लौकिक भोगों को । The Earthly pleasures
२८. देहात्मवादिनः - शरीर से इतर आत्मा को नकारने वाले । Mortalists
२९. आत्मगुणसंपत्तिः - आत्मा के गुण-गण । Group of qualities of soul
३०. सिद्धान्ताभासान् - भ्रामक सिद्धांतों को । Delusional doctrines
३१. नैरुक्तैः - व्युत्पत्तिशास्त्र के जानकारों द्वारा । by the etymologists
३२. प्रतीचीम् - पश्चिम को । to the West
३३. कृतनिलयाः - जिनके पास घर हो । who are housed
३४. विप्रकृष्टाः - दूर के । Distant
३५. छिन्नम् - परेशानी । Hurdle
३६. अभिजनैः - प्रतिष्ठित जनों के द्वारा । By the noble
३७. अभ्युपगम्यते - स्वीकार किया जाता है । being acknowledged
३८. द्रामिडाः - द्रविड़ । Dravidian
३९. अपवदितुम् - खंडन करना । To refute
४०. आधायकः - सहायक । Supportive
४१. शाब्दिकैः - शब्दशास्त्रों के जानकारों द्वारा । by the lexicographers
४२. वाशितम् - कूज । Chirping
४३. मोक्षमूलभट्टः - मैक्समूलर नामक विद्वान् । Scholar Max Muller
४४. प्रावीण्यम् - वाक्कुशलता । Conversiveness
४५. नैपुण्यम् - कुशलता । Expertise
४६. आवहन्ति - पा सकते हैं । Obtain
४७. अधरीकुर्वन्ति - नीचा दिखाते हैं । Outperform
४८. ऐहिकसुखस्य - इस लोक के सुख का । Of the worldly pleasure
४९. श्रुतिसुखम् - कानों का सुख । The pleasure of hearing
५०. अभियुक्ताः - विद्वान् । The learned
५१. पुण्यजन्मानः - शुभ जन्मे हुए । The virtuous born
५२. मर्षय - छोड़ें । Excuse
५३. उत्तानहृदयाः - सीधे हृदय वाले । Frank-hearted
५४. निष्णाताः - कुशल लोग । The proficient
५५. असहिष्णवः - असहिष्णु लोग । Intolerant ones
५६. कलहायमाणाः - झगड़ते हुए लोग । Being quarrelsome
५७. अतिशेरते - अतिक्रमण करते हैं । (They) Overshadow
५८. अन्तर्निगूहितुं - अन्दर छिपाने के लिए । For concealing within
५९. आकारः - मानसिकता । Mental disposition
६०. पराभ्यूहस्थानानि - दूसरों के विमर्श की दुर्बल कड़ियाँ । Vulnerabilities of the inference of others
६१. उपानहम् - जूते को । Shoe
६२. यथाजातेषु - नवजातों में । Among noobs
६३. ऋजुकेभ्यः - सीधे लोगों से । From the simple-minded
६४. द्रविणम् - धन को । Wealth
६५. वित्तेषणा - धन की इच्छा । Desire for wealth
६६. प्रतिफलम् - फल । Return
६७. उत्सर्गः - त्याग । Abandonment