चन्द्रिका विस्तृतकवितासङ्कलनम्

चन्द्रिका विस्तृतकवितासङ्कलनम्

रचयिता जि एस् श्रीनिवासमूर्तिः Murthygss(at)gmail(dot)com 10 july 2024 पद्यसूची
  • ०. किञ्चिद्वक्तव्यम्
  • १. कान्ते जागृहि
  • २. नगरोपवनम्
  • ३. पतिपत्नीसंलापः
  • ४. उत्सवदीपः
  • ५. दीपोत्सवः
  • ६. यत्र चित्तं त्वभीतम्
  • ७. स्वरजालम्
  • ८. शिशुदृष्टिः
  • ९. शिशुस्मितम्
  • १०. शिशवः
  • ११. शाकटिकगीतम्
  • १२. एकाकिनी लवननिरता
  • १३. अनुरागतत्त्वम्
  • १४. निद्रे!
  • १५. पितुरुपदेशः
  • १६. मूढतिम्मुजल्पनम्-१
  • १७. मूढतिम्मुजल्पनम्-२
  • १८. कवेऽवगच्छ
  • १९. विश्वसांयात्रिकः
  • २०. विज्ञानसंस्कृतिः
  • २१. गूगलस्तवः
  • २२. सिकन्दरस्य चरमयात्रा
  • २३. मण्डेलाय श्रद्धाञ्जलिः
  • २४. साहं भीतिः
  • २५. तुष्टिः
  • २६. गृध्रशशौ
  • २७. बस्ततुरङ्गमौ
  • २८. शुनकगीतम्
  • २९. गरुडस्तुतिः
  • ३०. विहगः मधुकरश्च
  • ३१. स्वल्पाभावात् सम्भवेत् सर्वनाशः
  • ३२. छिद्रान्वेषी
  • ३३. कोऽसौ विकारः?
  • ३४. अतिथिसत्कारः
  • ३५. महान्त ऊचुः
  • ३६. मुक्तकानि
  • ३७. चन्द्रिका
  • ३८. वृत्तकुसुमार्पणम्
  • ३९. ते हि मे दिवसा गताः
  • ४०. क्रिकेटोपाख्यानम्
  • ४१. आर्योपवनम्
  • ४२. मां ताडयत्युत्सुका
  • ४३. कोविडष्टकम्
  • ४४. विज्ञानसूक्तयः
  • ४५. कोविड्गदमुक्तकानि
  • ४६. डौन्-लोड् सिन्ड्रोम्
  • ४७. मुक्तकमाला
  • ४८. आयाहि बन्धो
  • ४९. लज्जातिरोहिता प्रहेलिका
  • ५०. जन्मोत्सवः
  • ५१. कविपरिचयः

    - पद्यसूची (Index)

    ०. किञ्चिद्वक्तव्यम्

    पदग्रथनकौशलं मम कदापि नो भासुरं न शास्त्रपरिशीलने मम विदग्धता दृश्यते । तथापि मम चापलं नुदति मां कवेःपद्धतौ कृतिर्मम समीक्ष्यतां करुणया रसोपासकैः ॥ भवदीयः जि एस् एस् मूर्तिः जुलै १० २०२४ Murthygss(at)gmail(dot)com 10 july 2024

    - पद्यसूची (Index) चन्द्रिका

    १. कान्ते जागृहि

    कान्ते जागृहि जागृहि त्वमधुना गीतं मम श्रावय प्राची दिक् प्रतिभाति धौतवसना रक्ताञ्चलाडम्बरा । गातुं वाञ्छति सप्तवर्णसहितं सङ्गीतमाकर्णय स्वापं मुञ्च मुदा कुरुष्व तरसा त्वन्नादसम्मेलनम् ॥ १॥ कान्ते जागृहि भास्करस्य मधुरं काव्यं नवीनं श‍ृणु प्रस्तौति प्रथमानुरागकथनं वध्वा उषाया रविः । आस्वादस्व मयि प्रचोदय कवेर्नैपुण्यमप्राकृतं सत्काव्यंह्यनुवर्त्यते खलु बुधैः साहित्यसंसेवकैः ॥ २॥ कान्ते जागृहि भास्करो मृदुकरैर्निर्माति चित्रं शुभं देव्या आगमनं दिशां प्रकटयन्त्याः स्वानुरागं रवौ । शीघ्रं लोकय चित्रभानुरचितं सद्वर्णसंयोजनं पत्रं चानय तूलिकां प्रतिकृतिं कर्तुं यते वल्लभे ॥ ३॥ कान्ते जागृहि भद्रमस्तु जगति प्रोत्सार्य सर्वं तमः ज्योतिर्भातु सदामृतः प्रसरतु ध्वस्तश्च मृत्युर्भवेत् । आवाभ्यामनुभूयतां सखि मनस्यानन्दसूर्योदयः सत्यं शाश्वतमाप्नवाव सुचिरं निष्कास्य सत्येतरम् ॥ ४॥

    - पद्यसूची (Index)

    २. नगरोपवनम्

    खगकूजितजृम्भणैः शनैः तनुजाड्यं जहतीव तन्द्रिलाः । नगरोपवनस्थपादपाः प्रथमार्कारुणरश्मिचुम्बिताः ॥ १॥ ललनागणरोचकं वपुर्द्युतिमल्लब्धुममेयलालसाः । तरुणाः श्वसितैर्विवर्धितैः पथि धावन्ति ककुद्मवृन्दवत् ॥ २॥ मृदुशीतलमारुतो लताः परिरभ्यानतपुष्परञ्जिताः । अमलानिलसेवने रतान् पथि सन्तोषयते विहारिणः ॥ ३॥ हिमसीकरमौक्तिकाचितैः हरितार्द्रैर्मृदुनव्यशाद्वलैः । धरणी कमनीयतां प्रगे भजते कञ्चुकितेव सुन्दरी ॥ ४॥ मृगमत्स्यविहङ्गरूपतां भजमानाः वनपालशिक्षया । नरकौशलशक्तिसूचका तरुगुल्मा रमयन्ति बालकान् ॥ ५॥ प्रतिमा नरपस्य कस्यचित्गतकालेष्वनुभूय मान्यताम् । अथ कालविपर्ययादहो मलनीरैरभिषिच्यते द्विजैः ॥ ६॥ रजनीं विजने महापथे क्षपयित्वा भषणे निरर्गले । तरुणातपवाञ्छयाधुना स्वपिति श्वा तुहिनार्द्रशाद्वले ॥ ७॥ क्वचिदायतपुष्पदर्शनं क्वचिदामीलितसूनसौरभम् । क्वचिदूर्जितभृङ्गझेङ्कृती रमते पुष्पकुथासु मानसम् ॥ ८॥ सरसीजलमध्यसंस्थितोत्क्षिपणीवक्त्रशताद्विनिःसृता । जलबिन्दुपरम्परा ध्रुवं भजते कृत्रिमवर्षवैभवम् ॥ ९॥ नवयौवनरूपशालिनी विचरन्ती स्मयमानवीक्षणैः । तरुणानभितो विकर्षति प्रमदा काचिदनूह्यलीलया ॥ १०॥ उपविश्य शिलासने प्रिया पतिसंश्लेषसुखेन निर्वृता । रमणश्रवणान्तिके मिथो मधुरं वक्ति मुधा निरन्तरम् ॥ ११॥ अभिधावनदण्डताडन- प्रणतोल्लङ्घनखेलनैर्भृशम् । तृषिता हिमशीतपायसं मुदिता बालगणाः प्रभुञ्जते ॥ १२॥ नमनोचितवृद्धदम्पती दरनृत्यत्स्मितशोभिताननौ । वनकान्तिदिदृक्षया शनैश्चरतोऽन्योन्यकरावलम्बिनौ ॥ १३॥ फलविक्रयणोद्यतो युवा शकटीं स्वां परिचाल्य सश्रमम् । ततघर्मजलार्द्रविग्रहस्तरुमूलं भजते सुखावहम् ॥ १४॥ जलवायुधराप्रदूषणव्यथिताः स्वास्थ्यहितार्थमागताः । विहरन्ति वने दिनात्यये दिवसोद्योगविमर्दयन्त्रिताः ॥ १५॥ रतिरूपफलप्रसाधनैः स्फुरदालम्बितलोलकुण्डलैः । गतिरोधकचञ्चलेक्षणैः नवविन्यासनिबद्धकुन्तलैः ॥ १६॥ मदसाधकगन्धलेपनैर्दरविस्रंसितवस्त्रविभ्रमैः । प्रमदा जनयन्ति मानसेऽस्थिरतां हन्त विवेकिनामपि ॥ १७॥ लसदुज्ज्वलदीपपङ्क्तिभिर्ललितालापविनोदगायनैः । भजते नवनन्दनश्रियं जनसान्द्रोपवनं क्षपामुखे ॥ १८॥ तरुषु खगगणे स्वानाशयान् सन्निवृत्ते स्फुरति नभसि नीले दिव्यनक्षत्रवृन्दे । गतवति जनसङ्घे स्वालयान् तुष्टचित्ते स्वपिति नगरवक्षस्यात्तशान्तिर्वनश्रीः ॥ १९॥

    - पद्यसूची (Index)

    ३. पतिपत्नीसंलापः

    कच्चित् प्रिये स्मरसि तानि दिनानि वीथ्यां वर्षागमेऽविगणय्य वचो गुरूणाम् । स्थित्वा गृहाद्बहिरनर्गलवृष्टिपाते आवामभूव सुतरामुदकार्द्रवस्त्रौ ॥ १॥ कच्चित्प्रिय स्मरसि यद्भवता तदानीं त्वत्पांसुपङ्किलकरेण समन्दहासम् । मुद्राङ्किता सुविशदा खलु मे कपोले बाष्पाम्बुरुद्धनयनाभवमस्मये च ॥ २॥ कच्चित्प्रिये स्मरसि ते प्रणयाज्जनन्या यत्स्वादुभक्ष्यमशनाय तव प्रदत्तम् । विद्यालयेऽहनि मया सह तत्त्वमादः बाल्योचितप्रहसनप्रकरोपदंशम् ॥ ३॥ कच्चित्प्रिय स्मरसि यद्भवदीयमात्रा सम्प्रेषिते चणकजीरकभक्तभक्ष्ये । सन्दश्य रक्तमरिचं त्वयि बद्धदृष्टिः बाष्पप्रवाहपरिरुद्धविलोकनासम् ॥ ४॥ कच्चित् प्रिये स्मरसि मे गुरुणा परीक्षा- काले त्वया सह वृथालपने निषिद्धे । आगत्य मद्गृहमपूर्वसुमप्रदान- व्याजेन ते स्मितरुचा नितरामलिम्पः ॥ ५॥ कच्चित् प्रिय स्मरसि रोषपरीतचित्ता वक्तुं त्वया सह नैच्छमहानि सेर्ष्यम् । अङ्कार्जने परिणतं प्रतिभान्वितं त्वां अन्याश्च यान्ति ललना इति शिक्षणाय ॥ ६॥ कच्चित् प्रिये स्मरसि ते जननी न्यगादीत् मां हर्षदुःखतटबद्धनदीनिभोक्तीः । अद्यप्रभृत्यभिमतं न ममात्मजायाः क्रीडाप्रमोदचरितं भवता सहेति ॥ ७॥ कच्चित् प्रिय स्मरसि मत्सदनस्य पृष्ठे मन्नामपत्रसहितं कुसुमं गुलाबिम् । पीतं सुगन्धि सुभगं निभृतं गवाक्षे विन्यस्य सत्वरमगा विनिवृत्तदृष्टिः ॥ ८॥ कच्चित्प्रिये स्मरसि देवनिकेतनान्तः सन्त्यज्य भक्तजनयोग्यमतिं सलीलम् । आवां कदाचिदभिजातजनैरुपेतौ अन्योन्यदृष्टिमिलनैरवदाव नाल्पम् ॥ ९॥ कच्चित्प्रिय स्मरसि मामुपवीणयन्तीं श्रुत्वा मदालयसमीपमुपेयिवान् त्वम् । त्वामाह्वयन्ममपिता विनयाद्यदैव गीतं ह्रिया स्खलनपूर्णमभूत्तदैव ॥ १०॥ कच्चित्प्रिये स्मरसि ते जननीं मदीया मातावदत् तव ततावयवेषु पुत्र्याः । काचित्स्फुरत्यतुलयौवनरूपदीप्तिः भद्रं भवेत् तदनुरूपवरो वृतः किम् ॥ ११॥ कच्चित्प्रिय स्मरसि मद्भ्रुकुटीं विलोक्य मातावदन्नगरतो वरयन्ति नैके । विद्यार्जनं हि ममलक्ष्यमिति प्रवक्ति पुत्रीत्यपूर्णवचना त्वयि सन्निकृष्टे ॥ १२॥ कच्चित्प्रिये स्मरसि शिक्षणसत्रचर्चा- स्पर्धोत्सवे ननु मयाग्रपदेऽर्जिते त्वम् । उच्चैः प्रशस्य करवादनरूपनुत्या व्रीडाजिता पदयुगे न्यविशः स्वदृष्टिम् ॥ १३॥ कच्चित्प्रिय स्मरसि मां वटवृक्षमूले गन्तुं पुरीं व्यवसिते त्वयि शिक्षणार्थम् । त्वां द्रष्टुमागतवतीं जनकात्प्रभीतां वृष्ट्यातपावृतधरामिव सस्मितास्राम् ॥ १४॥ कच्चित्प्रिये स्मरसि चैत्रविरामकाले पुर्या निवृत्य तव गोप्यसखीगृहे त्वाम् । सन्दृश्य जातपुलको न किमप्यवोचं शक्तिंह्यदास्तव कटाक्षसुधानुपानैः ॥ १५॥ कच्चित्प्रिय स्मरसि बाष्पनिरुद्धदृष्ट्या मां पत्तनं मम पितोन्नतशिक्षणाय । सम्प्रेषितुं मतिमतीं न ददावनुज्ञां इत्युक्त एव हि मया त्वमसान्त्वयो माम् ॥ १६॥ कच्चित्प्रिये स्मरसि तत्र मया यदुक्तं भावीपतिस्तव करिष्यति पण्डितां त्वाम् । पाणिं मनागुदनयो मम दण्डनार्थं रुष्टेव हन्त न तु मे करपातभाग्यम् ॥ १७॥ कच्चित्प्रिय स्मरसि पुस्तकपृष्टमध्ये प्रच्छाद्य पत्रमनुरागरसाप्लुतं ते । स्वस्रा सह प्रणिहितं मम वाचनार्थं दैवादवेन्नजनको मम तं प्रसङ्गम् ॥ १८॥ कच्चित्प्रिये स्मरसि ते प्रथमं प्रयत्नं पत्रं विलिख्य विरचय्य च पुष्पमेकम् । वक्रीकृताक्षरविभाव्यकराग्रकम्पं सम्प्रेषितं यदभवन्मदुपोपधानम् ॥ १९॥ कच्चित्प्रिय स्मरसि ते पदवीधरत्वं संश्रुत्य हर्षपुलकैर्विनिगूह्य लज्जाम् । त्वद्दर्शनोत्सुकतया त्वरयाऽऽगतां मां द्वार्येव सुस्मितकरैरबलामबध्नाः ॥ २०॥ कच्चित्प्रिये स्मरसि मज्जनके त्वदीयं गेहं मया सह गते पितरं मदर्थम् । त्वां याचितुं तव पिता तरसाह्वयत्त्वां स्तम्भाकृतिव्यवहिता स्मितवागभूस्त्वम् ॥ २१॥ कच्चित्प्रिय स्मरसि बन्धुपुरोहिताद्यैः सम्प्रेक्षितः परिणयोत्सववेदिकायाम् । उच्चैर्ध्वनत्यविरतं शुभवेदघोषे कर्णान्तिकं त्वमजपो ह्यनुरागमन्त्रम् ॥ २२॥ कच्चित्प्रिये स्मरसि सप्तपदीविधौ त्वं वेदीं हुताशनवतीं परितः चरन्ती । त्वत्पाणिना मृदुतमेन मदीयपाणिं गाढं निपीड्य किमपि व्यलिखो नखाभ्याम् ॥ २३॥ कच्चित्प्रिय स्मरसि कामवशं गतस्त्वं दाम्पत्यजीवनसुखप्रथमप्रभाते क्लान्तां विमुच्य शयनं गमनोद्यतां मां उद्यम्य बाहुमबलां सबलं न्यरुन्द्धाः ॥ २४॥ कच्चित्प्रिये स्मरसि मां तदनु न्यगादीः ग्रामात्पुरं जिगमिषुं विभवार्जनाय । मा गा हृदीश न भवेयमहं विना त्वां इत्यन्वगाश्च झटिति प्रणयार्दितं माम् ॥ २५॥ कच्चित्प्रिय स्मरसि दौहृदलक्षणस्थां विद्यार्जने शिथिलिताध्यनप्रवृत्तिम् । सञ्चोदयन् बहुमुखैः प्रविलोभनैर्मां भूयो प्रशिक्षणविधावकरोः प्रवृत्ताम् ॥ २६॥ कच्चित्प्रिये स्मरसि मां प्रति सूतिगेहे सूतिव्यथाजनितरूक्षवचांसि तानि । संश्रुत्य ते प्रलपितानि नियम्य हासं शुश्रूषिका सकरुणं समसान्त्वयत्त्वाम् ॥ २७॥ कच्चित्प्रिय स्मरसि मोहकमर्भकं मे पार्श्वे प्रसुप्तमवलोक्य मुहुर्मुहुस्त्वम् । हर्षापगारयनिमज्जनधौतचित्तां मां प्रेमपूरितदृशा नितरामचूषः ॥ २८॥ कच्चित्प्रिये स्मरसि ता युगदीर्घरात्रीः यासु त्वया सह सुतां ज्वरपीडिताङ्गीम् । अङ्के निवेश्य हिमशीतलपट्ट्बन्धैः शीर्षस्य तापशमने बहुशोऽयतेऽहम् ॥ २९॥ कच्चित्प्रिय स्मरसि सोत्सवसम्भ्रमान् तान् पादौ परिक्षिपति च स्मयतेऽधुनेति । अद्यात्मनैव विचलत्युरसेति पुत्री पद्भ्यां स्वयं चरति सम्प्रति जल्पतीति ॥ ३०॥ कच्चित्प्रिये स्मरसि रोषपरीतनेत्रां केनापि कारणलवेन मयि प्ररुष्टाम् । त्वां निन्दनैर्बहुविधैः खलु मां तुदन्तीं पुत्री स्वमुग्धवचनैरकरोत् हसन्तीम् ॥ ३१॥ कच्चित्प्रिय स्मरसि नागरपाठशालां यावद्गता तव सुता खलु तावदेव । मां पाककर्मणि रतां प्रसभं बलाढ्यः शय्यागृहं ह्यगमयस्त्वमदम्यकामः ॥ ३२॥ कच्चित्प्रिये स्मरसि नृत्यदभूतकान्तिः पुत्रोत्सवेऽभ्युपगते सुतमात्ममूर्तिम् । अङ्के निवेश्य तव मानसराजहंसं बालानवाप्यवचनैस्समभाषथास्त्वम् ॥ ३३॥ कच्चित् प्रिय स्मरसि तानि मनोहराणि वर्षाण्यपत्ययुगलालनशिक्षणेषु । प्रत्यूहकण्टकशतैरवरुद्धमार्गे काष्ठार्धवद्द्रुतगतेन हि यापितानि ॥ ३४॥ कच्चित् प्रिये स्मरसि तावकदुःखधारां पुत्र्यां नवोढललनोचितदीप्तिमूर्त्याम् । भर्त्रा सह श्वशुरगेहमभि प्रयान्त्यां हर्षावगुण्ठनतिरोहितनैजरूपाम् ॥ ३५॥ कच्चित् प्रिय स्मरसि दारपरिग्रहार्थं पुत्रस्य बन्धुसुहृदाप्तजने विचिन्वन् । पुत्रे त्वदुद्धृतवधूषु न जातमोहे पुत्रानुरक्तललनां स्व्यकरोः स्नुषात्वे ॥ ३६॥ कच्चित् प्रिये स्मरसि मातृधरां विहाय पत्न्या सह स्वनवसौख्यसुधावसिक्तः । पुत्रो विमानगमनोत्सुकतापरीतः मात्रा त्वया सह न किञ्चिदपि न्यगादीत् ॥ ३७॥ कच्चित् प्रिय स्मरसि हर्षमदप्रणुन्नः पौत्रोत्सवेऽभ्युपगते भगवत्प्रसादात् । उच्चैर्वदन् श्रुणुत पौत्रपितामहोऽस्मी- त्यास्वाद्यभक्ष्यनिकरान्व्यतरः परेषु ॥ ३८॥ कच्चित्प्रिये स्मरसि मामवदः सखेदं दौहित्रपौत्रगणजातसुखानुबद्ध- । चित्तस्य मे स्वभवनानि गतेषु तेषु तै रिक्तमालयमहो नरकं हि मन्वे ॥ ३९॥ कच्चित्प्रिय स्मरसि सान्त्वनमाददास्त्वं पक्षी पतत्रयुगमाप्य जहाति मातुः । नीडं यथा खलु तथापि जहात्यपत्यं मातुर्गृहं स्वगृहनिर्मितिमग्नचित्तम् ॥ ४०॥ कच्चित्प्रिय स्मरसि पौत्रविवाहकाले मय्यामयेन नितरां परिपीडितायाम् । शुश्रूषणेमम रतस्त्वमभूःनितान्तं आवां विना परिणयः खलु सन्निवृत्तः ॥ ४१॥ कच्चित्प्रिये स्मरसि मां सुदृढद्विजालि- युक्तं कठोरचणकाशनकर्मदक्षम् । अद्यास्म्यहो चटकवद्रदनैर्विहीनः कालस्यनिष्ठुरगतिः न कदापि रुद्धा ॥ ४२॥ कच्चित्प्रिय स्मरसि मां ससुखं पचन्तीं विंशद्विधान् दशजनोचितभक्ष्यभोज्यान् । अद्यावयोरशनपाचनकर्म एव कृच्छ्रं प्रयासबहुलं प्रतिभाति हन्त ॥ ४३॥ कच्चित् प्रिये स्मरसि ते भिषजा प्रदत्ते जानुव्यथाप्रशमके गुटिकेऽशितव्ये । हन्ताधुना स्वतनुपालनकार्य एव स्वाधीनता यदि हि सिद्ध्यति सा प्रशस्या ॥ ४४॥ कच्चित् प्रिय स्मरसि मामकसुप्तिमोहः पूर्वं त्वयोपहसितः बहुशोऽधुना वै । निद्राऽऽगता यदि तदा शिथिलं शनैर्मां आलिङ्गति त्वमिव शान्तमनोजवह्निः ॥ ४५॥ कच्चित् प्रिये स्मरसि नौ स्मरचापविद्धौ संश्लेषचुन्बनरतौ तरुणौ इदानीम् । प्रेमानिलप्रशमितो मदनङ्गवह्निः प्रेम त्वहो त्वयि विवर्धत एव नित्यम् ॥ ४६॥ कच्चित् प्रिय स्मरसि मां नवयौवनस्थां मिष्टान्नभोजनसुखेष्वमिताभिलाषाम् । अद्यत्वहं मधुरभक्ष्यसुखान्निवृत्ता तृप्ता तवातिमधुरैः स्मितपूर्ववाग्भिः ॥ ४७॥ कच्चित् प्रिये स्मरसि मे लवणे स्पृहां तां व्यज्ञापयः खलु हिताय न सेति पूर्वम् । सम्प्रत्यहो मदशने लवणं निषिद्धं लावण्यमेव तव देवि भवेदलं मे ॥ ४८॥ कच्चित् प्रिय स्मरसि सानुनयं त्ववादीः संवाहयामि तव पादयुगं दिनान्ते । क्लान्तास्म्यवश्यगृहकर्मभरेण नाथ तां संविदं सफलय प्रसभं गुणाढ्य ॥ ४९॥ कच्चित् प्रिये स्मरसि केशवपादयुग्मं सर्वामयप्रशमकं शरणागतानाम् । संस्मृत्य यत् प्रणतधीः ममतां विहाय निद्रां भजस्व विमले ससुखं शयीथाः ॥ ५०॥

    - पद्यसूची (Index)

    ४. उत्सवदीपः

    रूपं न मे पूर्वमधः सरस्याः कस्याश्चिदासं किल पङ्कपिण्डम् । चन्द्रं न सूर्यं न कदाप्यजानां रावो हि सर्वत्र जलेचराणाम् ॥ १॥ पद्मिन्यथैका मयि लग्नमूला व्याजेन मन्मार्दवघोषणस्य । पीत्वा रसं मे बहिरागता च प्रसह्य सूर्यं खलु पर्यणैषीत् ॥ २॥ सूर्यांशुसंस्पर्शनलभ्यबोधश्चिराय नासीन्मम मन्दभाग्यात् । अव्यक्तहेतोः सलिलं सरस्याः क्रमेण नष्टं जलजा हताश्च ॥ ३॥ रवेरपश्यं खलु तीक्ष्णरश्मीन् क्षुद्रत्वमुर्व्याश्च तदैककाले । चूर्णोऽभवं मार्दवभावहीनः श्रुता मया निष्ठुरवाग्जनानाम् ॥ ४॥ कश्चिन्नरो मां किल मर्दयित्वा पद्भ्यां अवादीन्नरमन्यमुच्चैः । अत्रैव पद्मं कमनीयमासीत् तन्नाद्य खल्वित्यह मामुपेक्ष्य ॥ ५॥ दीर्घं विनिश्वस्य वचो निशम्य सूर्यस्य रश्मीन् हि विगर्हमानः । अयापयं नैकदिनानि दीनः सम्मर्दितो मर्त्यगणैश्च पद्भिः ॥ ६॥ वरं जलं जीवनधारणाय वाय्वोः प्रभो मेऽस्तु जले हि वासः । इतीश्वरं प्रार्थयमानमेत्य कृषीवलो मामनयत् तटान्तम् ॥ ७॥ दिनेषु गच्छत्सु ववर्ष पाशी दिष्ट्या तटाकाः नववारिपूर्णाः । जले मिमङ्क्षुः प्रसभं ह्यवाञ्छं जलप्रवृत्तिं मृदुतामवाप्तः ॥ ८॥ अहं तटान्ते सलिलं त्वधस्तात् क्रूरो विधिः किं करवाण्यशोचम् । मां पिण्डितं कश्चन कुम्भकारो निनाय हन्त स्वगृहं सलीलम् ॥ ९॥ घटाश्च केचित् घटिकाश्च काश्चित् प्राप्तं मया दीपकरूपमत्र । क्लेशो गतः कापि मनोज्ञतासीत् तप्तोऽप्यभूवं किल नष्टतापः ॥ १०॥ स्नेहार्द्रवर्त्या प्रससार दीप्तिर्लब्धो मया भासुरभास्करांशः । जानन्तु दीप्तिं न तु मां कदाचित् जना इतीर्षा मयि खल्वभासीत् ॥ ११॥ भूयात्तमो नाशयितुं समर्था मद्दीप्तिवीच्युत्सवदीपपङ्क्तौ । द्युतिस्तु दृश्येत न मत्स्वरूपं ह्रिया विनम्रं च भवेददृश्यम् ॥ १२॥

    - पद्यसूची (Index)

    ५. दीपोत्सवः

    प्रावृट् प्रयाता शिशिरो न चागतो वृक्षा हरित्पर्णमयाः पुरे वने । रोमाञ्चितोर्वी नवशाद्वलावृता प्रतीक्षते द्राक् शरदः समागमम् ॥ १॥ नद्यो भृशं पङ्किलवालुकायुता चलन्ति पद्यासु दृढं कृषीवलाः । श्यामप्रभाशोभितकाननाञ्चला दीपोत्सवोऽयं धरणीं समागतः ॥ २॥ दृष्ट्वाम्बुपूर्णां सरसीं कृषीवलो क्षेत्रे मुदा नृत्यति फुल्लनेत्रवान् । तटाकवीचीषु विधाय मन्दिरान् मनोहरान् दैवदयां प्रशंसति ॥ ३॥ मन्दानिलप्रेङ्खितसस्यमञ्जरीः संवीक्ष्य बालार्कमयूखदीपिताः । कृषीवलस्तुष्यति धान्यसम्पदं विभावयन् हस्तगतां मृदं स्पृशन् ॥ ४॥ सङ्खाद्य शादं गृहमागतायाः संश्रुत्य गोः कण्ठरवं स्वमातुः । वत्सो द्रुतं कृन्तति रज्जुबन्धं सानन्दमम्बां त्वरयाभ्युपैति ॥ ५॥ तं स्फीतनेत्रं प्रसभं निरोद्धुं मूढा मुधा धावति यष्टिहस्ता । व्यर्थप्रयत्ना खलु घोषकन्या स स्तन्यपाने नितरां प्रवृत्तः ॥ ६॥ आस्फोटयन् स्फोटकरान् सलीलं सशब्दधूमाग्निषु मोदमानाः । पोगण्डवृन्दा जनयन्ति भीतिं वृद्धेषु बालासु तथार्भकेषु ॥ ७॥ कन्या रताः सुन्दररङ्गवल्लीनिरूपणे दैवतमन्दिरेषु । रथ्यासु गेहेषु चतुष्पथेषु प्रदर्शयन्त्यः स्वकलासु दाक्ष्यम् ॥ ८॥ पुरातनाः पांसुलदीपवृक्षा गृहे प्रमृष्टा नवतां भजन्ति । गृहाग्रदेशे नवदीपपङ्क्तिः नक्षत्रवीथीव विभाति रात्रौ ॥ ९॥ प्रसादयन् स्वां रमणीं नवोढामुपायनैराभरणैर्दुकूलैः । युवा रतेच्छां मदनेषुविद्धः दृष्ट्यैव तस्यै प्रकटीकरोति ॥ १०॥ लक्ष्मीं समस्तद्रविणप्रदात्रीं तस्याः कटाक्षं हृदि याचमानाः । भजन्ति भक्त्यापणिका विपण्यां श्रेयस्करी सैव सदा जनानाम् ॥ ११॥ नव्यं दुकूलं च विभूषणं च भर्त्रा प्रदत्तं परिधाय साध्वी । स्वाद्यानि भक्ष्याणि विधातुकामा महानसे कार्यरताऽऽप्रदोषम् ॥ १२॥ विद्युत्प्रदीपावलिदीप्तसौधाः मुष्णन्ति कान्तिं खलु देवपुर्याः । सर्वत्र लोको मुदितः प्रहृष्टः दीपावलीपर्वणि सम्प्रवृत्ते ॥ १३॥

    - पद्यसूची (Index)

    ६. यत्र चित्तं त्वभीतम्

    शीर्षं यत्रास्त्यनवनमितं यत्र चित्तं त्वभीतं ज्ञानं मुक्तं न जगदखिलं क्षुद्रभित्तिप्रभिन्नम् । आनैपुण्यं प्रभवति सदा यत्र कार्यप्रवृत्तिः वाणी यत्र प्रवहति हृदस्सत्यगर्भात् सदैव ॥ नीचाचाराभिधमरुतले सद्विवेकस्य धारा नष्टा नैवाविरतविकसद्भावनाकार्यशीलम् । चेतो यत्रामितकरुणया ते प्रभो तत्र नाके स्वातन्त्र्याख्ये कुरु जनक हे जागृतं भारतं मे ॥ (बेङ्गाली/इङ्ग्लिश्; रबीन्द्रनाथ ठाकुर्; गीताञ्जलि)

    - पद्यसूची (Index)

    ७. स्वरजालम्

    कियती रुचिरा गीतिस्तव हे सद्गुणसम्पन्न! केवलमहं ते । विस्मित अवाग्भवन्नेवाकर्णयामि रुचिरगीतिम् ॥ १॥ स्वरभाभिर्भू व्याप्ता प्रसृता गगने स्वरप्राणाः । स्वरगङ्गा भिन्दन्ती शिलाः प्रवहति द्रुतमोजसा ॥ २॥ अहमपि गायानीति हि ममाभिलाषस्त्वया सह सुतीव्रः । परिणमति न मे कण्ठस्तव स्वरे खलु न सञ्चरति ॥ ३॥ मम परितः स्वरजालं तव त्वयैव प्रसारितं तस्मिन् । विनिबद्धोऽहं विस्मितचित्तः श‍ृणोमि सुगुणशालिन् ॥ ४॥ (बेङ्गाली/इङ्ग्लिश्ः रबीन्द्रनाथ ठाकुरःः गीताञ्जलि)

    - पद्यसूची (Index)

    ८. शिशुदृष्टिः

    मातः कथयसि लिखति ग्रन्थान् बहुरुचिरान् तव पितेति बहुशो मे । तेषु किमपि नावगतं भवति कथय किमिदमित्थं स्यात् ॥ १॥ कथयति तुभ्यं सायं यत्तदवगतस्त्वया भवति वद किम् । कथयसि मे चित्रकथाः एवं न रचयति पिता कुतः ॥ २॥ कच्चित्तस्याम्बायाः कथाः श्रुताः स्मृतिपथादमुष्य गताः । किन्नरपिशाचगुह्यकजनपानां रुचिरवृत्तान्ताः ॥ ३॥ यदि विस्मरति स्नानं तदा त्वमाह्वयसि तं पुनः श्लक्ष्णम् । सोष्माहारार्थं च स तथापि तिष्ठति लिखन्नेव ॥ ४॥ प्रविशामि यदि तदीयां कक्षां केल्यै विगर्हसे मां त्वम् । स्तोकरवमपि न सहसे वदसि पिता कार्यमग्न इति ॥ ५॥ विन्दति विलिख्य किं, किं यदि कखगान् लिखामि तर्जसि माम् । लिखति पिता यदि तदा नु किमपि न वदसि कथय कुतो त्वम् ॥ ६॥ यद्येकस्मिन्पत्रे रचयाम्युडुपं विगर्हसे मां त्वम् । जनके पत्रेषु लिखति तिष्ठसि तूष्णीं तु कथय कुतः ॥ ७॥ (बेङ्गाली/इङ्ग्लिश्ः रबीन्द्रनाथ ठाकुर्)

    - पद्यसूची (Index)

    ९. शिशुस्मितम्

    लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् । वदास्ति हे तत्सदृशं किमन्यत्समस्तलोके शिशिरं मनोज्ञम् ॥ १॥ सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत् केतकपुष्पगन्धात् । वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ २॥

    - पद्यसूची (Index)

    १०. शिशवः

    शिशुं परिष्वज्य जगाद माता ``शिशून् समुद्दिश्य वद प्रभो माम्'' । ``तवार्भकास्ते न भवन्ति मात आत्मस्पृहालोः खलु जीवितस्य ॥ १॥ भवन्ति बालाश्च बहिः प्रयान्ति द्वारेण ते त्वन्न भवेयुरत्र । त्वत्स्वं न ते यद्यपि ते वसन्ति साकं त्वया मानिनि कांश्चनाब्दान् ॥ २॥ वात्सल्यदात्री न तु चिन्तनानां दात्री भवेस्ते स्वमनोऽधिराजाः । तेषां शरीराणि हि वासयेस्त्वं परं न चेतांसि कदापि तेषाम् ॥ ३॥ श्वोभाविलोके खलु ते वसन्ति स्वप्नेऽप्यगम्यं भुवनं त्वया तत् । यतस्व मा त्वत्सदृशांश्च कर्तुं तत्साम्यमाप्तुं यदि चेत् यतेथाः ॥ ४॥ कालः स्थितो नैव सदाग्रगामी कदापि न ह्यस्तनमार्गवर्ती । त्वं कार्मुकं त्वच्छिशवस्तु बाणाः धन्वीश्वरो लक्ष्यमनन्तमार्गे ॥ ५॥ पश्यन् स्वशक्त्या धनुरानमय्य तान् लीलया मुञ्चति दूरलक्ष्ये । तुष्टा भवेस्त्वं नमिता महेशः प्रेम्णा शिशून् त्वां च सदैव पश्येत्'' ॥ ६॥ (इङ्ग्लिश्ः खलील् जिब्रान्ः द चिल्ड्रन्)

    - पद्यसूची (Index)

    ११. शाकटिकगीतम्

    सम्पश्यन्तौ धूम्रमेघान् मनोज्ञान्नीलाकाशे चञ्चलास्पष्टरूपान् । चूतान् नीपान् पुष्पितानत्र मार्गे यातं गावौ यातमध्वा सुदीर्घः ॥ १॥ सञ्जिघ्रन्तौ गन्धवत्पुष्पवृन्दान्वन्यान् रथ्यापार्श्वभागप्ररूढान् । मन्ये शीघ्रं गच्छथो ज्ञातमार्गे यातं गावौ यातमध्वा सुदीर्घः ॥ २॥ श‍ृण्वन्तौ मद्गायनं हृत्समुत्थं कांस्यग्रीवाकिङ्किणीनादतालम् । मार्गे नृत्यत्भृङ्गगुञ्जासमेतं यातं गावौ यातमध्वा सुदीर्घः ॥ ३॥ वारं वारं स्पृश्यमाणौ कराभ्यां ईशास्तित्वस्मारणार्थं मयैवम् । नो चेन्मन्दं पादरंहो भवेद्वै यातं गावौ यातमध्वा सुदीर्घः ॥ ४॥ घोषे बालाः स्वागतं व्याहरन्ति शादं क्षेत्रादाहृतं नव्यमार्द्रम् । अस्मद्गेहे सम्भ्रमादत्स्यथो द्राक् यातं गावौ यातमध्वा सुदीर्घः ॥ ५॥ तोत्रेणाहं नैव वां ताडयामि तोत्रंह्येतत् भीषणार्थं कदाचित् । स्तोत्रप्रीताः प्राणिनोऽपीति गाथा यातं गावौ यातमध्वा सुदीर्घः ॥ ६॥ शम्भोर्यानं तूक्षजातिप्रधानः सर्वे पूर्वं मन्दिरे शङ्करस्य । सेवन्ते यं तत्परं वै गिरीशं यातं गावौ यातमध्वा सुदीर्घः ॥ ७॥ श्रेष्ठाः पुंसः पुङ्गवत्वं भजन्ते युष्मद्भाग्यं जन्मना साधितं तत् । विध्यन्तौ वां रम्यश‍ृङ्गैः सिताभ्रं यातं गावौ यातमध्वा सुदीर्घः ॥ ८॥ गेहे पत्नी प्रेक्षमाणा सकामं श्रुत्वा युष्मद्किङ्किणीनादमारात् । द्वार्यानेता मार्जनायाम्बुकुम्भं यातं गावौ यातमध्वा सुगम्यः ॥ ९॥ ग्रामं गत्वा स्नापयाम्यापगायां स्वच्छे नीरे क्षालयित्वा शरीरे । अध्वक्लेशं मुञ्चतं शीघ्रमेव यातं गावौ यातमध्वा सुगम्यः ॥ १०॥ शीतं शुभ्रं गोरसं पाययामि गत्वा गेहं मीलिताक्षौ चिराय । गोशालायां निर्वृतौ पास्यथो यं यातं गावौ यातमध्वा सुगम्यः ॥ ११॥ उत्तुङ्गाभ्यां सुन्दराभ्यां ककुब्भ्यां जित्वा सर्वानुक्षजातिप्रधानान् । युष्मद्वीर्यं स्थापितं ग्रामवर्गे यातं गावौ यातमध्वा सुगम्यः ॥ १२॥ वृत्ते जन्मन्याप्तकर्मानुबन्धैः अस्मिन्जन्मन्याप्तवन्तौ वृषत्वम् । सत्कार्यैर्भोः प्रेत्य मर्त्यौ भवेतां यातं गावौ यातमध्वान्तमागात् ॥ १३॥ मत्भार्याहं चैव युग्यौ भवाव संसाराख्ये वाहने दैवदत्ते । कादाचित्कौ शोकहर्षौ भजन्तौ यातं गावौ यातमध्वान्तमागात् ॥ १४॥ सन्ध्याकाले पक्षिणस्त्वात्मनीडान् आगच्छन्ति क्लान्तदेहा रटन्तः । गच्छामोऽस्मद्वासभूमिं जवेन यातं गावौ यातमध्वान्तमागात् ॥ १५॥ सायं गावः क्षेत्रभूम्या निवृत्ताः तृप्ता शादं जग्धवत्यश्चिराय । गोष्ठं यान्ति स्वार्भकान् द्रष्टुकामाः यातं गावौ यातमध्वा सुखान्त्यः ॥ १६॥

    - पद्यसूची (Index)

    १२. एकाकिनी लवननिरता

    (इदं नूतनं वृत्तं सुलयचरणानाम यस्य लक्षणमित्थं भवति । सुलयचरणायां गणा प्राक्त्रिमात्रो तत्परम् । चतुर्मात्रौ इतरथा पञ्चमात्रस्त्वन्तिमे ॥ (३-४-५/४)) पश्य पार्वतबालिका किमपि मधुरं गायति । असौ तत्रैकाकिनी क्षेत्रलवने व्यापृता ॥ १॥ गच्छ वा विरमस्व बध्नाति लूनान् लीलया । स्वनति सैका शोकदां मधुरगीतिं कामपि ॥ २॥ गायनेनाप्लाविताकर्णय त्वमुपत्यका । कोऽप्यकूजत् स्वागतं कोकिलो न कदाचन ॥ ३॥ क्लान्तपान्थगणाय सुश्राव्यगीतिमियत्प्रियाम् । पुष्पकाले सान्द्रवननिःशब्दतां खलु चूर्णयन् ॥ ४॥ कोऽपि कच्चिन्मां वदेत् सा नु किं वा गायति? । किमपि करुणं प्राक्तनं समरचरितं कथयति? ॥ ५॥ किमुत काञ्चिल्लौकिकीं शोकघटनामभिनवाम्? । किमपि गानं तद्भवेत् गायतीव निरन्तरम् ॥ ६॥ लवननिरता बालिका नमितवदना भाति मे । गीतमस्या मे चिरं स्मरणपटले विलसति ॥ ७॥ (इङ्ग्लिश्; वर्ड्स्वर्त्; सालिटरि रीपर्)

    - पद्यसूची (Index)

    १३. अनुरागतत्त्वम्

    स्रोतांसि नद्या सह सङ्गतानि नदी समेता खलु सागरेण । श्लिष्यन्ति वाता गगने मिथस्ते चिराय युक्ता कमनीयरागैः ॥ १॥ एकाकिनो केऽत्र भवन्ति लोके प्रायेण सर्वेऽपि मिथो मिलन्ति । सैवेश्वरेच्छा यदि सत्यमेतत् त्वया सहाहं न कथं मिलेयम् ॥ २॥ चुम्बन्ति शैला गगनं तरङ्गा अन्योन्यमालिङ्ग्य जले भ्रमन्ति । पुष्पं न किञ्चित् सहते ह्यवज्ञां यद्यन्यपुष्पेण तिरस्कृतं चेत् ॥ ३॥ श्लिष्टा धरा सूर्यकरैः सुगाढं पाथोनिधिं चुम्बति चन्द्ररश्मिः । व्यर्थानि तान्यत्र हि चुम्बनानि न चुम्बसि त्वं यदि मामिदानीम् ॥ ४॥ (इम्ग्लिष्; पि बि षेल्ली; फ़िलासफ़ि आफ़् लव्)

    - पद्यसूची (Index)

    १४. निद्रे!

    सङ्ख्याता नितरां मयाऽविनिवहे सर्वे शनैरेकशः दृष्टं नीलनभः मनस्यविरतं ज्योत्स्नानुलिप्तं वनम् । ओघस्य स्वनितं सहस्रकणिकोद्भूतं समाकर्णितम् । निद्रे त्वं न तथापि मामुपगता को वापराधो मम ॥ १॥ पूर्वस्यां दिशि पर्वतादरुणिताभाऽऽगन्तुमेवेहते आद्यः शालिवने विहङ्गमरवो दूराद् हि संश्रूयते । देवि त्वद्विरहात्प्रतप्तमधुना सङ्गम्य पाहि द्रुतं निद्रे देहि ममाखिलकटुक्लेशघ्नमालिङ्गनम् ॥ २॥ विश्रान्तिं प्रददासि कायहृदयव्यापारखिन्नाय वै इत्याहुः सकलामयार्तिशमने श्रेष्ठा सहाया सखी । अद्य त्वं किमुपेक्षसे जनमिमं त्वत्सङ्गमाकाङ्क्षिणं तूर्णं मीलितलोचनं सुनिभृतं मां चुम्ब खेदापहे ॥ ३॥ (इङ्ग्लिश्; वर्ड्स्वर्त्; स्लीप्)

    - पद्यसूची (Index)

    १५. पितुरुपदेशः

    ``त्वं चिन्तयसि यत् सर्वमन्येषां मा प्रकाशय । समयानुचितं कर्म मा कुरुष्व कदाचन ॥ १॥ भजस्व सर्वैः सौहार्दं तथापि त्यज संस्तवम् । दृढं वृणीष्व मित्राणि सम्परीक्ष्य न चान्यथा ॥ २॥ मा विनोदमयीं चर्यां कुरु सर्वैः सुहृज्जनैः । निवार्ये कलहे बुद्धिं मा कृथाः पुत्र सर्वथा ॥ ३॥ वैरं यद्यनिवार्यं चेत् भूयात् सङ्ग्राममाजयम् । सर्वान् त्वं श‍ृण्ववहितः परं तु मितवाक् भव ॥ ४॥ वस्त्रं यथार्जनं विन्द दैन्यरिक्तं न चोज्ज्वलम् । नरस्य परिधानेन शीलमेवावगम्यते ॥ ५॥ मा भवेरुत्तमर्णस्त्वमधमर्णश्च मा भवेः । मित्रं नष्टं धनं नष्टं ऋणदातुरनेकशः ॥ ६॥ व्यवसायः कुण्ठितः स्यादसकृत् ऋणकर्मणा । आत्मन्यैवार्जवं विन्द तद्भवेत्सर्वतोमुखं'' ॥ ७॥ (इङ्ग्लिश्; शेक्स्पीयर्; हाम्लेट्)

    - पद्यसूची (Index)

    १६. मूढतिम्मुजल्पनम्-१

    (मूलम्ःकन्नड; डीवीजी; मन्कुतिम्मन कग्ग) चित्ते स्वलाभपरता जठरे बुभुक्षा तालाद्वयं सुनिभृतं खलु सृष्टियन्त्रे । उन्मूलयन्नुडुगणान् रचयन्श्च कोटान् तत्त्वां करोत्यनृजुं बत मूढतिम्मो ॥ १॥ (मूले पद्यसङ्ख्या ः ३८४) बालस्य वातिजरठस्य पुराणिकस्य रूपे स्पृहास्ति न हि कस्य पुरोहितस्य । सर्वे समीक्ष्य मुकुरे रहसि स्वबिम्बं कुर्वन्ति वक्त्रविकृतिं खलु मूढतिम्मो ॥ २॥ (प सं ः ४४२) कस्मिंश्चिदन्धविपिने प्रकृतिः प्रसूने वल्ल्याः स्वचित्ररचनाप्रतिभां प्रयुङ्क्ते । कुर्वन्ति ये गुणमयं सकलं स्वकर्म ते जीविते हि कृतिनो खलु मूढतिम्मो ॥ ३॥ (प सं ः ५६४) शैले तृणं भव गृहे भव मल्लिका त्वं कृच्छ्राणि वर्षति विधौ उपलो भव त्वम् । दीनस्य दुर्बलजनस्य तु शर्करा त्वं युक्तो भवाखिलजनैस्सह मूढतिम्मो ॥ ४॥ (प सं ः ७८९)

    - पद्यसूची (Index)

    १७. मूढतिम्मुजल्पनम्-२

    (मूलम्ःकन्नड; डीवीजी; मन्कुतिम्मन कग्ग) (इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया अर्कनाम्ना अभिहितं यस्य लक्षणमिदम् । पञ्चमात्रा गणाः सन्ति चत्वारोऽत्र प्रथमपादे चापि पादे तृतीये । द्वितीये त्रयो ते चतुर्मात्रो ततः चरमे त्रयो गुरुश्चार्काभिधे ॥) ताराः सहस्राणि सन्ति चेन्नभसि किं करदीप एव पान्थस्य निशि शरणम् । दूरे स्थितं दैवमस्तु खलु मानुषो मित्रमिच्छति कमपि मूढतिम्मो ॥ २॥ (मूले पद्य सङ्ख्या ४२४) बन्धनं न हि भवति जन्तुषु मिथो प्रेम आंशिकस्त्वेकलो युगलं सुपूर्णम् । द्विगुणयति सौख्यं च दुःखं विभक्तं च बन्धुता हरिकृपा मूढतिम्मो ॥ ३॥ (प सं ४२९) प्रेक्ष्य किञ्चित्तमसि शुनकस्तु शङ्कया कुत्रापि कोऽपि सुहृदस्तीति मनुते । तत उन्मुखो भषति तद्वदेवेति किं भक्तिर्मनुष्यस्य मूढतिम्मो ॥ ४॥ (प सं ४८४) इष्टका जानाति किं सौधकल्पनां सा विगलिता तर्हि भित्तिरन्ध्रं स्यात् । इष्टकामात्रमसि सृष्टिसौधेऽस्मिन्हि वक्रासि चेत् पतसि मूढतिम्मो ॥ ५॥ (प सं ५३२) अनुभवक्षीरे विचारमन्थनकर्म जनयति ज्ञाननवनीतं हि सुखदम् । शुकजल्पितं ग्रन्थपठनमनुभव एव तव धर्मदीपोऽस्ति मूढतिम्मो ॥ ६॥ (प सं ५४४) वनकुसुमपरिमलघ्रायकः कस्तत्र वर्णरञ्जितशलभसौन्दर्यभोक्ता । अनपेक्ष्य संस्तुतिं प्रकृतिः प्रवृत्तास्ति आत्मतुष्ट्यै एव मूढतिम्मो ॥ ७॥ (प सं ५६६) ज्ञात्वा स्वबलमितिं ज्ञात्वा स्व गुणगणं बाह्यस्थितिं चैव सूक्ष्मं विलोक्य । आचरेत्कार्यस्यपरिधिमनतिक्रम्य यः स धीरो भवति मूढतिम्मो ॥ ८॥ (प सं ५७६) अस्ति किं पथचित्रमुत्पतद्विहगस्य पथविधिर्मत्स्यस्य सलिले किमस्ति । किमपि प्रचोदयति किमपि कर्षत्यत्र पटपत्रमेवासि मूढतिम्मो ॥ ९॥ (प सं ६४१) क्षणतोऽपरक्षणं दिनतोऽपरं दिनं जीवन् स्वकालस्य यापनं कुरु भोः । मनसि लघुता कापि सञ्चरतु शुनकवत् स हि योगविधिरेव मूढतिम्मो ॥ १०॥ (प सं ७६७) बाह्ये जनासक्तिरन्तर्विरक्तिस्तु बाह्ये तु कर्मरतिरन्तर्निरीहा । अन्तरवधीरणा संस्कृतिभरो बहिः योगमार्गः स खलु मूढतिम्मो ॥ ११॥ (प सं ७७३) प्रातरुप्तं बीजमेति किं फलदशां सायमस्त्यत्र खलु कालस्य पात्रम् । ओदनं भवति किं तण्डुलं सत्वरं तितिक्षा साम्प्रतं मूढतिम्मो ॥ १२॥ (प सं ७८१) कुरु किञ्चिदपि कर्म हस्तागतं तत्र मास्त्वहं तृणमात्रमिति कृपणचिन्ता । भुवनदेवालये नास्ति हीनं कर्म स्थानमत्रास्ति तव मूढतिम्मो ॥ १३॥ (प सं ७९०) श्रान्तं धरायां हि ससुखं स्वपन्तं त्व- मुत्तिष्ठ विचिनु शय्यामिति वदसि किम्? । तृप्तिं न नाशयेदुपकृतिभ्रान्त्या तु दुष्करं ह्युपकृतिर्मूढतिम्मो ॥ १४॥ (प सं ८७३) जगदिदं प्राक्तनं नितरां पुरातनं रूढं सहस्राणि साराणि पीत्वा । असुकरं खलु तत्स्वभावपरिवर्तनं तत्र त्वरा मास्तु मूढतिम्मो ॥ १५॥ (प सं ८७५)

    - पद्यसूची (Index)

    १८. कवेऽवगच्छ

    विज्ञानभूतं जगतः सुकाब्यं व्यनाशयन्नीरससत्यशोधे । हृदो महत्त्वं खलु नष्टमास्ते जिज्ञासयेति त्यज गाढशङ्काम् ॥ १॥ कवेऽवगच्छ द्विगुणीकृता वै हृदो प्रतिष्ठा भुवि तेन सम्यक् । ब्रह्माण्डकोष्ठे ह्युडुवृन्दपुञ्जा भवन्त्यनेके बृहतश्च तेषु ॥ २॥ आकाशगङ्गा त्वणुरेव तस्मात् परं त्वणीयान् खलु सौरवृन्दः । तत्रास्ति पृथ्वीत्वणुका च तस्यामणिष्ठभूतः खलु मर्त्यजन्तुः ॥ ३॥ विज्ञानमेतन्मनुजस्य गाढं पराक्रमद्योतकमेव विद्धि । स्वाणिष्ठभावे प्रतताभिमानः हृदो महत्त्वस्य जयध्वजश्च ॥ ४॥

    - पद्यसूची (Index)

    १९. विश्वसांयात्रिकः

    (वायेजर्नाम अन्तरिक्षयानमुद्दिश्य) षट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनम् । विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥ १॥ ``यदा त्वं भुवि सञ्जातः गुरुशुक्रग्रहेक्षणे । विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥ २॥ युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते । विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥ ३॥ एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् । कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥ ४॥ मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् । त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥ ५॥ घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः । घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥ ६॥ शतात् द्वादशकोटीनां मैलदूरात् किमुच्यते । त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद'' ॥ ७॥ ``निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः । तथापि किञ्चिद्वचनं ममैतद्दत्तावधानाः श‍ृणुत प्रशान्त्यै ॥ ८॥ स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव । भवद्भिरेवं रविमण्डलान्तात् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्'' ॥ ९॥

    - पद्यसूची (Index)

    २०. विज्ञानसंस्कृतिः

    (पञ्चमात्राग्रथितगणचतुष्टयमत्र तादृशाः पञ्चपादाः षष्ठपादे तु अधिकगुरुरन्तेऽस्ति षट्पदीत्यभिधीयते) कुत इदं कथमिदं किमिदं कदा कुत्र सम्पद्यते इति प्रविचार्य सर्वतः कृत्वा प्रयोगांश्च मेयानि मित्वा च मतिमूलतर्कविधिनैव संशोध्य खलु परिशीलनं विना न श्रद्धधानाश्च विज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १॥ किं ववौ मारुतो मन्थरं मृदुलं च किं रवेरातपः प्रखरतां नाभजत् किं पुष्पवृष्टिरभवन्नभोमण्डलात् गलिलियो गलिलै यदा जनिमवाप्तवान् यस्माद् हि विज्ञानसंस्कृतिः प्रारभत तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ २॥ प्रक्रियामुपयुज्य गणितस्य समुचिते प्रतिरूपसर्जने सरलतामवलम्ब्य दृष्टतथ्यानां निरूपणे सक्षमाः नूत्नतथ्याविष्करणनिपुणकल्पनाः विरचयन् विज्ञानसंस्कृतिर्विजयते तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ३॥ भूजीवविज्ञानवलयेषु नास्ति चेत् शक्यं प्रयोगनिर्माणमवलोकनैः साक्ष्यानि सम्पाद्य कल्पनां संसाध्य साक्ष्येतरे नूत्नकल्पनासफलता भवति चेत् तां घोषयेदितरधीमतां तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ४॥ विश्वस्य तत्त्वमतिसरलं च सुन्दरं मन्यमानास्तस्य मार्गणे शेमुषीं सततं प्रयुज्य ते सत्यसंशोधकाः विज्ञानगतिपथे प्राचलन् रंहसा नाशयन्तो मौढ्यजालानि सर्वथा तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ५॥ योहान्न केप्लरः ब्राहेउपाह्वस्य टैखोऽभिधेयस्य दीर्घकालात्तबहु -मूल्यावलोकनानाधृत्य सुन्दरं नियमत्रयं कथितवानहो भास्वरो ग्रहाणामिनपरिक्रमणगतिमुद्दिश्य विज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ६॥ दूरदर्शकयन्त्रमवलोकयत तत्र दृश्यते विश्वेऽस्मदल्पता सुविशदं सूक्ष्मदर्शकयन्त्रमस्मच्छरीरस्य पृथुतां प्रदर्शयति शंसाम कुशलतां एकाग्रचित्ततामेवंविधानि यैः सृष्टानि तेषां च ताडयत जयडिण्डिमम् ॥ ७॥ को न जानाति तं मतिमतामग्रणीं न्यूटनं येन खलु चलननियमत्रयं सार्वलौकिकतत्त्वरूपेण वर्णितं येन सर्वद्रव्यगुणसमाकर्षणशक्ति- रन्योन्यमुत्पद्यते नियतमित्युक्त- मथ तस्य संस्कृतेस्ताडयत जयडिण्डिमम् ॥ ८॥ हार्वे उपाह्वं विलियमं चिकित्सकं यो प्रयोगान् बहून् मनुजेषु निर्वर्त्य रक्तचलनक्रियां हृदयस्य पात्रमपि सम्यङ्न्यरूपयत् वैद्यशास्त्रप्रथन- मूलकारणमभूत् तं कृतज्ञाः स्मरत तस्येष्टसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ९॥ जेम्स् वाट इति नाम यस्य प्रथितमस्ति यो प्रयोगान् बहून् सूक्ष्मान्श्च निर्वर्त्य तप्तबाष्पच्छन्नशक्तिचालितयन्त्र- माविश्चकार यत् प्रोद्योगरङ्गस्य परिवर्तने श्रेष्ठपात्राणि निरवहत् तस्य वरसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १०॥ लव्वासियेर्वर्यमाधुनिकरसशास्त्र- जनक इति विख्यातमाम्लजनको येन सम्पादितो स्वप्रयोगालये दीप्त- जलजनकतो जलं भवतीति दर्शितं स्मरन्तो तं च तद्विज्ञानकर्माणि तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ११॥ एड्वर्डजेन्नरःजनपदप्रत्ययं ह्यवलम्ब्य मारकमसूरिकावारणे भूतले प्रथमतो सफलतां प्राप्य खलु आविष्चकार भीषणरोगयन्त्रणं रोगरोधकवेधनीतन्त्रमार्गेण तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १२॥ डाल्टनमहाशयं यो मूलवस्तूनि समगुणैः परमाणुभिः कृतानीत्युचित- भिन्नपरमाणुसंयोगात् हि संयुक्त- वस्तूनि सिध्यन्ति चेत्याह संस्मृत्य रसशास्त्रवर्धनाग्रेसरं ज्ञानिनम् तद्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १३॥ मैकेलफारडे इति नाम यस्य यो चलदयस्कान्तस्य निकटे स्थिते लोह- सूत्रेऽनुभूयते तडिच्छक्तिरिति तं प्रोद्योगपरिवर्तकं तत्त्वमकथयत् तं लोहकारस्य तनयं प्रशस्य भोः तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १४॥ प्राकृतिकचयनाद् हि जीववैविध्यमिति विज्ञानपरिवर्तकं तत्त्वमकथयत् सङ्गृह्य जन्तून्स्तदस्थ्यादिशेषान्श्च पाषाणभूतान्श्च विज्ञानशेखरः तं डार्विनं चार्लसाभिधं संस्मृत्य तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १५॥ करसहस्राद् यन्त्रमेकं समर्थं हि तैलखनिजाङ्गारबाष्पचालितमहो द्रुतगतौ प्रचलन्ति यानानि खे जले भूमौ च यैर्निर्मितानि नैपुण्येन तान् कर्मयोगिनो संस्मृत्य सविनयं तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १६॥ सूक्ष्मविषकृमिभिर्ह्यनेकरोगोद्भवो भवतीति साधितं सूक्ष्मप्रयोगैश्च निःशक्तकृमिमूलभेषजान्युपयुज्य नैकरोगा येन वारिता प्रथमतो तं लूयिपेस्चरं संस्मृत्य सादरं तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १७॥ योहान्न मेन्डलः क्रैस्तधर्मार्चकः सस्यरोपणविधौ यन्त्रितपरीक्षणान् निर्वाह्य वंशानुगतगुणानां विधीन् सम्यङ्न्यरूपयत् हन्त स्वजीविते ख्यातिं न लब्धवान् तद्गुणान् संस्मृत्य तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १८॥ मेण्डलीफ्नामरसशास्त्रवित् पाणिनेः वर्णमालाक्रमात्स्फुरितधीर्व्यरचयत् मूलवस्त्वणुभारमनुसृत्य समुचितं क्रमबद्धगुणगणाधृतफलकमद्भुतं येन नवमूलवस्त्वस्तित्वमवगतं तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १९॥ कान्तीयवैद्युतक्षेत्रयोर्वीचय- स्त्वाकाशमाध्यमे ज्योतिषो वेगेन विसरन्ति दीप्तिरपि तदभिन्नवीचिर्हि इति महासिद्धान्तमावृणोत् निशितधीः जेम्स् क्लर्क माक्स्वलो संस्मृत्य तं मुदा तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २०॥ माक्स्-प्लान्कवर्यो निरदिशत् स्वमेधसा शक्तिप्रसारणं खण्डशो भवतीति मूलतत्त्वं येन भौतविज्ञानस्य नूत्नमार्गोऽभवत् खण्डवादस्य वै बीजवापनमभूत् स्मरन्तो तां कृतिं विज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २१॥ दास्यभावव्यथितदेशेऽस्मदीये हि सम्भूतवान् कोऽपि महनीयमानवः तन्तुं विनाकाशमाध्यमे प्रसरणं विद्युत्तरङ्गस्य साध्यमिति निरदिशत् जगदीशचन्द्रबसुमुज्ज्वलं स्मरन्तो विज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २२॥ मरीक्यूरीत्यभिहितां निशितधीमतीं या स्वभर्त्रा साकमाविरकरोन्नूत्न- मूलवस्त्वनुपमं रेडियन्नामकं नोबेलुपायनं यस्यै प्रदत्तं द्वि- रद्वितीयां स्त्रियं स्मरन्तो सादरं तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २३॥ ऐन्श्टैनमाल्बर्टुपाह्वममितप्रभं यो दीप्तिवेगस्य नित्यतामाधृत्य दिक्कालमिथुनस्य सापेक्षतां तथा द्रव्यशक्तिद्वयस्यान्योन्यसमतां च संस्थापयामास संस्मृत्य तं गुरुं तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २४॥ श्रोडिङ्गरं नमत भौतशास्त्राग्रणीं यो खण्डवादस्य जनक इति विश्रुतो द्रव्यं कदाचिदप्यणुरूपतां भजेत् अन्यदा वीचिवत् व्यवहरेदिति महा- गणितमयवरसमीकरणेन साधितं येन तत्संस्कृतेस्ताडयत जयडिण्डिमम् ॥ २५॥ चन्द्रशेखरवेङ्कटरमणाभिधोऽयं रामन्प्रभाव इति विदितामवेक्षणां द्रव्याणुभिर्दीप्तिविकिरणप्रकरणे साग्रहं सन्दर्श्य नोबेलुपायनं वरभारतरत्नोपाधिमलभत महान् तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २६॥ अलेक्साण्डर् फ़्लमिन्ग् वर्येण वैद्येन सूक्ष्मगदजनकजन्तून्मूलने जयः प्राप्तो नु पेनिसिलिनेत्याह्वभेषजात् नोबेलुपायनं प्राप्तं च कोटिशः रुग्णा निरामया अभवन् तदगदेन तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २७॥ वाट्सनं क्रिक्वर्यं अतुलप्रभाविनौ जीवशास्त्राङ्गणे यौ सर्वजीविनां मूलेष्टकाभूतसत्त्वप्रकाशने सफलतां प्राप्य खलु जगति कीर्तिं चापि लब्धवन्तौ नमत सत्यसंशोधकौ तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २८॥ सङ्गणकयन्त्रस्य जनक इति विश्रुतं ट्यूरिङ्गनामानं आङ्ग्लदेशस्थितं विश्वसमरे चाङ्ग्लदेशजयकारणं सार्वत्रिकं गणकयन्त्रमाविष्कृत्य शाश्वतयशोभाजनं गण्यमादृत्य तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ २९॥ ट्रान्सिस्टरिति लोकविदितोपकरणाद्धि नवविविधसौकर्यगणजन्मसाध्यता तत्सम्भवे मुख्यकारणजनत्रयान् षाक्लीमहोदयं ब्रट्टेनबार्डीन वर्यौ च तत्साधितं चैव संस्मृत्य तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३०॥ प्रथमकृतकोपग्रहं स्पुट्निकं स्मरत शश्युपग्रहतले प्रथमतो न्यस्ताङ्घ्रि- मप्रतिमसाहसं तं मानवं नमत तत्कार्यसाधकानगणितान् च स्मरत व्योमयानज्ञानसफलतां च स्मरत तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३१॥ गणकयन्त्राधारदूरवाक्केन्द्राणि कृत्रिमग्रहवाह्यसंवहनकेन्द्राणि काचतन्तुस्तोमवाहिनीजालं च संज्ञाप्रचारणे सौदामनीरयं प्राकल्पयन्कन्दुकीकृतधरण्यां हि तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३२॥ व्योमशास्त्रज्ञेषु निष्णातमप्रतिम- धीशालिनं चन्द्रशेखरं नक्षत्र- -गणगात्रसीमानमधिकृत्य साधितः चन्द्रमर्यादेति विख्यातवरविधिः येन नोबेल्पदकजयिनं समादृत्य तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३३॥ स्वातन्त्र्यपूर्वभारतदेशसञ्जात- विदितहरगोविन्दखोराननामान- मद्भुतपरीक्षकं येन प्रदर्शितो जीवसूत्रग्रथनमार्गः प्रयोगैश्च स्मरन्तो नोबेलुपायनोपार्जकं तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३४॥ चलदूरवाण्यैव कर्षका वणिजश्च कर्मकाराः स्वकार्यार्थमविरतमहो सर्वत्र लीलया संलापमग्ना हि वैद्युतान्तर्जालतन्त्रेण जगदिदं करतलामलकवत् ज्ञानगोचरमभूत् तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३५॥ कृतकधीयन्त्राणि गगने पतङ्गवत् डयने समर्थाणि शत्रुजननाशे च चतुरङ्गखेलने वृद्धजनसेवने गृहकार्यनिर्वहणतन्त्रे च मतिमतो तद्यन्त्रसर्जने कारणान् संस्मृत्य तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३६॥ वैद्यशास्त्रे प्रगतिरवितर्क्यसफलतां प्राप्ता नु नूत्नसफलागदाः मानवं स्वस्थं प्रकुर्वन्ति शल्यतन्त्रज्ञास्तु लीलया युञ्जते ह्यन्यदेहाङ्गानि रोबोटयन्त्राणि शस्त्रवैद्यास्त्वहो तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३७॥ विज्ञानयाने तु वेगेन सञ्चलति भूगतोर्जाव्ययात् उष्णतात्वेधते हिमानी प्रवहति च जलसम्प्लवो भवति वर्धते सागरः सीमानमुल्लङ्घ्य कृच्छ्रस्य वारको विज्ञानमेवास्ति तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३८॥ जलवायुभूमिप्रदूषणमनियमितं प्राणिनामन्तकः सद्यो भवेदिति हि कथयन्ति विज्ञानिनो श‍ृणुत तान् जनाः सर्वथा प्रकृतिप्रदूषणस्तम्भनं कार्यमित्यवगम्य तत्कर्म साधयत तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ३९॥ विज्ञानमुत्कृष्टसाधनं केवलं मनुजो विविच्य तज्जनहितं साधयेत् उपयुज्य सादरं नो चेद्विनाशो हि सकलजगतोऽस्माद् हि कारणात् ज्ञानेषु मानवविवेचनज्ञानमतिरिच्यते तज्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ ४०॥

    - पद्यसूची (Index)

    २१. गूगलस्तवः

    (गूगल्नाम्नः अन्तर्जालतन्त्रस्य प्रशंसा) ``कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् । किं मूल्यं च भवेन्मित्र'' ``गूगलं शरणं व्रज'' ॥ १॥ ``अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् । कुत्रास्ति वैद्यो मे ब्रूहि'' ``गूगलं शरणं व्रज'' ॥ २॥ ``भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते । किं मूल्यं च कियद्दूरं'' ``गूगलं शरणं व्रज'' ॥ ३॥ ``चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् । तत्र दर्शनवेला का'' ``गूगलं शरणं व्रज'' ॥ ४॥ ``कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् । वर्त्मना केन गच्छानि'' ``गूगलं शरणं व्रज'' ॥ ५॥ ``विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् । तत्र पश्याम किं मित्र'' ``गूगलं शरणं व्रज'' ॥ ६॥ ``कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते । समानार्थपदं किं स्यात्'' ``गूगलं शरणं व्रज'' ॥ ७॥ ``चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् । इच्छामि पठितुं ग्रन्थं'' ``गूगलं शरणं व्रज'' ॥ ८॥ ``शालायां सहपाठी मे कुत्राद्येति कुतूहलम्'' । ``देशकालततायामं गूगलं शरणं व्रज'' ॥ ९॥ ``चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् । नवोद्योगं तदा सद्यः गूगलं शरणं व्रज'' ॥ १०॥ ``विमानरेल्-यानानां गमनागमनेषु किम् । विलम्बं सूच्यते मित्र'' ``गूगलं शरणं व्रज'' ॥ ११॥ ``कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् । कुत्र सूर्यप्रखरता'' ``गूगलं शरणं व्रज'' ॥ १२॥ ``नगरे मम का वार्ता मद्देशे वा महीतले । क्रीडासु जनसौख्ये च'' ``गूगलं शरणं व्रज'' ॥ १३॥ ``तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा'' । ``सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज'' ॥ १४॥ ``आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि । गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज'' ॥ १५॥

    - पद्यसूची (Index)

    २२. सिकन्दरस्य चरमयात्रा

    विजित्य नानाक्षितिपान् सलीलं सिकन्दरः शौर्यवतां वरिष्ठः । रक्तप्रवाहार्जितवित्तराशीनादाय दृप्तः स्वपुरीं प्रतस्थे ॥ १॥ मार्गे गदग्रस्तमिमं नरेशं निष्णातवैद्या उपचेरुरार्तम् । तथापि कालेन विधेर्विपाकान्नृपः क्रमेण क्षयतां प्रपेदे ॥ २॥ तल्पे शयानः मरणावसन्नः चिन्ताग्निना भूरि विदह्यमानः । आनाय्य सेनाधिपतीन् बलिष्ठान् शनैरवोचत् स मृदुस्वरेण ॥ ३॥ भो मे प्रियाः पश्यत मां शयानं महौजसं क्ष्मापतिसार्वभौमम् । अशक्तमल्पायुषमल्पवीर्यं चर्मास्थिशेषं शिशुवद् हि पाल्यम् ॥ ४॥ दूरे स्थितां मातरमुत्सुकेन द्रष्टुं मयाऽशक्यमधन्यतायाः । यूयं त्विदानीं कुरुत प्रपूर्णान् त्रयोऽभिलाषान् मम साभियोगम् ॥ ५॥ वैद्या वहेयुर्मम मृत्युपेटीं नान्ये श्मशानं प्रथमाभिलाषः । श्मशानमार्गे रजतं सुवर्णं विकीर्यतां सम्यगिति द्वितीयः ॥ ६॥ हस्तौ मदीयौ शवपेटिकायाः विलम्ब्यमानौ भवतां तृतीयः । त्यजेत् प्रभुत्वं मरणावसन्नं प्रायेण राजानमिति ब्रुवन्ति ॥ ७॥ तां यूयमार्या वितथां कुरुध्वं भूयात् शुभं वोऽद्य दिवं व्रजामि । श्रुत्वा गिरः दुःखकरीः इमास्ते सप्रश्रयं भूपमिदं ह्यपृच्छन् ॥ ८॥ कर्तव्यमस्माभिरवश्यमेव ह्यभीष्टमस्मद्दयितप्रभोस्ते । प्रष्टव्यमत्रास्ति तथापि राजन् एतेषु कृत्येषु तवास्ति कोऽर्थः ॥ ९॥ कृछ्रेण राजा स्मयमान ईषत् शनैरवोचत् श‍ृणुतेममर्थम् । विनेश्वरेच्छामगदैर्न रुग्णं स्वस्थं कदाप्यत्र करोति वैद्यः ॥ १०॥ सुवर्णरूप्यादिधनेषु साकं मृतेन नैतीषदपीह लोके । शिशुर्यथागच्छति रिक्तहस्तस्तथैव निर्गच्छति वै मृतोऽपि ॥ ११॥ इति वदति महीशे दण्डपालान् महाढ्यान् अविरलमवसन्नास्तेऽपि बाष्पानमुञ्चन् । गतवति धरणीशे स्वर्गमुत्सृज्य सर्वं जलधिमभिससारेवातिखिन्ना दिनश्रीः ॥ १२॥

    - पद्यसूची (Index)

    २३. मण्डेलाय श्रद्धाञ्जलिः

    यो जज्ञेऽसितवर्णभूपतिकुलेऽवाङाफ्रिकाभूस्थले येन श्वेतजनप्रशासनविरोधार्थं कृतो विग्रहः । यो श्वेतैः बहुवत्सरावधि तनुद्वीपे निबद्धोऽभवत् यो पश्चात् सकलैः सितासितजनैर्देशेषु सम्भावितः ॥ १॥ राष्टाध्यक्षपदं मुदा सविनयं धीरेण येनार्जितं नोबेल्भारतरत्नपदवीभाग्यो महान् निःस्पृहः । गान्धीमार्गचरः सदा स्मितमुखो लोकप्रियः सज्जनः मण्डेलाख्यमहोदयाय भवते श्रद्धाञ्जलिं दद्महे ॥ २॥

    - पद्यसूची (Index)

    २४. साहं भीतिः

    अज्ञानान्मे जननमभवत् पोषिता दुर्नयेन नैराश्यं मे दयिततनुजः सोदरः कालनाशः । शत्रुर्वृद्धेरलघुकरणं पीडने च प्रजानां साहं भीतिर्हृदयवसतिः कण्टकं लोकमार्गे ॥ १॥ नैकान् वर्णान् खलु सरटवद्धारयन्ती सलीलं प्रख्यातास्मीत्यवहितमतिः कुत्रचित् गाढशङ्का । आशाभङ्क्त्री खलु युवजने ध्वंसिनी सुस्पृहायाः लक्ष्यच्छेत्री सरलमनुजानन्वहं क्लेशयामि ॥ २॥ एकः स्वामी यमहमनिशं संस्मरन्ती प्रवेपे येनाज्ञप्ता मनुजमनसः सत्वरं प्रद्रवामि । ख्यातो लोके कुशलमतिभिर्विश्वजेता विवेकः तं हे मर्त्या व्रजत शरणं शून्यतां यामि शीघ्रम् ॥ ३॥ (इङ्ग्लिश्ः अन्तर्जालम्)

    - पद्यसूची (Index)

    २५. तुष्टिः

    (३-५-४-४) चित्रशलभमभिधावसि चेत्त्वं तं ग्रहीष्यसि कदापि न मित्र । त्वं भविष्यसि यदा निरपेक्षः स्वैरमेव स उपैति खलु त्वाम् ॥ १॥ तद्वदेव यदि वाञ्छसि तुष्टिं तां तु कदाप्यनुसृत्य न गच्छेः । यद्युदास इव तिष्ठसि चेत्त्वां स्वेच्छयैव खलु सा त्वभिधावेत् ॥ २॥

    - पद्यसूची (Index)

    २६. गृध्रशशौ

    उत्तुङ्गवृक्षे ससुखं निषण्णं गृध्रं क्रियाहीनमवेक्ष्य कञ्चित् । धरानिविष्टः शशकस्तमूचे साध्या नु किं निष्क्रियता मयापि ॥ १॥ किं संशयं मित्र, सुखेन तिष्ठेत्युक्तो स भूमौ निषसाद तूष्णीम् । हन्त क्षुधार्तेन स जम्बुकेन व्यापादितो भक्षित एव तूर्णम् ॥ २॥ उच्चैः स्थितस्यैव हि जीवयात्रा सिद्ध्येन्न कुर्वन्नपि कर्म किञ्चित् । अन्योऽनुवृत्तिं यदि कर्तुम्मिच्छेत् ध्रुवं विनश्येत् शशवत् स शीघ्रम् ॥ ३॥ (इङ्ग्लिश्ःअन्तर्जालम्)

    - पद्यसूची (Index)

    २७. बस्ततुरङ्गमौ

    कृषीवलः पालयति स्म कश्चित् बस्तं हयं चैव गृहे स्वकीये । यदा हयस्त्वामयपीडितोऽभूत् स वाजिवैद्यं त्वरयानिनाय ॥ १॥ परीक्ष्य वैद्यः प्रसभं तुरङ्गमयच्छदस्मायगदं महार्घम् । बभाण भोः खादय जायुनेममश्वं सयत्नं दिवसत्रयं त्वम् ॥ २॥ भवेत् तुरङ्गः सबलो निरीतिः भवेः सहर्षस्त्वमपि प्रसन्नः । यद्यन्यथा चेत् प्रसभं तुरङ्गं हन्या न यावत् प्रसरेद्विकारः ॥ ३॥ विषक्रिमिग्रस्तहयात् यथान्यजीवी लभेन्नामयदोषमाशु । तथाप्रमत्तस्त्वमिमं तुरङ्गं दिनत्रयं पालय सानुकम्पम् ॥ ४॥ आदेशमेनं श्रुतवान् समीपे स्थितः स बस्तोऽवहितस्तदानीम् । कृषीवलस्त्वश्वमखादयत्तं दिनेऽगदेन प्रथमे यथोक्तम् ॥ ५॥ उवाच बस्तो विनयान्वितोऽश्वं भो मित्र शीघ्रं सबलो भव त्वम् । यद्यन्यथा त्वां कृषकस्तु हन्यादुत्तिष्ठ यत्नेन जिजीविषुश्चेत् ॥ ६॥ उत्थातुमश्वस्तु मनाक् न येते तथैव चाभूदहनि द्वितीये । बस्तस्तृतीयेऽहनि भूय एव हयं कृपालुः समुपाजगाम ॥ ७॥ उवाच कष्टं श‍ृणु मां श्व एव निस्संशयं त्वं यमसद्म गन्ता । यदि त्वमुत्तिष्ठसि चेन्न मित्र यतस्व तस्मादधुनैव शीघ्रम् ॥ ८॥ श्रुत्वा गिरस्तस्य हयस्तदानीं शनैः शनैः भीरुतयोदतिष्ठत् । बस्तः सहर्षं व्यनदत्सुदीर्घं श्रुत्वागमत् भीतकृषीवलोऽत्र ॥ ९॥ पादैः स्थितं तं तुरगं विलोक्य सानन्दमुच्चैरवदत् स्वभृत्यान् । अयं ममाश्वोऽद्य गदाद्विमुक्तः भूयान्महो मे निलयेऽद्य एव ॥ १०॥ हनाम बस्तं तरसा सुपुष्टं पिबाम खादाम च बस्तसूपम् । प्रायेण सत्कार्यपरो हि जन्तुः सुकर्मणा स्वेन लभेत नाशम् ॥ ११॥ (इङ्ग्लिश्-अन्तर्जालम्)

    - पद्यसूची (Index)

    २८. शुनकगीतम्

    आत्मन्यप्यधिकं मयि त्वमनिशं सक्तो ददासि स्वकं कृत्स्नं यद्यपि ते मदीयमणुकं खाद्यं स्थलं प्रेम च । दत्तं मे वदनं यदानवरतप्रेम्णा त्वया लिह्यते स्वर्गानन्दविडम्बनं मम तदा धन्योऽस्मि हे कुक्कुर ॥ १॥ सत्यं त्वं न भवेर्मदीयमखिलं बह्वाश्रयं जीवितं सम्पूर्णं न भवेत् तथापि शुनक त्वत्स्पर्शसौख्यं विना । प्रेत्य त्वं यदि यास्यसि प्रियसख स्वर्गेतरं सत्पदं स्वर्गं चापि विहाय तत्पदमहं गन्तास्मि निस्संशयम् ॥ २॥

    - पद्यसूची (Index)

    २९. गरुडस्तुतिः

    या दूरदृष्टिस्तव भक्ष्यजन्तौ तथैव लक्ष्ये हि ममापि सम्भवेत् । यथात्सि जन्तुं स्वमुखेनविद्धं तथैव भुञ्ज्यां ममपाणिनार्जितम् ॥ १॥ यथाद्वितीयः डयसेऽम्बरे त्वं तथैव धैर्येण महत्वमाप्नुयाम् । नैतद्विचित्रं यदभूर्गरुत्मन् वाहो हरेः सद्गुणवारिधे नमो ॥ २॥

    - पद्यसूची (Index)

    ३०. विहगः मधुकरश्च

    श्रमार्जितं त्वन्मधु मिष्टमन्ये सुखेन मर्त्याः खलु चोरयन्ति । कथं न खिन्नोऽसि वदेति पृष्टः खगेन कश्चिन्मधुपः कदाचित् ॥ १॥ मुष्णन्तु मूढा मम किं मनुष्या करोमि भूयो मधु लीलयाहम् । यावन्न मुष्टं मम कर्मदाक्ष्यं मुष्टं न किञ्चित् विहगेत्युवाच ॥ २॥ (इङ्ग्लिश्ः अन्तर्जालम्)

    - पद्यसूची (Index)

    ३१. स्वल्पाभावात् सम्भवेत् सर्वनाशः

    कीलाभावान्नोपयुक्तं खुरत्रं तस्याभावान्नोपयुक्तस्तुरङ्गः । अश्वाभावात् प्राचलन्नैव सादी युद्धे हानिः प्राभवत् साद्यभावात् ॥ १॥ युद्धे घातात् राज्यमेव प्रणष्टं कीलाभावादेव राज्यस्य नाशः । स्वल्पाभावात् सम्भवेत् सर्वनाशः हन्तानूह्या हेतुकार्यप्रणाली ॥ २॥ (इङ्ग्लिश्;नर्सरि रैं)

    - पद्यसूची (Index)

    ३२. छिद्रान्वेषी

    ``कृतकशुकोऽयं व्यथयति मां सुभृशं केन निर्मितो वद मे । कर्ता कर्मण्यपटुः संशीतिर्मम न तत्रास्ति ॥ १॥ कृतका खगा मया कति सुभगा विहिता क्व चारुता तेषाम् । क्वेदं वैरूप्यं भोः अपसारयतेममधुनैव ॥ २॥ किमिदं शुकस्य तुण्डं, को निगदति कण्ठ इति शुकस्येमम् । शुकपक्षौ किमिमौ वद? पादौ वक्रौ नखा निम्नाः ॥ ३॥ इत्थं जल्पति सुचिरं कृतकविहगकृतिविचक्षणे सहसा । तमभिभवन्निव कीरः तरसोदपतद्गवाक्षाद्वै ॥ ४॥

    - पद्यसूची (Index)

    ३३. कोऽसौ विकारः?

    कार्याय कोष्ठं प्रविशामि पश्चादहं कुतोऽत्रेति विचिन्तयामि । कुत्रापि गोप्यं तु निवेश्य पश्चात् तद्वस्तु कुत्रेति गृहे ह्यटामि ॥ १॥ वृद्धेन मित्रेण चिरं प्रभाषे किं नाम तस्येति च तर्कयामि । करोमि किं वैद्य वदेति पृष्टोऽगदद्धनं देहि ततो वदामि ॥ २॥

    - पद्यसूची (Index)

    ३४. अतिथिसत्कारः

    ``स्वागतं स्वागतं तुभ्यं चिराद्दर्शनमागताः । अद्यास्माकं दिनं धन्यमतर्कितसुखावहम् ॥ १॥ (मयाद्य किं कृतं पापं तत्फलोऽयं समागमः । धनव्ययस्तथा कालहरणं मे भवेद्ध्रुवम्) ॥ २॥ अलङ्कुरुत सन्मान्या आसनानि यथासुखम् । (पर्याप्तान्यासनान्यत्र न भवेयुरिति स्पृहा) ॥ ३॥ आनन्दोदधिमग्नोऽहं त्वद्बालाश्चागता इति । (मर्कटास्ते विनष्टं स्यात् सर्वं वस्त्वत्र खण्डितम्) ॥ ४॥ ददाम पेयं किं भक्ष्यं ब्रूथ वाञ्छथ निस्त्रपाः । (भक्षयिष्यन्ति पास्यन्ति सर्वं सद्यो यदर्पितम्) ॥ ५॥ पुत्र्या मे गायनं यूयं श्रोतुमर्हथ सुस्वरम् । (कृतार्थोऽस्मि सुतां श्रुत्वा पलायन्ते यदि द्रुतम्) ॥ ६॥ ``द्रष्टुं पुत्थलिकाचित्रं मे बाला आगतात्र वै । अस्मत्साक्षात्करं दोषपूरितं क्षम्यतां यतः'' ॥ ७॥ इति किं वक्षि? सुकरमिदानीमेव तद्भवेत् । भार्ये साक्षात्करं तेभ्यः चालयाशु विचक्षणे ॥ ८॥ ``अस्मत्साक्षात्करं चापि सदोषम्'' इति भाषसे? । अहो, मम हि दौर्भाग्यं, क्षम्यतां करवाणि किम्? ॥ ९॥ ``स्वस्ति वोऽस्तु गमिष्यामो प्रातिवेश्यगृहं द्रुतम्'' । इति किं वदथ, क्षिप्रं मिलामो भवतात् शुभम् ॥ १०॥ (सम्पन्नं सुदिनं दिष्ट्याऽहो मे पत्न्याः प्रगल्भता । विद्युत्तन्तू साधनस्य निभृतं विचकर्ष या ॥)'' ॥ ११॥ (साक्षात्करः=टेलिविशन्)

    - पद्यसूची (Index)

    ३५. महान्त ऊचुः

    तरोरधश्चेद्यदि मुष्टिमानमन्नं सुरायाश्चषकं च काव्यम् । त्वं गानलोला मम पार्श्वतोऽसि स्वर्गायते काननमेव कान्ते ॥ १॥ कुरु प्रपूर्णं मधुपानपात्रं प्रयाति कालः प्रसभं प्रिये त्वम् । श्वो न प्रसूतं च विचेतनं ह्यो यद्यद्य मिष्टं वद किन्नु ताभ्याम् ॥ २॥ (इङ्ग्लिश्ः एड्वर्ड् फ़िथ्स् जेराल्ड्ः रुबयत् आफ़् उमर् खयाम्) पद्भ्यां हि गच्छन् यदि कुक्कुरः सखे जनप्रशंसां लभते कदाचन । सा केवलं तस्य गतेः सुशक्यतां न चारुतां सूचयतीति निश्चितम् ॥ (इङ्ग्लिश्ः सामुयल् जान्सन्) बहवः पुरुषा लोके मूढा एव भवन्ति वै । योऽभिप्रायः बहूनां सः मौढ्यजन्यो भवेदतः ॥ (इङ्ग्लिश्ः बर्ट्रेन्ड् रसेल्) यन्मयाऽपरिवर्त्यं तद्यथा स्वीकरवाण्यहम् । देहि मे मनसः शान्तिं देहि धैर्यं तथा प्रभो ॥ यन्मया परिवर्त्यं च कुर्यां तत्परिवर्तनम् । यथा ते त्वभिजानामि विवेकं देहि मे तथा ॥ (इङ्ग्लिश्; रैन्होल्ड् नीबूर्) मदुत्कटेच्छा विहगस्य कूजितैः प्रशान्तिमाप्नोत्यहमप्यमेयम् । प्रहर्षमाप्नोमि विहङ्गवन्मन्-मुखेन गायेः किमपीश्वर त्वम् ॥ मम चेतस्तव प्रेम्णा शरीराद्गगनं गतं त्वयाहमुद्धृतो द्वाभ्यां जगद्भ्यामभवं प्रभो । समागते तवादित्ये द्रुतं मद्वर्षसीकरैः । उन्नयेद्वारिधरवत् मच्चेतस्तव तिग्मता ॥ (पर्सियन्/इङ्ग्लिश्; जलालुद्दीन् रूमि) न बुध्यन्ते मम गिरो न भोत्स्यन्ते कदापि ते । देहि तेभ्यः हृदन्यं वा जिह्वामन्यां महेश मे ॥ (उर्दू;मिर्ज़ा गालिब्) जगद् हि रङ्गः पुरुषास्तु नर्तकाः स्त्रियोऽभिनेत्र्यो प्रभवन्ति पश्यत । निर्यान्ति केचित् प्रविशन्ति केचिद- त्रैको विधत्ते किल नैकपात्रताम् ॥ (इङ्ग्लिश्; विलियं शेक्स्पीयर्) धनिकेभ्यो धनं लब्ध्वा निर्धनेभ्यो मतानि च । नायकः प्रतिजानीतेऽन्योन्यभीतिनिवारणम् ॥ (इङ्ग्लिश्; मार्क् ट्वेन्) यदि नरकभयात्त्वां प्राप्नुयां हे प्रभो मां प्रहिणु नरकमेव स्वर्गकामो व्रजेयम् । भवतु मम निषिद्धः स्वर्गमार्गो यदि त्वां अनुभवितुमहमिच्छुः स्वीकुरु त्वं द्रुतं माम् ॥ (अराबिक्/इङ्ग्लिश्; राबिय बस्रि) अर्थोऽयमेव प्रजातन्त्रतायाः । भृत्यो भवेयं न तस्मान्न भर्ता ॥ (अब्रहां लिन्कन्) तवाग्रदृष्टिर्यदि वर्षसीमिता निधेहि शालिं दशवर्षसीमिता निधेहि वृक्षान् यदि सा शतं समाः सखेत्वमध्यापय बालकान् ध्रुवम् ॥ (चैनीस्; कन्फ़्यूसियस्)

    - पद्यसूची (Index)

    ३६. मुक्तकानि

    इयं हि प्रार्थना भूयात् प्रत्यहं मे कृपानिधे । यादृशं सुखमस्त्यद्य श्वोऽस्तु मे तादृशं प्रभो ॥ १॥ कृतं तत् गतं तत् न कार्यं न गम्यं ममात्रास्ति किञ्चित् । हर त्वं द्रुतं मां त्वदीयं परिष्वङगमेव प्रतीक्षे ॥ २॥ पुत्रे शालां प्रयाते गतवति पितरि क्रेतुमगदं याच्ञामादृत्य भर्तुः निधुवनसुखमिच्छोः प्रियतमा । भुक्ता श्रान्ता सुतृप्ता स्वपिति रमणमाश्लिष्य सुचिरं स्वेदक्लिन्नापराह्णे विगलितपरिधानाऽमितरतिः ॥ ३॥ (म्रौभ्नौ पश्चात् यनौगुः मुनियतिसहिता रम्यचरणा । अस्मिन् रम्यचरणानाम्नि नववृत्ते मगणरगणौ तदनु भगणनगणौ पश्चात् यगणनगणौ अन्ते गुरुश्च भवन्ति । मुनियतिसहिता सप्ताक्षरान्ते यतिश्च सम्भवति ।) दयितेक्षणगुणबद्धः स्वोद्योगाय तरुणो जिगमिषुः किम् । स्वगृहाद्बहिर्गतो वा न हि देहल्येव जानीते ॥ ४॥ तस्या मुखेन्दोः स्मितचन्द्रिका सा विनाशयन्ती स्वमरीचिजालैः । चिन्तातमः प्रेक्षकमानसाब्धौ आनन्दवीचीर्जनयाञ्चकार ॥ ५॥ सम्मार्जनीं स्वरसनां खलु मन्यमानाः केचित् स्वचित्तशुचितां पुरुषा यतन्ते । कुर्वन्त एव कलुषं परमानसं ते दूष्य़ा भवन्ति परिमार्जनधूलिदिग्धाः ॥ ६॥ गतं शोकप्रदं चैव भयप्रदमनागतम् । न चिन्तयन् स्मेरवक्त्रो जीवेद्धीरः क्षणात् क्षणम् ॥ ७॥ यदि श्रद्धालुस्त्वं परिणमति नूत्नं प्रतिदिनं भवेत्स्वप्नः सत्यं भवति घटना विस्मयकरी । स्वसामर्थ्ये धैर्ये भजसि दृढतां तोषजननीं प्रभग्नास्वाशासु प्रभवसि पुनः प्रयतितुम् ॥ ८॥ (इङ्ग्लिश्; अन्तर्जालम्) हर्षस्फीते बन्धुजने रुदन्नहमवातरम् । रोदिष्यति प्रियजने मृतिर्मेऽस्तु हसिष्यतः ॥ ९॥ (उर्दू) कुतो मत्तः जुगुप्सन्ते त्वयि स्निह्यन्ति मानवाः । इति पृष्टं कृतान्तेन जीवनं प्रत्यभाषत । त्वं यतो दुःखदं सत्यं मिथ्याहं सुमनोहरम् ॥ १०॥ (इङ्ग्लिश्ः अन्तर्जालम्) पुरुषस्य त्रयो स्वप्नाः मातृभावितचारुता । जायाभावितजारिण्यः पुत्रभावितवैभवम् ॥ ११॥ (इङ्ग्लिश्ः अन्तर्जालम्) कोऽपि न हि पाठयत्युद्गिरणमग्न्यगं न च कूलनाशनं वारिधितरङ्गम् । न तु वृक्षभञ्जनं वात्यां युवानं गेहिनीवरणं च सहजापदस्तानि ॥ १२॥ (इङ्ग्लिश्ः अन्तर्जालम्) प्रखररविमयूखैः फुल्लतां याति पुष्पं परिणमति विशुद्धं स्वर्णमग्नौ प्रतप्तम् । प्रभवति नवनीतं मन्थनात् तक्रपात्रे प्रबलबुधविवादात् जायते विश्वतत्त्वम् ॥ १३॥ न त्वं सोऽहं मन्यसे यं त्वमेव न त्वं सोऽसौ मन्यते यः परैश्च । ज्ञातोऽस्मीत्थं वै परैरित्यवैषि नासि त्वं भोः केवलं श्रीशवेद्यः ॥ १४॥ वित्तस्यूते जनकजननीचित्रमादौ निधाय पश्चात्पत्न्याः तरुणवयसि न्यस्तमह्नाय चित्रम् । प्राप्ते मध्ये वयसि तदनु स्थापितं पुत्रिकायाः वार्धक्ये वै अहह निहितं बालगोपालमूर्तेः ॥ १५॥ बधिरस्य जगन्मूकमन्धस्य च तमोमयम् । तथा किङ्कर्तव्यतामौढ्यं विवेकरहितस्य वै ॥ १६॥ धनेन तोषो न कदाचनेति गाथास्ति सत्यं श‍ृणु मां परन्तु । हरे कुरु त्वं धनिनं तथा तद्यथार्थतामात्मनि साधयेयम् ॥ १७॥ द्युतिः शब्दात् प्रवहति द्रुतं तस्माद्धि केचन । भ्राजमाना हि दृश्यन्ते यावत् संश‍ृणुमः न तान् ॥ १८॥ विवेकहीनैर्मनुजैर्मदाविलैः कृतं विलोक्य प्रकृतेः प्रदूषणम् । प्रवाहभूकम्पपयोधिवीचिभिः जनान् जघानाशु जनार्दनो रुषा ॥ १९॥

    - पद्यसूची (Index)

    ३७. चन्द्रिका

    वणिग्वरः कश्चिदुवास वित्तवान् हरेः कृपापात्रगतो स्वकर्मणा । प्रियासमेतो नगरे महापुरे स्वधर्ममाश्रित्य सुनन्दनाभिधः ॥ १॥ सुनन्दनस्याप्रतिमा वधूः क्षमा स्वभर्तुरिष्टा गुणरूपसम्पदा । परस्परश्रीप्रथनेन बन्धुरौ निशामृगाङ्काविव तौ बभूवतुः ॥ २॥ तयोर्द्वयोर्धर्म्यसुखेषु सक्तयोरजायतापूर्वसुखप्रदा सुता । प्रमोदयन्ती पितरौ स्वलीलया शरीरबद्धार्जितसत्कृतिर्यथा ॥ ३॥ सुतप्तजाम्बूनदवर्णभास्वरा शिरीषपुष्पादपि कोमलाकृतिः । विलोकनेनैव महार्घहर्षदा यथार्थनाम्नी खलु चन्द्रिकाभिधा ॥ ४॥ शिशुर्जनन्याः स्तनपानवाञ्छया यदा रजन्यामरुदत् पिता द्रुतम् । प्रियात्मजाप्रेमतुलानवस्थितो प्रसुप्तपत्नीं कथमप्यबोधयत् ॥ ५॥ यदार्भकः सर्तुमथ प्रवर्तते पुरः प्रयासेन शनैः स्ववक्षसा । त्रिविक्रमक्रान्तिनिभस्तयोस्तदा हिमालयारोहणवन्महोत्सवः ॥ ६॥ तडित्प्रभावत्स्फुरदुज्ज्वलस्मितं प्रदर्शयन्तीं तनयां यदृच्छया । क्षमा निजाङ्के विनिवेश्य निर्वृता मुहुर्मुहुश्चुम्बति नैव तृप्यति ॥ ७॥ वचोभिरप्यर्थविवर्जितैः शिशोः पिता त्वभिप्रायचयान् हि बुध्यते । यथाम्बरे मेघपरम्पराकृताववैति बालो मृगरूपश‍ृङ्खलाम् ॥ ८॥ स्वकायमुद्धृत्य करौ धरातले निवेश्य जानुद्वयमप्यसौ सुता । यदा परिक्रामति वीक्षितुं जगन्निमज्जतस्तौ खलु हर्षसागरे ॥ ९॥ विनाश्रयं तिष्ठति चन्द्रिकाद्य वै अहो परिक्रामति भित्तिमाश्रिता । विनावलम्बं चलितुं प्रवर्तते पुरः स्वशक्त्येत्यभवन्समुत्सवाः ॥ १०॥ कुतूहलप्रेरितचेष्टनोद्यता सुता यदा भ्राम्यति वेश्मनि द्रुतम् । तया कृतो नूपुरशिञ्जितस्वनः कुटुम्बसङ्गीतलयः प्रतीयते ॥ ११॥ मनोज्ञमस्पष्टमुदीरितं तया क्षमा यदाम्बेति पदं प्रशुश्रुवे । विवेद सौख्यं परमं तथा मुनिर्महेशसालोक्यपदे यथा भजेत् ॥ १२॥ यदा सुता प्रश्नसुमैः शतैः क्षमामवाकिरद्रम्यपदैर्निरन्तरम् । तदुत्तरप्राप्तिमुपेक्ष्य चुम्बिता मुखेऽम्बया वाक्प्रतिबन्धनाशया ॥ १३॥ पुराणरामायणभारतोद्धृताः कथाः पिता श्रावयति स्म चन्द्रिकाम् । प्रदोषकाले नलिनैः सहात्मजाविलोचने मीलत इत्यपेक्षया ॥ १४॥ -२- याते काले चन्द्रिकाभूत्कुमारी शालां यान्ती हृद्यमित्रैः समेता । पित्रोस्तस्या इङ्गितेष्टार्थसिद्धौ प्रेम्णा सर्वं कुर्वतोरात्मतृप्त्यै ॥ १५॥ पुत्र्यां शुभ्रैः हासकल्लोलफेनैरानन्दाब्धौ मज्जयन्त्यामुभौ तौ । व्याधिग्राहः प्राहरत् द्राक्क्षमां तामीर्ष्याग्रस्तं किं भवेद्दैवमेवम् ॥ १६॥ व्याधेर्बाधां दुस्सहां सा कथञ्चित् सोढुं येते चन्द्रिकाक्षोभभीत्या । आप्तानां वै शोभनाकाङ्क्षया यत् कुर्वन्त्याशाबाधनं सम्भवेत्तत् ॥ १७॥ व्याधिव्याधो वागुरां ग्लानिरूपां प्रक्षिप्यास्याः कोमले श्लक्ष्णदेहे भामिन्येणीं रोदयामास यावत् वैद्यान् भर्तानाययत्तावदेव ॥ १८॥ वैद्या रुग्णां नैकरीत्या परीक्ष्य काम्यादन्यं निर्णयं प्राप्तवन्तः । रोगस्तस्या भेषजातीतवृत्तिं प्राप्तस्तस्माद्दुर्गमः स्वास्थ्यमार्गः ॥ १९॥ वैद्या ऊचुर्नैगमं ते प्रियाया भैषज्यार्थं कुर्महे सर्वयत्नान् । दैवायत्तं स्वास्थ्यमस्या इदानीं नोपेक्ष्यः स्यादादितो व्याधिवह्निः ॥ २०॥ काले काले सेव्यमाना स्वभर्त्रा मृत्योर्भीताऽभक्षयत् श्रद्दधाना । सर्वान् जायून्वैद्यदत्तान् तथापि ग्रीष्मे कुल्येवाभजत्कार्श्यमाशु ॥ २१॥ आर्ता तन्वी म्लानपुष्पोपमा सा स्वास्थ्यप्राप्तिं काङ्क्षमाणा कथञ्चित् । द्रष्टुं याता तापसं सुप्रसिद्धं दीनानां वै ज्ञानिनो विष्णुकल्पाः ॥ २२॥ पूज्य ज्ञानिन्नाश्रितानां शरण्यं दीना चाहं प्रश्रिता त्वां प्रपद्ये । व्याधित्रस्तामेकपुत्रीं च साध्वीं कारुण्याब्धे पाहि मामित्यवोचत् ॥ २३॥ सिद्धो वृद्धो तां दयापूर्णदृष्ट्याऽपश्यत् पश्चात् मीलिताक्षो बभूव । पश्यन्ती सा तं मुनिं ध्यानमग्नं भ्रान्ते चित्ते कामपि प्राप शान्तिम् ॥ २४॥ शूलं व्याधेस्तत्क्षणादेव नष्टं दीप्ते दीपे ध्वान्तवत् गेहकक्षे । विस्मृत्याधिं शान्तचित्ता ययाचे साधौ पश्यत्यञ्जसोन्मील्य नेत्रे ॥ २५॥ आश्चर्यं मे ग्लानिरन्तर्दधाति त्वत्प्रेमौघप्लाविता वल्लरीव । स्वार्थं किञ्चित् कामये नापि भूयात् पुत्र्याः स्वामिन् जीवने सद्विभूतिः ॥ २६॥ ज्ञानी तस्याः प्रार्थनां स्मेरवक्त्रः श‍ृण्वन् तां स्वप्रेमदृष्ट्याभ्यषिञ्चत् । वत्से माभीरित्यवोचत्तथैव प्रादात् पुत्र्यै गुह्यमन्त्रोपदेशम् ॥ २७॥ मन्त्रं तावत् त्वं प्रयुङ्क्ष्व त्रिरेव बाले नो चेत् निष्फलत्वं स गच्छेत् तस्मात् भूयात् दत्तमन्त्रप्रयोगः कृच्छ्रेष्वेव स्वल्पकार्ये न वत्से ॥ २८॥ इत्थं सिद्धश्चन्द्रिकां बोधयित्वा हर्षोत्सिक्तां तां क्षमामित्यवोचत् । ब्रह्माण्डेऽस्मिन् शाश्वतं नास्ति किञ्चिन्निश्चिन्ताभूर्न्यस्य भारं रमेशे ॥ २९॥ साधुप्रोक्तां वाचमास्वादयन्ती पुत्र्या साकं सा क्षमा शान्तचित्ता । प्रत्यावृत्ता स्वालयं नष्टभीतिः सन्तः पोष्यश्रेयसे सिद्धहस्ताः ॥ ३०॥ चित्तं तस्या शारदाकाशतुल्यं स्वच्छं शान्तं सर्वदाभूत्तथापि । प्राप्तिस्तस्याः संसृतौ सीमितासीत् रोगार्तागादूर्ध्वलोकं जवेन ॥ ३१॥ तस्याः पुत्र्याः शोकसम्प्लावितायाः को वा लोके सान्त्वनं हन्त कुर्यात् । मातृप्राया का भवेदर्भकस्य मातानन्या देहिनां सर्ववन्द्या ॥ ३२॥ मातू रूपं दृश्यते सर्वतोऽस्याः वाण्यस्पष्टं श्रूयते सर्वकाले । स्पर्शः स्निग्धो भासते स्वप्नमध्ये वात्सल्यार्द्राह्वानशैली न लब्धा ॥ ३३॥ बाष्पार्द्राक्षीमात्मजां सान्त्वयित्वा कोपाक्रान्तां स्मेरवक्त्रां चकार । क्षुद्बाधां स्वां लीलया नावलोक्य प्रादादन्नं पीडयन्त्यै सुतायै ॥ ३४॥ सोढ्वा पुत्र्या दुर्नयं बाल्यजातं तस्यै वृत्तिं सज्जनानां शशास । स्वच्छायायामाश्रितां वृक्षवत् सा पुत्रीं सम्यक् सर्वकाले ररक्ष ॥ ३५॥ सर्वं कालात् क्षीणतां गच्छतीति प्राज्ञानां सद्भाषितस्यानुरोधात् । शान्ता भूत्वा चन्द्रिका जन्मदस्य सेवां कर्तुं गूढबाधा प्रयेते ॥ ३६॥ तातस्सोऽपि स्वात्मजाप्रीणनार्थं पत्नीप्रेम्णा वञ्चितोऽपि स्वदुःखम् । गूहन्तस्याः शिक्षणारोग्यवृद्ध्यै पुत्रीवक्त्रस्मेरबिम्बैर्ननन्द ॥ ३७॥ काले याते नैगमो कामविद्धो भार्यामन्यां लब्धुमिच्छामवाप । चित्रं नैतज्जीविनां स्त्रीसुखेच्छा सर्वेच्छासु प्रायशो दुर्निवार्या ॥ ३८॥ -३- चन्द्रिकापि युवतिप्रभां दधौ फुल्लदुच्चकुचकुड्मलश्रिया । प्रापतुश्च जघने विशालतां कापि मोहकरुचिर्मुखे बभौ ॥ ३९॥ लोलमुग्धपरिधावकेक्षणैर्वायुनुन्नतनुनीलकुन्तलैः । भीरुताक्तमृदुहासविभ्रमैर्नूपुरध्वनितमन्दसङ्क्रमैः ॥ ४०॥ आचकर्ष वनिता अपि क्षणाच्चन्द्रिका ससुखमायतेक्षणा । किं पुनर्युवजनान् महापुरे यौवनज्वरसुतप्तदेहिनः ॥ ४१॥ चन्द्रिकामहमपश्यमापणे नेत्रमेलनकृतौ तया सह । प्राप्तसौख्यमतुलन्त्वितीरितं स्निग्धयूनि तरुणेन केनचित् ॥ ४२॥ मद्गृहस्य पुरतः प्रयाति सा प्रत्यहं मम हि भाग्यदेवता । इत्यवोचदपरः कृती युवा यौवनस्य विविधा गतिर्ध्रुवम् ॥ ४३॥ एकदाथ नगरस्य वाटिकां कामदिग्धमनसा सुनन्दनः । सञ्चचार निभृतं यदृच्छया कांश्चन स्त्रियमपश्यदागताम् ॥ ४४॥ सापि तं मुहुरवेक्ष्य नैगमं क्षौमवस्त्रवररत्नभूषितम् । स्वेङ्गितप्रकटने ह्यशक्ततां प्राप्य पादपतलं गता ह्रिया ॥ ४५॥ ऐक्षत प्रकटसङ्गमेच्छया नैगमः पृथुनितम्बशालिनीम् । मध्यमे वयसि संस्थितां स्त्रियं भामिनीमतनुसंहतस्तनीम् ॥ ४६॥ चूष्यवस्त्विव हि योषितो वपुर्निर्निमेषनयनेन पीयते । तस्य वीक्षणविधानलज्जिता दृष्टिपातमवनौ करोति सा ॥ ४७॥ आससाद मदनाभिपीडितो तां स्त्रियं विटपिमूलवर्तिनीम् । कासि देवि वद जन्म कुत्र ते श्रावयेति वनितां जगाद सः ॥ ४८॥ मत्पिता दिवमगात् पुरैव मामात्मजासहितनष्टभर्तृकाम् । विद्ध्यनाथवनितां कलाभिधामित्युवाच ललनामणिः ह्रिया ॥ ४९॥ मामवेहि वणिजं सुनन्दनं प्राप्तवित्तबलवैभवं जनम् । गेहिनी मम गता दिवं रुजा मां विहाय तनयां च दुःखिताम् ॥ ५०॥ भामिनि त्वदनुरागयाचकं मां वृणीष्व ससुखं सह त्वया मद्गृहे तवसुता च वत्स्यतीत्यब्रवीत्स ललनां सुनन्दनः ॥ ५१॥ तस्य रूपविभवैश्च मोहिता पञ्चबाणविशिखाभिपीडिता । कामवह्निशमनार्थमादृता स्वीचकार वचनं रतार्थिनः ॥ ५२॥ आलिलिङ्ग सुदृढं स कामिनीं तं चुचुम्ब वदनेऽनपत्रपा । तत्क्षणादभवतां परस्परं कामतर्पणविधौ सहायकौ ॥ ५३॥ -४- अपूर्णकामः स समानकामां गान्धर्वमार्गप्रगृहीतपाणिः । द्वितीयभार्यां तनुजाद्वितीयां सुनन्दनः स्वालयमानिनाय ॥ ५४॥ दाम्पत्यसौख्ये निरतौ प्रकामं तौ दम्पती यापयतः स्म कालम् । सखीं स्वसारं सुमुखीमुमाख्यां लब्ध्वाऽतुषद्विस्मितचन्द्रिकापि ॥ ५५॥ अन्योन्यसङ्गात्प्रथमानहर्षे सख्यौ सदा द्वेऽचरतां नगर्याम् । तयोर्विहाराध्ययनानि चापि परस्परोपस्थितिमाश्रितानि ॥ ५६॥ दिनेषु गच्छत्सु धनार्जनार्थं वणिग्जगामान्यपुरीं कदाचित् । लुण्टाकवर्गैरभिहन्यमानस्तत्रार्दितो जीवितमुत्ससर्ज ॥ ५७॥ सौदामनीघातनिभं कठोरं वृत्तान्तमाकर्ण्य मृतेः स्वभर्तुः । पपात सद्यो भुवि मन्दभाग्या चक्रन्द चोच्चैः शिशुवत् कला सा ॥ ५८॥ द्वितीयवैधव्यमवाप्य योषित्स्वभागधेयानि भृशं जगर्हे । मां प्राप्य दैवोपहतामधन्यां हा नाथ मृत्योर्वशमाप्तवान् त्वम् ॥ ५९॥ गाथास्ति पापी यदि याति सिन्धुं तत्रापि गुल्फौ न जलेन सिक्तौ । त्वां सद्गुणाढ्यं परिणीय यन्मे वैधव्यदुःखं पुनरप्यवाप्तम् ॥ ६०॥ लब्ध्वा तरोराश्रयमार्तवल्ली ननन्द धृत्वा स्मितकुड्मलानि । तस्याः सुखं तत् क्षणिकं बभूव बभञ्ज वृक्षं सहसा गजेन्द्रः ॥ ६१॥ उत्तुङ्गसौधान् विरचय्य चित्ते तत्रावसं वैभवदर्पयुक्ता । अहन्त्विदानीं विभवैर्विहीना कथं करिष्यामि कुटुम्बरक्षाम् ॥ ६२॥ इत्थं प्रलप्य प्रणता चिरेण पुत्र्यौ निरीक्ष्याश्रुमुखी कुमार्यौ । तयोर्भविष्यच्छुभकामनार्थं कृच्छ्रेण सा तत्र समाहिताभूत् ॥ ६३॥ पुत्री पुरैवाभिहता नियत्या मातुर्वियोगादधुना पितुश्च । मृतिं दुरन्तां सहसा निशम्य दुःखाम्बुधौ गाढतरं ममज्ज ॥ ६४॥ मात्रा विहीना कृपणा सुतप्ता कथं सहिष्ये जनकस्य मृत्युम् । दैवं हतं हन्ति पुनः सदेति तथ्यं वचो हन्त मयानुभूतम् ॥ ६५॥ वृक्षान्निपत्य व्रणितं शयानं बुभुक्षितो द्रागवधीन्मृगेन्द्रः । दारिद्र्यकूपे पतितं क्षुधार्तं ददंश घोरः क्षयरोगसर्पः ॥ ६६॥ पितः कथं मामबलां विहाय गन्तासि कृत्वा तनयामनाथाम् । वात्सल्यपूर्णामृततुल्यवाग्भिः को प्रीणयेन्मां सततं त्वदन्यः ॥ ६७॥ एवं प्रकामं रुदती कुमारी स्वबाष्पधारार्द्रमुखी त्रियामाः । निनाय नैकाः प्रततान्धकारे निरस्तनिद्रा हृदि चन्द्रिका सा ॥ ६८॥ शरीरयात्रा पुरतो हि गच्छेत् दुःखं सुखं चाविगणय्य लोके । कलापि कौटुम्बधुरं वहन्ती वाणिज्यवृत्तौ निरता बभूव ॥ ६९॥ कदापि पूर्वं न नियुक्तचित्ता वाणिज्यकार्ये गृहिणी कला सा । एकाकिनी पण्यकलानभिज्ञा भर्तुः पदे कर्तुमियेष वृत्तिम् ॥ ७०॥ आवर्तपूर्णां सरितं गभीरां कथं तरेत् सम्प्लवनासमर्थः । भर्तृक्रियाकौशलसंश्रिता श्रीः काले गते क्षीणतरा बभूव ॥ ७१॥ दासाश्च दास्यः भृतिमात्रतुष्टा भृतिं विना तत्यजुराप्तसेवाम् । अन्याश्रयं भक्तुमनन्यमार्गा मृगा इवारण्यमवग्रहार्तम् ॥ ७२॥ कर्माण्यनेकानि गृहोचितानि भूमार्जनादिश्रमसाधितानि । भृत्यैर्विनासन्नकृतानि गेहे यदा कलागात् कुपथं तदैव ॥ ७३॥ सुखोचितां भर्तृसुतां विमाता न्ययोजयत् कर्मणि दासयोग्ये । सम्पद्यमानासु विपत्सु नॄणां मनांसि नूनं कलुषीभवन्ति ॥ ७४॥ क्व गार्हकार्यं क्व च पेलवाङ्गी किं मार्जनाय प्रभवेत् शिरीषम् । मयूरपिच्छं खननाय वा किं चन्द्रातपस्तण्डुलशोषणाय ॥ ७५॥ सा चन्द्रिका पाककलानभिज्ञा नियोजिता पाकगृहे विमात्रा । सर्वाणि दैनन्दिनखादनानि पक्तुं सकाले खलु निस्सहाया ॥ ७६॥ प्रक्षालनं वेश्मतलस्य पात्रसम्मार्जनं चांशुकधावनं च । सर्वाणि कार्याणि हि चन्द्रिकाया भारा अभूवन् विधिदुर्विपाकात् ॥ ७७॥ -५- यस्या हस्तौ कन्दुकक्रीडयास्तां रक्तावद्यप्रापतुः कृष्णवर्णम् । स्थालीवेश्मक्षालनाच्चन्द्रिकायाः काले हन्त श्लक्ष्णतां त्यक्तवन्तौ ॥ ७८॥ या लेखन्या पत्रपृष्ठे व्यलेखीत् सा शोधन्या मार्जने न्यस्तचित्ता । या विद्यार्थं पाठशालां प्रपेदे साद्य क्रेतुं पण्यशालामुपैति ॥ ७९॥ यस्या वक्त्रं सर्वदासीत्स्मिताक्तं म्लानं त्वद्य त्रासपूर्णं विवर्णम् । यासीत् कन्या प्रस्फुरच्चञ्चलाक्षी साभूद्दीना व्याघ्रभीता मृगीव ॥ ८०॥ रत्नस्यूतानर्घवासांसि यस्याः शर्वर्यां च प्रास्फुरन्नभ्रदीप्त्या । अद्याप्रातः पाककर्माविलानि म्लानिं प्रापुः पात्रनिर्णेककार्यात् ॥ ८१॥ आपूर्वाह्नं याऽस्वपीत्त्यक्तचिन्ता सा जागर्ति द्राक् हि सूर्योदयात् प्राक् । कष्टं नो चेत् दण्डनं सा सहेत निःसन्देहं तर्जनां वा विमातुः ॥ ८२॥ बाहुं वामं चन्द्रिका स्वोपधानं कृत्वा श्रान्ता वल्लरीकोमलाङ्गी । आर्तास्वप्सीत्कर्कशे दारुतल्पे या शेते स्म प्रस्तरे पिच्छपूर्णे ॥ ८३॥ योमासीत्प्राक्चन्द्रिकायाः सखीव सा मेने तामात्मकर्मार्थदासीम् । तस्या भूषावेशरूपक्रियासु दासीवत्तां चन्द्रिका सेवते स्म ॥ ८४॥ इत्थं दासीकर्मसु न्यस्तचित्ता श्रान्ता कार्यात् सज्वराभूत्कदाचित् । मान्द्यं तस्या वीक्षमाणा विमाता भूयो भूयो दण्डयामास तन्वीम् ॥ ८५॥ कोपाविष्टान्यानि कार्याणि चैव कर्तुं तामाज्ञापयत् निर्घृणा सा । यस्या आसीन्नित्यकार्यंह्यशक्यं तस्या साध्यं किं भवेद्भिन्नकार्यम् ॥ ८६॥ एकत्रासन् श्यामलाः पात्रपुञ्जा अन्यत्रासन् कश्मला वस्त्रमालाः । किं कर्तव्यं चिन्तयन्तीत्यकस्मात् सस्मारार्ता पूर्ववाक्यानि साधोः ॥ ८७॥ एकान्ते सा साधुवर्योपदिष्टं मन्त्रं भक्त्या कौतुकाक्रान्तचित्ता । नेत्रे रक्ते मीलयन्ती जजाप तापग्रस्ता बद्धपद्मासनार्ता ॥ ८८॥ मन्त्रं सञ्जप्यादरेणाञ्जलिं च बद्ध्वा चक्षुष्यायताक्ष्युन्मिमील । यावत्तावत्काचनाप्राकृता स्त्री प्रत्यक्षाभूत्बिभ्रती दिव्यदीप्तिम् ॥ ८९॥ ज्योत्स्नाशुभ्रस्मेरवक्त्रा बभासे देवी काष्ठा दीपयन्ती स्वकान्त्या । दृग्भ्यां सान्द्रां प्रेमपीयूषधारां सिञ्चन्त्यार्तक्लेशसन्तापहन्त्रीम् ॥ ९०॥ मन्द्रस्पष्टश्लक्ष्णवर्णाभिरामैर्वात्सल्याक्तप्रेमपूर्णैर्वचोभिः । वीणानादान्मञ्जुलैः सान्त्वयन्ती भीतां कन्यां दिव्ययोषिद्बभाषे ॥ ९१॥ मा भीर्वत्से विद्धि मां त्वत्सहायां मातृप्रायां त्वत्सुखोदर्ककर्त्रीम् । प्रोक्तैर्मन्त्रैः सत्वरावाहितास्मि किं ते कार्यं किं च कृच्छ्रं वदास्ति ॥ ९२॥ तस्या देव्याः स्नेहलिप्तैर्वचोभिर्नष्टे तापे भीरुतां द्राग्विहाय । देवीं भक्त्या चन्द्रिका सम्प्रणम्य मन्दं मन्दं प्रश्रिता प्रत्युवाच ॥ ९३॥ देवि त्वं मे प्रार्थनां पूरयस्व कृत्स्नं मह्यं कार्यजातं विमात्रा । दत्तं क्षिप्रं त्वत्प्रसादात्समाप्तिं यान्तु प्रीता मद्विमाता भवेच्च ॥ ९४॥ वत्से कार्यस्थानमादेशयेति प्रोक्ता यावत् पाकशालां निनाय । गच्छ्न्त्यग्रे चन्द्रिका तावदेवापश्यत् भ्रान्ता कल्पनातीतदृश्यम् ॥ ९५॥ पात्राण्यासन् प्रस्फुरद्वज्रशोभीन्यग्रेऽपूर्वस्वच्छवासांस्यभूवन् । स्वच्छो धौतः पाकशालातलश्च सन्निर्वृत्तं दुष्करं कार्यजातम् ॥ ९६॥ कार्यं सर्वं तत्परावृत्तदृष्ट्यां देव्यै तस्यां दर्शयन्त्यां क्षणेन । अन्तर्धानं दिव्यरूपागमत्सा संवृष्याभ्रं व्योम वै द्राक् जहाति ॥ ९७॥ तृप्ता दृष्ट्वा कार्यजातं समाप्तं देवी याता दृक्पथादित्यतुष्टा । द्वन्द्वेनेत्थं बाधिता चन्द्रिका सा मन्त्रं व्यर्थं क्षुद्रकार्ये शुशोच ॥ ९८॥ मन्त्रः पूतो द्विर्विवेकात्प्रयोज्यो यस्मात्यावज्जीवमानन्दलाभः । भूयादित्थं चिन्तयामास तन्वी बध्नन्त्यज्ञा मक्षिकाः स्थूलरज्ज्वा ॥ ९९॥ सर्वं कार्यं चित्तवेगात् समाप्तं पश्यन्त्या वै श्लाघिता सा विमात्रा । दिष्ट्या देव्या दिव्यसान्निध्यलाभात् वृत्तं कार्यं हीति नावेत् कला सा ॥ १००॥ -६- मन्त्रहूतविबुधस्त्रियमाप्तां सङ्कटाग्निशमनेऽतिसमर्थाम् । मातरं स्वबलदां गणयन्ती चन्द्रिकाथ दिनकर्मसु मग्ना ॥ १०१॥ चित्ततृप्तिरभजत् कृतकृत्यां शान्तता भुवमिवाशु दिनान्ते । चन्द्रिकां स्मितमुखीं सुकुमारीं सर्वतो निजरुचिं प्रकिरन्तीम् ॥ १०२॥ दास्यवृत्त्युचितवस्त्रवसानाप्यार्यभोग्यरुचिरूपगुणाढ्या । पश्यतां सपदि गण्यजनानां मानसं मृदुमतिः प्रममन्थ ॥ १०३॥ दास्यभावमनुसृत्य विमातुः पुत्रिकामनुचरत्यतिदृप्ताम् । चन्द्रिका पथि जवेन यदा तामापिबन्ति तरुणाः शितदृग्भ्याम् ॥ १०४॥ कुन्तलालकतरङ्गविलासं पश्यतो युवजनस्य तरुण्याः । मानसेऽपि जनयत्यनिवार्यं वीचिजालमभिलाषमनोज्ञम् ॥ १०५॥ मन्थरालसगतिर्वनितायाः सुप्तकाममनयत्तरुणानाम् । जागरस्थितिमनूह्यविधायां मन्मथस्य तरुणेषु हि दृष्टिः ॥ १०६॥ मण्डितापि वसनैर्बहुमूल्यैरात्मजा तु शुशुभे न कलायाः । मत्सराविलमतिर्विजगर्हे चन्द्रिकां युवजने निरतेति ॥ १०७॥ चन्द्रिकां स्वनिलयेत्वसहायां मित्रभावमधिगम्य ययाचे । कोऽपि सुन्दरतनुस्तनुरूपः स्वेच्छयाश्रयमुपेत्य बिडालः ॥ १०८॥ मोहकध्वनिमदम्यविलासं स्निग्धशुभ्रमृदुरोमविशिष्टम् । चन्द्रिका निजमित्रमवेदीत् तुल्यशीलविषयेषु सुसख्यम् ॥ १०९॥ चन्द्रिकामनुसरन्गृहकार्ये व्यापृतां मृदुपदैरनिशं सः । मावमाविति वदन् दरभीतः पृच्छतीव न ददासि पयः किम्? ॥ ११०॥ चन्द्रिका यदि ददाति न दुग्धं सत्वरं पदतले वनितायाः । प्रश्रितं विलुठति स्म बुभुक्षुः प्रेमचोदकदृशः परिषिञ्चन् ॥ १११॥ दीयते यदि पयो निजपात्रे सत्वरं पिबति मीलितनेत्रः । चिन्तयन्निव धरा लयमीयात्तेन किं मम पयो यदि लब्धम् ॥ ११२॥ चन्द्रिकाङ्कमधिरुह्य दिनान्ते कन्दुकाकृतिमवाप्य स शेते । मूकजन्तुरनुरागनिबद्धः स्निह्यति ह्यतिशयेन मनुष्ये ॥ ११३॥ मूषकान् निशि हिनस्ति सखेलं पाककोष्ठविघसादनदक्षान् । प्रीणयन् स्वकलया निजगोप्त्रीं चन्द्रिकां सपदि मूषकभीताम् ॥ ११४॥ इत्थमीप्सितपरस्परबन्धौ तौ दिनान्क्षपयतः कृतकृत्यौ । कोऽवगच्छति हरेरभिलाषं मित्रताह्यसहजापि सुखान्ता ॥ ११५॥ -७- तत्रासीत्कथितमहापुरे नृपालः सद्वृत्तः प्रथितयशा गुणाभिरामः । चन्द्राख्यः स्वविषयपालने धुरीणः सन्तुष्यन् प्रियहितकर्मभिः स्वपौरान् ॥ ११६॥ तस्यासीन्मदननिभो युवा तनूजो विद्यावान् विनयखनिस्त्रिविक्रमाख्यः । यं दृष्ट्वा पुरललनागणः प्रदध्यौ सासूयं वरयति कामयं सुधन्याम् ॥ ११७॥ चन्द्रस्तं तनुजमपूर्वरूपभाजं तारुण्ये निरुपमशोभया ज्वलन्तम् । द्रष्टुं द्राक् समुचितकन्यया समेतं दाम्पत्ये समरसशालिनं व्यकाङ्क्षीत् ॥ ११८॥ पुत्रं सोऽगदतनुरागपूर्णवाचा विद्यायाः समधिगतोऽसि वत्स पारम् । तस्मात्त्वं परिणययोग्य इत्यवैमि तन्वीं त्वं सदृशगुणां वधूं वृणीष्व ॥ ११९॥ उक्तिं तामतिसुखदां निशम्य पुत्रो मानार्थं सपदि नियन्त्रितानुभावः । स्वोद्वाहं निरुपमकन्ययानुमेने तारुण्ये परिणयवाक् सुखावहा वै ॥ १२०॥ सद्वंश्यास्तनय चिनोम्यहं त्वदर्थं सद्वृत्ताः रुचिरमुखीश्च राजपुत्रीः । तासु त्वं वरय यदृच्छया मनोज्ञां कन्यां या तव भविता हि धर्मपत्नी ॥ १२१॥ इत्युक्तः सविनयमब्रवीन्नरेशं भूगर्भे न भवति किं प्रशस्तवज्रः । अब्धौ किं वदतु लभामहे न मुक्ता ओषध्यो गहनवनान्तरे न किं स्युः ॥ १२२॥ व्यासस्य प्रथितमुनेः किमाभिजात्यं बालघ्नः सगरसुतो न किं कुलीनः । विश्वासो मितचयने न मेऽस्ति पुर्या- मस्यां ते तृणकुटजेऽपि मे प्रिया स्यात् ॥ १२३॥ श्लाघित्वा स्वसुतविवक्षितं नृपालः सम्मन्त्र्य स्वहितजनैर्विवाहकार्ये । पुत्रार्थे परिणयघोषणामसाध्नो- देवं तन्नगरभटैः प्रगे विधेयैः ॥ १२४॥ भोः पौराः श्रुणुत नृपस्य घोषणां भो उद्वाहो नृपतनयस्य निश्चितोऽस्ति । आयान्तु त्वरितपदेन पौर्णमास्यां प्रासादं निशि समलङ्कृताः कुमार्यः ॥ १२५॥ आयान्तु त्वरितपदेन पौरकन्या युष्मासु प्रभुतनयो मनोज्ञकन्याम् । सम्पन्नामुचितगुणैश्च रूपलक्ष्म्या ज्योत्स्नायां वरयति पौरनृत्यरङ्गे ॥ १२६॥ इत्येवं नरपतिघोषणां निशम्य कन्यायाः किल जननी प्ररूढमोहा । एकैका मधुमथनं रहः ययाचे पुत्री मे भवतु नरेशपुत्रपत्नी ॥ १२७॥ श्रुत्वैतत्सपदि कलाप्युमां स्वपुत्रीं भूषाभिर्नृपसदनोचितैश्च वस्त्रैः । औत्सुक्यादलमकरोद्वृथाभिलाषा मातॄणां निजतनयाः सदा मनोज्ञाः ॥ १२८॥ संश्रुत्य श्रवणसुखामपूर्ववार्ता- मुत्कण्ठां ह्यलभत चन्द्रिकाप्यवर्ण्याम् । किं राज्ञः प्रियतनयस्य कम्रपाणेः संस्पर्शात्ततपुलका न मामकीनाः ॥ १२९॥ उद्युक्तां जनपसुतस्य नृत्यगोष्ठी- मौत्सुक्यादपरिमिताज्जवेन गन्तुम् । वैमात्रीं प्रणतमुखी मिथो ययाचे गच्छेयं नृपसदनं त्वया सहाहम् ॥ १३०॥ मात्सर्यं कथमपि गूहितुं प्रवृत्ता व्याचष्टे स्म मधुरसावहासवाग्भिः । हञ्जे त्वां नृपसुत एव नाययेद्वै मृग्यन्ते तव सदृशाः कुलीननार्यः ॥ १३१॥ श्रुत्वा तामभिभवकारिणीं दुरुक्तिं दासीव व्यथितमतिर्विनम्रमौलिः । नोवाच प्रतिवचनं प्रसह्य कोष्ठं तत्याज प्रणतजनस्य को विकल्पः ॥ १३२॥ आयाता पुरललनासु पौर्णमासी प्रत्याशाकुवलयिनीर्विकासयन्ती । ऐश्वर्याप्लुतसदनेषु संस्थितासु दारिद्र्योपहततृणावृतोटजेषु ॥ १३३॥ संसिक्ता हिमसलिलेन राजरथ्या आमोदा मलयजचन्दनप्रसूताः । प्रासादा युवजनहर्षघोषजुष्टाः पौराणां मुदमवदन्निवापुरान्तम् ॥ १३४॥ औत्सुक्यं निरवधिकं गृहे कलायाः सम्भ्रान्ते खलु विदधे कलामुमां च । स्मर्तव्यं बहु नरपस्य सन्निधाने वाग्दोषा दुरभिरुचिश्च गूहितव्याः ॥ १३५॥ नासाग्रे स्फुरदमलो मनोज्ञवज्रः कण्ठे चाप्रतिमरुचिः प्रलम्बमाला । नाभ्यन्ते कनकमयी महार्घकाञ्ची नैराश्यं किमु कथयन्त्यहो ह्युमायाः ॥ १३६॥ गच्छन्त्यां तुरगरथेन सज्जितेन वैमात्र्यां नरपगृहं सह स्वमात्रा । दिङ्मूढा चिरमरुदत्स्वमन्दभाग्ये मार्जालं हृदि परिरभ्य चन्द्रिकार्ता ॥ १३७॥ मार्जालः परिपतति स्म सान्त्वनार्थं मा शोचीरिति वदतीव तामुपेत्य । तिर्यञ्चः स्वहितजनस्य सर्वभावान् जानन्ति प्रकृतिगतेङ्गितावबोधात् ॥ १३८॥ पश्यन्ती दरचकिता बिडाललीलां सस्माराभयवचनं मुनेः पुरोक्तम् । प्रागेव प्रकटितसार्थकप्रयोगं संस्मृत्यामितसुषमामवाप तन्वी ॥ १३९॥ चित्ते तं समुचितसूचकं बिडालं वन्दित्वा प्रशमितधीर्दृढप्रतिज्ञा । आसीना स्थिरकमलासनेऽजपत्सा साधूक्तं प्रणतवपुः क्रमेण मन्त्रम् ॥ १४०॥ -८- प्रसह्य देवी स्फुरदुज्ज्वलप्रभा या प्रादुरासीत् जपकर्षिता पुरा । प्रत्यक्षतां प्राप्य जगाद चन्द्रिकां वत्से प्रियं किं करवाणि तद्वद ॥ १४१॥ चन्द्रप्रभायामधुना नृपात्मजो वृणोति पत्नीं नृपपालिते वने । यास्याम्यहं तत्र यथा विभूषिता मातः कुरु त्वं करुणानिधे तथा ॥ १४२॥ इति ब्रुवाणां परिरभ्य चन्द्रिकामाघ्राय मूर्ध्नि प्रजगाद देवता । कूष्माण्डमेकं गृहवाटिकाज्जवादुपानयापक्वमपेतमार्दवम् ॥ १४३॥ मार्जालमप्यादिशतार्द्रलोचनं षण्मूषकानानय जीविनो द्रुतम् । वनात् बिलाद्वाथ महानसाद्वा त्वत्स्वामिनीभाव्यसुखप्रदास्ते ॥ १४४॥ श्रुत्वा निदेशं स दधाव निष्कुटं कुतूहलोत्साहभयप्रचोदितः । वक्त्रे गृहीत्वा पृथुलान् बिलेशयान् क्षणात्प्रतीयाय कृतार्थतोद्धतः ॥ १४५॥ अत्रान्तरे सम्भ्रमनुत्तसाध्वसा प्रत्यागता गेहवनात् गृहान्तरम् । प्रगृह्य कूष्माण्डमखण्डवर्तुलं चन्द्रोपमं मन्दजवेन चन्द्रिका ॥ १४६॥ ततक्ष कूष्माण्डमपूर्वकौशलान्निरूपयामास रथाकृतिं दृढाम् । निमेषमात्रेण रथं नृपोचितं देवी महान्तं ससृजे स्फुरद्ध्वजम् ॥ १४७॥ आदर्शवत् श्लक्ष्णमपूर्वसुन्दरं सुवर्णलिप्तप्रतिमाभिशोभितम् । महेन्द्रयानोपममैक्षतोत्सुका तं निर्निमेषा रथमेव चन्द्रिका ॥ १४८॥ सुराङ्गना द्राक् चतुरस्तुरङ्गमान् संस्पृश्य मार्जालधृतान् बिलेशयान् । व्यकल्पयत् पुष्टबलिष्ठबन्धुरान् प्रकाशयन्ती निजहस्तलाघवम् ॥ १४९॥ विधाय सूतं सिततोत्रशोभितं तथाखुनैकेन दृढेन लीलया । अन्येन योधं शितखड्गधारिणं रथाभिपालं तरुणं विनिर्ममे ॥ १५०॥ निमेषमात्रेण चकार चन्द्रिकां विभूषणैः पार्थिवकन्यकोचितैः । महार्घरत्नैः खचितैर्विभूषितां स्फुरत्प्रभामुष्टभवृन्ददीप्तिभिः ॥ १५१॥ सुवर्णसूत्रोतदुकूलनिर्मितस्वरङ्गनारोचककञ्चुकावृता । बभूव सद्यो लसदुज्ज्वलप्रभा देवीकृपाधारबलेन चन्द्रिका ॥ १५२॥ सामोदपुष्पैः सुविविक्तवर्णकैः शिरोरुहा दक्षतयैव मण्डिताः । नेत्रे सुपक्ष्मेऽभजतां मनोज्ञतां तस्याः सुनीलाञ्जनसूक्ष्मरेखया ॥ १५३॥ रक्तौष्ठलेपेन जपासुमत्विषं सुखेन नारङ्गदलोपमाधरौ । अवापतुश्चन्द्रिकयाप्यलक्षितौ प्रसारयन्तौ तरुणार्कवद्द्युतिम् ॥ १५४॥ अलञ्चकारारुणवर्णचर्चिते तस्याः पदे स्फाटिकपादुकाद्वयम् । रम्यं घनीभूतशशिप्रभानिभं कामप्यनूह्यश्रियमावहन्निजाम् ॥ १५५॥ अयं दिवास्वप्न इति भ्रमे स्थितां जगाद देवी स्मितपूर्वमादरात् । वत्से रथेन व्रज राजमन्दिरं सुसज्जितेन प्रसभं सुनिर्भया ॥ १५६॥ परं तु मा विस्मर यामदुन्दुभिर्निशीथमाख्याति न यावदञ्जसा । तावन्निवर्तस्व गृहं नृपालयान्नो चेत्विनश्येत्सकलं च कल्पितम् ॥ १५७॥ भूयाच्छुभं ते गमने मतिं कुरु प्रसन्नवक्त्रा स्मितदीप्तपद्धतिः । इति ब्रुवाणा दिवमुत्पपात ह प्रसह्य देवी चपलेव भास्वरा ॥ १५८॥ मार्जालमापृच्छ्य सखायमुत्सुका रथान्तरे रत्नकुथास्तृते तले । निविश्य सूतं विनयेन चन्द्रिका दिदेश गन्तुं नृपसौधमञ्जसा ॥ १५९॥ रथ्यासु पौरा ललनां रथस्थितामवेक्ष्य तारापथतः समागताम् । चन्द्रांशुमूर्तिं निशि विस्मयाकुलास्तां निष्कलङ्कां नियतं हि मेनिरे ॥ १६०॥ दृष्टिप्रसूनैरनुरागसौरभैस्तामर्चमर्चं प्रथमानयौवनाः । स्थिता ध्वजालङ्कृतराजपद्धतौ न लेभिरे तृप्तिमनङ्गचोदिताः ॥ १६१॥ कन्याः कुलीना गुणरूपशोभिताः समानकामा नृपपुत्रलोभने । म्लानत्वमापुः प्रसमीक्ष्य चन्द्रिकां कुशेशयानीव दिनात्यये भृशम् ॥ १६२॥ कस्यात्मजेयं नरपस्य सुन्दरी कुतो रथोऽयं सुरयानसन्निभः । यदीक्षते राजसुतो मनागिमां भवेदनङ्गज्वरबाधितो ध्रुवम् ॥ १६३॥ वृथास्मदीयं सकलं प्रसाधनं विनापि तेनेयमुषेव दीपयेत् । इति ब्रुवाणा ललना हतेप्सिता न गूहितुं शेकुरवार्यमत्सरम् ॥ १६४॥ रथे नृपावाससमीपमागते बद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् । वहन् रथस्थां वनितां स्वदृष्टिभिः राजप्रतीहारगणः सुशिक्षितः ॥ १६५॥ सौभाग्यवान्नूनमिमां मनोहरां नृपस्य पुत्रो वरयेत् हरीच्छया । प्रजल्पतीत्थं बहुशो मिथो जने रथात्प्रसन्नावततार चन्द्रिका ॥ १६६॥ यदा शनैः साचलदायतेक्षणा नितम्बिनी मन्दगतिर्नृपालयम् । तस्या अभिख्यामृतपानकाङ्क्षिणः समागता राजपथस्य पार्श्वयोः ॥ १६७॥ तस्यां चरन्त्यां नृपपालिते वने छायास्तरूणां सहसा तिरोहिताः । तस्या रुचा सज्जनसन्निधेः खलु प्रायेण धावन्ति भयार्तदुर्जनाः ॥ १६८॥ -९- नृपपालितपुष्पवाटिकामगमन् पौरसुता निशामुखे । अमरालयरोहणे रता इव लक्ष्योन्नतिसम्प्रचोदिताः ॥ १६९॥ यदि मां वरयेन्नृपात्मजो मम पूर्वार्जितपुण्यसञ्चयः । भविता यदि नो तथापि मे रुचिरोद्यानवनाभिवीक्षणम् ॥ १७०॥ इति मानसतर्कबोधिताः परिणामे विगतस्पृहा मुदा । व्यचरन्सविलासमङ्गना नरपालोपवने सुविस्मिताः ॥ १७१॥ नरपोपवने कलामुमा भवती पश्यति चन्द्रिकानिभाम् । किमु कामपि सुष्ठु भूषितां विचरन्तीमिति विस्मिताब्रवीत् ॥ १७२॥ क्व भवेदिह दीनसेविका दिनकार्येषु रता गृहे भवेत् । त्यज मोहमियं सुमध्यमा नरपालस्य सुता हि कस्यचित् ॥ १७३॥ इति मातुरुदीरितेन सा मनसि प्राप्तशमा कथञ्चन । स्वविधावभजत्स्पृहामुमा युवतीनां सुपतिर्वरेप्सितम् ॥ १७४॥ अथ राजसुते सुभूषिते स्ववयस्यैः सह नन्दनोपमम् । कुसुमोपवनं समागते जनघोषो गगनान्तमस्पृशत् ॥ १७५॥ विटपाश्रितरम्यबर्हिणान् क्वचिदुन्मत्तनदच्छिलीमुखान् । क्वचिदायतशीतशाद्वलान् क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६॥ क्वचिदुल्लसदातवीरुधः फलभारानततुङ्गपादपान् । विविधाकृतिवर्णमोहकैः कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७॥ अवलोकयतोऽभितो मुदा नृपपुत्रस्य हृदालयं द्रुतम् । मदनः प्रविवेश लीलया निभृतं योषिदपाङ्घवर्त्मना ॥ १७८॥ नवयौवनशोभिनीः स्त्रियो मणिरत्नाभरणैर्विभूषिताः । विचरन्तीः सविलासमुत्सुका नृपपुत्रः प्रददर्श सर्वतः ॥ १७९॥ चपलामिव योषितां गणे स्फुरदाह्लादकरूपशालिनीम् । दरहासविलासमोहिनीं कमनीयां स ददर्श चन्द्रिकाम् ॥ १८०॥ स्मरसायकलक्ष्यतां गतः स शनैरायतलोचनोऽभ्यगात् । स्मयमानमुखः प्रसन्नधीरबलां वेपथुमूर्तमानिनीम् ॥ १८१॥ भयकारणमस्ति नात्र ते ललने त्वत्सुहृदित्यवेहि माम् । मम मानसराज्ञि देहि मे तव पाणिग्रहणे कृतार्थताम् ॥ १८२॥ मम हस्तपरिग्रहक्रियामनुजानासि यदि प्रभावति । प्रणयार्णववीचिसम्प्लवे परिषिक्तं कुरुषे चिराय माम् ॥ १८३॥ इति राजकुमारभाषितं श्रवणानन्दकरं निशम्य सा । कुरुते न मतिं करार्पणे न निराकर्तुमनर्घयाचनाम् ॥ १८४॥ कदलीव मरुज्जवाहता प्रचकम्पे सुभृशं कृशोदरी । अवलम्बनहेतुनेव तत्करमाशु प्रणयी समग्रहीत् ॥ १८५॥ तरुणस्य कराग्रसङ्गमात् पुलकस्वेदयुगेन बाधिता । तनुसंहननश्रिया प्रिया भजते कामपि नव्यभोग्यताम् ॥ १८६॥ प्रसभं विचकर्ष किं बलादथवा तामवहद्भुजान्तरे । स्वयमेव गतानुसृत्य तं क्षणमुग्धा न किमप्यवेत्तदा ॥ १८७॥ रजनीचररश्मिरञ्जिते वरनृत्योचितभव्यकुट्टिमे मुदितेन ननर्त चन्द्रिका नृपपुत्रेण सहोत्सवप्रिया ॥ १८८॥ नृपपुत्रसुहृद्गणैः सह प्रणनर्तुः प्रमदाः समुत्सुकाः । न हि कापि भवत्यतर्पिता तरुणोत्साहमयं नृपाङ्गणम् ॥ १८९॥ किमुवाच मिथस्त्रिविक्रमः किमभूतात्महृदुत्थमुत्तरम् । सुतरां न हि वेत्ति चन्द्रिका क्षणिके स्वर्गसुखे परिप्लुता ॥ १९०॥ न च वेत्ति हि कालधावनं न च सा क्लाम्यति नर्तने रता । नववर्षजलार्द्रबर्हिणाननुकृत्य प्रचचाल लीलया ॥ १९१॥ अथ नर्तनहर्षसागरे प्लवमाना सहसा ससाध्वसम् । घनगर्जितवत्भयावहं व्यश‍ृणोत्घोरनिशीथदुन्दुभिम् ॥ १९१॥ हरिणीव मृगेन्द्रगर्जनश्रवणार्ता झटिति प्रमुच्य सा । नृपपुत्रकरं भयद्रुता तमनापृच्छ्य दधाव मण्डपात् ॥ १९२॥ अवितर्कितनिर्गमात् स्त्रियाः मतिशून्ये भवति त्रिविक्रमे । स्मृतवत्यथ देवतावचः स्वरथं प्राद्रवदार्तभामिनी ॥ १९३॥ अगमद्वनिता यदा द्रुतं व्यगलत् स्फाटिकवामपादुका । त्वरयाकुलमानसाबला न वराकी तदवेद्रथोन्मुखा ॥ १९४॥ गृहमेत्य रथादवातरद्वनिता यावदहो तिरोऽभवत् । सकलो रथवाजिसारथिप्रकरस्तावदतर्क्यमायया ॥ १९५॥ वसनं च दुकूलनिर्मितं सहसा दासजनोचितं क्षणात् । अभवन्मणिरत्नभूषणान्यगमन्मन्त्रहतान्यदृश्यताम् ॥ १९६॥ सुतया सह नर्तनाङ्गणात् गृहमेत्य स्वनियोगतत्पराम् । अवलोक्य जहर्ष चन्द्रिकां गतशङ्का स्वसुखोद्यता कला ॥ १९७॥ -१०- नृपसुते स्मरमार्गणदारिते विलपति प्रिययैव विनाकृते । नृपभटास्त्वरया हि समानयन्नुपवनाधिगतां मणिपादुकाम् ॥ १९८॥ व्यलपतित्थमवेक्ष्य स पादुकां कथमसि त्वमिहाद्य निशामुखे । सुमपदां स्खलितां च विसृज्य तामुपवने पदपांसुभिरावृता ॥ १९९॥ कथय कुत्र गता मम हृत्प्रिया कथय नाम कुलं च मम स्त्रियाः । कथमहो मम मानसनायिकां पथि विहाय वने न विलज्जसे ॥ २००॥ इतरथा न भवेत्तव दर्शनं मम गतिर्हि भवेदतिदुस्सहा । नियतिरेव गतस्य तु कारणं लघयसि त्वमिमां मम वेदनाम् ॥ २०१॥ प्रियसुतं विलपन्तमथाब्रवीत् सपदि सान्त्वयितुं धरणीपतिः तनुज कातरतां त्यज मा शुचः प्रियतमामचिरात्परिणेष्यसे ॥ २०२॥ प्रियतमाधृतराजतुपानहा तदनुरूपपदा खलु मृग्यते । मम भटैर्निपुणैः प्रतिमन्दिरं द्रुतमुपेत्य पुरेऽद्य सुनिश्चयम् ॥ २०३॥ नृपनिदेशधरैर्हि तथैव सा प्रकटिता नगरे मणिपादुका । युवतयोह्ययतन्त समुत्सुका बृहदभूत्पदमानमुपानहः ॥ २०४॥ श्रुतवती नरपस्य सुनिश्चयं नृपभटान् स्वगृहं समुपाहरत् । निजपदेन कला मणिपादुकां समधिरोढुमुमां समचूचुदत् ॥ २०५॥ रमयितुं जननीमिव निश्चिता अयतताप्तुमशक्यमुमा वृथा । क्व तनुगात्रवती मणिपादुका क्व पृथुलश्चरणो जडयोषितः ॥ २०६॥ तदनु मन्दमभाषत चन्द्रिका हतदशां विनयेन भिया कलाम् । अभिलषे नितरामनुमन्यतां अनुपमामधिरोढुमुपानहम् ॥ २०७॥ अयि कथं कृपणा मणिपादुकां समधिरोढुमिमां खलु वाञ्छसि । प्रथितसत्कुलजोचितभाजनं भजति भृत्यजनस्य न लभ्यताम् ॥ २०८॥ इति वचो भणितं कलया यदा नृपभटैः प्रसभं समुदीरितम् । भवति नात्र मनागपि भिन्नता भृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९॥ स्मितमुखी दृढनिश्चयचोदिता सपदि तां स्फुरदुज्ज्वलपादुकाम् । अधिरुरोह सलीलमलज्जिता नृपभटोत्थमुदा सह चन्द्रिका ॥ २१०॥ -११- अथ राजभटाः प्रफुल्लवक्त्रा विनयोपेतगिरा समाह्वयन्स्ताम् । श‍ृणु देवि पुरेशपुत्रपत्नी भवितासि त्वममोघभाग्यशक्त्या ॥ २११॥ परिधानमनाविलं वसाना दृढमच्छिद्रमितो नृपालयं त्वम् । व्रज शीघ्रमुदेति भाग्यसूर्यो नृपपुत्रास्यमिषेण तावकीनः ॥ २१२॥ श‍ृणुत क्षितिपालयं व्रजामि प्रसभं कामदुघां समर्च्य देवीम् । समयः प्रतिपाल्यतां भवद्भिः कृपयेति प्रणतावदद्विनम्रा ॥ २१३॥ प्रमदाऽतुलभक्तिभावपूर्णा मुनिदत्तं प्रबलं जजाप मन्त्रम् । स्वतनुं प्रणिधाय नैजकक्षे रहसि स्वस्थमना निमील्य नेत्रे ॥ २१४॥ सपदि स्मिततोयसिक्तवक्त्रा विबुधस्त्री शुभमूर्तिराविरासीत् । तनये वद किं मयाद्य कार्यं करुणा मे त्वयि सर्वदेत्यवादीत् ॥ २१५॥ कुरु राजसभार्हभूषणैर्मा जननीं मे भगिनीं च भूषितास्त्वम् । सृज देवि तथा रथं ससूतं श‍ृणु याच्ञामिति चन्द्रिका ययाचे ॥ २१६॥ सुकरः खलु पुत्रि ते नियोगः कृतमित्येव मयात्र विद्धि भक्ते । इति यावदुवाच देवता स्त्री सकलं सृष्टमभूत् हि तावदेव ॥ २१७॥ लसदुज्ज्वलभूषणैर्विविक्तैर्विमलक्षौमपरिच्छदैश्च रामाः । सुरयोषिदमोघमाययैव क्षणमात्रेण विभूषिता बभूवुः ॥ २१८॥ पुरुहूतनियन्तृतुल्यसूतो दृढपुष्टाकृतयस्सितास्तुरङ्गाः । कनकोदकलिप्तश‍ृङ्गयुक्तो लघुघण्टासहितो रथश्च सिद्धाः ॥ २१९॥ तनये तव वाञ्छितं प्रपूर्णं सकलं स्थास्यति सृष्टमत्र तावत् । नववस्त्रविभूषणानि राजा सुखितो दास्यति वो शुभाय यावत् ॥ २२०॥ इति यावदुवाच दिव्ययोषित् क्षणदेव प्रसभंह्यभूददृश्या । अनिरीक्ष्यगतेन तावदेव प्रजहत्याशु कृतिस्थलं कृतार्थाः ॥ २२१॥ उमया सह लज्जिता विमाता प्रसमीक्ष्याचरणं हि चन्द्रिकायाः । अपकारकृतां कृतोपकारो बहुशो वर्धयते सतां प्रवृत्तिम् ॥ २२२॥ निजमित्रमनुद्धतं बिडालं रथमारुह्य सहर्षमाह्वयन्ती । सह तेन जगामचाङ्गनाभ्यां वृतबाला जनपालयं जवेन ॥ २२३॥ रुरुधे रथमाशु चन्द्रिकायाः प्रतिहारः नृपमन्दिरस्य मार्गे । अवदत् प्रतिषिध्यतेऽस्य जन्तोर्नृपसौधे नरपाज्ञया प्रवेशः ॥ २२४॥ यदि चेत् श‍ृणु मे प्रियो बिडालः प्रतिषिद्धोऽस्ति मया सह प्रवेष्टुम् । जनपः कृपया त्वया निवेद्यो न भवेत् सौधवरे मम प्रवेशः ॥ २२५॥ दरविस्मयरोषरञ्जितास्यो दृढमेतद्वचनं निशम्य तन्व्याः । त्वरया नृपनिश्चयोपलब्ध्यै प्रतिहारो नृपसन्निधिं जगाम ॥ २२६॥ अवगम्य समाकुलेन राजा प्रतिहारेण यथावदुक्तमर्थम् । स्मितपूर्वमभाषत प्रहृष्टो घनगम्भीररवेण सान्त्वयन् तम् ॥ २२७॥ प्रतिहार न तत्र कापि चिन्ता नियमो मे न हि युज्यतेऽबलायाम् । भविता खलु सा मम स्नुषा भो अनुयान्तु प्रमदां शतं बिडालाः ॥ २२८॥ यदि मूकमृगेषु वृत्तिरस्या इयती प्रेममयी भवेत्तदानीम् । भविता नियतं प्रसन्नदृष्टिः करुणार्द्रा नगरप्रजास्वमुष्याः ॥ २२९॥ स्थिरता हृदयस्य वै प्रशस्या ललनायाः स्वबिडालपालनार्थम् । नृपपुत्रकरावलम्बनाशा स्थगिताहो कुरुते हि कापि नान्या ॥ २३०॥ नियमः परिपालितस्त्वयाहं बहु मन्ये तव गाढकर्मनिष्ठाम् । व्रज नायय सादरं सुभाग्यां मम पुत्रस्य समक्षमाशु तन्वीम् ॥ २३१॥ नृपवाक्यचमत्कृतिप्रहृष्टः प्रतिहारः पुलकावृतार्द्रगात्रः । समवाप्तुमुदीरितां नृपाज्ञां प्रणतो बद्धकराञ्जलिश्चचाल ॥ २३२॥ -१२- अथ नृपतनयः स्मरेण विद्धो निजदयितागमनस्य रम्यवार्ताम् । स्वसहचरजनैर्निशम्य हृष्टो दिनकरतप्तमहीव वर्षपाते ॥ २३३॥ अनुपमदयितां निनीषमाणो जनपसुतः प्रययौ सुहृत्समेतः । निजभवनमुखे स्थितां सुकन्यां वदनरुचैव दिशो प्रदीपयन्तीम् ॥ २३४॥ अतिशयभयसिक्तवामपाणिं स्वकरतले परिगृह्य चन्द्रिकायाः । स्वपितृभवनमेव लज्जितां तां पितृनमनाय निनाय राजपुत्रः ॥ २३५॥ अविरतमनुयाति तां बिडाले अनयदुभे ललना कलामुमां च । नरपतिनिलयं न कैः प्रशस्या स्वजनवदन्यजनेषु वृत्तिरस्याः ॥ २३६॥ दयितनिजसुतं प्रियासमेतं प्रणतममोघशुभाशिषां वचोभिः । नरपतिरमितोत्सवोऽभ्यषिञ्चत् किमिह सुखं जनकस्य पुत्रभूतेः ॥ २३७॥ सुतपरिणयमङ्गलार्थसिद्ध्यै निजसचिवं च समादिदेश राजा । भवतु सकलवैधकार्यजातं नगरजनस्य सुखार्थमित्यवोचत् ॥ २३८॥ समुचितसुजने विमातृपुत्रीं घटयितुमैच्छतुमां च चन्द्रिका सा । सविनयमवदत्स्वरागपात्रं यदि भवितेदमहं ध्रुवं सुहृष्टा ॥ २३९॥ स्वसुतपरिणये निविष्टचित्तश्चतुरमतिस्सचिवस्तदा बभाषे । निरवधिकगुणो युवा सुरूपी मम सुत एव भवेदुमोपयन्ता ॥ २४०॥ अभजत हृदयं सुखं कलाया निजतनुजोपयमप्रकल्पनोत्थम् । विकचसुमरुचिं बभाज तन्व्या मुखमनिरीक्षितमङ्गलादुमायाः ॥ २४१॥ तदनु सपदि मन्दहासमूर्तिः सचिवसुतो गिरिशाभिधो बभाषे । प्रियतमपदवीं दधीत रम्या यदि मयि मत्सुखमेत्यपूर्वकाष्ठाम् ॥ २४२॥ विकसितकुसुमे पपात भृङ्गो नवमकरन्दपिपासितो हि दिष्ट्या । रुचिकरमभवत्भिषक्प्रदत्तं शिवदयया हितमातुरस्य पथ्यम् ॥ २४३॥ न किमपि ललना शशाक वक्तुं विलसदपाङ्गदृशो भृशं किलोचुः । स्मितसहितपरस्परेक्षणैस्तत् तरुणयुगं निजसम्मतिं बभाषे ॥ २४४॥ -१३- पौरान्न्यमज्जयतलौकिकहर्षसिन्धौ पृथ्वीशपुत्रसुखदामलचन्द्रिकाभा । संश्रुत्य ते नृपपथेषु विवाहयुग्म- वार्तां मिथो शुभकरीं बहुधा शशंसुः ॥ २४५॥ उद्वाहसम्भ्रमविधिं पथि घुष्यमाणां श्रुत्वा भटैर्निजसुखाय यदृच्छयैव । कर्माणि वृत्तिसहजानि विहाय पौराः रथ्यास्वलङ्करणकर्मणि सम्प्रवृत्ताः ॥ २४६॥ कैश्चित्स्वसौधशिखरेषु च चत्वरेषु संस्थापिता गगनचुम्बिलसत्पताकाः । कुड्यानि सद्मनिकरस्य सुधावलेपैः नूत्नश्रियंह्युदवहन् पुरि राजमार्गे ॥ २४७॥ रथ्याः सुगन्धिहिमशीतलवारिसेकैः अम्लानपुष्पनिचयग्रथितार्द्रहारैः । कन्दर्पचित्रफलकैर्निशि दीपवृक्षैः कामप्यपूर्वसुषमामतुलामवापुः ॥ २४८॥ पौराः प्रभोर्वरनिमन्त्रणमाददानाः स्वस्थानयोग्यमणिमौक्तिकभूषिताङ्गाः । स्वच्छप्रशस्तवसनाः शतशो समेताः देवेशसद्मनिभराजतराजसौधे ॥ २४९॥ राज्ञ्यासह स्वप्रकृतीः स्वयमेव राजा सप्रश्रयं ह्यससभाजत राजसौधे । चन्द्रो नभस्युडुगणान् दयितान् ससन्ध्यः सुस्वागतं न किमसौ वदति प्रदोषे ॥ २५०॥ कन्याद्वयी परिणये धनिकैश्च दीनैः औद्वाहिकैर्बहुविधैरभिवर्षिताभूत् । आशीर्भिरीप्सितफलप्रदवेदवाक्यैः नोपायनं खलु सुखाय यथा सदाशीः ॥ २५१॥ सन्तर्पयन्ति सकलान् स्म नरेशसूदाः स्वाद्वोदनैश्च घृतभर्जितभक्ष्यभोज्यैः । द्राक्षाम्रदाडिमरसोद्धृतचोष्यपेयैः ताम्बूलपूगमधुसंस्कृतचर्व्यलेह्यैः ॥ २५२॥ नात्राभवत् परिणतो न युवा न बालः योऽन्नप्रदानमनुभूय न तृप्तिमाप । नैवाभवच्च युवतिः स्थविरा कुमारी योपायनं न परिगृह्य विवेद तुष्टिम् ॥ २५३॥ राजस्नुषाभिमतमेतदिति ब्रुवाणैः तत्तत्पशूचितनवीनसुसिद्धखाद्यैः । सम्प्रीणिता नगरगोव्रजपक्षिवृन्दाः मार्जालकुक्करगणा धरणीशभृत्यैः ॥ २५४॥ बध्वौ स्वभर्तृसहितेऽमितभोगभाग्ये पादार्चनाय जननीमभिजग्मतुस्ते । दुःखं सुखं च युगपत् ह्यनुभूय माता वर्षातपाहतधरेव बभौ विमूढा ॥ २५५॥ सप्रश्रयं स्वजननीं प्रणिपत्य पुत्र्यौ बाष्पावरुद्धवचसागदतां विनम्रे । अद्यप्रभृत्यपगतं तव कृच्छ्रजातं मातस्त्वमास्व ससुखं भवनेऽस्मदीये ॥ २५६॥ माता विहस्य जनसंसदि सानुतापं लज्जानुलिप्तवचसा न्यगदत्स्वपुत्र्यौ । तुष्टास्मि भोः सपदि चन्द्रिकयोपदिष्टा नास्तीह कार्यमधुना मम जागृताहम् ॥ २५७॥ वाराणसीं जिगमिषामि ममात्मशान्त्यै पायात् हरिः पुरजनान् सकलांश्च युष्मान् । यस्याङ्घ्रियुग्ममनिशं मनुजाः स्मरन्तः विन्दन्ति शाश्वतसुखं तमहं श्रयामि ॥ २५८॥ एकाकिनी नु कथमेषि विहाय पुत्र्यौ मा गा इह क्षपय कालमिति ब्रुवाणाम् । पुत्रीमुमामवददीप्सितनिर्णयां मां रुन्धे न कोऽपि शमथं भज मा शुचस्त्वम् ॥ २५९॥ मातुः श्रुत्वा गिरिवदचलं निश्चयं तं बिडालः तस्याः क्रोडं प्रति यतमनाः पुप्लुवे चन्द्रिकाङ्कात् । एकाकिन्यै सहचरसुखं रक्षणं च प्रदातुं तिर्यग्जन्तुः स्वऋजुचरितैर्दर्शयेत्तथ्यमार्गम् ॥ २६०॥ मार्जारेणान्वहमनुसृतागात् कला पुण्यकाशीं भर्त्राश्वस्ता प्रियसहचरी चन्द्रिका दीपयन्ती । राज्ञः सौधं पुरजनपदान् स्मेरवक्त्रा बभासे भुञ्जानेष्टान् युवसमुचितान् धर्म्यकामान् समृद्धान् ॥ २६१॥ चन्द्रिकाप्रकाशनानन्तरं रचितानि कानिचन पद्यानि

    - पद्यसूची (Index)

    ३८. वृत्तकुसुमार्पणम्

    पूर्वार्धं योगमुद्रामुपारूढं नरसिंहं हृदि स्मरन् । वृत्तलक्षणजिज्ञासुः नामसङ्कीर्तनं हरेः ॥ १॥ कुर्वन्नाप्नोत्ववगमं वृत्तानां लक्षणे जवात् । इति सञ्चिन्त्य यतते कर्तुमेषां कृतिं ह्रिया ॥ २॥ गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽल्पधीः । मूर्त्युपाह्वः श्रीनिवासः सावधानं निबोधत ॥ ३॥ प्रारम्भकांशाः शास्त्रस्य पूर्वार्धेऽत्र दर्शिताः । ह्रस्वाक्षरोच्चारणाय यः कालः समपेक्षितः ॥ ४॥ स एकमात्रामित इत्युच्यते पूर्वसूरिभिः । दीर्घाक्षरमनुस्वारविसर्गान्ताक्षराणि च ॥ ५॥ मात्राद्वयमितानीति च्छन्दःशास्त्रे निगद्यते । संयुक्ताक्षरपृष्ठस्थं द्विमात्रमिति गण्यते ॥ ६॥ ह्रस्वाक्षरं चेत्त्पादान्ते द्विमात्रं तदपि स्मृतम् । एकमात्रामितः कालः लघुरित्यादृतैर्बुधैः ॥ ७॥ द्विमात्राप्रमितस्तावद्गुरुरित्यभिधीयते । छन्दसां लक्षणं वक्तुं सुकरं भवतादिति ॥ ८॥ अक्षराणि त्रिशः पद्ये गुम्फितान्यादितः क्रमात् । तमक्षरगणं प्राहुः वृन्दं त्र्यक्षरसम्मितम् ॥ ९॥ लघ्वादिर्यगणः प्रोक्तः रगणः लघुमध्यमः । लघ्वन्तस्तगणश्चाथ गुर्वादिर्भगणः स्मृतः ॥ १०॥ गुरुमध्यस्तु जगणः गुर्वन्तः सगणो भवेत् । नगणः स्यात्सर्वलघुर्मगणो लघुवर्जितः ॥ ११॥ यत्रावश्यो विरामः स्यात् पद्यवाचनकर्मणि । तत्स्थानं यतिमाहुः सा पादान्ते नियता भवेत् ॥ १२॥ यतिस्थाने पदान्तस्स्यादितिच्छन्दोविदां मतम् । प्रदर्श्यन्तेऽत्रोत्तरार्धे हृद्यवृत्तानि कानिचित् ॥ १३॥ समवृत्तस्याद्यपादे दृश्यते वृत्तलक्षणम् । यत्राक्षरगणस्याद्यमक्षरं गणसूचकम् ॥ १४॥ ``यशस्विन्'' यगणं ब्रूते ``रक्ष मां'' रगणं तथा । ``तृप्तोऽस्मि'' तगणं वक्ति ``सततं'' सगणं तथा ॥ १५॥ भगणं ``भार्गवपदं सूचयत्यत्र पश्यत । ``जयन्त᳚पदमेवं हि जगणं सूचयेदिह ॥ १६॥ तथा ``निमिष᳚शब्दस्तु निर्दिशेन्नगणं स्तुतौ । ``माजाने'' मगणं ब्रूते ``हरे'' लघुगुरू तथा ॥ १७॥ स्तोत्रे ``विष्णो᳚ऽथवा ``शौरे'' गुरुद्वन्द्वे प्रयुज्यते । पुनरुक्तिनिरोधार्थं युज्यन्तेऽन्यपदानि च ॥ १८॥ क्वचिल्लघुगुरुद्वन्द्वं गुरुद्वन्द्वं गुरु क्वचित् । पृथङ्निर्दिश्यते तत्र हेतुर्यतिनिबन्धनम् ॥ १९॥ पद्योत्तरार्धे दत्तौ स्तः यतिर्वृत्तस्य नाम च । गुणाश्च वसवश्चैव मुनयोऽन्यपदानि च ॥ २०॥ सङ्ख्यावाचीनि युज्यन्ते यतिनिर्देशने क्वचित् । न सर्वेषां तु वृत्तानां लक्षणं दिश्यतेऽधुना ॥ २१॥ निर्दिशेदन्यवृत्तानि यथानिर्दिष्टमञ्जसा । बाल एव यथाशक्ति च्छन्दोव्युत्पत्तिहेतुना ॥ २२॥ उत्तरार्धं तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे गोविन्द नारायण कृष्ण विष्णो । नाम्नेन्द्रवज्रेति वदन्ति लोके छन्दोविदो वृत्तमिदं प्रतीच्छ ॥ २३॥ जयन्त तुष्टोऽस्मि जयेश शौरे रमेश लक्ष्मीश मुकुन्द विष्णो । उपेन्द्रवज्रेति बुधैः प्रतीतं समर्प्यते पादयुगे तवात्र ॥ २४॥ शौरे विष्णो राम हे रक्ष शार्ङ्गिन् त्रातासि त्वं मत्प्रमादान् क्षमस्व । भिद्येतादौ देव वर्णैश्चतुर्भिः शालिन्याख्यं वृत्तमेतत्प्रतीच्छ ॥ २५॥ रक्ष मां निमिष राम हे हरे कृष्ण शार्ङ्गधर राघव प्रभो । आमनन्ति कवयो रथोद्धतां- वृत्तमेतदधुना समर्प्यते ॥ २६॥ रक्ष मां निमिष भार्गव शौरे राम हे वरद केशव कृष्ण । स्वागतेति विदितं कविवृन्दे सन्निधौ तव समर्पितमद्य ॥ २७॥ भार्गव भावन भूषण शौरे श्रीधर केशव मोहनमूर्ते । दोधकमेतदितिप्रथितं भोः स्वीकुरु मामव राघव विष्णो ॥ २८॥ तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे जनेश तोत्रास्त्र जयेश विष्णो । उपेन्द्रवज्रा क्वचिदिन्द्रवज्रा नाम्नोपजातिः कृपया प्रतीच्छ ॥ २९॥ भार्गव विष्णो निमिष यशस्विन् भूषण शौरे दमय ममत्वम् । भूतयतिस्स्यादिह नरकारे मौक्तिकमालां वरद गृहाण ॥ ३०॥ रक्ष मां निमिष जयन्त विष्णो प्रत्यहं वितर मनः प्रशान्तिम् । अक्षरैर्भवति यतिस्तु षड्भिः चन्द्रिकाख्यनववृत्तमवेहि ॥ ३१॥ रक्ष मां निमिष भार्गव शौरे पुष्कराक्ष मधुसूदन कृष्ण । नूत्नवृत्तमिह नन्दननाम प्रार्थये भवतु तेऽमितभोग्यम् ॥ ३२॥ जयन्त तृप्तोऽस्मि जयेश राम हे मुकुन्द गोविन्द रमेश मध्वरे । वदन्ति वंशस्थमिदं पुरातनाः समर्पयाम्यत्र तवाङ्घ्रिपङ्कजे ॥ ३३॥ सततं सुमते सदयं सहसे मम मन्दमतिं मम धार्ष्ट्यमहो । कथयन्ति हि तोटकमेतदिति प्रथिताः कृपयानुगृहाण हरे ॥ ३४॥ निमिष भार्गव भावन राम हे वरद केशव माधव रक्ष माम् । द्रुतविलम्बितमद्य मयार्पितं सदयमद्य गृहाण बलानुज ॥ ३५॥ तृप्तोऽस्मि तुष्टोऽस्मि जयन्त राम हे गोविन्द लक्ष्मीश नमामि मध्वरे । भक्त्येन्द्रवंशाख्यमिदं कृतं मया स्वीकृत्य मां पाहि कृपापयोनिधे ॥ ३६॥ यशस्विन् यथेष्टं यदीत्थं यतेऽहं कवित्वे क्षमस्व प्रभो वेङ्कटेश । भुजङ्गप्रयाते मदीयं प्रयासं प्रतीच्छात्र दोषानशेषान्क्षमस्व ॥ ३७॥ निमिष यशस्विन् नियम यतेऽहं मम कविताया कुसुममकिञ्चित् । तव पदयुग्मे सपदि निधातुं वितरतु तोषं कुसुमविचित्रा ॥ ३८॥ राम हे रक्ष मां रंहसा राविणं कृच्छ्रगर्ते गतं श्रीनिधे मध्वरे । पण्डिता मण्डिताः स्रग्विणीं मन्वते वृत्तमेतत्प्रभो स्वीकुरु प्रार्थये ॥ ३९॥ सततं भार्गव रक्ष मां यशस्विन् सदयं सान्त्वय दुःखितं कृपालो । मधुराख्यं नवमर्पयामि वृत्तं यदि हृद्यं न भवेत्तदा क्षमस्व ॥ ४०॥ माजाने निमिष जयन्त रक्ष मां भोः कंसारे वरद रमेश राम शौरे । प्रोक्तं यद्भुवनयतिः प्रहर्षिणीति प्रेम्णा ते पदयुगले समर्पयामि ॥ ४१॥ निमिष भार्गव जयन्त जनेश भोः वरद केशव रमेश हरे प्रभो । अभिनवं तव पदेऽद्य निवेशितं मदनिकाख्यमिह वृत्तमधोक्षज ॥ ४२॥ तृप्तोऽस्मि भार्गव जयन्त जयेश शौरे गोविन्द केशव रमेश रथाङ्गपाणे । ख्यातं वसन्ततिलकेति कविप्रधानैः वृत्तं भवत्पदयुगेऽद्य समर्पयामि ॥ ४३॥ निमिष राम विष्णो रक्ष मां रम्यमूर्ते शमय कामबाधां दुर्भरां सत्वरं मे । बदरिकाख्यवृत्ते सप्तवर्णैर्यतिः स्यात् इदमपूर्वमीश प्रार्थये स्वीकुरु त्वम् ॥ ४४॥ निमिष नियम विष्णो रक्ष मां राम शौरे वरद सुखद भक्तं पश्य मां सत्यवाक्य । यतिरिह वसुसंज्ञा मालिनीति प्रसिद्धं तवपदयुगलेऽहं वृत्तमार्तोऽर्पयामि ॥ ४५॥ यतेऽहं माजाने निमिष सततं भार्गव हरे कवित्वे वैदुष्यं न मयि सुतरां यादवपते । यतिः षद्भिर्वर्णैरिह शिखरिणीवृत्तमधुना प्रतीच्छेदं विष्णो परिहर मदीयानघगणान् ॥ ४६॥ जगत्सु सततं हरे नियम राम हे रक्षकाः भवन्ति न भवद्विधाः प्रणतपालने जागराः । रमेश भुवि कथ्यते बुधजनेषु पृथ्वीति यन्- मयात्र हि समर्प्यते यतिरिहाष्टवर्णैः प्रभो ॥ ४७॥ शौरे विष्णो शार्ङ्गिन् निमिश सुमते भूषण हरे दृप्तं मत्तं दुष्टं शमद सुरुचे मामव विधो । वृत्तं संरम्भाख्यं ऋतुयतियुतं स्वीकुरु नवं प्रीत्यै भूयात्तेऽदो वरद करुणाब्धे नरहरे ॥ ४८॥ विष्णो शौरे निमिष सततं रक्ष मां राम दासं प्रह्वं भक्तं रघुवर हरे देव कारुण्यमूर्ते । मन्दाक्रान्तेत्यभिहितमिदं वृत्तमास्वाद्यलास्यं त्वत्पादाब्जे मुनियतियुतं न्यस्य शान्तिं व्रजामि ॥ ४९॥ शौरे विष्णो यशस्विन् निमिष सुमते भार्गव हरे पश्चात्तापात्प्रदग्धं वरद कृपया पारय भवात् । प्रोक्तं मन्दारनाम्ना मुनियतियुतं स्वीकुरु नवं भूयात्तुभ्यं मुदार्थं सहृदयहितं माधव विभो ॥ ५०॥ माजाने सततं जडोऽस्मि सुमतेऽतृप्तोऽस्मि तप्तोऽस्मिभोः शान्तिं देहि भवत्कटाक्षसलिलैर्मद्विग्रहं स्नापयन् । वर्णैर्द्वादशभिर्यतिर्नियमिता शार्दूलविक्रीडिते वृत्तेऽस्मिन् भवते समर्पितमिदं लक्ष्मीप्रिय स्वीकुरु ॥ ५१॥ विष्णो शौरे यशस्विन् नियत नियम ते देव तृप्तोऽस्मि दासः कंसाराते विधातः मधुमथन हरे चक्रपाणे दयालो । यस्मिन् द्विः स्यान्मुनियतिनियमः स्रग्धरेतीरिते भोः तत्त्वत्प्रीत्यै कृपालो तवपदयुगले सादरं निक्षिपामि ॥ ५२॥ सुमते सततं जयन्त भोः सदयं भावन रक्ष मां हरे । ललितेति बुधैरुदाहृते तव नेत्रद्युतिपातमादिशेः ॥ ५३॥ वरद निमिष रक्ष मां यशस्विन् नियम जयन्त जनेश रामभद्र । तव पदयुगले निवेश्य भक्त्या दृढचरणां प्रणमामि पुष्पिताग्राम् ॥ ५४॥ वृत्तकुसुमानि तवपदयुगले भक्त्या समर्पितानि हरे । स्वीकुर्वकिञ्चननृणा सुरभिःप्रसरतु तव करुणया ॥ ५५॥

    - पद्यसूची (Index)

    ३९. ते हि मे दिवसा गताः

    मम कोशे कञ्चुकस्य मध्वाशैः पृथुलीकृते । मित्रैस्सम्पीड्यमानस्य तानदत्वा प्रधावतः ॥ जनन्यामाह्वयन्त्यां मां दुग्धपानाय नैकशः । गोलीक्रीडानिमग्नस्य रुष्टां तां कुर्वतो तदा ॥ ममानुकुर्वतस्तातं वदनक्षौरकर्मणि । फेनदिग्धमुखस्यापहसितस्याम्बया भृशम् ॥ भ्रात्रा जितस्य क्रीडायां रुदतोऽश्रूणि मुञ्चतः । मात्रा समाश्वासितस्य ते हि मे दिवसा गताः ॥ १॥ ईर्ष्यया गणिते दक्षमुद्दिश्य सहपाठिनम् । मिथ्यारोपं कृतवतो गुरुणा दण्डितस्य च ॥ फलचौर्यकृतौ सायमुद्यतस्याम्रनिष्कुटे । मम पित्रैव दृष्टस्य ताडितस्य च निर्दयम् ॥ पश्यन्तीनां बालिकानां कर्तुं धृत्या प्रलोभनम् । वेगदीर्घीकृताङ्गस्य नद्यां प्लवनकर्मणि ॥ ग्रीष्मावकाशे सम्प्राप्ते निरतस्य दिवा सदा । तरुवानरखेलायां ते हि मे दिवसा गताः ॥ २॥

    - पद्यसूची (Index)

    ४०. क्रिकेटोपाख्यानम्

    सूतं पुराणिकं विज्ञं पप्रच्छुस्तापसा वने । अस्माभिर्भारते देशे कथाश्रवणवञ्चिताः । क्रिकेट खेलां रुचिरां खेलिष्यन्तीति वै श्रुतम् । केयं खेला कथं मर्त्याः खेलिष्यन्ति युगे कलौ ॥ १-२॥ कृपयाऽचक्ष्व सर्वज्ञ परं कौतूहलं हि नः । उवाच सूतः प्रहसन् मुनयः श‍ृणुतोत्सुकाः ॥ ३॥ सङ्ग्रहेणैव वक्ष्यामि न शक्यं विस्तृतेरितम् । गणौ खेलत अन्योन्यं जिगीषू सौहृदान्वितौ ॥ ४॥ गणे तत्रान्यतरस्मिन्सन्त्यैकादशखेलकाः । खेलनोपस्करा दण्डो विकेटः कन्दुकस्त्रयः ॥ ५॥ लम्बदण्डत्रयं स्निग्धं स्टम्प नाम्नेरितं बुधैः । बेलौ सूक्ष्मौ दारुकृतौ स्टम्पस्योपरि तिष्ठतः । बेलस्टम्पसमाहारो विकेट इति कीर्तितः ॥ ६॥ गणे केचित् ताडकाश्च क्षेपकाश्चापरे सदा । विकेटरक्षकश्चैव सर्वे दक्षाश्च धावने ॥ ७॥ गणस्यान्यतरस्यैकः खेलको गणनायकः । काप्टनाह्वो वर्तते यो दक्षः क्रीडाविचक्षणः ॥ ८॥ क्रिकेटक्षेत्रविस्तारः यार्डानां पञ्चषष्ठितः । भवेन्नवतिपर्यन्तं मध्ये रोपितशाद्वलः । चतुरस्रो खेलनार्थं स्थितः पिच इतीरितः ॥ ९-१०॥ पिचे विकेटौ हरिते स्थाप्येतेऽन्योन्यसम्मुखौ । यार्डानां द्वाविंशतिः स्यादनयोरन्तरं सदा ॥ ११॥ यदा प्रारभते क्रीडा गणस्यैकस्य ताडकौ । विकेटौ समया स्यातां खेलका अपरस्य तु । तिष्ठन्ति खेलनक्षेत्रे एकैकं नियतस्थले ॥ १२॥ विकेटरक्षकस्तिष्ठेत् ताडकस्यैव पृष्ठतः । पश्चाद्विकेटस्य यथा गृह्यते चलकन्दुकः ॥ १३॥ विकेटं पालयन् दण्डधरे तिष्ठति ताडके । क्षेपकोऽन्यगणस्यान्यविकेटात् कन्दुकं क्षिपन् । उत्पतत्कन्दुकाघातात् विकेटं पातयेत् द्रुतम् । पतेद्यदि विकेटस्तु निष्क्रमेत स ताडकः ॥ १४-१५॥ ताडकस्तु स्वदण्डेन ताडयत्यञ्जसा तथा । कन्दुकं स यथा दूरं प्लवन् भूमौ चलन् व्रजेत् ॥ १६॥ विकेटं च सुसंरक्ष्य कन्दुकं ताडयेद्यदि । खेलकोऽरिगणात्कश्चित् धावन् गृह्णाति कन्दुकम् । विकेटलक्ष्यमुद्दिश्य द्राक् तं क्षिपति धावकः ॥ १७॥ अत्रान्तरे ताडकौ तौ विकेटमपरं प्रति । गतागतं धावतो द्राक् यावन्नायाति कन्दुकः । गतागतानां गणनाद्धावनाङ्को विगण्यते ॥ १८॥ डयमानः कन्दुकश्चेत् धावकेन विगृह्यते । धरण्यां पतनात्पूर्वं निष्क्रमेत स ताडकः ॥ १९॥ धावत्यतीत्य सीमानं तरसा यदि कन्दुकः । चत्वारो धावनाङ्कास्तु गण्यन्ते ताडकार्जिताः ॥ २०॥ प्लवेदतीत्य सीमानं कन्दुको यदि ताडितः । षडङ्कानर्जयत्याशु ताडकः संस्तुतो जनैः ॥ २१॥ भवेन्निष्क्रमणं साध्यं दशधा ताडकस्य हि । तेषां विवरणं नात्र क्रियते कार्यगौरवात् ॥ २२॥ षड्कृत्व एवं क्षिपति क्षेपकः कन्दुकं दृढम् । षट्कृत्वः क्षेपणं ह्येवं निर्वर्तनमितीरितम् । पर्यायेण विकेटाभ्यां भवेन्निर्वर्तनं सदा ॥ २३॥ गणस्य प्रविशत्यन्यः निष्क्राम्येद्यदि ताडकः । एवमेकैकशः स्वाङकान्लभन्ते गणखेलकाः । आहत्याङ्कान् खेलकानां गणाङ्क उपलभ्यते ॥ २४॥ योऽद्यावधि गणो क्षेत्रपालने क्षेपणे रतः । स इदानीं ताडनेऽथ धावने सक्रियो भवेत् ॥ २५॥ लभन्त उक्तरीत्यैव स्वाङ्कान्श्च गणखेलकाः । गणौ खेलत अन्योऽन्यं विपरीतक्रियारतौ ॥ २६॥ क्रीडायां खेलनावर्तः इनिङ्ग इति कथ्यते । यद्गणस्य भवत्यङ्कः ज्यायान् जयति तद्गणः ॥ २७॥ प्रायेण त्रिविधा प्रोक्ताः क्रिकेटक्रीडने बुधैः । यदा द्वयमिनिङ्गाणां गणाभ्यां खेल्यते तदा ॥ क्रीडानिकष इत्युक्तां टेस्ट-माचि त्युदाहृताम् । चतुर्वा पञ्चदिवसान् खेलन्ति युवखेलकाः ॥ २८-२९॥ इनिङ्गे निर्वर्तनानामस्ति पञ्चाशदेव चेत् । एकस्मिन्नेव दिवसे पूर्णतां याति खेलनम् ॥ ३०॥ निर्वर्तनानां सङ्ख्या चेदिनिङ्गे विंशतिस्तदा । त्रिष्वेव घटिकानां हि क्रीडा याति समापनम् ॥ ३१॥ क्रीडाप्रयोगो निर्दिष्टः स्थूलरूपेण साम्प्रतम् । भवतां लघुबोधार्थमौत्सुक्यशमनाय च ॥ ३२॥ कन्दुकक्षेपणं कर्मासरलं चातिसङ्कुलम् । तत्र प्रवीणतां प्राप्तुं दुश्शक्यं चतुरैरपि ॥ ३३॥ शीघ्रप्रतिक्रियाशीला दृढकाया मनोजवाः । एकाग्रमनसो लक्ष्ये स्निग्धा खेलकसंश्रये । धनं यशश्च विपुलं लभन्ते खेलकाः कलौ ॥ ३४॥ जनिष्यन्ति भवन्तो चेत् भारतेऽस्मिन् कलौ युगे । दिष्ट्या क्रिकेटं श‍ृण्वन्तः पश्यन्तः दूरदर्शके । कदाचित् क्रीडयन्तश्च चिरं सुखमवाप्स्यथ ॥ ३५॥ घूर्णत्कन्दुकमत्र पश्यत करात्क्षिप्तं बिषेन्बेडिनः । अत्राहो गगने प्लवन्तमपरं टेण्डुल्करेणोच्छ्रितम् । गृह्णात्यत्र कृताञ्जलिर्वरकपिल्देवो भ्रमत्कन्दुकम् । राहुल्-द्राविडमत्र पश्यत जनैः संस्तूयमानं मुदा ॥ ३६॥ निमीलिताक्षं गायन्तमसम्बद्धं पुराणिकम् । पश्यन्तः प्राहसन् सर्वे मुनिवर्या मुहुर्मुहुः ॥ ३७॥ नेत्रे निमील्य सहसा क्रोधपर्याकुलेक्षणः । शशाप सूतः श‍ृण्वत्सु मुनिष्वेवं तपोवने ॥ ३८॥ क्रीडां कथयतो चित्तं तस्यां मग्नमभून्मम । अद्राक्षं तानि दृश्यानि भविष्यन्ति सकौतुकम् ॥ ३९॥ प्रत्याख्यातोऽस्मि मुनयो भवद्भिर्मुनिपुङ्गवैः । इदं क्रिकेटोपाख्यानं कलौ नष्टं भविष्यति । न स्मरन्ति जना हन्त मयैतत् समुदीरितम् ॥ ४०॥ तत्र कश्चिन्मुनिश्रेष्ठः पश्चात्तापेन यन्त्रितः । सूतं पुराणिकं नम्र उवाच वदतां वरम् ॥ ४१॥ क्षमस्वास्मान् मुनिश्रेष्ठ न कश्चिन्नापहास्यते । इदं श्रेष्ठमुपाख्यानं यदि नष्टं भवेदहो ॥ न श‍ृण्वन्त इदं मर्त्या भविष्यन्ति निरुत्सुकाः । अतोऽहं प्रार्थये प्राज्ञं भवेत् शापविमोचनम् ॥ ४२-४३॥ तथास्त्विदमुपाख्यानं द्वितीयजनिमेष्यति । यः कश्चित्पण्डितम्मन्यः कलौ हैमवती तटे । जनिं प्राप्य क्रिकेटस्य न स्पृशन् दण्डकन्दुकौ । अप्यैकवारं रचयेदुपाख्यानमतन्द्रितः ॥ ४४-४५॥ यद्वर्तमानमधुना शापं चास्य विमोचनम् । लेखिष्यति यथावत्सः मदाशीर्भिःप्रचोदितः ॥ ४६॥ क्रिकेटोपाख्यानमिदं व्याहृतं प्रथमं मया । ये श‍ृण्वन्ति पठन्त्यन्यैः पाठयन्ति लिखन्ति च । तेषां निःसंशयं वासः स्यात्क्रिकेटत्रिविष्टपे ॥ ४७॥ एवं पुराणिको सूतो व्याहृत्य मुनिमण्डले । आपृच्छ्य तापसान् सर्वान् जगाम स्वाश्रमं वशी ॥ ४८॥ इति क्रिकेटोपाख्यानं समाप्तं

    - पद्यसूची (Index)

    ४१. आर्योपवनम्

    आयान्त्वार्याःस्वागतमुपवनमारादुदारमृदुहृदयाः । पश्यन्त्वस्मिन् तरवो भवन्ति गुल्मा श्चवल्लर्यः ॥ १॥ वनपालरोपितलताः कतिपय तरवो निसर्गसंवृद्धाः । सुरभीनि सुमान्यत्र प्रकृष्टवर्णानिचान्यत्र ॥ २॥ गन्धरहितानि पेशलवर्णयुतानि कुसुमानि सन्त्यस्मिन् । तान्यपि कदाचिदुचितागदेषु बहुशःप्रयुक्तानि ॥ ३॥ स्तम्बादिपादपा अपि दृश्यन्तेऽत्र बहुशो निरुद्देशाः । जीवानामुद्देशो जीवनमेवेतिकथयन्तः ॥ ४॥ आरामा नैके कुत अधुनायमपर इहेति मा पृच्छेः । वनपस्तुष्टिं विन्दति रोपणकर्मणि न संशीतिः ॥ ५॥ शाद्वल न त्वं भविता गुरुर्न कुसुमं फलं न ददासि भोः । कथमपि कुत्रापि त्वं जीवन् चिरं क्षपयसि कालम् ॥ ६॥ रुग्ण कुतस्त्वं धावसि वैद्यस्यगृहं गृहोपवनमेहि । गुल्मा लताश्च तरवो ददते भेषजममोघं ते ॥॥ ७॥ यानस्थाने कृषकः प्रतीक्षते खलु समाप्य कार्याणि । यानेन स्वग्रामं गन्तुं सायं परिश्रान्तः ॥ ८॥ नाविक तारयसि त्वं पथिकं सरितं यमद्य करुणालुः । विद्याः स एव तीर्त्वा भवितोपपतिस्तव गृहिण्याः ॥ ९॥ पिबसि क्षीरं क्षुधितो निमीलिताक्षो बिडाल निश्चिन्तः । सर्वे पश्यति दृष्टो नाहमिति दृढं मनुषे कथम्? ॥ १०॥ पथिके वदति तपति ममभालं किमुपशमनं वदेत्यार्ते । कृपणस्तैली तैलं न ददानो भणति कष्टं भोः ॥ ११॥ नम्रो लतादशायां नाभूद्भवति कथमद्य यो वृक्षः । गच्छान्यत्र स्यात्स्निग्धोमसृणःश्रमेणालम् ॥ १२॥ मुसलः पेषणकर्मणि जरितः स भवति कदापि न हि भोक्ता । सन्त्यन्ये भोक्तारो पिष्टस्य तदेवविधिलिखितम् ॥ १३॥ पश्य धनिकोऽभवमहो इति दृप्तो धरति कालयामिन्याम् । श्वेतातपत्रमूर्ध्वमुपहसितं न गणयन्मूर्खः ॥ १४॥ नालर्को भषति दशति न श्वा यो भषणशील इत्युक्तिः । ज्ञाता वानेन शुना धावनमेव वरमिति मन्वे ॥ १५॥ पुरजनभरिते याने पुरुषो तिष्ठन् प्रयातिबहुदूरम् । गम्यस्थानाभ्याशे लभते पीठं स किमुपविशेत्? ॥ १६॥ भवति हि मयैव सर्वं निर्मलमिति मा कदापि दृप्तो भूः । फेनक भवितासि त्वं मलिनो नरस्तदा निर्मलं कर्ता ॥ १७॥ विप्रः स्वीकृतवस्त्रं दाने माति हि रहः सुनिर्लज्जः । किञ्चिल्लब्धं भूयान्मम भाग्यमिति भवति न तुष्टः ॥ १८॥ आस्तां मैत्री श‍ृणु मां सदा करीषवणिजा सह स्नेहात् । गन्धोपजीविना सह नियत द्वन्द्वकलहो हि वरम् ॥ १९॥ संस्पृश्योष्णं नीरं तप्ताङ्गुलिरर्भकोपि दधि शीतम् । स्पृशति हि विना प्रमादं फूत्कृत्यान्यत्रभयभीतः ॥ २०॥ गलितरदस्य प्राप्ती राशिःभृष्टचणकस्य किं कार्यम् । वज्ररदः क्षुधित अहो लभते न हि चणकमप्येकम् ॥ २१॥ सूदस्य सुतः पृष्टो वर्णय चन्द्रस्य वृद्धिमसिते पक्षे । पाककलायां सिक्तो भक्ष्यासक्तो वदति मन्दम् ॥ २२॥ तेङ्कोलुशकलतुल्यो फुल्लति वै मधुरकोलकट्टैवत् । वासितदोसाकान्तिं मुष्णात्यन्ते विधुरिड्लीवत् ॥ २३॥ रजकस्य रासभमसौ ददाति खलु नर्तकाय दानार्थम् । अपि गच्छति नाकं वा कारागारं न जानीमः ॥ २४॥ पुष्प! कदापि त्वं मा दर्शय दुर्मदमनित्यमस्ति यशः । त्वत्परिमलवर्णौ श्वो सायं यास्यत अवकराब्धिम् ॥ २५॥ साक्षात्कर! नवरसद!त्वममितहर्षं ददासि सर्वेषाम् । तन्व्या कयापि यन्त्रितचर्यः सा तवकलत्रं किम् ॥ २६॥ दीर्घवपुस्त्वं विद्युद्दीप ज्वलितो प्रकाशमानोऽसि । ज्वलने कुतो विलम्बस्त्वय्यादिष्टे प्रकाशार्थम् ॥ २७॥ बधिरः पचति हि पक्वं मूको भुङ्क्ते दिने दिने तूष्णीम् । अन्नं सुसाधितं वा न वा भगवतापि न ज्ञातम् ॥ २८॥ प्रमदाभिसरणशीला जारगृहं गन्तुमादृता रात्रौ । पत्ये दधि कर्तुं सातञ्चनकर्म प्रयतते किम् ॥ २९॥ घटकारः कष्टेन हि कुरुते घटमेकमुत्सुकः प्रीत्या । दण्डेन कोऽपि बालः शकलीकुरुते सलीलं तम् ॥ ३०॥ देवो प्रणताय यथावरं सलीलं ददीत करुणालुः । ममताजुष्टो पूजकवर्यो न तथार्थिने दद्यात् ॥ ३१॥ आम्रस्यान्तः कठिनं न स्वाद्यं बहिरसाम्यमाधुर्यम् । कण्टकितं खलु पनसं बहिरन्तस्तु मधुजुष्टं स्यात् ॥ ३२॥ द्राक्षाफले च सेबे सर्वं स्वाद्यन्तदेववैविध्यम् । प्रकृतौ रसिकः स्वाद्यं यत्तदनुभवेत्त्यजेदन्यम् ॥ ३३॥ मा पिबयात्रिकतालद्रुमतलमाश्रित्य गोरसमदुष्टम् । मन्वत इतरे मद्यं पिबत्ययं मत्त इति पान्थाः ॥ ३४॥ धेनुरियं साधुवराकमपि न बाधतइति स्तुवन्त्यन्ये । गोपालमेव दोहनसमयेऽसौ बाधते बहुधा ॥ ३५॥ अधिपोपि सहस्राणां तुरगानां भवति हि गृहिणीदासः । धावत्याहूतोऽयं पत्न्या वद किमुत सामान्याः ॥ ३६॥ वीजन! दृष्ट्वा शिखिनं नृत्यन्तमिमं वृथानुकुरुषे त्वम् । क्व मयूरनृत्यलीला क्व ते स्खलितपदकुसञ्चारः ॥ ३७॥ काञ्चनसूच्या विध्यसि निपुणं यद्यात्मनः शरीरं त्वं बाधां नानुभवसि किं सूच्याः शितता हि निजधर्मः ॥ ३८॥ वप पूगद्रुमबीजं रोहेद्यदि ते भविष्यति समृद्धिः । नो चेच्चिन्तां मा कुरु बीजं मात्रं त्वया नष्टम् ॥ ३९॥ यदि भक्षयेद्धनाढ्योऽखाद्यं मनुते जनो भिषग्दत्तम् । यद्यत्ति निर्धनो तत्तदा वदति हन्त दारिद्र्यम् ॥ ४०॥ बोधयितुं शक्यं किल सुप्तं तारस्वरेण सर्वेषाम् । सुप्तमिव निश्चलं त्वं जागरयसि केनमार्गेण ॥ ४१॥ जलमपि सिन्धौ मुञ्चतियदि मित्वा किल विमुञ्चति प्राज्ञः । मानं विना न कुर्याद्दानं किञ्चन तथादानम् ॥ ४२॥ भर्तुरतृप्तस्य भवति दध्यपि शुद्धं शिलाशकलजुष्टम् । प्रायेणातृप्तिः खलु पश्यति दोषं विना हेतुम् ॥ ४३॥ त्वमुलूखलेवुपविशसि यदि मुसलाघातरोधनं स्यात्किम्? अन्यत्र गच्छ मूढ प्राणान्संरक्ष शरणार्थिन् ॥ ४४॥ प्रतिवेशिनः सुतं यो प्रणुदति वाप्यां गभीरतां मातुम् । तस्य प्रतिवेशी कोऽपि न भविता खलु विना मूढम् ॥ ४५॥ मृत्कुम्भं श्वश्रूर्यदि खण्डयति तदा न किञ्चिदपि नष्टम् । गलितो भग्नःकुम्भः करात्स्नुषायास्तुबहुमूल्यः ॥ ४६॥ कण्डूयसि क्षतं यदि वारं वारं पुरातनं मूढे । भविता नवं नवं त न्नकदापि विरोपितं शमितम् ॥ ४७॥ कतमेन वर्त्मना त्वं गच्छसि बहुधाऽत्र भिद्यते मार्गः । कतमोऽपि वृतो शक्यं भविता न निवर्तनं विद्धि ॥ ४८॥ पक्वा दोसा रन्ध्रैः पूर्णा भवति हि गृहेषु सर्वेषाम् । अस्मद्गृहे तु भर्जनमेव सरन्ध्रं भवति हन्त ॥ ४९॥ श्रुत्वा सूते वृष इति भृत्यस्योक्तिं जगाद गोपस्त्री । सेवक शीघ्रं बन्धय गामित एवागमिष्यामः ॥ ५०॥ पादपशाखाजनितः सरुः कुठारस्य हन्त बहुशीघ्रम् । स्वकुलस्यैव भविष्यति कठोरमृत्युर्वद किमित्थम् ॥ ५१॥ पुच्छं शुनकस्य यथा सरलीकरोषि तथैव वक्रःसः । व्यर्थस्तवप्रयत्नः जहाति स कदापिन स्वगुणम् ॥ ५२॥ काचगृहो वसतिस्तव तथापि हिंससि शिलाभिरन्यान्स्त्वम् । वेत्सि न कथं तव गृहो नष्टःस्यादश्मनैकेन ॥ ५३॥ वृक्षोऽयं तु पिपतिषति कस्मात्पातयितुमिच्छसि परशुना । भवति हि वृथा श्रमस्ते सद्यः श्वो वापतत्येव ॥ ५४॥ परशुर्भनक्ति काष्ठं खनति खनित्रं गभीरविवरं द्राक् । शत्रुं हन्ति शितासिः करणन्त्ववलम्बते कार्यम् ॥ ५५॥ मलदूषितान्तरीयान् कथमित्थं परिहसत्स्वन्येषु त्वम् । मार्जयसि बहिरनुचितं शीघ्रन्त्वं गच्छ निलयान्तः ॥ ५६॥ बालः कश्चन चषकेऽन्या कापि नयति बृहत्कलशयुगले । गङ्गाया जलममलं पिपीलिकापि स्ववदनान्तः ॥ ५७॥ नद्याः पूरे वहति प्रसभं क्रोष्ट्रीं विनष्टं भुवनमहो । इति सा क्रन्दति गतवति जीवे सर्वं खलु गतं भोः ॥ ५८॥ चिररुग्णो नववैद्यादधिकतरं रोगलक्षणमवैति । बहुशोऽवैत्यगदगुणानपि भिषजोऽप्यधिकतरमेव ॥ ५९॥ मेषे गर्ते निपतत्येकैकस्तं प्रताडयति मर्त्यः । निष्कारणमश्मभिः पतितस्य जगति गतिश्चिन्त्या ॥ ६०॥ पीत्वा भेषजमधुना सपदीच्छसि किं निरामयत्वं रुग्ण? । कालेनैवह्यगदः परिणमति सहस्व शान्तमनाः ॥ ६१॥ कुल्यालङ्घनकर्मणि साधितमूनं मनागपि भवेच्चेत् । लङ्घनकर्तुः पतनं कुल्यायां साधितं विद्धि ॥ ६२॥ गृहदीप इति ज्वालां स्पृशसि यदि न दहति किं तव करं सा । निलये विपिने वा सा मुञ्चति न कदापि निजधर्मम् ॥ ६३॥ गम्यस्थाने दृष्टिं दूरान्न्यस्य निकटे पदे पान्थ । स्खलसि यदि पतेः गर्तेऽगाधे चर सावधानं भोः ॥ ६४॥ यावद्दूरं काम्ये गृध्नुरवतरस्युपत्यकां मूर्ख । तावद्दुस्साध्यस्ते भविष्यति खलु पुनरारोहः ॥ ६५॥ शैलारोहणनिरतस्तुङ्गस्थाने चरेदवहितो वै । नो चेत् स्खलनाच्छीघ्रं व्रणितो भग्नो भजति नैच्यम् ॥ ६६॥ तिन्तिड जरठः कृशितः श्वो वान्येद्युः पतिष्यसि गतायुः । कृशितं तथापि न कुतोऽम्लत्वं दृष्टं तव फलानाम् ॥ ६७॥ क्षुधितेन शुना पूतिकमन्नं लब्धं समुचितसंव्यूहः । अन्यल्लभेत किं श्वा खादेत्कोऽन्यो वद कदन्नम् ॥ ६८॥ नृत्ये विफला काचित् पश्यति दोषं नटी नटनरङ्गे । को विश्वसिति हि तस्यां विहाय तस्याः प्रियाभिजनान् ॥ ६९॥ पदकम्दुकखेलायां बहुशो पटुनापि लक्ष्यपालेन । लक्ष्यं न रक्ष्यते खलु तथापि स भवति न निरवश्यः ॥ ७०॥ लक्ष्यस्य भेदकोऽयं तस्य सहाया भवन्ति खेलायाम् । अस्यैव यशो वित्तं लोको जानाति न तदितरान् ॥ ७१॥ ``गुरुवपुषस्तव भारं वहसि त्वं गज कथं विनायासम्?'' । इति पृष्टोऽवददाखुं वहसि यथा त्वं तथैवाहम् ॥ ७२॥ परिणय ललनां कामपि विनाविलम्बमिति विप्रमवदत्स्त्री । प्रत्यवदत्तां विप्रः सिद्धोऽहं मां वृणीष्व त्वम् ॥ ७३॥ वसतिर्धनिकस्य गृहे मांससमृद्धमशनं त्रिवारं ते । वीथीसरमां समलामनुधावसि शुनक निर्लज्जः ॥ ७४॥ ब्रह्मास्त्रेण दशमुखं युद्धे रामो जघान तेजस्वी । तस्याप्यभवदवश्यं सारथिना स्मारणममोघम् ॥ ७५॥ तरुमूले दृष्टोऽयं सर्पो व्रणितो जहाति न प्राणान् । तस्य लगुडेन ताडनमारान्न जहाति पोगण्डः ॥ ७६॥ जङ्घां दीर्घीकुरुषे शय्याविस्तृतिमतीत्य यदि पान्थ । निद्राभङ्गः शीतौ पादौ भीतिर्भुजङ्गेभ्यः ॥ ७७॥ वीणावादनचतुरो जनयति मधुरध्वनिं स्ववीणायाः । अनभिज्ञैरितरैः किं बालैः शक्यं तथाकर्तुम् ॥ ७८॥ यदि वादयसि मनोज्ञं वेणुं पुरतस्तवादृतमहिष्याः । सा श‍ृणुयात् किं लभते गानश्रवणजरसास्वादम् ॥ ७९॥ निम्नं गच्छति सलिलं ससुखं तुङ्गस्थलादनिर्बद्धम् । शक्तिरवश्या भूरि प्रवणविरुद्धं जलं नेतुम् ॥ ८०॥ शुनको भषतु प्रोच्चैरुन्नमितमुखो यथेच्छममितगर्वः । नष्टा किमिन्द्रनगरी निपतति गगनं किमुद्वेगात् ॥ ८१॥ यात्रिक कुशलं प्रीत्या पृच्छस्यन्यान्सखेव याने त्वम् । कस्त्वं के ते गम्यस्थाने प्राप्तेऽवतरसि द्राक् ॥ ८२॥ लब्धा लभ्या सागरमथने लब्धं च नेप्सितं गरलम् । नापास्यद्यदि रुद्रस्तद्वद वृत्तं किमभविष्यत् ॥ ८३॥ पूर्विकरोपितवृक्षच्छाया वसतिः फलान्यशनमस्य । नवतरुरोपणमस्य न कार्यं कत्थति तरुरयं मे ॥ ८४॥ दीपं झञ्झावातेऽपि नय रजन्यां भवेत्स पथदर्शी । वाते निर्वाप्यत इति कदापि जह्यान्न करदीपम् ॥ ८५॥ सस्यात् गुणवन्मरिचं दूषितमप्येवमस्ति लोकोक्तिः । दूषितसस्यमपि भवेन्न यदा मरिचस्य का वार्ता ॥ ८६॥ प्लवनं शिक्षितुमिच्छसि किं त्वं ग्रन्थपठनेन विद्यार्थिन् । प्लवनाभ्यासं कुर्यादुदके नान्यो विकल्पस्स्यात् ॥ ८७॥ सायं प्रातः सलिलस्रोतः प्रवहति निरन्तरं नद्याम् । गाधजले जलजानां वृद्धिः ह्रासो मृतिश्चान्ते ॥ ८८॥ भार्ये वर्षारम्भो गुरोरुपस्थितिरिहागतो बन्धुः । एकत्राद्य सुसमयोऽयमाचर महः पच सुभक्ष्यम् ॥ ८९॥ ज्वलनकणस्य क्षमताऽपारा स दहति वनानि च पुराणि । दीपयति तैलदीपानेकैकं च प्रकाशार्थम् ॥ ९०॥ मृत्कलशे रन्ध्रयुते जलमानेतुं यदि प्रयतसे भोः । भवति श्रमस्तव वृथा मित्रैश्चोपहसितो भवसि ॥ ९१॥ क्षोभयसि जलं निश्चलमन्तःकर्दममकारणं यदि चेत् । सलिलमपेयं सरसश्चिराय भवति त्यजन्ति जनाः ॥ ९२॥ उद्घाटय तव निलये तावद्वातायनानि वात्वनिलः । सर्वाशाभिर्यावन्न त्वां स न पातयति चण्डः ॥ ९३॥ ``किं नष्टमभूत्ते वद'' ``कुण्डलम्'' ``इह किं'' ``न, तत्र तरुमूले'' । ``मृगयसि कुत इह ललने'' ``तत्र तमो भवति दीपोऽत्र``॥ ९४॥ शकटीयुगबद्धवृषभयुगलस्यैकस्तु जिगमिषति सिन्धुम् । अन्यो जिगमिषति गृहं वृषलः क्षेत्रं प्रयाति कथम्? ॥ ९५॥ तोलयसि सुवर्णं यदि काष्ठतुलायां प्रशंसति न कोऽपि । अवलम्बते तुलाया वरणं हि पदार्थसान्द्रत्वम् ॥ ९६॥ घनवस्तु द्रवरूपं तनुते भजति द्रवस्त्वनिलरूपम् । तापात् बन्धाः शिथिलीभवन्ति नियमः स अनिवार्यः ॥ ९७॥ यावन्न भवति वृत्ताकारस्तावत्पदे पदे बालः । वृत्तस्यासमखण्डान् घटयति विघटयति च न खिन्नः ॥ ९८॥ आर्येऽचिरपरिचितजनमीदृशममितसुखभाजनं कुरुषे । का त्वं कोऽहं कथमयममूल्यरमणीयसंसर्गः ॥ ९९॥ निर्गमनिरते मृदुपदशिञ्जितपुलकितरसज्ञजनवन्द्ये । आर्ये वर्णालङ्कृतचरणे भवतात्पुनर्मिलनम् ॥ १००॥

    - पद्यसूची (Index)

    ४२. मां ताडयत्युत्सुका

    चायं सुस्मितफेनभासरुचिरं सुप्तप्रबुद्धाय मे स्वौष्ठस्पर्शमधु प्रपूर्णचषके दत्ते किलामोदवत् । कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ १॥ दूरादागतमाननाङ्कितमुदा द्वार्येव सम्पृच्छति क्लान्तः किं सफलः श्रमः पिबसि किञ्चात्सीति मन्दस्मिता । कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ २॥ व्याघातैर्बहुभिर्युते सफलतां कार्येऽहमाप्नोमि चेत् मुञ्चत्याकुलतां प्रसह्य विजहत्यानन्दबाष्पं प्रिया । कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ ३॥ मातुर्गेहमहं व्रजामि कतिचिद्रात्रीरिति प्रस्थिता आगत्यैव परेद्यवि त्वदशने चिन्तेति मां भाषते । कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ ४॥

    - पद्यसूची (Index)

    ४३. कोविडष्टकम्

    चीनादेशे जनिमभजत क्रूरकर्मा कदाचित् शीघ्रं तत्र प्रसरणदशामन्वभूत् कोविडाख्यः । व्याधिः सद्यो निखिलजगति स्थापयन्स्वाम्यभावं निर्दाक्षिण्यं प्रदिशति जनान् दुर्बलान् मृत्युलोकम् ॥ १॥ कोविड्-रोगप्रसरणजवह्रासहेतोः समूहे बाहुद्वन्द्वात्समधिकदशामाप्नुयात्सन्निकर्षः । वक्त्रं नासां नियमितविधौ सम्यगाच्छाद्य गच्छेत् जेतुं कोविड्गदमनुपमं नान्यदस्त्यद्य वर्त्म ॥ २॥ रोद्धुं व्याधेः प्रसरणजवं स्तम्भिते कृत्यजाले भ्रष्टः कार्यात्स्वजननिलयं गन्तुमिच्छुः क्षुधार्तः । पद्भ्यामेव प्रचलति शनैर्वञ्चितो लोकयानात् सर्वं व्यस्तं जगति गुरुणा व्याधिना कोविडेन ॥ ३॥ व्याधिग्रस्ते स्थविरजनके वैद्यशालां प्रविष्टे पुत्रो व्याधिप्रसरणभियाऽदृश्यतां याति सद्यः । मृत्युग्रस्तं स्पृशति न सुतो बन्धुवर्गो न भार्या कष्टं हन्त्रे मम नम इदं व्याधये कोविडाय ॥ ४॥ आसीत् पन्थाः मनुजनिबिडो वाहनैर्यः प्रपूर्णः यस्मिन्यानप्रजनितरवैर्भिद्यते स्मान्तरिक्षम् । मध्याह्नेऽयं जनविरहितो यानहीनः प्रशान्तः शेतेऽस्वस्थो रविकरहतः कोविडादद्य भीतः ॥ ५॥ कोरोनाख्यो भवति नितरां सूक्ष्मदेही न जीवः क्रूरः कार्ये मनुजवपुषां श्वासकोशं भिनत्ति । अण्वस्त्रेशः क्षिपणिचतुरो मानवो बुद्धिजीवी प्रत्याख्यातस्त्वनितरगतिः कर्मणा कोविडस्य ॥ ६॥ कोविड्रोगे प्रसरति भुवि प्रत्यहं कर्मदक्षाः वैद्या धात्र्यो गतगदभयाः रुग्णसेवासु सक्ताः । स्तुत्या तेषामनुपमविधामोघनिःस्वार्थसेवा शंसामस्तां समुचितमुदा तान् कृतज्ञा नमामः ॥ ७॥ कोविड् व्याधे श‍ृणु मम वचो दुस्सहा तावकीना शक्तिर्नित्या न भवति ननु ज्ञानिनो दक्षवैद्याः । त्वां संरोद्धुं मृगयितुमहो भेषजं बद्धदीक्षाः साफल्यं ते हरिकरुणया प्राप्नुवन्त्यञ्जसैव ॥ ८॥

    - पद्यसूची (Index)

    ४४. विज्ञानसूक्तयः

    अविरलघनतां ये लोहवत् प्राप्तवन्तो स्वकृतिजलविमग्नाः कर्मदक्षा भवन्ति । सुविरलघनतां ये काष्ठवत् प्राप्तवन्तः स्वकृतिषु न विमग्नास्तेऽपवाह्या भवन्ति ॥ १॥ अन्योन्यसङ्कर्षणचोदितौ यथा न्यूटन्-विधिं पालयतो धराविधू । आचार्यशिष्यौ चरतस्तथादृतौ परस्पराकर्षणबद्धमानसौ ॥ २॥ जीवन्मुक्तो बाष्पनिभः सर्वं व्याप्नोति लीलया । क्वथ्यमानाम्बुसङ्काशो मुक्तिमार्गानुगो मुनिः ॥ ३॥ मृत्कुम्भे निहितं वारि यथा ग्रीष्मेऽपि शीतलम् । भवतापेऽपि शान्तं स्यात् तथैव वशिनो मनः ॥ ४॥ अवक्रयष्टिरुदकेऽलम्बं तिष्ठति चेत्तदा वक्रीभूत इवाभाति पश्यतां पयसस्तले ॥ न यष्टिर्वक्रतां याति साधुनी पश्यतोऽक्षिणी विज्ञानदृष्ट्या पश्येश्चेत् भ्रमाभासो निरस्यते ॥ ५-६॥ अल्पेन चन्द्रेण तिरोहितो भवेत् सूर्यः प्रचण्डः पृथुगात्रवानपि । लोके तथा सत्त्ववतां समर्थता भृशं निवार्येत जनेन केनचित् ॥ ७॥

    - पद्यसूची (Index)

    ४५. कोविड्गदमुक्तकानि

    देवालये करोनाया वैद्य एवार्चको भवेत् । सेनिटैसर् हि तीर्थः स्यात् क्लोरोक्वीन् हि निवेदनम् ॥ १॥ सर्वधर्मान् परित्यज्य विज्ञानं शरणं व्रज । तदेव कोविदात् कृच्छ्रात् मोक्षयिष्यति मा शुचः ॥ २॥ कोविड्गदनिरोधार्थं विस्मृत्य प्रथितं वचः । मुखप्रक्षालनात्पूर्बं हस्तप्रक्षालनं कुरु ॥ ३॥ काव्याज्जगत्कोविदभूतशस्तं तप्तं ज्वरान्निःश्वसनेऽपि रुद्धम् । देवी सुवस्त्रावृतवक्त्रनासा बाहुद्वयादेव विलोकयन्ती ॥ ४॥ तदाभूत् पूर्वाह्ने जननिबिडपार्श्वो नृपपथः चतुष्चक्रैर्व्याप्तः सततघनघण्टारवकरैः । इदानीं सुप्तः किं नहि भयजमूर्छाप्रतिहतः करोनाभीतोऽसौ गतरवनिशीथभ्रमकरः ॥ ५॥ यावदेति न भुवोऽयमासुरोऽपूर्वभीकरगदोऽथ कोविदः । तावदुल्बणमनोजबाधितां प्रार्थये नतशिराः न मां स्पृश ॥ ६॥ इत्थमश्रुपतनैस्तिरोहिते भाषिते मदनपीडिते प्रिये । किं किमापतितमित्यथाऽनयोः काव्यकोविदगिरामगोचरम् ॥ ७॥

    - पद्यसूची (Index)

    ४६. डौन्-लोड् सिन्ड्रोम्

    मध्ये बहूनां रोगानामेष मे बाधतेतराम् । डौन्-लोड् सिन्ड्रों इत्यवैमि प्रधानं यस्य लक्षणम् ॥ भवतीत्थं यदा यद्यत् डौन्-लोडबलिति श्रुतम् । तत्तत् तदैव तत्रैव डौन्-लोड् कर्तुं यते द्रुतम् ॥ डौन्-लोड् कृतानां ग्रन्थानां सङ्ख्याऽगण्येति मे मतिः । तेषामुद्घाटनायापि समयो नास्ति मे यदि । का वार्ताध्ययनस्य स्यात् चिन्तयन्त्विह पण्डिताः ॥ यः कालो मुद्रितग्रन्थपठने यापितो भवेत् । तमेव भक्षयत्येष व्याधिः किं करवाण्यहम् ॥ शान्तं पापं भवेदन्यः कोऽप्येतद्व्याधिपीडितः । को भिषक् किं भेषजं च कृपया बोधयेदिमम् ॥

    - पद्यसूची (Index)

    ४७. मुक्तकमाला

    जनानामस्मिता माया जगत्यस्मिन्निरर्थके । हन्तेयं भणितिश्चापि कल्पिता मायया तया ॥ १॥ ब्ला ब्लाब्लेति सुपुष्टबस्तरटनं कुर्वन् पुरीचत्वरे भृत्यश्लाघनदर्पितो बहुमुखो दक्षः स्वनिर्वाचने । सर्वान् तोषयते जनान् सुमधुरासत्यैः स्ववित्तार्जने शूरो विन्दति राजनीतिचतुरः श्रेयः सदास्मिन्युगे ॥ २॥ माता क्रन्दत्यधीरा ममशिशुरनघः कुत्र गतवान् अन्यत्रार्तो जनन्यै त्वविरतमबलो रोदिति शिशुः । सर्वे पृष्टा रमण्यायि वद किमिह दृष्टो मम पतिः कस्मै देवाय भूयान्मम नमनमिदानीं वद सखे ॥ ३॥ उपयासि तमसि राधां रजसा लिप्तश्च चरसि गोपालः । पुलिनेषु पङ्किलस्त्वं तथापि सत्त्वगुणपूर्णः किम् ॥ ४॥ अम्बरावृतपयोधरा स्त्रियः शीलवत्य इति मेनिरे बुधाः । अम्बरं तव पयोधरावृतं श्रावणागमनमोहिते निशे ॥ ५॥ आषाढस्य प्रथमदिवसे मेघमाश्लिष्टभानुं पश्यन्वातैर्विपदमतुलां प्राप्य नश्यत्तितिक्षा । आकाशस्त्री स्वमुखमभितः कम्बलैर्धूम्रवर्णै राच्छाद्यैतीत्यनुभवमगां मानसे बेङ्गलूरौ ॥ ६॥ ``किंवर्षीयः कवे त्वं जरठ वद'' ``मयास्योत्तरं नोक्तपूर्वम्'' ``अस्तु, प्रश्नोऽपरो मे, कविवर कतिकृत्वो धरा कर्मनिष्ठा । आ त्वज्जन्मात् स्वमार्गे दिनकरमभितः सञ्चचालेति'' ``बाढम्, श्लोकेऽस्मिन्नुच्यमाने गणय शितमते योजितान्यक्षराणि''॥ ७॥ (२०२१) ``मन्दाक्रान्ता तव मतिरहो दुःशकालोचनैर्यत् त्वं मां ब्रूषे ``गणय कति सन्त्यक्षराण्यत्र पद्ये सङ्ख्या लब्धा मम खलु वयोब्दे''ष्विति स्यादसत्यं त''न्मामेवं वदति गृहिणी मन्दहासान् किरन्ती तां वच्म्यार्ये निशितधिषणे पञ्चमः पाद एषः'' ॥ ८॥ (२०२२) वाणिज्यं करवावेत्थं भवेत्ते लाभदायकम् । स्वीकृत्य मे कामधनं देहि क्रोधदरिद्रताम् । स्वीकृत्य मे लोभधनं देहि मोहदरिद्रताम् । स्वीकृत्येर्ष्याधनं देव देहि गर्वदरिद्रताम् ॥ ९॥ कविताकुसुमं जरितमपि म्लायति नहि कदापि भातितराम् । तस्यामोदः प्रखरविमर्शसुतप्तो भजति वृद्धिम् ॥ १०॥ (१५-११-२०२३) अतो कर्षति वाग्देवी विवक्षेतो विकर्षति । कर्षणैर्नोदनैः त्रस्तः श्लोकः मूकत्वमेत्यहो ॥ ११॥ (२०-११-२३) आषाढस्य प्रथमदिवसे पद्यमाश्लिष्टचित्तं सूर्ये मेघैरपहृतरुचावोषधीशायमाने । धारासारानुसृतबृहत्पल्वलाक्रान्तमार्गे मन्दं मन्दं परिमितपदैरन्तमागादिदानीम् ॥ १२॥ (२३-११-२३) कस्त्वं क्षमस्व कात्वं क्षमस्व किं तु भवदस्ति वा नास्ति । चेदस्ति किं वयो भवतो वदतु सहज कुतूहलं मे ॥

    - पद्यसूची (Index)

    ४८. आयाहि बन्धो

    त्वरितमृदुपद्भ्यां त्वमायाहि बन्धो दौवारिको नास्त्यनावृतं द्वारम् ॥ १॥ आगच्छ निःस्वनं स्वागतं ते स्यात् प्रतीक्षा मदीया सफलं भवेद्द्राक् ॥ २॥ बालस्य निद्रेव तूर्णमायाहि आगच्छ मेघवत् गर्जनं मा भूत् ॥ ३॥ आगच्छ चोर इव धरणीं प्लवन्त्वं कोऽपि पश्येन्न श‍ृणुयान्न कोऽप्यत्र ॥ ४॥ यद्दर्शनीयमिह तदहं त्वपश्यं यद्घ्राणयोग्यमिह तदहं त्वजिघ्रम् ॥ ५॥ अश‍ृणवमहं श्रव्यमत्रयल्लोके स्पृश्यानि स्पृष्टानि भोज्यमपि भुक्तम् ॥ ६॥ नोदनमवश्यं न कर्षणं चापि सज्जोऽस्मि निर्भरो त्वामनुसरामि ॥ ७॥ पश्य मां तव हसितचञ्चलितदृग्भ्यां नयतु मां ते मृदुलहस्तावलम्बम् ॥ ८॥ तव चरणपातमनुसरति मयि बन्धो स्मितपल्लवं लसतु मम वदनवल्ल्याम् ॥ ९॥

    - पद्यसूची (Index)

    ४९. लज्जातिरोहिता प्रहेलिका

    भजतीनकरस्पर्शात् तन्द्रिता कृशतां यदा । भ्राजमाने नभस्यर्के छाया भवति ते कृशा ॥ सुषमां गगनं विन्दत्यागते गवि काननात् । विश्रान्तं सुलभं शेते भुवनं तमसावृतम् ॥ पुष्पावृतारण्यदेशाः दिने शीतजलं हितम् । तृप्तो जलावृतो लोकः हृद्या शारदयामिनी ॥ जने सूर्यकरौत्सुक्यं शिवरात्रिमहस्तदा । लज्जातिरोहितामेकां - - - - - - - - ॥

    - पद्यसूची (Index)

    ५०. जन्मोत्सवः

    ``स्थानद्वयमिता सङ्ख्या काचनास्ति मम प्रिये एकस्थानस्थितः कोटिरपराङ्को भुजो भवेत् ॥ १॥ तयोः कर्णो दश यदि सङ्ख्या का वद सत्वरम्'' इति पृष्टा मया पत्नी झटित्युत्तरमब्रवीत् ॥ २॥ अशीतिवर्षदेशीयाऽपृच्छं तां चकितो भृशं ``वद देवि कथं प्रोक्तं तडिद्वेगे तदुत्तरं ``॥ ३॥ हसन्ती सावदत्, ``धीमन् मम का गणिते मतिः कविताग्रथनक्लेशनिर्विण्णं वदनं तव ॥ ४॥ जन्मोत्सवो ते भविता श्वोऽतः सर्वं समञ्जसं कवितारचनेनालमिदमेव भवेदलम्'' ॥ ५॥ (२०२३)

    - पद्यसूची (Index)

    ५१. कविपरिचयः

    स्फटिकस्वच्छसलिला नदी हेमवती शुभा । कर्णाटके प्रवहति क्षेत्राजीवाश्रया सती ॥ १॥ न्यग्रोधाम्रवणोपेते तीरे यस्या विहङ्गमाः । रटन्तो निर्भयं नित्यमुत्पतन्ति सहस्रशः ॥ २॥ गावश्च ग्रामवृषभा यस्याः शीतलवारिणा । सिक्ता यस्यां निमज्जन्ति हृष्टाः पुष्टाः पदे पदे ॥ ३॥ ग्रामकन्या वृथालापाः कुचकुम्भभरानताः । वहन्ति लीलया यस्या वारि कुम्भैः शिरःस्थितैः ॥ ४॥ यां सूर्यतापसन्तप्ताः पोगण्डा ग्रीष्मवासरे । सलीलमवगाहन्ते दर्शयन्तः स्वपौरुषम् ॥ ५॥ यां शुभजलां विप्राः सेवन्ते व्रतिनो नदीम् । सन्ध्याकालेऽर्घ्यदानार्थं स्नानार्थं च विशेषतः ॥ ६॥ तस्याः स्रवन्त्याः पूर्वाभिमुखं वामे मनोहरः । नृसिंहो योगमुद्रायामासीनः कमलासनः ॥ ७॥ प्रतीच्यभिमुखः भक्तैः सेव्यतेऽहर्निशं मुदा । भक्तानामाश्रयस्तेषामार्तिनाशव्रते स्थितः ॥ ८॥ अयं नृसिंहसेवार्थं निर्मितः किं जनैरिति । सन्देहं जनयन्नास्ते ग्रामः शिष्टजनाश्रितः ॥ ९॥ गोरूरुनाम्ना प्रथितः स्थितो हासनमण्डले । यत्र विप्राः कर्षकाश्च वणिजः कर्मकारिणः ॥ १०॥ हिन्दवश्च तुरुष्काश्च सौहार्देन परस्परम् । स्वकर्मसु रता नित्यं वर्तन्ते स्मेरभूषिताः ॥ ११॥ उत्सवेषु नृसिंहस्य वहन्तो भागमुत्सुकाः । दर्शयन्तोऽहमहमिकां भगवन्तमुपासते ॥ १२॥ अस्मिन् ग्रामे जनिं लब्ध्वा नैके देशे सुशिक्षिताः । स्वप्रागल्भ्यबलादेव ख्याता देशान्तरेषु च ॥ १३॥ तत्र श्रीवैष्णवो धीमान् पण्डितः शास्त्रपारगः । सम्पत्कुमाराचार्याह्वो गोत्रमात्रेयमाश्रितः ॥ १४॥ वेङ्कटाम्बाह्वया सत्या न्यवसद्भार्यया सह । स्वयमाचार्यतां प्राप्तः शिष्यवर्गेण पूजितः ॥ १५॥ मूर्त्युपाह्वः श्रीनिवासः तस्य पुत्रोऽभवत् सुधीः । लौकिकव्यवहारेषु प्रगल्भो मितवाक् घृणी ॥ १६॥ द्रव्यार्जनरतो भूत्वा शालाशिक्षणवञ्चितः । क्षेत्रस्वामीति कथितो रंहसा सोऽभवद्धनी ॥ १७॥ गङ्गाम्बायां धर्मपत्न्यां तस्य पुत्रोऽभवत्प्रियः । शेल्वपिल्लै इति ख्यातः सर्वसद्गुणसन्निधिः ॥ १८॥ आर्जयत्ससुखं योऽसौ पदवीं स्नातकोत्तराम् । सस्यशास्त्रे महापुर्यां चेन्नैनाम्न्यां प्रचण्डधीः ॥ १९॥ तथैव पदवीं चापि न्यायशास्त्रे श्रमं विना । मुम्बईनाम्नि नगरे यदा विधिहतोऽभवत् ॥ २०॥ पिता दिवमगात् त्यक्त्वा कुटुम्बं बालकैर्युतम् । कुटुम्बभारः सहसा ज्येष्ठपुत्रेऽपतत्तदा ॥ २१॥ तदारभ्य निजग्रामे न्यवसत् कर्मठो वशी । पितृस्वयोगक्षेमार्थं भ्रातॄणां पालनाय च ॥ २२॥ सीताम्बा तस्य भार्यासीत् साध्वी वाधूलगोत्रजा । नृसिंहय्यङ्गार्यपुत्री भर्तुर्बहुमता सदा ॥ २३॥ तस्यां जातस्तृतीयोऽहं कनिष्ठश्च सुतः प्रियः । ग्रहाङ्गुलीवसुशशीसङ्ख्याते शकवत्सरे ॥ २४॥ अमायां मास्याश्वयुजे प्रीणयन् पितरौ मम । मूर्त्युपाह्वः श्रीनिवासः स्मारयन् मत्पितामहम् ॥ २५॥ लब्ध्वा प्राथमिकीं शिक्षां ग्रामे शिक्षणतत्परः । हासने मण्डलपुरे बेङ्गळूरौ तथैव च ॥ २६॥ उच्चशिक्षणमालभ्य पदवीं स्नातकोत्तराम् । विज्ञाने दूरसम्पर्कशास्त्रे परिणतिं गतः ॥ २७॥ स्पर्धात्मकपरीक्षायां सलीलं सफलोऽभवम् । विभागे सर्वकारस्य दूरसम्पर्कनामके ॥ २८॥ प्राप्योद्योगं त्रयस्त्रिंशद् वर्षाण्युत्सुकमानसः । सेवामकरवं नैके स्थले नैके पदे स्थितः ॥ २९॥ अन्ते दिल्ल्यां विभागस्य मन्त्रदातृपदे स्थितः । निवृत्तिं प्राप्य निवसामीदानीं भार्यया सह ॥ ३०॥ मैथिल्या बेङ्गळूरौ मत्कालं संस्कृतसेवया । यापयामि विना दैन्यं विनाहङ्कारमादृतः ॥ ३१॥ उषसि स्मरणीयो मे पिता संस्कृतशिक्षणात् । स्वबाल्ये वञ्चितो भूत्वा मध्यमे वयसि स्थितः ॥ ३२॥ संस्कृताध्ययनं कर्तुं पण्डितान् शरणं गतः । प्राचोदयच्च मां बालं संस्कृताध्ययनाय सः ॥ ३३॥ दिष्ट्या ममापि गुरवस्त एवासन् स्मरामि तान् । सप्रश्रयं तानाचार्यान्नमामि च पुनः पुनः ॥ ३४॥ नारायणं शास्त्र्युपाह्वं नृसिंहाचार्यमेव च । अय्यङ्गार्योपाह्वमार्यं रामस्वामिनमेव च ॥ ३५॥ चन्द्रिकायाश्च रचने तथा तस्याः प्रकाशने । दत्त्वा करावलम्बं मे मार्गं ये दर्शयन्त्यहो ॥ ३६॥ महामहोपाध्यायान्स्तान् पद्मश्रीभूषितानहम् । शुक्लोपाह्वान् रमाकान्तान् प्रणमामि पुनः पुनः ॥ ३७॥ पदग्रथनकौशलं मम कदापि नो भासुरं न शास्त्रपरिशीलने मम विदग्धता दृश्यते । तथापि मम चापलं नुदति मां कवेःपद्धतौ कृतिर्मम समीक्ष्यतां करुणया रसोपासकैः ॥ ३८॥

    - पद्यसूची (Index)

    - ग्रन्थसमाप्तिः । Encoded and proforead by G. S. Shrinivasa Murthy
  • % Text title            : Chandrika Extended Collection of Poems by G.S.S. Murthy
    % File name             : chandrikAGSSmurthy.itx
    % itxtitle              : chandrikA (ji es shrInivAsamUrteH vistRitakavitAsaNkalanam)
    % engtitle              : chandrikA
    % Category              : misc, sahitya
    % Location              : doc_z_misc_general
    % Sublocation           : misc
    % Author                : G.S.S. Murthy murthygss at gmail dot com
    % Language              : Sanskrit
    % Subject               : philosophy/hinduism/religion
    % Transliterated by     : G.S.S. Murthy
    % Proofread by          : G.S.S. Murthy
    % Latest update         : July 14, 2024
    % Send corrections to   : sanskrit at cheerful dot c om
    % Site access           : https://sanskritdocuments.org
    

    This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

    BACK TO TOP
    sanskritdocuments.org