ध्वजारोहणवर्णनम्

ध्वजारोहणवर्णनम्

देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः । सुस्थिरं स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम् ॥ १९-१९॥ गन्धपुष्पाक्षतैर्द्देवं धूपदीपैर्मनोहरैः । भक्ष्यभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत् ॥ १९-२०॥ एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् । प्रदक्षिणमनुव्रज्य स्तोत्रमेतदुदीरयेत् ॥ १९-२१॥ नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १९-२२॥ येनेदमखिलं जातं यत्र सर्वं प्रतिष्ठितम् । लयमेष्यति यत्रैव तं प्रपन्नोऽस्मि केशवम् ॥ १९-२३॥ न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः । योगिनो यं न पश्यन्ति तं वन्दे ज्ञानरूपिणम् ॥ १९-२४॥ अन्तरिक्षं तु यन्नाभिर्द्यौर्मूर्द्धा यस्य चैव हि । पादोऽभूद्यस्य पृथिवी तं वन्दे विश्वरूपिणम् ॥ १९-२५॥ यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृच्छशी । ऋक्सामयजुषी येन तं वन्दे ब्रह्मरूपिणम् ॥ १९-२६॥ यन्मुखाद्ब्राह्मणा जाता यद्बाहोरभवन्नृपाः । वैश्या यस्योरुतो जाताः पद्भ्यां शूद्रो व्यजायत ॥ १९-२७॥ मायासङ्गममात्रेण वदन्ति पुरुषं त्वजम् । स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम् ॥ १९-२८॥ क्षीरब्धिशायिनं देवमनन्तमपराजितम् । सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम् ॥ १९-२९॥ पृथिव्यादीनि भूतानि तन्मात्राणीन्न्द्रियाणि च । सूक्ष्मासूक्ष्माणि येनासंस्तं वन्दे सर्वतोमुखम् ॥ १९-३०॥ यद्ब्रह्म परमं धाम सर्वलोकोत्तमोत्तमम् । निर्गुणं परमं सूक्ष्मं प्रणतोऽस्मि पुनः पुनः ॥ १९-३१॥ अविकारमजं शुद्धं सर्वतोबाहुमीश्वरम् । यमामनन्ति योगीन्द्राः सर्वकारणकारणम् ॥ १९-३२॥ यो देवः सर्वभूतानामन्तरात्मा जगन्मयः । निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु ॥ १९-३३॥ हृदयस्थोऽपि दूरस्थो मायया मोहितात्मनाम् । ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु ॥ १९-३४॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रतीदतु ॥ १९-३५॥ ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् । गतिदाता विश्वमृग्यः स मे विष्णुः प्रसीदतु ॥ १९-३६॥ जगद्धितार्थं ये देहाः ध्रियन्ते लीलया हरेः । तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु ॥ १९-३७॥ यमामनन्ति वै सन्तः सच्चिदानन्दविग्रहम् । निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु ॥ १९-३८॥ इति स्तुत्वा नमेद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् । आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः ॥ १९-३९॥ ब्राह्मणान्भोजयेच्छक्त्या भक्तिभावसमन्वितः । पुत्रमित्रकलत्राद्यैः स्वयं च सह बन्धुभिः ॥ १९-४०॥ कुर्वीत पारणं विप्र नारायणपरायणः । यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् । तस्य पुण्यफलं वक्ष्ये श‍ृणुष्व सुसमाहितः ॥ १९-४१॥ पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना । तावन्ति पापजालानि नश्यन्त्येव न संशयः ॥ १९-४२॥ महापातकयुक्तो वा युक्तो वा सर्वपातकैः । ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥ १९-४३॥ यावद्दिनानि तिष्ठेत ध्वजो विष्णुगृहे द्विज । तावद्युगसहस्त्राणि हरिसारूप्यमश्नुते ॥ १९-४४॥ आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः । तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ॥ १९-४५॥ आरोपितो ध्वजो विष्णुगृहे धुन्वन्पटं स्वकम् । कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः ॥ १९-४६॥ यस्त्वारोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् । स देवयानेन दिवं यातीव सुमतिर्नृपः ॥ १९-४७॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणं नामैकोनविंशोऽध्यायः । बृहन्नारदीयपुराण । पूर्वभाग । अध्याय १९/२२-३८॥ bRRihannAradIyapurANa . pUrvabhAga . adhyAya 19/22-38.. Proofread by PSA Easwaran
% Text title            : Dhvajarohanavarnanam
% File name             : dhvajArohaNavarNanam.itx
% itxtitle              : dhvajArohaNavarNanam (bRRihannAradIyapurANAntargatam)
% engtitle              : dhvajArohaNavarNanam
% Category              : misc, bRRihannAradIyapurANa
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bRRihannAradIyapurANa | pUrvabhAga | adhyAya 19/22-38||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Bengali)
% Latest update         : October 26, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org