भारतगीतम्
श्रीमत्समस्तसम्पत्समृद्धिसम्पूर्णरम्यतोत्कर्षम् ।
हृद्यानवद्यविद्याविद्योति विभाति भारतं वर्षम् ॥ १॥
सहकारनालिकेरागरुपाटीरादिमतरुवररुचिरम् ।
फलविनतकलमशालिक्षेत्रव्याख्यातसारसर्वस्वम् ॥ २॥
नानाकलाकलापप्रचारविस्तारिकीर्तिकमनीयम् ।
देशान्तरानुकार्यप्रगुणपरिष्कारसाररमणीयम् ॥ ३॥
प्रतिदिनमधीयमानश्रुतिपरिपूताग्रहारमहनीयम् ।
षड्दर्शनीपटिष्ठद्विजगोष्ठीचिन्त्यमानशास्त्रार्थम् ॥ ४॥
वैदिककर्मठविद्वत्परिषदनुष्ठीयमानबहुयागम् ।
अनवरतमुदितनिर्जरभावितसस्यादिसम्पदभिरामम् ॥ ५॥
अत्र विराजति गौरीगुरुरच्युतमूर्तिराश्रयो जगताम् ।
व्योमावगाहिपादः सुरसरिदवतारकारणं हिमवान् ॥ ६॥
यं किल यज्ञाङ्गखनिं धरणीधरणक्षमस्वसाराढ्यम् ।
परिकलितयज्ञभागं शैलाधिपतिं प्रजापतिर्व्यधित ॥ ७॥
यत्र महामहिमानो विषयविदूरा महात्मानः ।
भगवद्ध्यानैकपरास्तप्यन्ते तेपिरे च तप्स्यन्ते ॥ ८॥
श्रीखण्डखण्डजनिभूरगस्त्यवासातिपावनोद्देशः ।
दक्षिणसमीरसूतिर्लसतितरां मलयशैलोऽत्र ॥ ९॥
या कापिलकोपानलशलभायितसगरनृपतितनयानाम् ।
त्रिदिवाधिरोहलीलाकल्पितदृढपुण्यरज्जुनिश्रेणिः ॥ १०॥
यां किल हरिचरणारुणसरसिजनिष्यन्दिमधुरमधुधारां
आसेव्य सुकृतिलोकस्तापं विजहाति सर्वतः प्रसृतम् ॥ ११॥
बहुतीर्थशोभमाना सङ्गतयमुना सरस्वतीरुचिरा ।
प्रथमा महानदीनां प्रवहति साप्यत्र पावनी गङ्गा ॥ १२॥
मातेव पोषयन्ती पयसा चोलानबाधमङ्कगतान् ।
श्रीरङ्गसङ्गसङ्गतमङ्गलतुङ्गात्र वहति कावेरी ॥ १३॥
मुक्ताकलितं तीर्थे दधती विरजेव यावगाहिजनान् ।
मुक्तामयान्वितनुते प्रवहति सरिदत्र ताम्रपर्णी सा ॥ १४॥
यस्मिन्विन्यस्य पदं सुरलोकाद्भारतीदेवी ।
स्वयमवततार भूमावत्राभूत्कविगुरुः स वाल्मीकिः ॥ १५॥
सूक्तिसुधारसदानादखिलानामोदयन्विबुधान् ।
रूपान्तरगतविष्णुः कृष्णद्वैपायनोऽत्र सञ्जज्ञे ॥ १६॥
सूर्याचन्द्रमसाविव सन्तमसं यौ विधूनुतो जगतः ।
ताभ्यां पूतं भारतवर्षे वर्णयतु कः कथङ्कारम् ॥ १७।
देहस्य वाङ्मनसयोरपि मलमुन्मूलितं येन ।
तेन पतञ्जलिनेदं वर्षमभूष्यात्मनो जनुषा ॥ १८।
आस्थिषत कर्मणैव हि संसिद्धिं ब्रह्मवादिनो ये ते ।
जनकादयो महान्तो वर्षमिदं ज्ञानपूर्णमतनिषत ॥ १९॥
श्रीशङ्कररामानुजमध्वाचार्या अवातरन्नत्र ।
ये किल सोपानततिं निरमासत मुक्तिसौधमधिरोढुम् ॥ २०॥
यद्गथितसूक्तिमाला सुदृशां प्रतिदेशमुल्लसति कण्ठे ।
कविलोकसार्वभौमः कीर्त्या रेजे स कालिदासोऽत्र ॥ २१॥
वाचां विहारभवनं प्रसन्नगम्भीरसरसमधुराणाम् ।
बाणकविरत्र जज्ञे यः किल सारस्वतं पौंस्स्नम् ॥ २२॥
दुष्करसङ्गरधीरो नीतिविदां ज्ञानिनां च धौरेयः ।
स्वच्छन्दमृत्युरासीदत्र महात्मा स गाङ्गेयः ॥ २३॥
सत्यपरिपालनाय व्यक्रीणाद्यः कलत्रपुत्रौ स्वौ ।
चण्डालकिङ्करोऽभूत्स्वयमिह सोऽभून्महान्हरिश्चन्द्रः ॥ २४॥
पितृवाक्यपालनरतो यो वनमध्यास्त धन्विनां धुर्यः ।
नियतैकदारचर्यो धर्मात्मा सोऽजनीह रघुवर्यः ॥ २५॥
मेधाविहारिवाचा नन्दितविजयः सुरेन्द्रशिवदाता ।
गोकुललालनपालो मोहनतिलकोऽनुजगृह इह कृष्णः ॥ २६॥
कर्मज्ञानप्रपदनयोगैरौदार्यवीर्यशीलगुणैः
विद्याविवेकशिल्पैर्वर्षमिदं प्रागदिद्युतन्बहवः ॥ २७॥
इति कृष्णम्माचार्यरचितं भारतगीतं सम्पूर्णम् ।
अत्र पद्ये उपलक्षणतया महामहिम्नां बहूनां स्वदेशाभिमानिनां
नामान्यपि प्रकृतानुगुण्याविरोधेन घटितानि सन्ति । verse 26
- मेधा पि. एम्. मेधामहाशयः
- विहारी डाक्टर राष्बिहारिघोषः
- वाचा डि. इ. वाच्छा
- नन्दि ए. नन्दि
- विजयः सि. विजयरघवाचार्यः
- सुरेन्द्रः सुरेन्द्रनाथबानर्जी
- शिवः पि. एस्. शिवस्वाम्यार्यः
- दाता सुप्रसिद्धः दाताबाय् नौरोजी महाशयः
- टाटामहाशयः
- आर. सि. डट्प्रभृतयश्च
- गोकुलः गोपालकृष्णगोखले महोदयः
- लाल लाल्पदघटिताः लाला लजपतिराय् लाल्मोहनघोष् प्रभृतयः
- पालः विपिनचन्द्रपालः
- मोहनः मोहनपदघटिताः पण्डित मदनमोहन मालविया आनन्दमोहन बोस प्रभृतयः
- तिलकः बालगङ्गाधरतिलकः
- कृष्णः वि. कृष्णस्वाम्यार्यः
Proofread by Hardika Chaba