चन्द्रालोकः

चन्द्रालोकः

॥ श्रीः ॥

१. प्रथमो मयूखः । अथ वाग्विचारः ।

श्रीगणेशाय नमः । उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव- ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे । दुष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १॥ हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान्- रे रे स्वैरिणि निर्विचारकविते मास्मत्प्रकाशीभव । उल्लासाय विचारवीचिनिचयालङ्कारवारान्निधे- श्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥ २॥ युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत- क्षीराम्भोधिरगाधतामुपदधत्सेव्यः समाश्रीयताम् । श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माज्जग- ज्जाग्रद्भासुरपद्मकेशरशयःशीतांशुरस्माद्बुधाः ॥ ३॥ तं पूर्वाचार्यसूर्योक्तिज्योतिस्तोमोद्गमं स्तुमः । यं प्रस्तूय प्रकाशन्ते मद्गुणास्त्रसरेणवः ॥ ४॥ नाशङ्कनीयमेतेषां मतमेतेन दूष्यते । किं तु चक्षुर्मृगाक्षीणां कज्जलेनेव भूष्यते ॥ ५॥ प्रतिभैव श्रुताभ्याससहिता कवितां प्रति । हेतुर्मृदम्बुसम्बद्धा बीजमाला लतामिव ॥ ६॥ निर्दोषा लक्षणवती सरीतिर्गुणभूषणा । सालङ्काररसानेकवृत्तिर्वाक्काव्यनामभाक् ॥ ७॥ अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती । असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ ८॥ विभक्त्युत्पत्तये योगः शास्त्रीयः शब्द इष्यते । रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा ॥ ९॥ अव्यक्तयोगनिर्योगयोगाभासैस्त्रिधाऽदिमः । ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १०॥ शुद्धतन्मूलसम्भिन्नप्रभेदैर्यौगिकस्त्रिधा । ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११॥ तन्मिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात् । नीरधिः पङ्कजं सौधं सागरो भूरुहः शशी ॥ १२॥ क्षीरनीरधिराकाशपङ्कजं तेन सिध्यति । विभक्त्यन्तं पदं वाक्यं तद्व्यूहोऽर्थसमाप्तितः ॥ १३॥ युक्तार्थानां तां च विना खण्डकाव्यं स इष्यते । वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १४॥ धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा । वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥ १५॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । अनेनाऽसावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १६॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे वाग्विचारो नाम प्रथमो मयूखः ।

२. द्वितीयो मयूखः । अथ दोषाः ।

स्याच्चेतोविशता येन सक्षता रमणीयता । शब्देऽर्थे च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥ १॥ भवेच्छ्रुतिकटुर्वर्णः श्रवणोद्वेजने पटुः । संविद्गते व्याकरणविरुद्धं च्युतसंस्कृति ॥ २॥ अप्रयुक्तं दैवतादिशब्दे पुंलिङ्गतादिकम् । असमर्थं तु हन्त्यादेः प्रयोगो गमनादिषु ॥ ३॥ स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः । निहतार्थं लोहितादौ शोणितादिप्रयोगतः ॥ ४॥ व्यनक्त्यनुचितार्थं यत् पदमाहुस्तदेव तत् । इयमद्भुतशाख्यग्रकेलिकौतुकवानरी ॥ ५॥ निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् । अर्थे विदधदित्यादौ दधदाद्यमवाचकम् ॥ ६॥ धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः । एकाक्षरं विना भूभ्रूक्ष्मादिकं खतलादिवत् ॥ ७॥ अश्लीलं त्रिविधं व्रीडाजुगुप्साऽमङ्गलात्मना । आह्लादसाधनं वायुः कान्तानाशे भवेत् कथम् ॥ ८॥ स्याद्व्यर्थमिह सन्दिग्धं नद्यां यान्ति पतत्रिणः । स्यादप्रतीतं शास्त्रैकगम्यं वीताऽनुमादिवत् ॥ ९॥ शिथिलं शयने लिल्ये मच्चित्तं ते शशिश्रियि । मस्तपिष्टकटीलोष्टगल्लादि ग्राम्यमुच्यते ॥ १०॥ नेयार्थं लक्षणात्यन्तप्रसरादमनोहरम् । हिमांशोर्हारधिक्कारजागरे यामिकाः कराः ॥ ११॥ क्लिष्टमर्थो यदीयोऽर्थश्रेणिनिःश्रेणिमृच्छति । हरिप्रियापितृवधूप्रवाहप्रतिमं वचः ॥ १२॥ अविमृष्टविधेयांशः समासपिहिते विधौ । विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥ १३॥ अपराधीन इत्यादि विरुद्धमतिकृन्मतम् । अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरौ ॥ १४॥ रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः । न मामङ्गद जानासि रावणं रणदारुणम् ॥ १५॥ यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा । कुसन्धिः पटवागच्छ विसन्धिर्नृपती इमौ ॥ १६॥ हतवृत्तमनुक्तोऽपिच्छन्दोदोषश्चकास्ति चेत् । विशाललोचने ! पश्याम्बरं तारातरङ्गितम् ॥ १७॥ न्यूनं त्वत्खड्गसम्भूतयशःपुष्पं नभस्तटम् । अधिकं भवतः शत्रून् दशत्यसिलताफणी ॥ १८॥ कथितं पुनरुक्ता वाक् श्यामाब्जश्यामलोचना । विकृतं दूरविकृतैरैयरुः कुञ्जराः पुरम् ॥ १९॥ पतत्प्रकर्षं हीनाऽनुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेषः समागतः ॥ २०॥ समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः ॥ २१॥ अर्धान्तरपदापेक्षिक्रीडानृत्येषु सस्मितम् । मोघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ २२॥ अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः । येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २३॥ द्विषां सम्पदमाच्छिद्य यः शत्रून् समपूरयत् । अस्थानस्थसमासं न विद्वज्जनमनोरमम् ॥ २४॥ मिथः पृथग्वाक्यपदैः सङ्कीर्णं यत्तदेव तत् । वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ॥ २५॥ ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूमिभूषण । आकर्णय पयःपूर्णसुवर्णकलशायते ॥ २६॥ भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता । अक्रमः कृष्ण पूज्यन्ते त्वामनाराध्य देवताः ॥ २७॥ अमतार्थान्तरं मुख्येऽमुख्येनार्थे विरोधकृत् । त्यक्तहारमुरः कृत्वाशोकेनालिङ्गिताऽङ्गना ॥ २८॥ अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् । विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः ॥ २९॥ कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसन्निभः । व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः ॥ ३०॥ सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते । कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ॥ ३१॥ दुष्क्रमग्राम्यसन्दिग्धास्त्रयो दोषाः क्रमादमी । त्वद्भक्तः कृष्ण ! गच्छेयं नरकं स्वर्गमेव वा ॥ ३२॥ एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् । ब्रूत किं सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः ॥ ३३॥ अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा । प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ॥ ३४॥ न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः । केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् ॥ ३५॥ सामान्यपरिवृत्तिः स्यात् कुण्डलच्छविविग्रहा । विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि ॥ ३६॥ द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती । ध्वाङ्क्षाः सन्तश्च तनयं स्वं परञ्च न जानते ॥ ३७॥ सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय । पालयिष्यति ते गोत्रमसौ नरपुरन्दरः ॥ ३८॥ पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके । यथानुसारमभ्यूहेद्दोषान् शब्दार्थसम्भवान् ॥ ३९॥ दोषमापतितं स्वान्ते प्रसरन्तं विश‍ृङ्खलम् । निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम् ॥ ४०॥ दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति । भवन्तमथ वा दोषं नयत्यत्याज्यतामसौ ॥ ४१॥ मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः । अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ॥ ४२॥ तव दुग्धाब्धिसम्भूतेः कथं जाता कलङ्किता । कवीनां समयाद्विद्याविरुद्धोऽदोषतां गतः ॥ ४३॥ दधार गौरी हृदये देवं हिमकराङ्कितम् । अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम् ॥ ४४॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ ४५॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे दोषनिरूपणो (दोषविचारो) नाम द्वितीयो मयूखः ।

३. तृतीयो मयूखः । अथ लक्षणानि ।

अल्पाक्षरा विचित्रार्थख्यातिरक्षरसंहतिः । उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥ १॥ शोभा ख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते । मुधा निन्दन्ति संसारं कंसारिर्यत्र पूज्यते ॥ २॥ अभिमानो विचारश्चेदूहितार्थनिषेधकृत् । इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥ ३॥ हेतुस्त्यक्त्वा बहून् पक्षान् युक्त्यैकस्यावधारणम् । नेन्दुर्नार्कोऽयमौर्वाग्निः सागरादुत्थितो दहन् ॥ ४॥ प्रतिषेधः प्रसिद्धानां कारणानामनादरः । न युद्धेन भ्रुवोः स्पन्देनैव वीरा निपातिताः ॥ ५॥ निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् । ईदृशैश्चरितै राजन् सत्यं दोषाकरो भवान् ॥ ६॥ स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने । चन्द्रांशुसूत्रग्रथितां नभःपुष्पस्रजं वह ॥ ७॥ सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥ ८॥ युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् । नवस्त्वं नीरदः कोऽपि स्वर्णैर्वर्षसि यन्मुहुः ॥ ९॥ कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथ वा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १०॥ इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्षयः । स्वर्णभ्राजिष्णुभालत्वप्रभृतीव महीभुजः ॥ ११॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तृतीयस्तेनास्सौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १२॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे लक्षणनिरूपणो नाम तृतीयो मयूखः ।

४. चतुर्थो मयूखः । अथ गुणाः ।

श्लेषो विघटमानार्थघटमानत्ववर्णनम् । स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ॥ १॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः । भीतया मानवत्यैव श्रियाऽऽश्लिष्टं हरिं स्तुमः ॥ २॥ यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते । सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥ ३॥ समताल्पसमासत्वं वर्णाद्यैस्तुल्यताऽथ वा । श्यामला कोमला बाला रमणं शरणं गता ॥ ४॥ समाधिरर्थमहिमा लसद्धनरसात्मना । स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ ५॥ माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् । वयस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ॥ ६॥ ओजः स्यात्प्रौढिरर्थस्य सङ्क्षेपो वाऽतिभूयसः । रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत् ॥ ७॥ सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् । स कथाशेषतां यातः समालिङ्गय मरुत्सखम् ॥ ८॥ उदारता तु वैदग्ध्यमग्राम्यत्वात् पृथङ्मता । मानं मुञ्च प्रिये किञ्चिल्लोचनान्तमुदञ्चय ॥ ९॥ श‍ृङ्गार च प्रसादे च कान्त्यर्थव्यक्तिसङ्ग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ १०॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयङ्गमम् । व्यतिरिक्तमलङ्कारं प्रकृतेर्भूषणं गिराम् ॥ ११॥ विचित्रलक्षणो न्यासो निर्वाहः प्रौढिरौचिती । शास्त्रान्तररहस्योक्तिः सङ्ग्रहो दिक् प्रदर्शिता ॥ १२॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तुरीयस्तेनासौ सुकविजयदेवेन रचिते (चतुर्थस्तेनासौ) चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १३॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे गुणनिरूपणो नाम चतुर्थो मयूखः ।

५. पञ्चमो मयूखः । अथालङ्कारनिरुपणाख्यः ।

शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा । हारादिवदलङ्कारः सन्निवेशो मनोहरः ॥ १॥ स्वरव्यञ्जनसन्दोहव्यूहा मन्दोहदोहदा । गौर्जगज्जाग्रदुत्सेका छेकानुप्रासभासुरा ॥ २॥ आवृत्तवर्णसम्पूर्णं वृत्त्यनुप्रासवद्वचः । अमन्दानन्दसन्दोहस्वच्छन्दास्पदमन्दिरम् ॥ ३॥ लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता । यत्र स्यान्न पुनः शत्रोर्गर्जितं तज्जितं जितम् ॥ ४॥ श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा । तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥ ५॥ उपमेयोपमानादावर्थानुप्रास इष्यते । चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ६॥ पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् । अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥ ७॥ आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः । यमकं प्रथमा धुर्यमाधुर्यवचसो विदुः ॥ ८॥ काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते । तेष्वाद्यमुच्यते श्लोकद्वयीसज्जनरञ्जिका ॥ ९॥ कामिनीव भवत्खड्गलेखा चारुकरालिका । काश्मीरसेकारक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ॥ १०॥ उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हृदये खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव ॥ ११॥ उपमानोपमेयत्वे यत्रैकस्यैव जाग्रतः । इन्दुरिन्दुरिवेत्यादौ भवेदेवमनन्वयः ॥ १२॥ पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता । धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ १३॥ विख्यातस्योपमानस्य यत्र स्यादुपमेयता । इन्दुर्मुखमिवेत्यादौ स्यात्प्रतीपोपमा तदा ॥ १४॥ उपमाने तु लीलादिपदाढ्ये ललितोपमा । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ १५॥ अनेकार्थस्य युग्मस्य सादृश्यं स्तबकोपमा । श्रितोऽस्मि चरणौ विष्णोर्भृङ्गस्तामरसं यथा ॥ १६॥ स्यात्सम्पूर्णोपमा यत्र द्वयोरपि विधेयता । पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ॥ १७॥ यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तत्र रूपकमिष्यते ॥ १८॥ समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् । उत्सिक्तक्षितिभृल्लक्ष्यपक्षच्छेदपुरन्दरः ॥ १९॥ पृथक्कथितसादृश्यं दृश्यं सादृश्यरूपकम् । उल्लसत्पञ्चशाखस्ते राजते भुजभूरुहः ॥ २०॥ स्यादङ्गयष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वल्लीत्यादि रूपितरूपकम् ॥ २१॥ परिणामोऽनयोर्यस्मिन्नभेदः पर्यवस्यति । कान्तेन पृष्टा रहसि मौनमेवोत्तरं ददौ ॥ २२॥ बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता मता । स्त्रीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ॥ २३॥ अतथ्यमारोपयितुं तथ्यापास्तिरपह्नुतिः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २४॥ पर्यस्तापह्नुतिर्यत्र धर्ममात्रं निषिध्यते । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ २५॥ भ्रान्तापह्नुतिरन्यस्य शङ्कयातथ्यनिर्णये । (शङ्कायां भ्रान्तिवारणे) शरीरे तवसोत्कम्पं ज्वरः किं न सखि स्मरः ॥ २६॥ (तापं तनोतिसोत्कम्पं) छेकापह्नुतिरन्यस्य शङ्कया तथ्यनिह्नवे । प्रजल्पन्मत्पदे लग्नः कान्तः किं नहि नूपुरः ॥ २७॥ कैतवं व्यज्यमानत्वे व्याजाद्यैर्निह्नुतेः पदैः । (कैतवापह्नुतिर्व्यक्तं व्याजाद्यैर्निह्नवे पदैः ।) निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥ २८॥ उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नुतिं विना । त्वन्मुखश्रीकृते नूनं पद्मैर्वैरायते शशी ॥ २९॥ इवादिकपदाभावे गूढोत्प्रेक्षां प्रचक्षते । यत्कीर्तिर्विभ्रमश्रान्ताविवेश स्वर्गनिम्नगाम् ॥ ३०॥ (त्वकीर्तिर्भ्रमणश्रान्तविवेश) स्यात्स्मृतिभ्रान्तिसन्देहैस्तदेवालङ्कृतित्रयम् । पङ्कजं पश्यतस्तस्या मुखं मे गाहते मनः ॥ ३१॥ अयं प्रमत्तमधुपस्त्वन्मुखं वेद पङ्कजम् । पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥ ३२॥ मीलितं बहुसादृश्याद्भेदवच्चेन्न न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ ३३॥ सामान्यं यदि सादृश्याद्भेद एव न लक्ष्यते । पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ ३४॥ हेतोः कुतोऽपि वैशिष्टयात्स्फूर्तिरुन्मीलितं मतम् । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ ३५॥ अनुमानं च कार्यादेः कारणाद्यवधारणम् । अस्ति किञ्चिद्यदनया मां विलोक्य स्मितं मनाक् ॥ ३६॥ अर्थापत्तिः स्वयं सिध्येत्पदार्थान्तरवर्णनम् । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥ ३७॥ स्यात्काव्यलिङ्गं वागर्थो नूतनार्थसमर्पकः । जितोऽसि मन्दकन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ॥ ३८॥ अलङ्कारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ३९॥ साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ४०॥ अक्रमातिशयोक्तिश्चेद् युगपत्कार्यकारणे । आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥ ४१॥ अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ ४२॥ चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे । यामीति प्रियपृष्टाया वलयोऽभवदूर्मिका ॥ ४३॥ सम्बन्धातिशयोक्तिः स्यात्तदभावेऽपि तद्वचः । पश्य सौधाग्रसंसक्तं विभाति विधुमण्डलम् ॥ ४४॥ भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते । अहो अन्यैव लावण्यलीला बालाकुचस्थले ॥ ४५॥ रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम् । पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ॥ ४६॥ प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वावकल्पनम् । कलिन्दजातीररुहाः श्यामलाः सरलद्रुमाः ॥ ४७॥ सम्भावनं यदीत्थं स्यादित्यूहोन्यप्रसिद्धये । सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतैर्जलैः ॥ ४८॥ मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः । वाञ्च्छितादधिकप्राप्तिरयत्नेन प्रहर्षणम् ॥ ४९॥ दीपमुद्द्योतयेद्यावत्तावदभ्युदितो रविः । इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम् ॥ ५०॥ दीपमुद्द्योतयेद्यावत्तावन्निर्वाण एव सः । क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता ॥ ५१॥ सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । प्राचीनाचलचूडाग्रचुम्बिबिम्बे सुधाकरे ॥ ५२॥ प्रस्तुताप्रस्तुतानां च तुल्यत्वे दीपकं मतम् । मेधां बुधः सुधामिन्दुर्बिभर्ति वसुधां भवान् ॥ ५३॥ आवृत्ते दीपकपदे भवेदावृत्तिदीपकम् । दीप्त्यान्निर्भाति भातीन्दुः कान्त्या भाति रविस्त्विषा ॥ ५४॥ वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मता । तापेन भ्राजते सूर्यः शूरश्चापेन राजते ॥ ५५॥ चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृतिः । स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्दामहुङ्कृतिः ॥ ५६॥ दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मृष्टा दैवदुर्लिपिः । जाता चेत्प्राक् प्रभा भानोस्तर्हि याता विभावरी ॥ ५७॥ वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । या दातुः सौम्यता सेयं सुधांशोरकलङ्कता ॥ ५८॥ व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ॥ ५९॥ सहोक्तिःसहभावश्चेद्भासते जनरञ्जनः । दिगन्तमगमद्यस्य कीर्तिः प्रत्यर्थिभिः सह ॥ ६०॥ विनोक्तिश्चेद्विना किञ्चित्प्रस्तुतं हीनमुच्यते । विद्या हृद्यापि सावद्या विना विनयसम्पदम् ॥ ६१॥ समासोक्तिः परिस्फूर्तिः प्रस्तुते प्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥ ६२॥ खण्डश्लेषः पदानां चेदेकैकं पृथगर्थता । उच्छलद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ ६३॥ भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता । अजरामरता कस्य नायोध्येव पुरी प्रिया ॥ ६४॥ अर्थश्लषोऽर्थमात्रस्य यद्यनेकार्थसंश्रयः । कुटिलाः श्यामला दीर्घाः कटाक्षाः कुन्तलाश्च ते ॥ ६५॥ अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा । कार्यकारणसामान्यविशेषादेरसौ मता ॥ ६६॥ कमलैः कमलावासैः किं किं नासादि सुन्दरम् । अप्यम्बुधेः परं पारं प्रयान्ति व्यवसायिनः ॥ ६७॥ भवेदर्थान्तरन्यासोऽनुषक्तार्थान्तराभिधा । हनूमानब्धिमतरद्दुष्करं किं महात्मनाम् ॥ ६८॥ यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः क्ष्माधरा इव ॥ ६९॥ कार्याद्यैः प्रस्तुतैरुक्ते पर्यायोक्तिं प्रचक्षते । तृणान्यङ्कुरयामास विपक्षनृपसद्मसु ॥ ७०॥ उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कस्ते विवेको नयसि स्वर्गं पातकिनोऽपि यत् ॥ ७१॥ आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् । चन्द्र सन्दर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७२॥ गूढाक्षेपो विधौ व्यक्ते निषेधे चास्फुटे सति । हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् ॥ ७३॥ विरोधोऽनुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ॥ ७४॥ श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता । अप्यन्धकारिणाऽनेन जगदेतत्प्रकाश्यते ॥ ७५॥ असम्भवोऽर्थनिष्पत्तावसम्भाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयिष्यति ॥ ७६॥ विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । पश्य लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ॥ ७७॥ विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे । नमन्तमपि धीमन्तं न लङ्घयति कश्चन ॥ ७८॥ आख्याते भिन्नदेशत्वे कार्यहेत्वोरसङ्गतिः । त्वद्भक्तानां नमत्यङ्गं भङ्गमेति भवक्लमः ॥ ७९॥ विषमं यद्यनौचित्यादनेकान्वयकल्पनम् । क्वातितीव्रविषाः सर्पाः क्वासौ चन्दनभूरुहः ॥ ८०॥ सममौचित्यतोऽनेकवस्तुसम्बन्धवर्णनम् । अनुरूपं कृतं सद्म हारेण कुचमण्डलम् ॥ ८१॥ विचित्रं चेत्प्रयत्नः स्याद्विपरीतफलप्रदः । नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ॥ ८२॥ अधिकं बोध्यमाधारादाधेयाधिकवर्णनम् । यया व्याप्तं जगत्तस्यां वाचि मान्ति न ते गुणाः ॥ ८३॥ अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया ॥ ८४॥ विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ ८५॥ स्याद्व्याघातोऽयथाकारि वस्त्वन्यक्रियमुच्यते । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥ ८६॥ गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः । नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥ ८७॥ गृहीतमुक्तरीत्यर्थश्रेणिरेकावली मता । नेत्रे कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ ॥ ८८॥ दीपकैकावलीयोगान्मालादीपकमुच्यते । स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ ८९॥ सारो नाम पदोत्कर्षः सारताया यथोत्तरम् । सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ॥ ९०॥ उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः । मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः ॥ ९१॥ यथासङ्ख्यं द्विधार्थाश्चेत्क्रमादेकैकमन्विता । शत्रुं मित्रं द्विषत्पक्षं जय रञ्जय भञ्जय ॥ ९२॥ पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः । पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ ९३॥ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । जग्राहैकं शरं मुक्त्वा कटाक्षान् शत्रुयोषिताम् ॥ ९४॥ परिसङ्ख्या निषिध्यैकमन्यस्मिन्वस्तुयन्त्रणम् । स्नेहक्षयः प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् ॥ ९५॥ विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः । कान्ताचित्तेऽधरे वापि कुरु त्वं वीतरागिताम् ॥ ९६॥ भूयसामेकसम्बन्धभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥ ९७॥ समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः । उत्कण्ठितां च कलयन् जगामास्तं च भानुमान् ॥ ९८॥ प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ ॥ ९९॥ प्रतीपमुपमानस्य हीनत्वमुपमेयतः । दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ १००॥ उल्लासोन्यमहिम्ना चेद्दोषो ह्यन्यत्र वर्ण्यते । तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ॥ १०१॥ तद्गुणःस्वगुणत्यागादन्यतः स्वगुणोदयः । पद्मरागारुणं नासामौक्तिकं तेऽधराश्रितम् ॥ १०२॥ पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ १०३॥ यद्वस्तुनोऽन्यथारूपं तथा स्यात्पूर्वरूपता । दीपे निर्वापिते ह्यासीत्काञ्चीरत्नैरहर्महः ॥ १०४॥ सङ्गतान्यगुणानङ्गीकारमाहुरतद्गुणम् । विशन्नपि रवेर्मध्यं शीत एव सदा शशी ॥ १०५॥ प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः । कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ॥ १०६॥ अवज्ञा वर्ण्यते वस्तु गुणदोषाक्षमं यदि । म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥ १०७॥ प्रश्नोत्तरं क्रमेणोक्तौ स्यूतमुत्तरमुत्तरम् । यत्राऽसौ वेतसी पान्थ तत्रासौ सुतरा सरित् ॥ १०८॥ पिहितं परवृत्तान्तज्ञातुरन्यस्य चेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥ १०९॥ व्याजोक्तिः शङ्कमानस्य छद्मना वस्तुगोपनम् । सखि पश्य गृहारामपरागैरस्मि धूसरा ॥ ११०॥ वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके ॥ १११॥ स्वभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम् । कुरङ्गैरुत्तरङ्गाक्षि स्तब्धकर्णैरुदीक्ष्यते ॥ ११२॥ भाविकं भूतभाव्यर्थसाक्षाद्दर्शनवर्णनम् । अलं विलोकयाद्यापि युध्यन्तेऽत्र सुरासुराः ॥ ११३॥ देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः । त्वं वसन् हृदये तस्याः साक्षात्पञ्चेषुरीक्ष्यसे ॥ ११४॥ उदात्तमृद्धिश्चरितं श्लाघ्यं चान्योपलक्षणम् । सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः ॥ ११५॥ अत्युक्तिरद्भुतातथ्यशौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥ ११६॥ रसभावतदाभासभावशान्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्वित्समाहितमयाभिधाः ॥ ११७॥ भावानामुदयः सन्धिः शबलत्वमिति त्रयः । अलङ्कारानिमान्सप्त केचिदाहुर्मनीषिणः ॥ ११८॥ शुद्धिरेकप्रधानत्वं तथा संसृष्टिसङ्करौ । एतेषामेव विन्यासान्नालङ्कारान्तराण्यमी ॥ ११९॥ सर्वेषां च प्रतिद्वन्द्वप्रतिच्छन्दभिदाभृताम् । उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि सम्भवात् ॥ १२०॥ माला परम्परा चैषां भूयसामनुकूलके । मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते ॥ १२१॥ शब्दे पदार्थे वाक्यार्थे वाक्यार्थस्तबके तथा । एते भवन्ति विन्यासाः स्वभावातिशयात्मकाः ॥ १२२॥ कस्याप्यतिशयस्योक्तेरित्यन्वर्थविचारणात् । प्रायेणामी ह्यलङ्कारा भिन्ना नातिशयोक्तितः ॥ १२३॥ अलङ्कारप्रधानेषु दधानेष्वपि साम्यताम् ॥ वैलक्षण्यं प्रतिव्यक्ति प्रतिभाति मुखेष्विव ॥ १२४॥ अलङ्कारेषु तथ्येषु यद्यनास्था मनीषिणाम् ॥ तदर्वाचीनभेदेषु नाम्नां नाम्नाय इष्यताम् ॥ १२५॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । चतुर्थः सैकोऽयं सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १२६॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारेऽलङ्कारनिरुपणाख्यः पञ्चमो मयूखः ।

६. षष्ठो मयूखः । अथ रसतीतिवृत्तिविचारः ।

आलम्बनोद्दीपनात्मा विभावः कारणं द्विधा । कार्योऽनुभावो भावश्च सहायो व्यभिचार्यपि ॥ १॥ गलद्वेद्यान्तरोद्भेदं हृदयेष्वजडात्मनाम् ॥ मिलन्मलयजालेप इवाह्लादं विकासयन् ॥ २॥ काव्ये नाट्ये च कार्ये च विभावाद्यैर्विभावितः ॥ आस्वाद्यमानैकतनुः स्थायीभावो रसः स्मृतः ॥ ३॥ रत्याख्यस्थायिभावात्मा वल्लभादिविभावितः ॥ आलस्येर्ष्याजुगुप्साभ्यो विना सञ्चारिभिर्युतः ॥ ४॥ अनुभावैः कटाक्षाद्यैरुन्मादाद्यैर्यथाक्रमम् । सम्भोगो विप्रलम्भश्च श‍ृङ्गारो द्विविधो मतः ॥ ५॥ हासस्थायी रसो हास्यो विभावाद्यैर्यथाक्रमम् । वैरूप्यफुल्लगण्डत्वावहित्थाद्यैः समन्वितः ॥ ६॥ अभीष्टविप्रयोगाश्रुपातग्लान्यादिभिः क्रमात् । विभावाद्यैर्यतः शोकस्थायी स्यात् करुणो रसः ॥ ७॥ क्रोधस्थायी रसो रौद्रो विभावाद्यैः समन्वितः । मात्सर्यहस्तनिष्पेषसम्मोहाद्यैर्यथाक्रमम् ॥ ८॥ उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः । वीरोऽनुभावैः स्थैर्याद्यैर्भावैर्गर्वादिभिर्युतः ॥ ९॥ व्याघ्रादिभिर्विभावैस्तु वेपिताद्यनुभावभृत् । भावैर्मोहादिभिर्युक्तो भयस्थायी भयानकः ॥ १०॥ स्थायी जुगुप्सा बीभत्सो विभावाद्यैर्यथाक्रमम् । अनिष्टेक्षणनिष्ठीवमोहाद्याः सम्मताः क्रमात् ॥ ११॥ अद्भुतो विस्मयस्थायी मायादिकविभावभूः । रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ १२॥ निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः । क्षमादिकानुभावोऽयं स्तम्भादिव्यभिचारिकः ॥ १३॥ रतिर्देवादिविषया सन्ति च व्यभिचारिणः । वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ॥ १४॥ निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ १५॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १६॥ सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ १७॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः ॥ १८॥ सर्वसाधारणप्रेमप्रश्रयादिस्वरूपया । अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः ॥ १९॥ भावस्य शान्तिरुदयः सन्धिः शबलता तथा । काव्यस्य काञ्चनस्येव कुङ्कुमं कान्तिसम्पदे ॥ २०॥ आ तुर्यमा सप्तमं च यथेष्टैरष्टमादिभिः । समासः स्यात्पदैर्न स्यात्समासः सर्वथापि च ॥ २१॥ पाञ्चालिकी च लाटीया गौडीया च यथारसम् । वैदर्भी च यथासङ्ख्यं चतस्रो रीतयः स्मृताः ॥ २२॥ मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः । लकारश्च लसंयुक्तो ह्रस्वव्यवहितौ रणौ ॥ २३॥ रेफाक्रान्ता वर्ग्ययणाष्टवर्गात्पञ्चमादृते । कपाक्रान्तस्तवर्गः स्यात्प्रौढायां च कमूर्धता ॥ २४॥ सर्वैरूर्ध्वैः सकारस्य सर्वै रेफस्य सर्वथा । रहोर्द्वेधा तु संयोगः परुषायां शषौ स्वतः ॥ २५॥ लकारोऽन्यैरसंयुक्तो लघवो घमधा रसौ । ललितायां तथा शेषा भद्रायामितिवृत्तयः ॥ २६॥ अङ्गभङ्गोल्लसल्लीला तरुणी स्मरतोरणम् । तर्ककर्कशपूर्णोक्तिप्राप्तोत्कटधियां वृथा ॥ २७॥ वीप्सोत्सर्पन्मुखाग्रार्द्रं बर्ही जह्रे कृशस्तृषम् । ललना रभसं धत्ते घनाटोपे महीयसि ॥ २८॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेबासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति ऋतुसङ्ख्यः सुखयतु ॥ २९॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे रसतीतिवृत्तिविचारो नाम षष्ठो मयूखः ।

७. सप्तमो मयूखः । अथ ध्वनिनिरूपणः ।

वृत्तिभेदैस्त्रिभिर्युक्ता स्रोतोभिरिव जाह्नवी । भारती भाति गम्भीरा कुटिला सरला क्वचित् ॥ १॥ साम्मुख्यं विदधानायाः स्फुटमर्थान्तरे गिरः ॥ कटाक्ष इव लीलाक्ष्या व्यापारो व्यञ्जनात्मकः ॥ २॥ अविवक्षितवाच्यस्य द्वौ भेदौ वाच्यमेव चेत् । अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ ३॥ द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ । चत्वारिंशद्युतैकेन भेदाः षट् चानयोः क्रमात् ॥ ४॥ त्रिधा शब्दार्थतद्युग्मशक्तिजन्मा स्फुटक्रमात् । रसभावतदाभासप्रमुखस्त्वस्फुटक्रमात् ॥ ५॥ वस्त्वलङ्कारयोर्व्यक्तेर्भेदौ द्वौ शब्दशक्तिजौ । अर्थशक्तिसमुत्थस्य भेदा द्वादश तद्यथा ॥ ६॥ चत्वारो वस्त्वलङ्कारमलङ्कारस्तु वस्तु यत् । अलङ्कारमलङ्कारो वस्तु वस्तु व्यनक्ति तत् ॥ ७॥ वक्तुः कविनिबद्धस्य कवेर्वा प्रौढिनिर्मितः । स्वसिद्धो वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ॥ ८॥ शब्दार्थोभयभूरेकः स च वाक्यैकसंश्रयः । पदैकदेशे रचनावर्णवाक्यपदेष्वपि ॥ ९॥ प्रबन्धे चेति षोढाऽसौ रसाद्याख्योऽस्फुटक्रमः । एषु सप्तदशस्वेकं परित्यज्यास्फुटक्रमम् ॥ १०॥ ये षोडशाद्या द्विगुणास्ते स्युर्वाक्यपदाश्रयात् । प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः ॥ ११॥ द्वात्रिंशद् द्वादशैकः षट् सर्वसङ्कलितध्वनेः । भेदाः स्युरेकपञ्चाशत् सम्भिन्नास्तु सहस्रशः ॥ १२॥ वक्तृस्यूतं बोधयितुं व्यङ्ग्यं वक्तुरभीप्सितम् ॥ स्वाङ्कुरितमतद्रूपं स्वयमुल्लसितं गिरः ॥ १३॥ कश्चित् साधारणः कश्चिदामन्त्र्य प्रतिबोधितः । कश्चित्तटस्थः कश्चिच्च बोधितप्रतिबोधितः ॥ १४॥ इत्येवं बोद्धृवैचित्र्याद्वक्तृस्यूतं चतुर्विधम् । उपेक्षानिह्नवाभ्यां च द्विधा स्वाङ्कुरितं मतम् ॥ १५॥ भूतादिकालभेदेन निह्नवः स्यादनेकधा । अनेनापि प्रभेदेन व्यक्तिवल्ली विजृम्भते ॥ १६॥ नानाप्रभेदा नियता क्वचित् प्रकरणादिना । अर्थेऽर्थमन्यं यं वक्ति तद्वाच्यव्यङ्ग्यमिष्यते ॥ १७॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति मुनिसङ्ख्यः सुखयतु ॥ १८॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे ध्वनिनिरूपणो नाम सप्तमो मयूखः ।

८. अष्टमो मयूखः । अथ गुणीभूतव्यङ्ग्यनिरूपणः ।

यद्व्यज्यमानं मनसस्तैमित्याय स नो ध्वनिः । अन्यथा तु गुणीभूतव्यङ्ग्यमापतितं त्रिधा ॥ १॥ व्यक्त एव कचिद्व्यङ्ग्यः कचिदर्थस्वभावतः । क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥ २॥ अगूढं कलयेदर्थान्तरसङ्क्रमितादिकम् । विस्मृतः किमपान्नाथ स त्वया कुम्भसम्भवः ॥ ३॥ अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् । हा हा ! मत्कुचकाश्मीरलिप्तं भिन्नमुरः शरैः ॥ ४॥ तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा । संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् ॥ ५॥ अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् । कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥ ६॥ सन्दिग्धं यदि सन्देहो दैर्घ्याद्युत्पलयोरिव । सम्प्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ॥ ७॥ तुल्यप्राधान्यमिन्दुत्वमिव वाच्येन साम्यभृत् । कान्ते त्वदाननरुचा म्लानिमेति सरोरुहम् ॥ ८॥ असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् । सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ॥ ९॥ काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः । इत्यष्टधा गुणीभूतव्यङ्ग्यमङ्गीकृतं बुधैः ॥ १०॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसङ्ख्यः सुमनसः ॥ ११॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे गुणीभूतव्यङ्ग्यनिरूपणो नामाष्टमो मयूखः ।

९. नवमो मयूखः । अथ लक्षणानिरूपणः ।

मुख्यार्थस्याविवक्षायां पूर्वार्वाची च रूढितः । प्रयोजनाच्च सम्बद्धं वदन्ती लक्षणा मता ॥ १॥ लक्षणीयस्वशब्दस्य मीलनामीलनाद्द्विधा । लक्षणा सा त्रिधा सिद्धसाध्यसाध्याङ्गभेदतः ॥ २॥ स्फुटास्फुटप्रभेदेन प्रयोजनमपि द्विधा । विदुः स्फुटं तटस्थत्वादर्थगत्वाद्द्विधा बुधाः ॥ ३॥ अस्फुटं चार्थनिष्ठत्वात्तटस्थत्वादपि द्विधा । लक्ष्यलक्षकनिष्ठत्वादर्थसंस्थमपि द्विधा ॥ ४॥ लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा । अस्फुटत्वं तटस्थत्वं लक्ष्यस्थत्वममुष्य च ॥ ५॥ अन्यास्तिस्र इति व्यक्ता शक्तितः सा चतुर्विधा । इन्दुरेवैष तद्वक्त्रमुत्कर्षो लक्ष्यते मुखे ॥ ६॥ प्रदीपं वर्धयेत्तत्र तटस्थं मङ्गलोदयः । पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥ ७॥ अमृतं सूक्तमित्यादौ लक्ष्यस्थमतिहृद्यता । आभिमुख्यात् सन्निधानात्तथाऽऽकारप्रतीतितः ॥ ८॥ कार्यकारणभावात्सा वाच्यवाचकभावतः । (कार्यकारणभावाच्च) इत्येवमादेः सम्बन्धात् किञ्चान्यस्माच्चतुष्टयात् ॥ ९॥ सादृश्यात् समवायात् सावैपरीत्यात् क्रियान्वयात् । (स्याद्वैपरीत्यात्) सारोपाध्यवसानाख्ये गौणशुद्धेपृथक् पृथक् ॥ १०॥ (गौणशुद्धेऽष्टधा पृथक्) गौणं सारोपमुद्दिष्टमिन्दुर्मुखमितीदृशम् । गौणं साध्यवसानं स्यादिन्दुरेवेदमीदृशम् ॥ ११॥ शुद्धं सारोपमुद्दिष्टमायुर्घृतमितीदृशम् । शुद्धं साध्यवसानं स्यादायुरेवेदमीदृशम् ॥ १२॥ उपादानार्पणद्वारे द्वे चान्ये इति षड्विधा । कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च ॥ १३॥ लक्ष्यलक्षकवैशिष्ट्यवैशिष्ट्याद्द्विविधा पुनः । सरसं काव्यममृतं विद्या स्थिरतरं धनम् ॥ १४॥ तथा सहेतुरतथाभेदभिन्ना च कुत्रचित् । सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः ॥ १५॥ शब्दे पदार्थे वाक्यार्थे सङ्ख्यायां कारके तथा । लिङ्गे चेयमलङ्काराङ्कुरबीजतया स्थिता ॥ १६॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसङ्ख्यः सुखयतु ॥ १७॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारे लक्षणानिरूपणो नाम नवमो मयूखः ।

१०. दशमो मयूखः । अभिधानिरूपणः ।

धर्मं कञ्चित् पुरस्कृत्य प्रायः शब्दः प्रवर्तते । यथार्थं स्पष्टमाचष्टे शब्दस्तामभिधां विदुः ॥ १॥ जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया । निर्देशेन तथा प्राहुः षड्विधामभिधां बुधः ॥ २॥ (निर्देशेन च मन्यन्ते) गौर्नीलः पाचको दण्डी डित्थः कंस इति क्रमात् । (गौः शुक्लः) कं संहिनस्ति कंसारिर्नरं च कं समाश्रितम् ॥ ३॥ (कथं हिनस्तीति) न योगादेरायतनं न सङ्केतनिकेतनम् । वृत्त्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ॥ ४॥ पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम् । सुधानिधानमासाद्य श्रयध्वं विबुधा मुदम् ॥ ५॥ जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः ॥ सूक्तिपीयूषवर्षस्य जयदेवकवेर्गिरः ॥ ६॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसङ्ख्यः सुखयतु ॥ ७॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालङ्कारेऽभिधानिरूपणो नाम दशमो मयूखः ॥ १०॥ समाप्तोऽयं चन्द्रालोकः । Encoded and proofread by Sira Athale
% Text title            : Chandralokah
% File name             : chandrAlokaH.itx
% itxtitle              : chandrAlokaH (jayadevakavivirachitaH)
% engtitle              : chandrAlokaH
% Category              : misc, sahitya, appayya-dIkShita
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Author                : Jayadevakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sira Athale
% Proofread by          : Sira Athale
% Description/comments  : Alankarashastra
% Indexextra            : (Scans 1, 2, Hindi 1, 2, Telugu, pAThabhedAH)
% Latest update         : April 20, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org