भद्रचरीप्रणिधानस्तोत्रम्
अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः एवमेव
लोकधातुपरम्परानभिलाप्यानभिलाप्य बुद्धक्षेत्रपरमाणुरजःसमान्
कल्पान् कल्पप्रसरानभिद्योत्यमानो भूयस्या मात्रया गाथाभिगीतेन
प्रणिधानमकार्षीत् -
यावत केचि दशद्दिशि लोके सर्वत्रियध्वगता नरसिंहाः ।
तानहु वन्दमि सर्वि अशेषान् कायतु वाच मनेन प्रसन्नः ॥ १॥
क्षेत्ररजोपमकायप्रमाणैः सर्वजिनान करोमि प्रणामम् ।
सर्वजिनाभिमुखेन मनेन भद्रचरीप्रणिधानबलेन ॥ २॥
एकरजाग्रि रजोपमबुद्धा बुद्धसुतान निषण्णकु मध्ये ।
एवमशेषत धर्मतधातुं सर्वधिमुच्यमि पूर्णजिनेभि ॥ ३॥
तेषु च अक्षयवर्णसमुद्रान् सर्वस्वराङ्गसमुद्ररुतेभिः ।
सर्वजिनान गुणान् भणमानस्तान् सुगतान् स्तवमी अहु सर्वान् ॥ ४॥
पुष्पवरेभि च माल्यवरेभिर्वाद्यविलेपनछत्रवरेभिः ।
दीपवरेभि च धूपवरेभिः पूजन तेष जिनान करोमि ॥ ५॥
वस्त्रवरेभि च गन्धवरेभिश्चूर्णपुटेभि च मेरुसमेभिः ।
सर्वविशिष्टवियूहवरेभिः पूजन तेष जिनान करोमि ॥ ६॥
या च अनुत्तरपूज उदारा तानधिमुच्यमि सर्वजिनानाम् ।
भद्रचरी अधिमुक्तिबलेन वन्दमि पूजयमी जिनसर्वान् ॥ ७॥
यच्च कृतं मयि पापु भवेय्या रागतु द्वेषतु मोहवशेन ।
कायतु वाच मनेन तथैव तं प्रतिदेशयमी अहु सर्वम् ॥ ८॥
यच्च दशद्दिशि पुण्य जगस्य शैक्ष अशैक्षप्रत्येकजिनानाम् ।
बुद्धसुतानथ सर्वजिनानां तमनुमोदयमी अहु सर्वम् ॥ ९॥
ये च दशद्दिशि लोकप्रदीपा बोधिविबुद्ध असङ्गतप्राप्ताः ।
तानहु सर्वि अध्येषमि नाथान् चक्रु अनुत्तरु वर्तनतायै ॥ १०॥
येऽपि च निर्वृति दर्शितुकामास्तानभियाचमि प्राञ्जलिभूतः ।
क्षेत्ररजोपमकल्प निहन्तु सर्वजगस्य हिताय सुखाय ॥ ११॥
वन्दनपूजनदेशनताय मोदनध्येषणयाचनताय ।
यच्च शुभं मयि सञ्चितु किञ्चिद्बोधयि नामयमी अहु सर्वम् ॥ १२॥
पूजित भोन्तु अतीतक बुद्धा ये च ध्रियन्ति दशद्दिशि लोके ।
ये च अनागत ते लघु भोन्तु पूर्णमनोरथ बोधिविबुद्धाः ॥ १३॥
यावत केचि दशद्दिशि क्षेत्रास्ते परिशुद्ध भवन्तु उदाराः ।
बोधिद्रुमेन्द्रगतेभि जिनेभिर्बुद्धसुतेभि च भोन्तु प्रपूर्णाः ॥ १४॥
यावत केचि दशद्दिशि सत्त्वास्ते सुखिता सद भोन्तु अरोगाः ।
सर्वजगस्य च धर्मिकु अर्थो भोन्तु प्रदक्षिणु ऋध्यतु आशाः ॥ १५॥
बोधिचरिं च अहं चरमाणो भवि जातिस्मरु सर्वगतीषु ।
सर्वसु जन्मसु च्युत्युपपत्ती प्रव्रजितो अहु नित्यु भवेय्या ॥ १६॥
सर्वजिनानुशिक्षयमाणो भद्रचरिं परिपूरयमाणः ।
शीलचरिं विमलां परिशुद्धां नित्यमखण्डमछिद्र चरेयम् ॥ १७॥
देवरुतेभि च नागरुतेभिर्यक्षकुम्भाण्डमनुष्यरुतेभिः ।
यानि च सर्वरुतानि जगस्य सर्वरुतेष्वहु देशयि धर्मम् ॥ १८॥
ये खलु पारमितास्वभियुक्तो बोधियि चित्तु न जातु विमुह्येत् ।
येऽपि च पापक आवरणायास्तेषु परिक्षयु भोतु अशेषम् ॥ १९॥
कर्मतु क्लेशतु मारपथातो लोकगतीषु विमुक्तु चरेयम् ।
पद्म यथा सलिलेन अलिप्तः सूर्यशशी गगनेव असक्तः ॥ २०॥
सर्वि अपायदुखां प्रशमन्तो सर्वजगत् सुखि स्थापयमानः ।
सर्वजगस्य हिताय चरेयं यावत क्षेत्रपथा दिशतासु ॥ २१॥
सत्त्वचरिमनुवर्तयमानोइ बोधिचरिं परिपूरयमाणः ।
भद्रचरिं च प्रभावयमानः सर्वि अनागतकल्प चरेयम् ॥ २२॥
ये च सभागत मम चर्याये तेभि समागमु नित्यु भवेय्या ।
कायतु वाचतु चेतनतो चा एकचरि प्रणिधान चरेयम् ॥ २३॥
येऽपि च मित्रा मम हितकामा भद्रचरीय निदर्शयितारः ।
तेभि समागमु नित्यु भवेय्या तांश्च अहं न विरागयि जातु ॥ २४॥
सम्मुख नित्यमहं जिन पश्ये बुद्धसुतेभि परीवृतु नाथान् ।
तेषु च पूज करेयु उदारां सर्वि अनागतकल्पमखिन्नः ॥ २५॥
धारयमाणु जिनान सद्धर्मं बोधिचरिं परिदीपयमानः ।
भद्रचरिं च विशोधयमानः सर्वि अनागतकल्प चरेयम् ॥ २६॥
सर्वभवेषु च सञ्चरमाणः पुण्यतु ज्ञानतु अक्षयप्राप्तः ।
प्रज्ञौपायसमाधिविमोक्षैः सर्वगुणैर्भवि अक्षयकोशः ॥ २७॥
एकरजाग्रि रजोपमक्षेत्रा तत्र च क्षेत्रि अचिन्तियबुद्धान् ।
बुद्धसुतान निषण्णकु मध्ये पश्यिय बोधिचरिं चरमाणः ॥ २८॥
एवमशेषत सर्वदिशासु बालपथेषु त्रियध्वप्रमाणान् ।
बुद्धसमुद्र थ क्षेत्रसमुद्रानोतरि चारिककल्पसमुद्रान् ॥ २९॥
एकस्वराङ्गसमुद्ररुतेभिः सर्वजिनान स्वराङ्गविशुद्धिम् ।
सर्वजिनान यथाशयघोषान् बुद्धसरस्वतिमोतरि नित्यम् ॥ ३०॥
तेषु च अक्षयघोषरुतेषु सर्वत्रियध्वगतान जिनानाम् ।
चक्रनयं परिवर्तयमानो बुद्धिबलेन अहं प्रविशेयम् ॥ ३१॥
एकक्षणेन अनागतसर्वान् कल्पप्रवेश अहं प्रविशेयम् ।
येऽपि च कल्प त्रियध्वप्रमाणास्तान् क्षणकोटिप्रविष्ट चरेयम् ॥ ३२॥
ये च त्रियध्वगता नरसिंहास्तानहु पश्यिय एकक्षणेन ।
तेषु च गोचरिमोतरि नित्यं मायगतेन विमोक्षबलेन ॥ ३३॥
ये च त्रियध्वसुक्षेत्रवियूहास्तानभिनिर्हरि एकरजाग्रे ।
एवमशेषत सर्वदिशासु ओतरि क्षेत्रवियूह जिनानाम् ॥ ३४॥
ये च अनागत लोकप्रदीपास्तेषु विबुध्यन चक्रप्रवृत्तिम् ।
निर्वृतिदर्शननिष्ठ प्रशान्तिं सर्वि अहमुपसङ्क्रमि नाथान् ॥ ३५॥
ऋद्धिबलेन समन्तजवेन ज्ञानबलेन समन्तमुखेन ।
चर्यबलेन समन्तगुणेन मैत्रबलेन समन्तगतेन ॥ ३६॥
पुण्यबलेन समन्तशुभेन ज्ञानबलेन असङ्गगतेन ।
प्रज्ञौपायसमाधिबलेन बोधिबलं समुदानयमानः ॥ ३७॥
कर्मबलं परिशोधयमानः क्लेशबलं परिमर्दयमानः ।
मारबलमबलं करमाणः पूरयि भद्रचरीबल सर्वान् ॥ ३८॥
क्षेत्रसमुद्र विशोधयमानः सत्त्वसमुद्र विमोचयमानः ।
धर्मसमुद्र विपश्ययमानो ज्ञानसमुद्र विगाहयमानः ॥ ३९॥
चर्यसमुद्र विशोधयमानः प्रणिधिसमुद्र प्रपूरयमाणः ।
बुद्धसमुद्र प्रपूजयमानः कल्पसमुद्र चरेयमखिन्नः ॥ ४०॥
ये च त्रियध्वगतान जिनानां बोधिचरिप्रणिधानविशेषाः ।
तानहु पूरयि सर्वि अशेषात् भद्रचरीय बिबुध्यिय बोधिम् ॥ ४१॥
ज्येष्ठकु यः सुतु सर्वजिनानां यस्य च नाम समन्ततभद्रः ।
तस्य विदुस्य सभागचरीये नामयमी कुशलं इमु सर्वम् ॥ ४२॥
कायतु वाच मनस्य विशुद्धिश्चर्यविशुद्ध्यथ क्षेत्रविशुद्धिः ।
यादृशनामन भद्रविदुस्य तादृश भोतु समं मम तेन ॥ ४३॥
भद्रचरीय समन्तशुभाये मञ्जुशिरिप्रणिधान चरेयम् ।
सर्वि अनागत कल्पमखिन्नः पूरयि तां क्रिय सर्वि अशेषाम् ॥ ४४॥
नो च प्रमाणु भवेय्य चरीये नो च प्रमाणु भवेय्य गुणानाम् ।
अप्रमाणु चरियाय स्थिहित्वा जानमि सर्वि विकुर्वितु तेषाम् ॥ ४५॥
यावत निष्ठ नभस्य भवेय्या सत्त्व अशेषत निष्ठ तथैव ।
कर्मतु क्लेशतु यावत निष्ठा तावत निष्ठ मम प्रणिधानम् ॥ ४६॥
ये च दशद्दिशि क्षेत्र अनन्ता रत्नालङ्कृतु दद्यु जिनानाम् ।
दिव्य च मानुष सौख्यविशिष्टां क्षेत्ररजोपम कल्प ददेयम् ॥ ४७॥
यश्च इमं परिणामनराजं श्रुत्व सकृज्जनयेदधिमुक्तिम् ।
बोधिवरामनुप्रार्थयमानो अग्रु विशिष्ट भवेदिमु पुण्यम् ॥ ४८॥
वर्जित तेन भवन्ति अपाया वर्जित तेन भवन्ति कुमित्राः ।
क्षिप्रु स पश्यति तं अमिताभं यस्यिमु भद्रचरि प्रणिधानम् ॥ ४९॥
लाभ सुलब्ध सजीवितु तेषां स्वागत ते इमु मानुषजन्म ।
यादृशु सो हि समन्ततभद्रस्तेऽपि तथा नचिरेण भवन्ति ॥ ५०॥
पापक पञ्च अनन्तरियाणि येन अज्ञानवशेन कृतानि ।
सो इमु भद्रचरिं भणमानः क्षिप्रु परिक्षयु नेति अशेषम् ॥ ५१॥
ज्ञानतु रूपतु लक्षणतश्च वर्णतु गोत्रतु भोतिरूपेतः ।
तीर्थिकमारगणेभिरधृष्यः पूजितु भोति स सर्वत्रिलोके ॥ ५२॥
क्षिप्रु स गच्छति बोधिद्रुमेन्द्रं गत्व निषीदति सत्त्वहिताय ।
बुद्ध्यति बोधि प्रवर्तयि चक्रं धर्षति मारु ससैन्यकु सर्वम् ॥ ५३॥
यो इमु भद्रचरिप्रणिधानं धारयि वाचयि देशयितो वा ।
बुद्धविजानति योऽत्र विपाको बोधि विशिष्ट म काङ्क्ष जनेथ ॥ ५४॥
मञ्जुशिरी यथ जानति शूरः सो च समन्ततभद्र तथैव ।
तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वम् ॥ ५५॥
सर्वत्रियध्वगतेभि जिनेभिर्या परिणामन वर्णित अग्रा ।
ताय अहं कुशलं इमु सर्वं नामयमी वर भद्रचरीये ॥ ५६॥
कालक्रियां च अहं करमाणो आवरणान् विनिवर्तिय सर्वान् ।
सम्मुख पश्यिय तं अमिताभं तं च सुखावतिक्षेत्र व्रजेयम् ॥ ५७॥
तत्र गतस्य इमि प्रणिधाना आमुखि सर्वि भवेय्यु समग्रा ।
तांश्च अहं परिपूर्य अशेषान् सत्त्वहितं करियावत लोके ॥ ५८॥
तहि जिनमण्डलि शोभनिरम्ये पद्मवरे रूचिरे उपपन्नः ।
व्याकरणं अहु तत्र लभेय्या सम्मुखतो अमिताभजिनस्य ॥ ५९॥
व्याकरणं प्रतिलभ्य च तस्मिन् निर्मित कोटिशतेभिरनेकैः ।
सत्त्वहितानि बहून्यहु कुर्यां दिक्षु दशस्वपि बुद्धिबलेन ॥ ६०॥
भद्रचरिप्रणिधान पठित्वा यत्कुशलं मयि सञ्चितु किञ्चित् ।
एकक्षणेन समृध्यतु सर्वं तेन जगस्य शुभं प्रणिधानम् ॥ ६१॥
भद्रचरिं परिणाम्य यदाप्तं पुण्यमनन्तमतीव विशिष्टम् ।
तेन जगद्वयसनौघनिमग्नं यात्वमिताभपुरिं वरमेव ॥ ६२॥
इति श्री भद्रचरीप्राणिधानस्तोत्रं सम्पूर्णम् ॥