ब्रह्मविज्ञानसंहिता

ब्रह्मविज्ञानसंहिता

प्राक्कथनम् विवेकादि साधनवद्भिरेव सफला ब्रह्मविद्या लभ्यते । क्लेश प्रवाह पूरिते मायावर्तावृते कामक्रोधादि हिंसक जन्तु सङ्कुले भव वारिधौ पतितानां त्रयताप तापितानां जीवानां ब्रह्मात्मतत्त्व विज्ञान पोतादेव समुद्धारः । ब्रह्मविज्ञान पोत लाभस्तु विवेकादि साधनैर्भवति । येन मानव शरीरमांसाद्यापि यदि साधन सम्पतिर्न सम्पादिता तस्य तु निरर्थक जीवनम् । ब्रह्मविज्ञान प्राप्तौ साधनचतुष्टय सम्प्राप्तिरेव परमं साधनम् । साधन सम्पदं विना तद् विज्ञानं सफलयितुं यः इच्छति सोऽति मूढः । उक्तं च - मातुरङ्के समासीनो गृहीतुं चन्द्रमिच्छति । बालो यथा तथैवाज्ञो विज्ञानं साधनैर्विना ॥ १॥ विषयेऽस्मिन्निदमाख्यानं श्रूयते । एकदाऽश्विनीकुमारौ देव भिषजौ ब्रह्मज्ञानिनो महर्षेर्दधीचः वेदादि शास्त्रमधीत्य ब्रह्मविज्ञान श्रवणस्य च जिज्ञासां कृतवन्तौ ॥ महर्षिणा साधन शून्यत्वात् ताभ्यां नोपदिष्टा ब्रह्मविद्या । उक्तं च - यदा भवन्तौ साधन सम्पन्नौ भविष्यतः तदा ब्रह्म-विद्यामुपदेक्ष्यामीति, तौ विचारितवन्तौ, वस्तुतः स एव ब्रह्मविज्ञानस्याधिकारी यो विवेकादि साधन सम्पन्नः । अतएव विवेकादि साधन सम्पतिरेवावश्यं सम्पादयितव्या, इत्यवधार्य महर्षिसमीपात् निर्जग्मतुः । अथ कदाचित् देवराज इन्द्रोः महर्षेर्वीतरागस्य दधीचः प्रशंसां श्रुत्वा तदाश्रममाजगाम । महर्षिणा तस्यातिथ्यं कृतम् । स्वागतं महाभाग ? किन्ते प्रियं करवाणि इतितं पप्रच्छ, मह्यं ब्रह्मविद्यामुपदिश इत्युक्तं देवराजेन । कि भवान् तदधिकारी जातः ? महर्षिणा मन्देनोक्तम् । अनेन किं प्रयोजनं ? ब्रह्मविद्यया स्वयमाधिकारित्वं प्रादुर्भविष्यति इति सगर्वः शक्रः प्रोवाच । तत्त्वदर्शिना मतिमता ब्रह्मर्षिणामनसीदं समालोचितम्, अयं किल देवराजो विवेकादि शून्यः विषय लोलुपः दुराग्रही च नास्ति ब्रह्मविद्याधिकारीति । अथ तावदादौ वैराग्यं जनयितुं महर्षिणोक्तम् । हे देवराज ! जीवनं ते तुच्छ शूकर तुल्यं, अतस्त्वं न ब्रह्मविद्याधिकारी । तवाशुचि शूकरस्य च सुख दुःखञ्च समानमेव । यथा यावती शूकराय विष्ठाऽस्वाद्या प्रियाच तथैव तावती भवते सुधा स्वादिष्टा वल्लभाचास्ति यथा भवता शची रम्भादयप्सरस-आलिङ्ग्य च यावती मात्रायां सुखमनुभूयते । तथैव शूकरेणाऽपि शूकरीमालिङ्ग्य च तावती मात्रायां सुखमनुभूयते । देवराज ! त्वं यथा विष्ठाशूकरीं च विलोक्य तत्र घृणां कृत्वासमुद्विजते तथैव शूकरोपि सुधां शची च विलोक्य तथैव करोति । एवं मृत्युत्रासोऽपि समानमेव । रागद्वेषाधीनत्वमपि तुल्यमेवोभयोः । एवं तव जीवनं तुच्छं शूकर-जीवन तुल्यमेव । विवेक साधनैर्विना न भवान् ब्रह्मविद्याधिकारी । ``पयः पानं भुजङ्गानां केवलं विषवर्धनम्।'' इव स्वस्यैतादृशीं निन्दां श्रुत्वा देवेन्द्रो महर्षि प्रति चुकोप, ``नायं ब्रह्मविद्याचार्यः'' अपितु कश्चिच्छत्रुपक्षीयो गुप्तचरः । इति विनिश्चित्य परुषवाक्यैः ऋषिन्निर्भत्स्योक्तम्, भो कपटमुने ! अद्यारभ्य कस्मैचिदपि ब्रह्मविद्या नोपदेष्टव्या । यदि मदीय वचन परिपालनं न भविष्यति तदा तव शिरः वज्रेणैव पोथयिष्यामि । इत्युक्त्वा स आश्रमादपससार । अथ कियत् कालानन्तरं अश्विनीकुमारौ साधनसम्पदं सम्पाद्य प्रतिनिवृतौ, महर्षि मुखात् विदित वृतान्तौ तावूचतुः अथ च किं भविष्यति किल? भवता तु प्रतिज्ञातं यदा साधन सम्पन्नौ भवन्तौ भविष्यतः तदा ब्रह्मविद्यामुपदेक्ष्यामीति । सत्यवादिनोभवतः प्रतिज्ञा मिथ्या भवितुं नार्हति । जीवनादपि सत्यपालनं गरिष्ठम् । महर्षिणोक्तं ब्रह्मविद्यामुपदेक्ष्यामि, परन्तु न जाने सा पूर्णा भविष्यति न वा ? मध्य एव देवेन्द्रो यदि शिरश्छेत्स्यति तदा किं भविष्यति । अश्विनीकुमारावुपायं विचिन्त्योचतुः, यथा भवतः सत्यवचनस्य शिरसश्चरक्षणं स्यात् तदेव कर्तव्यं, अथ तावत् इदानीं तव शिरच्छित्वा अन्यत्र निधाय अश्वशिरस्त्वयि संयोज्यते । आवयोसञ्जीवनी विद्या प्रभावेण जीवनं लब्ध्वा तेनाश्वशिरसा, आवाभ्यां ब्रह्मविद्योपदेष्टव्या । यदा च देवराजस्य वज्रेण तव शिरश्च्छेदः भविष्यति तदा भवतः स्वाभाविकं शिरः संयोजयिष्यावः । तथैवास्तु इत्येवमनुज्ञाते सति अश्विभ्यां तथैव कृतम् । महर्षिणा ताभ्यामश्वशिरसा मधु ब्रह्मविद्यां समुपदेष्टु प्रारेभे । तद्ज्ञात्वा इन्द्रो वज्रण तदश्वोयं शिरः अच्छिनत् । अश्विभ्यां मानुषीयं शिरः समधत्ताम् । तदनन्तरं स्वशिरसा शेषां ब्रह्मविद्यामुपदिदेश । इत्याख्यानेन सिध्यति ब्रह्मविद्यानोपलभ्यते साधनविना । साधनहीनो देवराजो मौढ्यान्महर्षि द्वेषं कृत्वा पुरुषार्थ भ्रष्टोऽभूत् । अथ च प्राक् मानव शरीरेण विवेकादि साधनानि सम्पादितव्यानि, तदनन्तरं ब्रह्मविज्ञानस्य ज्ञानं भविष्यति । -- स्वामी स्वयम्भू तीर्थ ज्ञानाद्विहीनोऽपि, गुरुप्रसादात् लभामहे नूनमिदं महत्वम् । पङ्कस्य कीटोपि सुपुष्प सङ्गात् आप्नोति भालं वृषवाहनस्य ॥ क॥ विद्या वियुक्तस्त्रयतापयुक्तः मार्गे मुनीनां मन आदधामि । कृतञ्च यत्तत् परकीयमेव सत्यं कलेर्जीव-स्वभाव एषः ॥ ख॥ वेदान्तसिन्धुं भ्रमभूरिपूर्णम् सच्छिद्रया क्षुद्रतरी धियाऽहम् । पारं चिकीर्षुर्मम मोह एषः खद्योत-दीप्तिर्न निशातमो यथा ॥ ग॥ स्वान्तः सुखाय लिखितां शुचिब्रह्मविद्याम् श्रद्धा-विवेक-बलिनः पुरुषा अधीत्य । नूनं विहाय कलि कुञ्जर भूरि भीतिम् तेजस्विनो मृगपतेः पदतां लभन्ते ॥ घ॥ वेदान्त-सिन्धुं परिलोड्य यत्नैः यो ब्रह्मविज्ञान-सुधा-सुकुम्भम् । नीत्वागतः लोकहिताय भूमौ तीर्थोत्तरः स्वामिवरः ``स्वयम्भू'' ॥ ङ॥ प्रथमोऽध्यायः (ब्रह्मविज्ञान का मूलस्रोत) सर्वेषु दुःखेषु जगद्गतेषु कर्तव्य तैवास्ति विशाल-दुःखम् । तस्यां स्थितायां न सुखातिरेकम् तस्माच्च तन्नाश-विधि-र्विधेया ॥ १॥ द्वितीयोऽध्यायः (विचार का महत्व) विचार एवास्ति परं निधानं बीजं विशुद्धं सुख पादपस्य । तस्यैव शक्तिर्हि नवाङ्कुरश्च विचारवान्भाति नरो धरायाम् ॥ २॥ तृतीयोऽध्यायः (आत्मसमर्पण) आनन्दसिन्धोस्तव वारिविन्दोः पुरः किमास्ते विधि-लोक-सौख्यम् । पादारविन्देषु रतिं प्रयच्छ श्रुत्वा बलेर्गां हरिरालिलिङ्ग ॥ ३॥ चतुर्थोऽध्यायः (ऋषिदत्तकला) संसार भोगान् विषमन्यमानाम् औदास्य भावं सततं वहन्तीम् । पप्रच्छ राजा महिषीं स्वकीयाम् किमस्ति चित्ते तव पद्मनेत्रे ॥ ४॥ पञ्चमोऽध्यायः (भोगों की असारता) किमस्ति तत्त्वं प्रियकारि वस्तुतः किमीरितं विप्रियकारि मे वद । अनिष्टमिष्टं न च वेद्मि मन्दधीः त्वमेव तत् बोधयितुं प्रवर्तसे ॥ ५॥ षष्ठोऽध्यायः (रहस्यमयी नारी) पुरा ददौ मे जनको मदर्थम् सखीं सतीं सौम्यस्वभावशीलाम् । परन्तु साऽन्यामसतीं स्वभाव दुष्टां सखीं प्राप्य विदूषिताऽभूत् ॥ ६॥ सप्तमोऽध्यायः (आस्तिकता) जहाति श्रद्धारहितं नरं यशः सुखञ्च लक्ष्मीश्च विवेकिनी मतिः । लतां सुश्रद्धां परमार्थ-मञ्जुल- फल-प्रदां प्राप्य सुखी नरः स्यात् ॥ ७॥ अष्टमोऽध्यायः (ईश्वरसिद्धि) सद्युक्तिभिः वेद-पुराण-शास्त्रैः संसार-निर्माण-विधिञ्च दृष्ट्वा । संसिद्धमेवेश्वरकर्तृकत्वम् परन्तु कर्ता स विलक्षणोऽस्ति ॥ ८॥ नवमोऽध्यायः (रहस्योद्घाटन) पिता मदीयः परतत्त्वमुच्यते सखीं सती बुद्धिमवेहि भूपते । असत्स्वभावा ह्यसती विचार्यताम् यस्यास्तु सङ्गेन मतिर्विदूषिता ॥ ९॥ दशमोऽध्यायः (आत्मदर्शन) असु-तनु-मति-मुक्तं पञ्चकोशादतीतम् परम-सुख-निधानं शुद्ध चैतन्यरूपम् । इति मनसि निजं स्वं स्वात्मना संविचार्य सपदि विषमचक्षुर्लक्ष्य सिद्धिञ्चकार ॥ १०॥ एकादशोऽध्यायः (विद्यानगर) महीप पुत्रस्य वधू प्रभावतः नराधिपो मन्त्रिगणाः सभासदः । नराश्च नार्यश्च तथा विटा नटाः समे जना जीवनमुक्तितां ययुः ॥ ११॥ द्वादशोऽध्यायः (संसार है ही नहीं) प्रभासते विश्वमिदं जडात्मकम् चिदात्म-भित्तौ प्रतिबिम्बरूपकम् । स्वतो न सत्ता जगतश्च विद्यते यथा प्रतीति-र्नगरस्य दर्पणे ॥ १२॥ त्रयोदशोऽध्यायः (ब्रह्मराक्षस से शास्त्रार्थ) ततः पयः पूरप्रवाहितस्य हृदस्य कूले वटपादपस्थः । खादन् विवादे विजितान् मनुष्यान् स राक्षसः लोचन-गोचरोऽभूत् ॥ १३॥ चतुर्दशोऽध्यायः (गुहा में ब्रह्माण्ड दर्शन) विलोकितं तत्र विचित्र लोकम् प्रविश्य राज्ञा तु गिरेर्गुहायाम् । पुनस्तदाऽगत्य विलोक्य सृष्टिम् पप्रच्छ मर्माणि मुनि महीपः ॥ १४॥ पञ्चदशोऽध्यायः (मन का संसार) यथैव चित्तेन सुचिन्तितेन प्रबुध्यते चेतसि स्वप्नजालम् । तथैव विश्वं चिति भासमानम् स्वप्नं हि विश्वं विबुधाः वदन्ति ॥ १५॥ षोडशोऽध्यायः (सङ्कल्पसिद्धि) प्रतीयते काल पदार्थ वस्तु विभावितं भावनयैव सर्वम् । भावेन सिद्धिर्जगतश्च जाता का कुत्र भावेन विना प्रतीतिः ॥ १६॥ सप्तदशोऽध्यायः (वरुण का यज्ञ) वितण्डया विप्र कुलान्स वारुणिः विजित्य तान् नीरनिधौन्यमज्जयत् । कहोल-पुत्रेण पराजितः स वै मुनिस्तु गार्या बहु खिन्नतां गतः ॥ १७॥ अष्टादशोऽध्यायः (सुषुप्तो से समाधि का अन्तर) अविद्यया प्रावृत-चित्त-वृत्तिः भवेत्सुषुप्तिर्न चिदात्म भासः । प्रकाश-चैतन्य-युतः समाधिः कथं सुषुप्तिर्हि समाधितुल्या ॥ १८॥ एकोनविंशतिरध्यायः (ज्ञान की पराकाष्ठा) चैतन्यपूर्णोऽस्मि स्वभावतोऽहम् तस्मान्निरोधे मनसः क्व लाभः । सर्वत्र शुद्धोऽस्मि विनिश्चयो मे कार्ये समाधावपि तुल्यरूपः ॥ १६॥ विंशतिरध्यायः (गूढतत्त्व) गुह्याति गुह्यं भवता यदुक्तम् चैतन्य-रूपेण विभासमानम् । दृश्यं प्रपञ्चञ्च तदेकरूपम् सर्व न तद्बुद्धि पदं गतं मे ॥ २०॥ एकविंशतिरध्यायः (ज्ञानियों की विभिन्न स्थितियाँ) बुद्धेर्विभेदैः स्थितयो विभिन्नाः विवेकिनां ज्ञानवतां लसन्ति । संसारकार्येऽपि समाधि-मग्ना केऽप्यात्म-सन्धान-विशेष-लग्नाः ॥ २१॥ द्वाविंशतिरध्यायः (ब्रह्म का साक्षात्कार) ब्रह्मादिदेवैरुपगीयमानम् साक्षात्परब्रह्म तदाविरासीत् । यद्वेद-तत्त्वं निहितं गुहायाम् आकाशवाण्या तु तदेव मुक्तम् ॥ २२॥ त्रयोविंशतिरध्यायः (चेतन ही सार) सिद्धान्तसारः प्रतिपादितोऽयम् ब्रह्मैव सत्यं जगदस्ति मिथ्या । जीवेशयोः कोऽपि न कुत्र भेदः संसारतत्त्वन्तु चिदात्मकत्वम् ॥ २३॥ पुण्यप्रदः पापहरो मनोज्ञः गुह्याति गुह्यो मुनि-ज्ञान-गम्यः । संसार-जीवेश-रहस्य-पूर्णः ग्रन्थो मयोक्तः भवपोत रूपः ॥ २४॥ ग्रन्थस्य दोषाः सकलाः मदीयाः गुणाः गुरूणाञ्च विचारणीयाः । शुक्तौ च मुक्ताः गरलं भुजङ्गे स्वातेर्जलं किन्तु समानमेव ॥ २५॥ इति स्वामी स्वयम्भूतीर्थविरचिता श्रीवेदव्याससूतसंवादरूपा ब्रह्मविज्ञानसंहिता समाप्ता । Proofread by Pranav Tendulkar, NA
% Text title            : Brahmavigyana Samhita
% File name             : brahmavigyAnasamhitA.itx
% itxtitle              : brahmavigyAnasamhitA
% engtitle              : brahmavigyAnasamhitA
% Category              : misc, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pranav Tendulkar, NA
% Indexextra            : (Scan)
% Latest update         : December 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org