बुद्धगण्डीस्तवः
यः पूर्वं बोधिमूले रविगमनपथे मारगान्नृत्यगीतान्
गङ्गौ गङ्गौ गगङ्गौ घघनघनमृदुद्वन्द्वमन्त्रैरजस्रैः ।
यः स्त्रीभिर्दिव्यरूपैरुपरतरभितुं दूदुभिर्दुर्भिदूर्भिः
क्षोभं नैवाभियातः सुरनरनमितः पातु वः शाक्यसिंहः ॥ १॥
यः कन्दर्पाङ्गनानां ककहकहकहा हाहहेति प्रहासै-
र्यः स्फीताडम्बराणां तटिति तटतटा तातटीति प्रलापैः ।
कुत्कुद् बुद्बुद् कुकूचित् कुकुहकुहकुहैः किङ्कराणां च वाग्भि-
र्नो त्रस्यः सोऽस्तु सौम्यः श्रुतसकलमलः शान्तये वो मुनीन्द्रः ॥ २॥
भ्रूक्षेपापाङ्गभङ्गैः स्मरशरविलसत्पक्ष्मताराक्षिपातैः
प्रौढानङ्गाङ्गनानां ललितभुजलतालास्यलीलायिताङ्गैः ।
सव्रीडैः सस्मितोक्तैः कलमृदुमधुरामोदरम्यैर्वचोभि-
र्भ्रान्तिं चेतो न चित्रं स्मरबलजयिनो यस्य तस्मै नमोऽस्तु ॥ ३॥
उर्वीं सञ्चालयन्तः खरशरनिकरैश्छादयन्तोःन्तरीक्षं
ज्वालाभिः क्रोधंवह्नेर्ज्वलितदशदिशः क्षोभयन्तोऽम्बुराशिम् ।
हेलोत्खातासिचक्रक्रकचपटुरवाराविणो मारवीराः
मैत्रीशस्त्रेण येन प्रसभमभिजिताः पातु वः सो मुनीन्द्रः ॥ ४॥
विस्फूर्जज्जातकोपप्रकटितविकटाटोपनिर्घोषघोरं
गर्जज्जीमूतजालप्रकटगजघटाटोपबद्धान्धकारम् ।
कन्दर्पोद्दामवह्निस्फुरदसिकिरणोद्भासिताशेषविश्वं
पुष्पेषोः सैन्यमुच्चैर्झटिति विघटितं येन बुद्धः स वोऽव्यात् ॥ ५॥
दिव्यैराकणम्पूरैः कमलदलनिभैः पक्ष्मलैर्लोलतारैर्
भावस्निग्धैर्विदग्धैः प्रचलितललितैः सस्मितैर्भ्रूविलासैः ।
नेत्रैर्माराङ्गनानां परिगतवलयैर्लोहितान्तैरशान्तैर्
नाकृष्टः सर्वथा यस्तमहमृषिवरं वान्तदोषं नमामि ॥ ६॥
नोद्भ्रान्तं यस्य चित्तं स्फुटविकटसटान्तोत्कटैर्लोलजिह्वैर्
मारैः शूलाग्रहस्तैर्गजतुरगमुखैः सिंहशार्दूलवक्त्रैः ।
प्रद्युम्नः कामदेवस्तृणवदगणितो येन संरम्भभीरुः
सम्बुद्धः पातु युष्मान् व्यपगतकलुषो लोकनाथो मुनीन्द्रः ॥ ७॥
अक्षोभ्या यस्य बुद्धिर्धरणिनगनदीसागराम्भोधरद्भिर्
गर्जद्भिर्मारवीरैर्विविधमुखशतैर्घोररूपैरनन्तैः ।
येनासौ पुष्पकेतुस्तृणवदगणितः सर्वविद् वीतरागः
स श्रीमान् बुद्धवीरः कलुषभयहरः पातु वो वीतरागः ॥ ८॥
मारानीकैर्महोग्रैरसिपरशुधनुःशक्तिशूलाग्रहस्तैर्
उल्कापातैरनेकैर्गहनपटुरवैर्भीषणैर्भीमनादैः ।
न क्षुब्धं यस्य चित्तं गिरिसममचलं गाढपर्यङ्कबन्धं
तं वन्दे वन्दनीयं त्रिभवभयहरं बुद्धवीरं प्रवीरम् ॥ ९॥
उच्चैरट्टाट्टहासैः प्रकटपटुभटाबद्धघण्टै रणद्भिः
साटोपास्फोटटङ्कस्फुटजटिलजटैः किङ्करैः कोटराक्षैः ।
भग्नं कर्तु न शक्ताः पटुपटहपटस्फालनैर्यस्य बोधौ
दृप्तानां गृध्रकूटे पटुपटहपटुः सोऽस्तु वो बुद्धवीरः ॥ १०॥
कोकण्डं रामकण्डं प्रतिभयकुहरं दर्पदर्पं रणाण्डं
डिम्बं डिम्बं डडिम्बं डुह डुहक डुहं तृङ्खलस्तृङ्खलस्तृम् ।
झिम्बं झिम्बं झझिम्बं खमु खमु खमुखं मङ्खु मङ्खुः खुमङ्खुर्
एभिर्ध्वानैर्न भीतः सुरवरनमितः पातु वः शाक्यसिंहः ॥ ११॥
यं माराङ्गारधाराधरसमयसमारम्भसंरम्भयुक्तं
नक्तं माराङ्गनानां मुखकमलवनश्रीविपक्षैकपक्षा ।
सम्यक्सम्बोधिलक्ष्मीः शशिनमिव शरत्कौमुदी संप्रपेदे
तस्येयं धर्मदूती ध्वनति भगवतो धर्मराजस्य गण्डी ॥ १२॥
निघ्नन्नप्राप्तदृष्टिः क्षणमपि च चिरादन्तको यद् दुरन्तं
तस्मिन्निक्षिप्तचित्ताः कुरुत सुचरितेष्वादरं सर्वकाले ।
इत्थं रत्नत्रयाज्ञामिव वदति मुहुः प्राणिनां यस्य सैषां
एषा शब्दायमाना प्रथितमुखरदिङ्मण्डला धर्मगण्डी ॥ १३॥
मार्तण्डमण्डलमिवोडुगणं विजित्य भातीह तीर्थिकजनं जिनशासनं च ।
रंरम्यते धरणिमण्डलमण्डनस्य गण्डी यमस्य जयडिण्डिमवत्प्रचण्डा ॥ १४॥
यस्यात्यन्तं दृढत्वं जमि जमि डुडुभं रञ्जितेनालिनालिं
डिम्बं डिम्बं डिडिम्बं डुभडुभडुडुभं नाडिवन्नाडिभण्डम् ।
रुण्डं रुण्डं रुरुण्डं यरलव खखुमं मङ्खुमङ्खुः खुमङ्खुः
पश्य त्वं जीवलोके दशबलबलिनः पीड्यते मारसैन्यम् ॥ १५॥
भूकम्पोत्कम्पजाता प्रचलितवसुधा कम्पते मेरुराज
उत्त्रस्ता देवसङ्घा ग्रहगणसहिता नागराजाः समस्ताः ।
श्रुत्वा गण्डीं प्रचण्डां विविधभयकरीं त्रासनीं तैर्थिकानां
बौद्धानां शान्तिहेतोः प्रतिरणति महीं रावयन्तीव सद्यः ॥ १६॥
एषा विहारशिखरे प्रविरौति गण्डी मेघस्वनेन कुरुते च मनोज्ञघोषान् ।
मातेव वत्सलतया सुबहिर्गतांश्च पुत्रान् समाह्वयति भोजनकालगण्डी ॥ १७॥
संसारचक्रपरिवर्तनतत्परस्य बुद्धस्य सर्वगुणरत्नविभूषितस्य ।
नादं करोति सुरदुन्दुभितुल्यघोषा गण्डी समस्तदुरितानि निवारयन्ती ॥ १८॥
एषा हि गण्डी रणते नराणां सम्बोधिनी देवनरासुराणाम् ।
भद्राः शृणुध्वं सुगतस्य गण्डीमापूरितां भिक्षुगणैः समग्रैः ॥ १९॥
नागैः संवर्तकालक्षुभितजलधराकारवद् व्योम्नि कीर्णैः
क्वास्मिन् विघ्वंसशङ्का भयचकितजनैस्तत्प्रतीकारहेतोः ।
कुर्वन्त्यद्यापि यस्या ध्वनिमुपशमिताशेषतीर्थ्यावलेपं
सा गण्डी पातु युष्मान् सकलमुनिवरैः स्थापिता धर्मवृद्ध्यै ॥ २०॥
एषा सुरासुरमहोरगसत्कृतस्य शान्तिं परामुपगतस्य तथागतस्य ।
गण्डी रणत्यमरदुन्दुभितुल्यघोषान् कृत्वान्यतीर्थ्यहृदयानि विदारयन्ती ॥ २१॥
पुण्ये तत्परमानसा भवत भोः स्वर्गापवर्गप्रदे
पापं दुर्गतिदायकं कुरुत मा लोकाश्चलं जीवितम् ।
इत्थं मध्यविलीनभृङ्गविरुतं यत्नान्निवार्यं मया
मारारेश्चरणाब्जयोर्विनिहितः पुष्पाञ्जलिः पातु वः ॥ २२॥
मुञ्जद्भिः कुसुमानि तूर्यरणितैरापूरयद्भिर्दिशो
जोजोकारपुरःसरैः सुरगणैः शक्रादिभिः सादरैः ।
स्वर्गाद् यस्य भुवं किलावतरतो दत्तानुयात्रा चिरं
तस्याव्यात् करुणानिधेर्भगवतो गण्डी प्रचण्डा जगत् ॥ २३॥
गत्वा सप्त पदानि मातुरुदरान्निष्क्रान्तमात्रः स्वयं
संसारश्रवसं ममेति वचनं प्रोवाच योऽनन्यधीः ।
यस्मिन्नात्मभुवे पुनस्त्रिभुवनं भ्राजिष्ण्वभिव्याहृतं
कुर्याद्वः सुगतस्य तस्य जयिनो गण्डी तमःखण्डिनी ॥ २४॥
जित्वा मारबलं महाभयकरं कृत्वा च दोषक्षयं
सर्वज्ञं पदमाप यत् सुरुचिरं तत्रैव रात्रौ बहिः ।
तस्याशेषगुणाकरस्य सुधियो बुद्धस्य शुद्धात्मनो
गण्डी खण्डितचण्डकिल्विषहरा भूयाद् विभूत्यै नृणाम् ॥ २५॥
ब्रह्मा जिह्म इवाभवत् सुरगुरुर्गर्वं जहौ सर्वथा
शर्वः खर्वमतिर्बभूव भगवान् विष्णुश्च तूष्णीं स्थितः ।
इत्थं यद्गुणकीर्तनेषु विबुधा याता ह्रिया मूकतां
गण्डी तस्य मुनेरियं जयति वः पायादपायाज्जगत् ॥ २६॥
ब्रह्मादित्यशशाङ्कशङ्करशताक्षोपेन्द्रयक्षादयो
गन्धर्वोरगकिन्नरासुरसमीरप्रेतपीडाम्बराः ।
ये तिष्ठन्त्यमरा नरा क्षितितले पाताललोकेषु च
श्रोतुं धर्ममिमं तथागतगुरोः सर्वे समायान्तु ते ॥ २७॥
यस्या जन्मनि दीनहीनमतयः प्रापुः शुचं तीर्थिकाः
हर्षोत्कर्षविशेषवर्धितधियो बौद्धा धृतिं लेभिरे ।
यामासाद्य गुणाः प्रयान्ति विततिं दोषा व्रजन्ति क्षयं
सा गण्डी कलिकालकल्मषहरा भूयाद् भवद्भूतये ॥ २८॥
यां नत्वा विधिवद् विशुद्धमतयो गच्छन्ति तुङ्गां गतिं
यस्याः क्षिप्रतरं प्रयान्ति विवशाः सर्वे विपक्षाः क्षयम् ।
ध्वस्तव्यस्तसमस्तमोहपटला सा धर्मगण्डी मुनेः
सम्भूयाद् भवभाविसाध्वसभिदे युष्माकमायुष्मताम् ॥ २९॥
श्रुत्वा यां पतिता महीतलमलं ब्रह्मादयः स्वर्भुवः
कम्पन्ते धरणीधराः क्षितिरपि क्षिप्रं गता क्ष्मातलम् ।
तीर्थ्यानां भयकारिणी परहितायारम्भशुद्धात्मनां
बौद्धानामुपशान्तये सपदि सा सन्ताड्यतां गण्डिका ॥ ३०॥
प्रौढालीढाभिरुढो गुरुतरचरणक्रान्तगौरीस्तनाग्रं
सर्वज्ञस्योत्तराङ्गं स्फुटविकटशता गर्जयन् वज्रमुख्या ।
ज्वालामालोज्ज्वलाङ्गं त्रिभुवनविवरव्याप्तहुङ्कारभीमो
बद्धव्याबद्धमौलिर्जयति सुरनरादित्यचन्द्रासुरेन्द्रः ॥ ३१॥
पीनोत्तुङ्गस्तनीनां हरिणदृशदृशां हंसलीलागतीनां
दं दं दं दं द दं दं तनि तनि तनितस्तालिका कामिनीनाम् ।
तुं तुं तुं तुं ततुं तुं नकटिनमभितो गीतितो गीतवाद्यैः
टुं टुं टुं टुं टुटुं टुं टुमिति मितनता हन्यते गण्डिकेयम् ॥ ३२॥
बुद्धगण्डी समाप्ता ।
इति कृतिरियमाचार्यश्री-अश्वघोषपादानाम् सम्पूर्णम् ॥