भक्तिशतकम्
नमस्तस्मै भगवतेऽर्हते सम्यक्सम्बुद्धाय ।
ज्ञानं यस्य समस्तवस्तुविषयं यस्यानवद्यं वचो
यस्मिन् रागलवोऽपि नैव न पुनर्द्वेषो न मोहस्तथा ।
यस्याहेतुरनन्तसत्त्वसुखदाऽनल्पा कृपामाधुरी ।
बुद्धो वा गिरिशोऽथवा स भगवान् तस्मै नमस्कुर्महे ॥ १॥
देवः शम्भुर्न वैरी हरिरपि न रिपुः केवली नो सपत्नो
नोदासीनः स्वयम्भुर्न च पुनरपरे ते परे वासवाद्याः ।
शास्ता बुद्धो न बन्धुर्जगति न जनको नैकगोत्रैकजातिः
किन्त्वेषां वीतरागो भवति सकलविद् यः सुधीभिः स सेव्यः ॥ २॥
ब्रह्मा विद्याभिभूतो दुरधिगममहामाययालिङ्गितोऽसौ
विष्णू रागातिरेकान्निजवपुषि धृता पार्वतौ शङ्करेण ।
वीताविद्यो विमायो जगति स भगवान् वीतरागो मुनीन्द्रः
कः सेव्यो बुद्धिमद्भिर्वदत वदत मे भ्रातरस्तेषु मुक्त्यै ॥ ३॥
ब्राह्मं वैष्णवमैश्वरञ्च बहुधा लब्ध्वा पदं हेतुतैः
(तः) संसारे वत संसरन्ति पुनरप्येकान्तदुःखास्पदे ।
किन्तैर्देहभृतामपायबहलैराद्यन्तवद्भिः पदै-
स्तस्मान्नित्यमनादिमध्यनिधनं बौद्धं पदं प्रार्थ्यताम् ॥ ४॥
चिदाकारं सूक्ष्मं विभुविशदमाकाररहितं
निरीहं नीरूपं निरवधिकृपाबीजमजरम् ।
समस्तज्ञं सर्वोपधिरहितमैश्यादमृतदं
जितानङ्गैः सेव्यं भवतु मम तद्वस्तु शरणम् ॥ ५॥
अणीयोऽणोः क्लेशाप्रतिहतमनन्तं च महतो
महीयो माहात्म्यप्रविजितजगद्भूरिकरुणम् ।
द्विबाहुं निर्बाहुं द्विपदमपदं सत्रिवदानं
द्विनेत्रं निर्नेत्रं सगुणमगुणं तत्तु शरणम् ॥ ६॥
सदानन्दं तथ्यं सरसहृदयं सूक्तिसदनं
सतां सेव्यं सम्यक्समधिगततत्त्वं सममनः ।
स्वतः सिद्धं साध्यं सकलफलदं सौम्यवदनं
सदीयं सर्वीयं भवतु मम तद् वस्तु शरणम् ॥ ७॥
स्वयम्भूताभिज्ञं भवभयहरं भीतिरहितं
स्फुरद्भाग्यो भोगोज्झितमहतवीर्यं मदनजित् ।
चतुर्मार्गं शुद्धप्रकृति च तथाकर्तृकमिदं
मुदं लोकोत्कृष्टामतनु तनुतां वस्तु जगताम् ॥ ८॥
क्वचिन्नीलं पीतं क्वचिदपि च रक्तं क्वचिदपि
क्वचिच्चन्द्रच्छायं क्वचिदपि च माञ्जिष्ठरुचिरम् ।
क्वचित् प्राभास्वर्य्यं यदयति च वर्णव्यतिकरा-
च्छिखाषट्कं तैस्तैर्दधदुपरि तद्वस्तु शरणम् ॥ ९॥
पराभेद्यं जाम्बूनदरूचिरवर्णं त्रिशरणं
त्रियानं त्रिप्रज्ञं त्रिभुवनशरण्यं त्रिवचनम् ।
कृपापात्रं मन्दस्मितमरुणसच्चीवरधरं
कृतध्यानं सिद्धासनघटितपाद् वस्तु शरणम् ॥ १०॥
प्रसन्नं फुल्लेन्दीवरनयनयुग्मं त्रिपिटकं
मुहुर्व्याकुर्वाणं सुरनरगणेभ्यः करुणया ।
परं शान्तं स्वर्णोपलरजतलोष्ट्रेषु च समं
दृशां नव्यातिथ्यं भवतु मम तद् वस्तु शरणम् ॥ ११॥
शरणमिति सदग्रं साधु गच्छामि बुद्धं
शरणमिति विरागाग्रीयमन्वेमि धर्मम् ।
शरणमिति गणानामग्रियं यामि सङ्घं
शरणमिति पुनस्त्रिं द्वित्रिवारं व्रजामि ॥ १२॥
पुनरपि शरणं व्रजामि बुद्धं पुनरपि लोकगुरुं गुरुं करोमि ।
पुनरपि कथयामि नौमि वन्दे, त्वयि मम गौतम नैव तृप्तिरास्ते ॥ १३॥
त्रिभुवनमसकृन्निरूप्य युष्मत्पदसरसीरुहरेणुमाश्रितोऽहम् ।
शरणमयमयञ्च दैवतम्मे गतिरपरा मम नास्ति नास्ति नास्ति ॥ १४॥
अनित्यमखिलं दुःखमनात्मेति प्रवादिने ।
नमो बुद्धाय धर्माय सङ्घाय च नमो नमः ॥ १५॥
भो वीतराग भगवंस्तव पादमेव वन्दे मुनीन्द्र मुहुरेवमिमं प्रवन्दे ।
भूयः पुनः पुनरिमं परतः परस्तात् पार्श्वद्वयोरुपरि दिक्षु विदिक्षु वन्दे ॥ १६॥
गतमिह भवता पथा च येन स्थितमपि यत्र च यत्र वा निषण्णम् ।
शयितमपि मुनीन्द्र यत्र योगात् तदपि शतं प्रणमामि पुण्यतीर्थम् ॥ १७॥
समजनि भगवान् स्वयं स्म यस्मिन् सकलमबोधि च यत्र धर्मचक्रम् ।
विशदतरमदीपि यत्र यस्मिन्नमृतमपूरि तदप्यहं नमामि ॥ १८॥
सर्वज्ञचक्रसरसीरुहराजहंस कुन्देन्दुसुन्दररुचिं सुरवृन्दवन्द्यम् ।
सद्धर्मचक्रसहजं जनपारिजातं श्रीदन्तधातुममलं प्रणमामि भक्त्या ॥ १९॥
नागालयोपरि धरालयचक्रवालमूर्ध्नि त्रिकूटगतकाञ्चनशैलशृङ्गे ।
बोधिद्रुमूलनिहिताक्षयधातुबिम्बं विभ्रन्नमामि शिरसा जिनचैत्यमग्रम् ॥ २०॥
हैमालवालवलयान्तरत्नवेधी वज्रासनोल्लसितमूलमगेन्द्रबोधम् ।
यं प्राप्य मारविजयानुपदं प्रपेदे सर्वज्ञतां स भगवान् तमहं नमामि ॥ २१॥
मूर्द्धन् बुद्धं नम त्वं श्रवण शृणु सदा धर्ममद्वैधवादि
प्रोक्तं सर्वत्र रूपं नयन निरुपमं पश्य जिघ्राङघ्रिपद्मम् ।
घ्राण त्वं चार्कबन्धोः स्तुहि सखि रसने श्रीघनं पूजयेथाः
सिद्धं पाणे व्रजाङ्घ्रे जिनसदनमदस्मद्गुणं चित्त चिन्त्य ॥ २२॥
बुद्धो धर्मश्च सङ्घस्त्रितयमिति महानर्घरत्नं मुमुक्षो-
रद्यारभ्याहमस्मै त्रिभवभयभिदे सन्ददाम्यात्मभाजम् ।
एषोऽहं तत्परः स्याम्परमयनमितो नास्ति मे सत्यमेतत्
स्यामस्याहन्तु शिष्यस्त्रिदशनुतमिदं कोटिकृत्वो नमामि ॥ २३॥
नाहं लाभार्चनार्थी न च भयचकितो नापि सत्कीर्तिकामो
न त्वं धर्मांशुवंशप्रभव इति मुने नापि विद्याशया ते ।
पारम्पर्यान्नच त्वां शरणमुपगतः किन्तु ते सार्वजन्यं
सम्यग्ज्ञानं समीक्ष्य त्वयि भवजलधिं सन्तरीतुं प्रवृत्तः ॥ २४॥
त्वद्वैराग्यसमस्तभूतकरुणा प्रज्ञादिनानागुण-
स्फूर्ज्जच्चन्दनपङ्कसिन्धुपतितो गन्तुं क्षमो नान्यतः ।
भूपा वा यदि दण्डयन्ति विबुधा निन्दन्ति वा बान्धवा
मुञ्चन्ति क्षणमप्यहं जिन पितर्जीवामि न त्वां विना ॥ २५॥
स्वर्गे वा वसतिर्ममास्तु निरये तिर्यक्षु किं वासुरे
प्रेतानां नगरेऽथवा नरपुरे क्वाप्यन्यतः कर्मणा ।
भो सर्वज्ञ ततस्ततस्तव गुणान् कर्णामृतस्यन्दिनो
निष्पापानवलम्बतां मम मनो नान्या सुखप्रार्थना ॥ २६॥
तवैवाहं दासो गुणपणगृहीतोऽस्मि भवता
तवैवाहं शिष्यः स्ववचनविनीतोऽस्मि भवता ।
तवैवाहं पुत्रः स्मृतिकृतसुखस्तद्गतिगतो
गुरो बुद्धस्वामिन् मम जनक मां पाहि भवतः ॥ २७॥
पिता माता भ्राता त्वमसि भगिनी त्वं च विपदि
स्थिरं मित्रं बन्धुः प्रभुरमृतदीक्षागुरुतमः ।
त्वमैश्वर्य्यं भोगो त्वमसि धनधान्यं च महिमा
यशो विद्या प्राणस्त्वमसि मम सर्वज्ञ सकलम् ॥ २८॥
वीतराज मुनीन्द्र दयाम्बुधे सुगत भग्नबृहद्भवपञ्जर ।
अधिगतामृत बुद्ध मनोऽम्बुजं मम तवानघ गन्धकुटीयताम् ॥ २९॥
अनात्मन्यनित्येऽशुभे दुःखदुःखे दुरन्तेऽत्र संसारचक्रे भ्रमन्तम् ।
त्वमेकोऽसि मां त्रातुमीशो दयाब्धे प्रभोऽतः प्रसीद प्रसीद प्रसीद ॥ ३०॥
प्रसीदेश देवेश लोकेश जिष्णो जगद्वन्द्य मद्वन्द्य सद्वन्द्य बुद्ध ।
अघोरे भवारे स्मरारे तमोरे तवैवास्मि भक्तो वपुर्वाङ्मनोभिः ॥ ३१॥
स तव कुलसुतः स एव भक्तः स भवति शासनधूर्वहः स शिष्यः ।
स च शरणगतः स एव दासः कथमपि यो न विलङ्घयेत् तवाज्ञाम् ॥ ३२॥
जगदुपकृतिरेव बुद्ध! पूजा तदपकृतिस्तव लोकनाथ! पीडा ।
जिन जगदपकृत् कथं न लज्जे गदितुमहं तव पादपद्मभक्तः ॥ ३३॥
धनजनविभवासुदेहराज्यं यदुपकृते शतधा त्वया प्रदत्तम् ।
तमहितमपकर्त्तुरस्य लोकं क्व मम कृपा मुदिता क्व वा च मैत्री ॥ ३४॥
उपपतिमसतीव चित्तवृत्तिर्व्रजति भवन्तमपास्य पञ्चकामम् ।
अपि च विषयिणो न मोक्षसिद्धिः किमु करवाणि मुनीन्द्र देहि दास्यम् ॥ ३५॥
प्रियतम पुरुषोत्तमाग्रबुद्ध श्रमहर सिद्ध जगत्प्रसिद्धकीर्ते ।
भव शरणमनुत्तरप्रसादिन् प्रतिपदमस्मि तवैव दासदासः ॥ ३६॥
दशबल कलिकालदुर्बलोऽहं चिरदुरितार्णवतुङ्गभङ्गमग्नः ।
तव कथमनुयामि धर्मनावं जिन मम देहि कृपाकरावलम्बम् ॥ ३७॥
प्रणतिरियमनेकशस्तवाहं बहु भवदुःखमवेक्ष्य भीतिभीतः ।
धर गुरुतरतृष्णया पतन्तं जिन मम देहि कृपाकरावलम्बम् ॥ ३८॥
जगति तव कृपा हि निर्विशेषा प्रपवतया जिन मां च दोषदुष्टम् ।
अलमहमिअह नो सुखी भवेन्दुर्न समकरश्चरतीव साध्वसाध्वे(ध्वोः) ॥ ३९॥
उपचितबहुमोहजातमन्धं विगतदयं विगतात्मबन्धुगन्धम् ।
अपगतगुणविद्यमुद्गताघं जनमविवेकमवाशु दीनबन्धो ॥ ४०॥
अकरवमुरुदुष्कृतं पुरा यद् मम वपुषा मनसा च चेतसा च ।
अनुकलमखिलं प्रलीयतां तत् तव चरणस्मरणेन सर्ववेदिन् ॥ ४१॥
सुगत तव पुरः पुरः पृथिव्यां मधुरमते पतितोऽस्मि दण्डनत्या ।
अकुशलमखिलं तवानुभावात् प्रपततु नोत्पततात् पुनः सहैव ॥ ४२॥
तव चरणसरोजमेव वन्दे तव पदपङ्कजमेव पूजयामि ।
तव पदयुगमेव भावयेऽहं तव पदमेव सदैव दैवतं मे ॥ ४३॥
कमपि न कथयामि नार्चयामि कमपि न नौमि न चिन्तयामि नेहे ।
कमपि न शरणं व्रजामि हित्वा तव चरणं पितरस्मि किङ्करस्ते ॥ ४४॥
सदसि सदसि वाचि सिद्धं पथि पथि सद्मनि सद्मनीह बुद्धम् ।
भुवि भुवि मम वारि वारि चेतः कलयतु नित्यमिमं हि लोकनाथम् ॥ ४५॥
अविरतमवलोकयामि बुद्धं गतरजसा मनसापि चक्षुषेव ।
स्वपिमि निशि निधाय यद्धृदि त्वां न मम समं विरहस्त्वया त एव ॥ ४६॥
मम तदिह दिनं हि दुर्दिनं स्याद् अशितघनस्थगितं न दुर्दिनं मे ।
यदमृतसमबुद्धरत्ननाम स्मृतिरहितं दिनमस्य मा तदस्तु ॥ ४७॥
अमृतद षडभिज्ञ धर्मराज त्रिभुवनवन्द्य मुनीन्द्र गोतमेति ।
अहरहरनुकीर्त्त्यते नृभिर्यैरहमहितानपि तान्नमामि धन्यान् ॥ ४८॥
दशबल जिन सिद्ध वज्रबुद्धे सुगत तथागत बुद्ध शाक्यसिंह ।
इति निगदति यः क्वचित् कदाचित् तमभिनमाम्यपि दासवंशजातम् ॥ ४९॥
मदनजित पराजितेभ्य शास्तर्विभव विनायक विश्वविद्वरेण्य ।
कविवर वदतांवरेश शुद्धोदनसुत शाक्यमुने मुने प्रसीद ॥ ५०॥
अमृतमपि निपीय निर्जरेन्द्र पुनरपि तेऽपि शुनीस्तनं धयन्ति ।
सकृदपि तव वाक्सुधारसज्ञो न विशति जातु स मातुरेव गर्भम् ॥ ५१॥
अहमिह भगवन्नलं न सोढुं जननजरामरणा(म)यादिबाधाम् ।
कुरु मम करुणं दिशो न जाने गुरु तदवेक्ष्य च तिर्यगादिदुःखम् ॥ ५२॥
तदुपरि परिचिन्त्य वृद्धकाले करचरणादिदृगादिपारवश्यम् ।
अगतिकमतिवेपते मनो मे जिन किमहं करवै प्रभो प्रसीद ॥ ५३॥
श्रवणपथगतेऽप्यदृष्टपूर्वे सुखकृति वस्तुनि यत्तनोमि तृष्णाम् ।
अविरतमत एव शान्तिबीजे त्वयि वलते रमते ममात्र चेतः ॥ ५४॥
सविपदि रमते न मे मनोऽतः सुरनरशर्मणि पूर्वपूर्वभुक्ते ।
अनुदिनमनुभूय शर्करायामपि विरतिं कुरुते हि दृष्टदोषः ॥ ५५॥
करतलगतमप्यमूल्यचिन्तामणिमवधीरयतीङ्गितेन मूर्खः ।
कथमहमपहाय बुद्धरत्नं जगति धनी गुणवांश्च पण्डितश्च ॥ ५६॥
स भवति मतिमान् स नाकुलीनः स च गुणवान् स च कीर्तिमान् स शूरः ।
स जगति महितः सुखी स एव त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः ॥ ५७॥
अपि सकलमधीतमत्र तेन श्रुतमपि सर्वमनुष्ठितं च तेन ।
अपि जितमजितेन तेन विश्वं त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः ॥ ५८॥
त्यजति निजपरम्परादरेणेतरसमयस्य जनो न दृष्ट दृष्टिम् ।
असुहरमपि गौरवेण मातुर्न खलु शिशुर्विषमोदकं तु मुञ्चेत् ॥ ५९॥
कविवरमहमस्मि पण्डितस्ते जिन न जहामि कथन्नु कुर्गृहीतम् ।
नुदति हि तमसन्ततिं प्रवृत्तां मिहिरमरीचिसहायिनी सुदृष्टिः ॥ ६०॥
सुगतपदपराङ्मुखस्य पुंसः किमु तपसा यशसा च किं किमन्यैः ।
सुगतपदपराङ्नुखस्य पुंसः किमु तपसा यशसा च किं किमन्यैः ॥ ६१॥
सुगतपदि न भक्तिरस्ति येषामजननिरेव महीतलेऽस्तु तेषाम् ।
कथितमिह कृतागसां नराणां निरयगतिर्नियतं न चान्यतो यत् ॥ ६२॥
विदितसकलशास्त्रमुन्नतानां कुलभवमुत्तमरूपयौवनाद्यम् ।
जिन भवदनुपासकं नृपासं त्यजतु मनो मल नीचवत्तु जात्या ॥ ६३॥
परिहृतमदमानमत्सरादिः सकरुणशीलसमाधिमान् विवेकी ।
तव पददृढभक्तिरन्त्यजोऽपि प्रतिभवमस्तु नरोत्तमः सखा मे ॥ ६४॥
विहितजिनपदार्चनस्य भक्तुर्दशदिवसानपि जीवितं प्रशस्तम् ।
न तु नियुतसहस्रकल्पकोटीरकृतमुनीन्द्रपदाब्जपूजनस्य ॥ ६५॥
स भवति सुरसुन्दरीसखोऽन्यैः कृतमभिनन्दति वार्चनं च भक्त्या ।
त्रिदशनरगुरो त्वदीयपूजामगतितया यदि कर्तुमक्षमः स्यात् ॥ ६६॥
सुरुचिरमतिचित्रचित्ररूपं नयनपथं नयतीह यस्तवार्चाम् ।
रहयति पुरुषं तमप्युदारं चिरतरसञ्चितदुष्कृतं कवीन्द्र ॥ ६७॥
मणिकनकशिलादिनिर्मितां यः प्रणमति ते प्रतिमां तयोश्च तुल्यम् ।
फलमिह मनसश्च संप्रसादादनुपरतं जिन योऽग्रतो नमेत् त्वाम् ॥ ६८॥
सकृदपि तव पादपद्मपूजा वनकुसुमैरपि यः करोति धीमान् ।
अवनतसुरसङ्घमौलिमालोज्ज्वलममलं श्रयते तमाधिपत्यम् ॥ ६९॥
यदि भवति सरूपमेकचित्तक्षणशरणोद्भवपुण्यवृन्दमुच्चैः ।
गणशरण समन्तभद्रसाधोऽखिलनभसोऽप्यतिरिच्यते तदा तत् ॥ ७०॥
तव गुणकथने तु यः प्रसन्नस्तमनुविशन्ति मुने गुणास्त्वदीयाः ।
उदयति शशिनि प्रसन्नमिन्दूपलमिव तत्किरणावलीतुषारः ॥ ७१॥
सकृदपि समदायि देव किञ्चिद् भवरतिमुत्सृजता जनेन तुभ्यम् ।
सुगत तदखिलान् लुनाति धारा वदसिरिव द्रुममाश्रवादिदोषान् ॥ ७२॥
कृतमिह सुकृतं मृषादृशा यज्जनयति तत् किल तस्य दुर्विपाकम् ।
क्षितिसलिलरसं स्वतिक्तभावं नयति यथा पिचुमर्दबीजमुप्तम् ॥ ७३॥
तव पदनलिने निपत्य भूयो निपतति नैव चतुर्ष्वपायकेषु ।
नहि कुशलकरो नरः कदापि क्वचिदपि दुर्गतिमेति नाथ कश्चित् ॥ ७४॥
इति भवदुपदेशतो विदित्वा तव पदपङ्कजपूजने रतोऽस्मि ।
दृढयतु भगवान् युगे युगे मे कुमतिमुदस्य भवे भवेऽर्यभक्तिम् ॥ ७५॥
स्थिरमपि भगवन् क्षणं तवोक्तौ करचरणानि दृगादि वैरिवर्गः ।
व्यथयति हृदयं बलाद्विचाल्य त्वमिदमनाथमनीश पाहि पाहि ॥ ७६॥
यदि नयनमयं वशे विधातुं यतति तदा द्रवति श्रवो यदा तत् ।
तदनु रसन-नासिकाशरीराण्यहह परस्परदुर्ग्रहाणि चैवम् ॥ ७७॥
गतिरतिचपलस्य चेतसः स्यादिह नभसीव नभस्वतोऽसुरोधा ।
कभमपि भजते क्रमेण धैर्यं चिअरमिदमभ्यसनेन संविरक्त्या ॥ ७८॥
विशदमपि मनः स्वभावतो मे चिरकृतकिल्विषकालिमाहृतं स्यात् ।
कुशलजललवैः कथन्नु धौतं भवति मयेदृशचेतसार्जितैस्तैः ॥ ७९॥
शुचितरवचनामृतप्रवाहैः रघमलिनीकृतचित्तसन्ततिं माम् ।
अनधिवर नितान्तमाधितप्तं सपदि विशोधय दण्डवन्नमामि ॥ ८०॥
सति सकलगुरो मुने प्रसन्ने किमिह दुरापममुत्र किं दुरापम् ।
यदमलमनसस्त्वदीयदासाः सुरपतितां मनसापि नाद्रियन्ते ॥ ८१॥
विदधति भयमिन्द्रियाणि भूम्ना विषयविषग्रहणेषु दोषदृष्ट्या ।
नहि सुविदितभाविदाहदोषः शिशुरपि दीपशिखाग्रसङ्गृही स्यात् ॥ ८२॥
न भवति जिन यावदेष जीर्णो विषयपिशाचनिषेवणेन तावत् ।
झटिति सुकृतकर्मणि प्रयोज्य स्वव शरणागतवत्सलागतं माम् ॥ ८३॥
इअदमपि यदि वेद्मि पुत्रदारस्वतनुगृहादि मरीचिकाम्बुतुल्यम् ।
स्थगयति ममता च मामहन्ता तदपि हि मोहविजृम्भितं गरीयः ॥ ८४॥
अजनि च निजकारणेन सर्वं निरसति जीर्यति नश्यति स्वहेतोः ।
अहमपि हि तथैव धातुपुञ्जः कथमहमस्य कथं मुने ममेदम् ॥ ८५॥
आत्मबुद्धिरिह यस्य जायते सा च तस्य जनयेदहङ्कृतिम् ।
सा तनोति सुतरां भवस्पृहां सैव मोहजननी मुहुर्मुहुः ॥ ८६॥
तेन कर्म कुरुते शुभाशुभं तद्धि दुःखजनकं भवत्रये ।
दुःखमूलमत एव सात्मधीः तां लुनीहि जिन मे वचोऽसिना ॥ ८७॥
अथ सकलविदं दयासमुद्रं त्रिभुवनकारणकारणं कुलीनम् ।
निखिलगतमनन्तमस्तिशान्तिं मुनिजनमानसहंसमीशमीडे ॥ ८८॥
स्नाने कर्मणि भोजने वितरणे घ्राणे तथाकर्णने
ध्यानस्पर्शनदर्शनादिषु तथा सम्भाषणादावपि ।
प्रातः सायमथो दिवा च निशि च त्वत्पादपद्मे विभो
चित्तं मे रमतां मुनीन्द्र सततं यूनां युवत्यामिव ॥ ८९॥
मत्स्वामिन् मदभीष्टकल्पविटपिन् मद्देवते मद्गुरो
मन्मातर्मदुपास्य मत्प्रियसखे मत्सद्गते मत्पितः ।
मद्विद्ये मदशेषदुःखशमकृद् मद्भावने मन्निधे
मन्मुक्ते मदुदारभाग्य मदसो मद्बुद्ध मां पालय ॥ ९०॥
ब्रह्मा जिह्माननोऽभूद् गुरुरगुरुरहर्णायकोऽनायकोऽसौ
विष्णुस्तृष्णां प्रपेदे कविरकविरभूदीश्वरोऽनीश्वरोऽपि ।
शेषः शेषानुभावस्तव सुगत नुतौ खण्डिताखण्डलोक्तिः
कोऽहं मूढो वराकस्त्रिदशनरपते कीर्त्तने ते गुणानाम् ॥ ९१॥
दशद्वयधिकविंशतिस्फुरदशीत्यनुव्यञ्जनैः
महापुरुषलक्षणं वपुषि यस्य देदीप्यते ।
कलामपि न षोडशीं भजति तस्य पुण्यात्मनश्
चतुर्मुखमुखो गणो दिविषदां नृणां का कथा ॥ ९२॥
महेन्द्रनवचापवत् कनकपर्वते सर्वतः
सदा तव मनोहरं स्फुरति सुप्रभामण्डलम् ।
दृशो भवति गोचरं तदिह यस्य तस्य त्वरान्
तमस्ततिमनुत्तमां हरति दूरमन्तर्बहिः ॥ ९३॥
रूपं लोचनलोभनं श्रवणयोरानन्दसन्दोहदा
वाणी विश्वविमोहकृत् तव कृपावेशोऽतिशान्तस्तव ।
पाण्डित्यं प्रथितं जगत्सु भगवन् सर्वज्ञनाम्नैव ते
साम्राज्यस्य च यौवने निरसनं वैराग्यसीमा स्फुटम् ॥ ९४॥
शौर्यं त्वद्विषमेषु दर्पदलनादङ्गीकृतं दैवतैः
यद्वाणैः स सुरासुरः प्रविजितो लोकोऽयमोशत्करम् ।
वीर्यं ते प्रकटीचकार नितरां निर्वाणसाक्षात्कृतिः
किं ब्रूमो बलवैभवं भगवतस्तत्ते जगद्दुर्वहम् ॥ ९५॥
यत्र च्छागतुरङ्गमारणविधिर्वेदेऽपि तं निन्दसि
प्रेम्णा प्राणभृतामतः सकरुणस्त्वत्तो महान्नापरः ।
एवं ते गुणसम्पदो न विषया बुद्धेरसूयात्मनां
ते मूढाः प्रलपन्ति हन्त सुगतो मद्वेदनिन्दीत्ययम् ॥ ९६॥
निर्मज्जत्सुरसुन्दरीकुचचलन्निर्मन्दमन्दाकिनी-
फेणक्षीरसमुद्रकैरवसखी सत्कीर्तिलक्ष्मीस्तव ।
यन्नालिङ्गति मन्दभाग्यमधुना भूयान्न तेनापि मे
सङ्गः सङ्गगदादिवैद्य भगवन्नेषापि मे प्रार्थना ॥ ९७॥
ये त्वां गच्छन्ति बुद्धं शरणमिति न ते दुर्गतिं यान्ति सन्तस्
त्यक्त्वा कायान्मनुष्यान्निरतिशयसुखान् ते लभन्तेऽथ दिव्यान् ।
दुःस्वप्नो दुर्निमित्तं दुरहिदुरहिता दुर्ग्रहा दुष्टसत्त्वा
दुःखं दुर्व्याधयोऽपि क्वचिदिह कुशलान् नोपसर्पन्ति चैवम् ॥ ९८॥
छत्रं ब्रह्मा व्यधात्ते मणिमयममलं चामरं चक्रपाणि-
स्तोतारो गद्यपद्यैर्हरगुरुफणिनः शाङ्खिकोऽभून्महेन्द्रः ।
अन्ये दीपोदकुम्भध्वजकुसुमलसत्पाणयो भक्तिनम्रास्
तस्थुर्व्याख्याय धर्मं भुवमवरुहतः स्वर्गतस्ते मुनीन्द्र ॥ ९९॥
मातेवासीत् परस्त्री भवति परधने न स्पृहा यस्य पुंसो
मिथ्यावादी न यः स्यान्न पिबति मदिरां प्राणिनो यो न हन्यात् ।
मर्यादाभङ्गभीरुः सकरुणहृदयस्त्यक्तसर्वाभिमानो
धर्मात्मा ते स एव प्रभवति भगवन् पादपूजां विधातुम् ॥ १००॥
सर्वप्राणातिपातात् परधनहरणात् सङ्गमादङ्गनाया
मिथ्यावादाच्च मद्याद्भवति जगति योऽकालभुत्क्तेर्निवृत्तः ।
सङ्गीतस्रक्सुगन्धाभरणविलसितादुच्चशय्यासनाद्
अप्यासीद्धीमान् स एव त्रिदशनरगुरो त्वत्सुतो नात्र शङ्का ॥ १०१॥
श्रोतापत्त्यादिमार्गाः सदवयवयुता घ्नन्ति रागादिदोषान्
दोषास्ते छिन्नमूला हतभवगतयस्तत्फलैर्यान्ति शान्तिम् ।
मार्गाणां क्लेशहानिः सदमृतमजरं कारणं स्यान्नवानां
धर्माणां हेतुरेषां तव जिन वचनं तस्य हेतुस्त्वमेव ॥ १०२॥
विंशत्सत्कायदृष्टिक्षितिधरममलज्ञानवज्रेण भित्त्वा
रागद्वेषादिपापान्तदुदितमखिलं कर्म चोन्मूलयन्तः ।
चत्वारो लब्धमार्गास्तदनुगुणफलास्तेऽपि चत्वार एवं
त्वतश्चाष्टार्यसङ्घः पृथगिति न पुनश्चिन्तयामो मुनीन्द्र ॥ १०३॥
अपि गगणमनन्तं सर्वसत्त्वोऽप्यनन्तः
सकलमिदमनन्तं चक्रवालं विशालम् ।
वदसि जिन विदित्वानन्तया ज्ञानगत्या
तव च गुणमनन्तं वेदसी बुद्ध चैवम् ॥ १०४॥
भगवति भवतीति ध्वंसकारिण्यमोघे
भवतु भवतु भक्तिर्जन्मजन्मान्तरेऽपि ।
भवतु भवतु धर्मः सर्वथा मेऽनुशास्ता
भवतु भवतु सङ्घोऽनुत्तरा पुण्यभूमिः ॥ १०५॥
त्रिभुवनमहनीयं त्वामभिष्टुत्य बुद्धं
विशदतरमदभ्रं पुण्यमत्रार्जितं यत् ।
जगति सकलसत्त्वास्तेन सम्बुद्धबोधिं
विधुतविविधपापा भावनाभिर्व्रजन्तु ॥ १०६॥
भास्वद्भानुकुलाम्बुजन्ममिहिरे राजाधिराजेश्वरे
श्रीलङ्काधिपतौ पराक्रमभुजे नीत्या महीं शासति ।
सद्गौडः कविभारतिक्षितिसुरः श्रीरामचन्द्रः सुधीः
श्रीतृणामकरोत् स भक्तिशतकं धर्मार्थमोक्षप्रदम् ॥ १०७॥
इति श्रीशाक्यमुनेर्भगवतः सर्वज्ञस्य परमोपासकेन गौडदेशीय-
श्रीबौद्धागमचक्रवर्त्तिना भूसुरेणाचार्येण महापण्डितेन
विरचितं भक्तिशतकं सम्पूर्णम् ।
Alternative verses
नृपः पराक्रान्तिभुजो महीभुजो शिरोमणिः पण्डितमण्डलीसखः ।
स रामचन्द्रं कविभारतिद्विजं चकार बौद्धागमचक्रवर्तिनम् ॥ १॥
बुद्धो मे जयतां जिनः स भगवान् तद्देशना निर्मला
स्थेयात् सत्त्वहिताय भातु भणिता सङ्घस्तदाधारकः ।
लङ्केशप्रमुखाश्चिअरं वसुमतीं रक्षन्तु नित्यं नृपा
वर्षन्तु स्तनयित्नवश्च समये मैत्रीं लभन्तां प्रजाः ॥ २॥
तीर्थग्रामपतेर्यतेस्त्रिपिटकाचार्यस्य भूपान्वया-
चार्यश्रेष्ठमुनीश्वरस्य सुगिरः श्रीराहुलस्वामिनः ।
शिष्यो योऽवरजः सुमङ्गलमुनिर्धीमान् स्वया भाषया
कारुण्येन मुनीन्द्रभक्तिशतकव्याख्यानमाख्यातवान् ॥ ३॥
नमो बुद्धाय गुरवे नमो धर्माय शासिने ।
नमः सङ्घाय महते त्रिभ्योऽपि सततं नमः ॥ ४॥
सिद्धिः ॥