एकः अनेके

एकः अनेके

भारतम् । वयं सर्वे एकम् । (तर ...... ) भाषा अनेकाः ।(२) अनेकाः इत्युक्ते किं अग्रजे ? अनेकाः इत्युक्ते बहवः । बहवः इति किं ? अस्तु वदामि । एकस्सूर्यः । एकश्चन्द्रः । तारा अनेकाः । तारायाः अन्यत् नाम अनेकाः ? न न । पुनः वदामि । एकस्सूर्यः । एकश्चन्द्रः । एका एका एका मिलित्वा तारा अनेकाः । सम्यक् वदतु अग्रजे । पश्य पश्य एकस्चिक्रोडः । पुरतः चिक्रोडा अनेके । चित्रपतङ्गः । अन्यचित्रपतङ्गः । एकः एकः एकः मिलित्वा इदानीं अत्र चित्रपतङ्गाः । अवगच्छामि अग्रजे । एका अङ्गुली । अनेका अङ्गुल्यः । आम् । अग्रजे अग्रजे पश्य अनेके खगाः । खगानां कथां श्रुणोषि किं ? आं आम् । अ ...... अ । खगः एकः । एकेनैकः मिलित्वा खगा अनेके । धान्यं खादितुं खगा आगताः । अग्रजे अस्मान् अपि श्रावयतु । अस्तु श‍ृण्वन्तु । खगः एकः । खगा अनेके । धान्यं खादितुं खगा आगताः । हे ईश्वर । किन्तु तत्र व्याधः जालं प्रसारयति । व्याधः ? व्याधः कः अग्रजे ? पक्षिग्राहकः । अनन्तरं किं अभवत् अग्रजे ? व्याधः खगान् गृहीतवान् ? मारितवान् ? धैर्येण वयं आचरामः अल्पाश्चेदपि मिलामः तर्हि सर्वमपि साधयामः (अनुज) (२)एकं द्वे त्रीणी खगाः चतुराः । अल्पाश्चेदपि सर्वे मिलित्वा जालं नीत्वा सहैव डयन्ते । फुर ..... । दूरे एकस्मिन् ग्रामे खगानां मित्राणि मूषकाः वसन्ति स्म । ते जालात् खगानां विमोचनं कृतवन्तः । अतः अवगच्छत यूयं यदि मिलित्वा कार्यं कुरुथ तर्हि कार्यसिद्धिः भवति । अग्रजे अहं वदामि । एकता शक्तिप्रदात्री । एकता बलप्रदात्री । एकता धैर्यप्रदात्री । अग्रजे, यदि वयं मिलामः तर्हि बृहत् कार्यं कर्तुं शक्नुमः ? आं आं किमर्थं न ? अस्मात् वृक्षात् आम्राणि लुञ्चितुं शक्नुमः ? आं लुञ्चितुं शक्नुमः । किन्तु युक्तिः करणीया अस्तु एषा युक्तिः । आनन्देन कुर्म । भारतस्य जनाः सर्वे एकं (२)। वर्णरूपवेषभाषा अनेकाः प्रायः (२)। Popular Indian Doordarshan Children's documentary in Samskritam. It teaches singular and plural. And also has a popular story on unity. It promotes unity and diversity. Encoded and proofread by Usha Jayaraman
% Text title            : Ekah Aneke, Unity in Diversity
% File name             : ekaHaneke.itx
% itxtitle              : ekaH aneke, bhAratasya janAH sarve ekaM
% engtitle              : ekaH aneke
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Jayaraman https://www.youtube.com/@samskritapriya2020
% Proofread by          : Usha Jayaraman
% Description/comments  : Teaching singular and plural relating to the Unity and Diversity. Popular Indian Doordarshan Children's documentary in Samskritam.
% Indexextra            : (Video)
% Latest update         : April 13, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org