धर्ममहिमा
जाबालिरुवाच ।
महर्षे के कलौ धर्माः किमाचाराश्च कीदृशाः ।
वर्णानामाश्रमाणाञ्च किं कृत्वा मुच्यते भयात् ॥ १॥
वक्ता ज्ञाता भवानेव कर्ता चासि प्रवर्तकः ।
पृच्छामि त्वां महाबाहो वद मे शृण्वतः प्रभो ॥ २॥
व्यास उवाच ।
धर्मे मतिर्भवतुः वः सततोत्थितानां
सह्येक एव परलोकगतस्य बन्धुः ।
अर्थाः स्त्रियश्च निपुणेरपि सेव्यमाना
नैवाप्तभावमुपयान्ति न च स्थिरत्वम् ॥ ३॥
धर्मः सनातनः सर्वैः सेवनीयः सदा मुने ।
धर्म एव परो बन्धुः पिता माता पितामहः ॥ ४॥
धर्मो गुरुः सत्य एको धर्म एव परा गतिः ।
धर्म आत्मा क्रिया धर्मस्तीर्थानि धर्म एव हि ॥ ५॥
धर्मो धनं सर्वदेवो धर्म एव न संशयः ।
धर्मः सम्पद् विपद् धर्मराहित्यं व्यर्थजीवनम् ॥ ६॥
सदसत्कर्मणां द्रष्टा धर्म एव सनातनः ।
धर्मे मतिः परो लाभस्तस्य ह्यपचयोऽन्यथा ॥ ७॥
सा चातुरी चातुरी या धर्मरक्षाकरी भवेत् ।
सहस्रोपद्रवैर्युक्तो यो न धर्मं जहाति हि ।
स धीर उच्यते सद्भिर्धर्महात्वात्महा मतः ॥ ८॥
धर्मार्थे क्रियते भार्या धर्मार्थे क्रियते सुतः ।
धर्मार्थे क्रियते गेहं धर्मार्थे क्रियते धनम् ।
धर्मार्थे क्रियते देहो धर्मार्थे सुस्थिरा मही ॥ ९॥
धर्मार्थे वर्षतीन्द्रोऽपि धर्मार्थे तपते रविः ।
धर्मार्थे वहते वायुर्धर्मार्थेऽग्निर्ज्वलत्यसौ ॥ १०॥
धर्मार्थानि पुराणानि धार्मिकः पूज्यतेऽमरैः ॥ ११॥
अधार्मिकमुखं दृष्ट्वा पश्येत् सूर्यं सदा नरः ॥ १२॥
धार्मिको यच तत्तीर्थं स देशो निरुपद्रवः ।
नाधर्मे रमतां बुद्धिर्यतो धर्मस्ततो जयः ॥ १३॥
धर्मश्चतुष्पात् सम्पूर्णो वृषरूपधरश्चरन् ।
पाति लोकानिमान् मूर्त्तस्तस्मै धर्माय वै नमः ॥ १४॥
``सत्यं दया तथा शान्तिरहिंसा'' चेति कीर्तिताः ।
धर्मस्यावयवास्तात चत्वारः पूर्णतां गताः ॥ १५॥
सर्वप्रभेदैः सम्पूर्णा एते सत्ययुगे मताः ।
एतेषां ह्रसते पादस्त्रेतायां द्वापरे पुनः ॥ १६॥
द्वौ पादौ पाद एकश्च कलौ सोऽन्ते विनङ्क्ष्यति ।
तस्माद्धर्मे मतिः कार्या सुरासुरनरादिभिः ॥ १७॥
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।
यथा स्वल्पमधर्मं हि जनयेत्तु महाभयम् ॥ १८॥
॥ इति बृहद्धर्मपुराणे व्यासजाबालिसंवादे प्रथमोऽध्यायान्तर्गता
धर्ममहिमा सम्पूर्णा ॥
(धर्मस्यावयवाः - सत्यं दयां शान्तिः अहिंसा)
सूत उवाच ।
एवं श्रुत्वा स जाबालिः प्राह व्यासं मुनीश्वरम् ।
सत्यादेर्वद मे भेदान् धर्मावयवरूपिणः ॥ १॥
व्यास उवाच ।
(सत्यं)
अमिथ्यावचनं सत्यं स्वीकारप्रतिपालनम् ।
प्रियवाक्यं गुरोः सेवा दृढञ्चैव व्रतं कृतम् ॥ २॥
आस्तिक्यं साधुसङ्गश्च पितुर्मातुः प्रियङ्करः ।
शुचित्वं त्रिविधञ्चैव ह्रीरसञ्चय एव च ॥ ३॥ (त्रिविध शौच - कायिक वाचिक मानसिक)
एवं द्वादशधा सत्यं दयां मे वदतः शृणु ।
(दयां)
परोपकारो दानञ्च सर्वदा स्मितभाषणम् ॥ ४॥
विनयो न्यूनताभावस्वीकारः समतामतिः ।
षड्विधेयं दया प्रोक्ता शृणु शान्तिमथ मुने ॥ ५॥
(शान्तिः)
अनसूयाल्पसन्तोष इन्द्रियाणाञ्च संयमः ।
असङ्गमो मौनमेवं देवपूजाविधौ मतिः ॥ ६॥
अकुतश्चिद्भयत्वञ्च गाम्भीर्यं स्थिरचित्तता ।
अरुक्षभावः सर्वत्र निस्पृहत्वं दृढा मतिः ॥ ७॥
विवर्जनं ह्यकार्याणां समः पूजापमानयोः ।
श्लाघा परगुणेऽस्तेयं ब्रह्मचर्यं धृतिः क्षमा ॥ ८॥
आतिथ्यञ्च जपो होमस्तीर्थसेवार्यसेवनम् ।
अमत्सरो बन्धमोक्षज्ञानं संन्यासभावना ॥ ९॥
सहिष्णुता सुदुःखेषु अकार्पण्यममूर्खता ।
एवमादिगुणा विप्र शान्तित्वेन प्रकीर्तिताः ॥ १०॥
(अहिंसा)
अहिंसात्वासनजयः परपीडाविवर्जनम् ।
श्रद्धाचातिथिसेवा च शान्तरूपप्रदर्शनम् ॥ ११॥
आत्मीयता च सर्वत्र आत्मबुद्धिः परात्मसु ।
इति नानाविधाः प्रोक्ता अहिंसेति महामुने ॥ १२॥
॥ इति बृहद्धर्मपुराणे व्यासजाबालिसंवादे द्वितीयोऽध्यायान्तर्गता धर्मावयवमहिमा सम्पूर्णा ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः १। ३०-४७ ॥ २। १-१२ ॥