ब्रह्मविद्या
लेखकः - नन्दप्रदीप्तकुमारः
निरस्तमायाकृतसर्वभेदं नित्यं विभुं निष्कलमप्रमेयम् ।
अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥
इति विवेकचूडामणिकारेण शंकरभगवद्पादेन ब्रह्मलक्षणं समीक्षितम् । शारीरके भाष्येऽपि -यस्मादादौ बुद्धा आदिबुद्धाः प्रकृत्येव स्वभावत एव तथा नित्यप्रकाशस्वरूपः सवितैव नित्यबोधस्वरूपा इति आत्मनः सूर्यवत् नित्यप्रकाशस्वरूपत्वं नित्यबोधरूपत्वं च उक्तम् । मांसमेदोस्थियुक्तशरीररहितत्वादसौ अकायम् । अज्ञानादिदोषशून्यत्वात् विशुद्धम् । क्लेशकर्मविपाकाशयैरपरामृष्टत्वादसौ अपापविद्धमित्युच्यते । तथा हि ईशावास्येस्ष्टमे मन्त्रे- स पर्यगात् शुक्रमकायमब्रणमस्नाविरं शुद्धमपापविद्धमिति ।
तत्र बृद्ध्यर्थकाद् बृहि धातोः ब्रह्मशब्दो निष्पन्नः । बृंहति बर्द्धते निरतिशयमहत्त्वलक्षणबुद्धिमान् भवतीत्यर्थः इति कोशवचनं श्रूयते । छान्दोग्ये- सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् तैतरीये -सत्यं ज्ञानमनन्तं ब्रह्म (२/१/१) तत्र आनन्दं ब्रह्मेति व्यजानात् (३/६/१) बृहदारण्यके -सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म(५/४/९) तत्र -सत्यस्य सत्यम्(२/३/६) पुनस्तत्र अन्नमयादिपञ्चकोशव्यतिरिक्तो शुद्धबुद्धमुक्तस्वभावश्चात्मा विज्ञानमानन्दं ब्रह्म(३/९/२८) इति । श्रुतिस्मृतिष्वपि सत् चित् एवम् आनन्दस्वरूपं ब्रह्म इति सयौक्तिकं स्वरूपलक्षणं प्रमाणितम् । ब्रह्मणो ज्ञानरूपं तु स्वत एव प्रमाणम् । अत्र आनन्दं ब्रह्मवाचकम् । स्वगत-सजातीय-विजातीयभेदराहित्यं त्रिकालावाधितम् अखण्डं ब्रह्म । तल्लक्षणं सच्चिदानन्दमयमिति अर्थात् सर्वदा वर्तमानं स्वप्रकाशचैतन्यम् आनन्दस्वरूपमिति वेदान्तडिण्डिमः । अत्र सच्चिदानन्दमिति प्रयोजनम्, अखण्डमिति विषयः, शास्त्रविषययोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धः, तत्कामोऽधिकारीति अनुबन्धचतुष्टयमुक्तम् । सत्यज्ञानानन्दादि पदैर्विशिष्टं ब्रह्म अन्येभ्यो जागतिकविषयेभ्यो भिन्नम् । एतानि सत्यज्ञानादीनि विशेषणानि ब्रह्मणः स्वरूपलक्षणार्थं मन्तव्यम् । ज्ञानमेव ब्रह्मणः स्वरूपमात्रं न धर्मो वेति । अद्वैतप्रतिपादितं विशुद्धं ब्रह्म एकमेवाद्वितीयमिति वेदान्तविद्भिः स्थिरीकृतम् । ब्रह्मणः तटस्थलक्षणं तु जन्माद्यस्य यतः इति । अथ वा तैतरीये- यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति यत्प्रयत्त्यभिसंविशन्ति (३/१) तद् ब्रह्म इति । अनेन सृष्टिस्थितिलयात्मकादीनि कार्याणि ब्रह्मणः तटस्थलक्षणेऽभिप्रेतानि । अखिलाधारत्वात् । अत्र जगदन्तर्भूतामनादिभावभूतां मायां प्रति अकारणत्वेपि न ब्रह्मणो जगज्जन्मादि कारणत्वहानिः । तदेव शुद्धचैतन्यं जीवब्रह्मैक्यं प्रमेयं तत्रैव वेदान्तानां तात्पर्यात् । अज्ञाननिवृत्तिः स्वरूपानन्दावाप्तिश्चास्य ब्रह्मणो मुख्यप्रयोजनमुक्तम् । तथाहि छान्दोग्ये-तरति शोकमात्मवित् (३/१/३) मुण्डकेऽपि- ब्रह्मविद् ब्रह्मैव भवति(३/२/९) इत्यादिश्रुतेश्च ।
एवंभूत आत्मा स्वाधीनः । यदधीनं समस्तं विवर्तभूतं जगत् । कोऽयं हेतुः ? सर्वेषां चिदचिद्रूपाणां भूतजन्तूनामन्तर्गतत्वात्, सर्वभूतान्तरात्मेति प्रसिद्धत्वाच्च । यच्चोक्तं बृहदारण्यके-यः सर्वाणि भूतान्यान्तरो यमयति (३/७/१५) यस्य सर्वाणि भूतानि शरीरम् (तत्र ३/७/१६) इति निरञ्जनस्य निर्लिप्तस्य निःसंगस्य लक्षणविवेको दिङ्मात्रं प्रदर्शितम् । इत्यलं पल्लवितेन ।
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com