चतुःषष्टिसंवरस्तोत्रम्
श्रीहेरुकं महावीरं विशुद्धं कुलिशेश्वरम् ।
नमामि सर्वभावेन डाकिनीगणभूषितम् ॥ १॥
संवराय नमस्तुभ्यं द्वयाकाराय नमो नमः ।
चक्रस्थिताय देवाय चक्रसंवर ते नमः ॥ २॥
मेषवक्त्र नमस्तेऽस्तु शिवशक्तिस्वरूपिणे ।
महाक्रोधस्वरूपाय मेषसंवर ते नमः ॥ ३॥
अश्वाननाय देवाय रतिकर्मरताय च ।
भुक्तिमुक्तिप्रदात्रे च अश्वसंवर ते नमः ॥ ४॥
व्याघ्रास्याय नमस्तुभ्यं शक्तियुक्ताय वै नमः ।
सुरामांसरतो नित्यं व्याघ्रसंवर ते नमः ॥ ५॥
कूर्मास्याय नमस्तुभ्यं सुरते संरताय च ।
नमो देवाधिदेवाय कूर्मसंवर ते नमः ॥ ६॥
नमामि मत्स्यवक्त्राय मानवानां हिताय वै ।
नमो नमस्ते देवेश मत्स्यसंवर ते नमः ॥ ७॥
मकराकारवक्त्राय महाशक्तिधराय च ।
मनोवाञ्छाप्रदात्रे च मकरसंवर ते नमः ॥ ८॥
संवरायोष्ट्रवक्त्राय शक्तिकालिङ्गणाय च ।
मैथुने तत्परायाथ उष्ट्रसंवर ते नमः ॥ ९॥
नमामि गजवक्त्राय योनौ लिङ्गप्रदाय च ।
नमो भगवते तुभ्यं गजसंवर ते नमः ॥ १०॥
मण्डूकानननाथाय त्रैलोक्येशाय ते नमः ।
नमो देवाधिदेवाय मण्डूकसंवराय च ॥ ११॥
नमामि चाविवक्त्राय नित्यं रतिरताय च ।
नमस्ते देवदेवेश अहिसंवर ते नमः ॥ १२॥
शुकाननाय देवाय द्वयाकाराकारशोभिने ।
नमो नमस्ते भीमाङ्ग शुकसंवर ते नमः ॥ १३॥
संवराय नमस्तेऽस्तु शक्तियुक्ताय वै नमः ।
सिंहाननाय वै नित्यं सिंहसंवर ते नमः ॥ १४॥
मर्कटाननदेवाय शक्तिचुम्बनरताय च ।
नमस्तेऽस्तु नमस्तेऽस्तु हरिसंवर ते नमः ॥ १५॥
श्वानवक्त्र नमस्तेऽस्तु शक्तिचुम्बनकारिणे ।
नमस्ते भगवन् देव श्वानसंवर ते नमः ॥ १६॥
वराहास्यवरेवान भगक्रीडनकारक ।
नमामि शक्तियुक्ताय घृष्टिसंवर ते नमः ॥ १७॥
जम्बुकास्याय देवाय शक्तिकालिङ्गणाय च ।
सर्वपापहरायैव शिवासंवर ते नमः ॥ १८॥
नमामि गृध्रवक्त्राय दुःखनाशाय ते नमः ।
द्वयाकारसिद्धिदेवाय गृध्रसंवर ते नमः ॥ १९॥
काकाननाय शुद्धयक्ष शृङ्गाररूपधारिणे ।
नमो भगवते तुभ्यं काकसंवर ते नमः ॥ २०॥
उलूकवक्त्रिणे तुभ्यं महासौख्यप्रदाय च ।
योनिमैथुनकृद्देवोलूकसंवर ते नमः ॥ २१॥
तार्क्ष्याननाय देवाय तारिणे भवसागरात् ।
नमस्तुभ्यं नमस्तुभ्यं नमो गरुडसंवर ॥ २२॥
गोवक्त्राय नमस्तुभ्यं गोहत्यापापहारिणे ।
गोत्रवृद्धिप्रदात्रे च धेनुसंवर ते नमः ॥ २३॥
गर्दभाकारवक्त्राय गतागतक्षयाय ते ।
गणेश्वराय देवाय खरसंवर ते नमः ॥ २४॥
महिषास्याय देवाय महाप्रलयकारिणे ।
शक्तियुक्ताय देवाय नमओ महिषसंवर ॥ २५॥
विडालास्य नमस्तुभ्यं मूत्रकूण्डप्रक्रीडिने ।
श्रेष्ठाय परमेशाय नमो मार्जारसंवर ॥ २६॥
नमामि शाल्ववक्त्राय द्वयङ्गमेकेव शोभितम् ।
नमामि देवदेवेश नमः शरभसंवर ॥ २७॥
सिद्धाय सिद्धरूपाय गुणाय गुणवर्तिने ।
क्रौञ्चास्याय नमस्तुभ्यं क्रौञ्चसंवर ते नमः ॥ २८॥
उल्काननाय शुद्धाय उत्तमाय नमो नमः ।
उग्राय भीमरूपाय उल्कसंवर ते नमः ॥ २९॥
हंसवक्त्र नमस्तेऽस्तु हंसस्वरस्वरूपिणे ।
हंसःसोऽहंस्वरूपाय हंससंवर ते नमः ॥ ३०॥
मृगवक्त्राय देवाय नमामि परमेश्वर ।
ऋद्धिसिद्धिप्रदात्रे च मृगसंवर ते नमः ॥ ३१॥
शक्तियुक्त नमस्तेऽस्तु चक्रवाकाननाय च ।
नमस्ते चकवाकाख्यसंवराय नमो नमः ॥ ३२॥
अजाननाय वीराय अविद्यानाशिने नमः ।
अपवर्गफलाप्त्यर्थमजसंवर ते नमः ॥ ३३॥
कुक्कुटास्याय देवाय कुलवृद्धिकराय च ।
नमस्ते कौटुकेशाय तुभ्यं कुक्कुटसंवर ॥ ३४॥
कृष्णसारसवक्त्राय नमस्ते कर्मसम्भव ।
कालनाशाय देवाय एणसंवर ते नमः ॥ ३५॥
मूषाननाय पूर्णाय ज्ञानदाय नमो नमः ।
सर्वदैत्यविनाशय मूषसंवर ते नमः ॥ ३६॥
सालूकास्य नमस्तेऽस्तु मानादिवरदाय च ।
सिद्धिबुद्धिप्रदात्रे च नमः सालूकसंवर ॥ ३७॥
नमः कपोलवक्त्राय प्रज्ञोपायात्मरूपिणे ।
नमस्तेऽस्तु महावीर कपोतसंवराय च ॥ ३८॥
नमामि ग्राहवक्त्राय भुक्तिमुक्तिप्रदाय च ।
नमोऽस्तु सर्वभूतेश ग्राहसंवर ते नमः ॥ ३९॥
नमस्ते चिह्लवक्त्राय नमस्ते मैथुने रत ।
नमस्ते भगवन् देव चिह्लसंवर ते नमः ॥ ४०॥
चटकास्याय देवाय नमस्तेऽस्तु जगद्गुरो ।
नमस्तेऽस्तु गुणाधीश चटकसंवर ते नमः ॥ ४१॥
सारसास्य नमस्तुभ्यं नमस्ते गुणसागर ।
नमो भगवते तुभ्यं सारससंवराय च ॥ ४२॥
खञ्जनास्याय देवाय महादेवाय ते नमः ।
निर्वाणपददात्रे खञ्जरीटसंवराय च ॥ ४३॥
नमस्ते क्षेमकर्यास्य भुक्तिमुक्तिप्रदाय च ।
नमो भगवते देव क्षेमकरिसंवराय ते ॥ ४४॥
शशकास्य नमस्तुभ्यं नमस्ते भुवनेश्वर ।
कर्मप्रदाय ते नित्यं नमः शशकसंवर ॥ ४५॥
नमो भल्लूकवक्त्राय रतिक्रीडापराय च ।
कार्यसिद्धिप्रदात्रे च नमो भल्लूकसंवर ॥ ४६॥
पिकास्याय नमस्तुभ्यं मन्त्रसिद्धिकराय च ।
त्रिलोकेशाय सर्वाय पिकसंवर ते नमः ॥ ४७॥
नमामि वकवक्त्राय शक्तियुक्तगणाधिप ।
नमामि देवदेवेश वकसंवर ते नमः ॥ ४८॥
खङ्गिवक्त्राय देवाय सर्वदा शिरसा नमः ।
नमोऽस्तु परमेशाय खङ्गिसंवर ते नमः ॥ ४९॥
कर्कटास्य नमस्तुभ्यं नमः संसारहेतवे ।
पापपुञ्जविनाशाय नमः कर्कटसंवर ॥ ५०॥
नमः शल्लकिवक्त्राय सर्वदोषनिवारिणे ।
संसारपाशनाशाय नमः शल्लकिसंवर ॥ ५१॥
वृश्चिकास्य नमस्तुभ्यं बलकल्याणदाय च ।
नमो नमस्ते देवाय नमो वृश्चिकसंवर ॥ ५२॥
अलिवक्त्राय देवाय अलिमोदाय ते नमः ।
अलिलोकविनाशाय अलिसंवर ते नमः ॥ ५३॥
जाहकास्य नमस्तेऽस्तु जनमोहकृताय वै ।
जयकल्याणदात्रे च नमो जाहकसंवर ॥ ५४॥
चमरीवक्त्र ते नित्यं चातुर्यफलदायिने ।
चतुर्वर्गप्रदात्रे च नमश्चमरिसंवर ॥ ५५॥
सीम्निवक्त्रनमस्तुभ्यं सिद्धित्वफलदायिने ।
नमो भगवते नित्यं सीम्निसंवर ते नमः ॥ ५६॥
नमामि गोधवक्त्राय नमस्ते भीमविक्रम ।
नमस्ते दिव्यनेत्राय गोधासंवर ते नमः ॥ ५७॥
चकोरास्य नमस्तुभ्यं चाञ्चल्यदोषनाशक ।
नमो भगवते तुभ्यं चकोरसंवराय च ॥ ५८॥
गोधिकास्याय सततं सृष्टिसंहारकरिणे ।
नमस्ते परमानन्द गोधिकासंवराय च ॥ ५९॥
मधुमाक्षिकवक्त्राय नमस्ते मानदायक ।
सर्वज्ञाय परेशाय नमो माक्षिकसंवर ॥ ६०॥
पतङ्गवक्त्र ते नित्यं परमेश नमः सदा ।
दिव्याय दिवसेशाय नमः पतङ्गसंवर ॥ ६१॥
नरवक्त्राय देवाय नरकघ्नाय ते नमः ।
नानारूपदधानाय नरसंवर ते नमः ॥ ६२॥
सृष्टिरूप जगद्धाम सृजते सर्वभूतकम् ।
नमो नमस्ते सततं सृष्टिसंवर ते नमः ॥ ६३॥
स्थितिरूपाय देवाय गुणाय गुणवर्तिने ।
नमः सारविनाशाय स्थितिसंवर ते नमः ॥ ६४॥
सर्वलोकस्य संहारकर्त्रे ते परमेश्वर ।
तस्मादहं नमस्यामि नमः प्रलयसंवर ॥ ६५॥
ज्योतिर्वक्त्र परं धाम नमस्ते जगदीश्वर ।
परात्परतरं सूक्ष्म ज्योतिःसंवर ते नमः ॥ ६६॥
इतीदं संवरस्तोत्रं त्रिषु लोकेषु दुर्लभम् ।
परात्परतरं स्तोत्रं चतुःषष्टिप्रमाणकम् ॥ ६७॥
चतुःषष्टिप्रमाणेषु आद्यमाद्यं तु वक्त्रितम् ।
भूयो ग्रन्थमयाच्चात्र आद्यमात्रं प्रचोदितम् ॥ ६८॥
कन्यार्थी लभते कन्यां धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ ६९॥
वशीकरणमुच्चाटं मारमोहनस्तम्भनम् ।
आकर्षणं च विद्वेषं धातुवादं रसायनम् ॥ ७०॥
गुटिकां पादुकासिद्धिं खङ्गसिद्धिं तथैव च ।
खेचरीसिद्धि वैद्याङ्गं मन्त्रसिद्धिं च वाक्पटुः ॥ ७१॥
परकायप्रवेशं च द्रव्याकर्षणमेव च ।
लभते स्तोत्रराजेन सत्यं सत्यं मयोदितम् ॥ ७२॥
दुर्भिक्षं चापदि पाठं कुरुते शुभमाप्नुयात् ।
अतिवृष्टावनावृष्टौ महामारीसमुद्भवे ॥ ७३॥
राज्यभ्रंशे ज्ञानभ्रंशे स्त्रीभ्रंशे च धनक्षये ।
कलहे च विवादे च पठते स्तोत्रमुत्तमम् ॥ ७४॥
भिक्षुकेभ्यः सहस्रेभ्यः तुल्यं दानकृतं फलम् ।
बहुनात्र किमुक्तेन ब्रह्माण्डदानजं फलम् ॥ ७५॥
इति श्रीसंवरागमे महातन्त्रे अमिताभवैरोचनसंवादे
श्रीचक्रसंवरादिचतुःषष्टिसंवरस्तोत्रं सम्पूर्णम् ॥