गण्डीस्तवः
आपातालान्तदेवाः सुरनरगरूडा दैत्यगन्धर्वयक्षाः
सिद्धा विद्याधराद्या जलधितटगता नागसत्त्वाः समग्राः ।
गण्डीशब्दं समन्ताद् रभसितमनसः स्वासनेऽस्मिन् प्रसन्नाः
श्रोतुं(साधो)रधीरा विमलगुणगणस्यास्य त्रैलोक्यबन्धोः ॥ १॥
लीलावासितचामरैश्चलदहो काञ्चीप्रपञ्चालसत्
प्राञ्चत्काञ्चनकिङ्किणीभिररणत् स्वासीवहंसस्वनाः ।
तारुण्यामलनीलनीरजदल श्यामाङ्कमाराङ्गना-
श्चक्रूर्यस्य न मानसस्य विकृतिं बुद्धाय तस्मै नमः ॥ २॥
येषामस्ति प्रसादो भगवति सुगते मारभिद्योगयुक्ते
ये वा सद्यः प्रसन्नाः सुगतसुतकृते स्वस्ति येषां च भक्तिः ।
गण्डीमाहत्य चास्मिन् जगति शुभकरां शाक्यसिंहस्य शास्तुः
कृत्वा शुद्धान्तसंस्थां सुविहितमनसः श्रोतुमायान्ति सर्वे ॥ ३॥
बुद्धं त्रैलोक्यनाथं सुरनरनमितं पारसंसारतीरं
धीरं गम्भीरवन्तं सकलगुणनिधिं धर्मराज्याभिषिक्तम् ।
तृष्णामारान्तकारं कलिकलुषहरं कामलोभान्तवन्तं
तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि ॥ ४॥
ऋम्पं ऋम्पं ऋऋम्पं टम टम टटमं तुन्दतुन्दं तुतुन्दं
सं सं सं सं सं सं सं समसममसमं दुर्म दुर्म द्रुदुर्मम् ।
नागिर्नागिर्ननागिस्तखितखितखितस्तत्यजुर्ये रणे वै
कैः कैः कैः कैश्च कैः कैर्जगति भयहरा कीर्त्यते धर्मगण्डी ॥ ५॥
कुरुत कुरुत श्रीपं ध्यानसन्नाहमग्नं
ग्रसति न खलु यावद् दुर्निवारः कृतान्तः ।
इति वदति जनौघे बोधिता भिक्षुसङ्घाः
क्षपितदुरितपक्षाकीर्णनिःशेषदोषाः ॥ ६॥
यस्मिन्नभ्युदितेऽखिलं त्रिभुवनं यात्यस्तमस्तङ्गते
येन ज्ञानगभस्तिहस्तविसरैर्हस्तं यतस्तन्यते ।
सद्धर्मामलमण्डलो दशबलः संसाररात्र्यन्तकः
पायाद्वै मुनिभास्करः सुरगणान् बुद्धः प्रजाबान्धवः ॥ ७॥
चित्तं येन जितं गजेन्द्रचपलं ज्ञानाक्षरैर्नाङ्कुशै-
र्नष्टं रागतमोऽन्धकारपटलं ज्ञानाग्निना नाग्निना ।
ध्वस्तं मारबलं प्रशान्तमतिना क्षान्त्यायुधैर्नायुधै-
स्तं वन्दे प्रणतार्तिनाशनपटुं बुद्धं प्रबुद्धं मुनिम् ॥ ८॥
तीर्थ्यानामाशु सैन्यं झटिति विघटयन् नाकनिष्ठप्रतिष्ठं
भूयिष्ठाभिः प्रभाभिर्भुवनमवतरंस्त्रासयन् भासुराभिः ।
लक्ष्मीः पातालमूले स्थितकनकमहागर्भसिंहासनस्था
गीतज्योतिः स्वयं वो दिशतु दशबलो दर्शितप्रातिहार्यः ॥ ९॥
पादाङ्गुष्ठे निविष्टां क्षिपति पृथुशिलाद्यैः स राजातिगुर्वी
चोग्रं ग्रीष्मप्रतापप्रशममुपगतो वल्गुना मन्त्रपूताम् ।
तामेव त्रास्यमानो विघटयति सुखं श्वासनिःश्वासवातान्
लोकं सिद्धाः प्रणेमुः स दिशतु भगवान् सम्पदं सर्वदर्शी ॥ १०॥
भग्ना मारादिरूपाः प्रलयभयकरा बद्धसन्नद्धकक्षा
नाना तीक्ष्णाग्रहस्ताः करितुरगमुखाः सिंहनादं नदन्तः ।
बुद्धत्वं येन नीताः कुवलयदलदृशा(प्रेक्षिता) भिक्षुसङ्घाः
धर्मं कान्तं(नितान्त)मघदलनपटुं तीर्थिकाणां शृणुध्वम् ॥ ११॥
चित्तं यस्याङ्गनाया रतितरलदृशाऽपाङ्गभङ्गैः सुभङ्गैः
क्षोभं नैवाशु नीतं कुचकलशभरैर्हारलीढैः सुलीढैः ।
तस्यैषा धर्मगण्डी मधुरकलरवं रावते भिक्षुसङ्घं
धर्मं कान्तं तदीयं परमभयकरं तीर्थिकाणां शृणुध्वम् ॥ १२॥
यः श्रीमान् धर्मचक्रे प्रमुदितमनसा धर्मरत्नैकमौलि-
र्भूयांसं पूर्णदेहं विकसितवदनं धर्मरत्नोदगिरन्तम् ।
सिंहाक्रान्तासनस्थः कनकगिरिनिभो धर्मनादं नदन्तं
तस्येयं धर्मगण्डी प्रणदति सततं संशृणुध्वं जिनस्य ॥ १३॥
मा मा मा मीयकण्ठैर्डिमडिमगगता गागगागैर्गलन्तैः
ना ना ना नोपनीतं ननु ननु ननु मा धुर्यमाधुर्यकान्तैः ।
गीतैः कामाङ्गनानां प्रचलितमभवद् यस्य चेतो न शर्मि
तस्यैषा धर्मकेतोः पटुपटहरवा रारटीत्युग्रगण्डी ॥ १४॥
किं संवर्तप्रदत्तप्रसववनचरा दीर्घसंरम्भनादाः
किं वा निर्वाटघातः किमुत भगवती हुकृतिर्वज्रपाणेः ।
तत्सर्वं वै जनानां प्रवचनमतयो द्रष्टुमन्तःप्रवृत्ता
बुद्धस्योदारमूर्तेस्त्रिदशभयकरो गण्डिवादः स एषः ॥ १५॥
ऊर्जासङ्घातिमारा विकृतनखमुखा रौद्रसिंह(स्व)रूपाः
पाताले रत्नदीपे प्रकटमणिगणाः शब्दिताः पर्वतेन्द्राः ।
देवेन्द्रैर्मौलिरत्नैः प्रणमितचरणस्यास्य विश्वैकबन्धो
रौत्येषा हन्यमाना यतिषु शुभविदः शाक्यसिंहस्य गण्डी ॥ १६॥
कीर्तिर्नाथ प्रमथकमनङ्गोऽस्तु वा तत्त्वदीया
दीनानाथोद्धरण पुरतो गीयते मारशत्रोः ।
खिन्दं खिन्दं खिखिन्दं खुद खुद सुखदं दत्तके दत्तुतुन्दं
तुन्दं तुन्दं तुतुन्दं ध्वनिपटुपटहैः सिद्धगन्धर्वनागैः ॥ १७॥
मारैर्नानाप्रकारैर्विकृतशतमुखैर्भूरिवक्त्रैर्ज्वलद्भि-
र्भीमैरट्टाट्टहासैः पललकवलितैः सिंहनादं नदद्भिः ।
कालाकारैरनेकैर्गहनभयकरैः सर्वतो भीषयद्भि-
र्व्याप्तं चेतो न यस्य क्षणमपि नियतं मारभङ्गः स वोऽव्यात् ॥ १८॥
राजा निष्कण्टराज्यो भवतु वसुमती सर्वसस्याभिपुर्णा
काले वर्षन्तु मेघा व्यपगतविपदः सन्तु लोकाः समस्ताः ।
वीहारे कर्मपूर्णं यदखिलनृणां सर्वविघ्नोपशान्ति-
रन्योन्यप्रीतिभावाद् भवतु सुखमयो वीतरागार्यसङ्घः ॥ १९॥
शास्तुः सद्धर्मरत्नं सुगतवरसुतान् प्रेरयन्ती विशुद्धयेद्
रागद्वेषैर्विमूढान् विषमपथगतान् रावयन्ती जयन्ती ।
सत्त्वानुत्तारयन्ती प्रशमशरशतैर्विद्यमानार्थवन्तं
शास्तुः संप्रीतिहार्यं विविधवररुतैः शान्तिकारी जनस्य ॥ २०॥
स्फेटन्तं वारनार्या विकटगणघटाट्टाट्टहासं नदन्तं
खेलन्तं विस्फुरन्तं ज्वलदनलशिखाकान्तलीलां ददन्तम् ।
भन्तं प्रेमप्रकामं स्फुटदुरुवचसं कामधात्वीश्वरत्वं
तं वन्दे वन्दनीयं सकलभयहरं बुद्धवीरं सुवीरम् ॥ २१॥
सम्पन्नेऽङ्गुष्ठपद्मे झटिति हृदि तथा कण्ठ एवोपकण्ठे
ढक्कासङ्काशतालैःकलपटुपटहैः शङ्खनिर्घोषिघोषैः ।
हा हा हुं हूं कृता ये झटिति कटकटैर्भीमनादानुमोदैः
क्षुद्रं चेतो न चैतत् सुरवरजयिनो यस्य तस्मै नमोऽस्तु ॥ २२॥
गर्जन्तं वाग्विशेषं प्रकटपटुरवैर्दिव्यगान्धर्वशब्दै-
र्नानानागेन्द्रयक्षैः स्तुतिचटुलशतैः पूज्यमाना महद्भिः ।
साङ्ख्ये माहेश्वरीयानसुरगुरुतम् -------------
------------- मारभन्ती करकमलगता शान्तिमारारटीति ॥ २३॥
दत्त्वा सर्वस्वदानी क्रतुकनकमयं वाराणानां शतं वा
राज्यं पुत्रं कलत्रं स्वतनुमपि शिरश्चक्षुषां वा सहस्रम् ।
येना ------------- भिरपि शतैर्वत्सराणां व्ययत्वात्
सम्यक्सम्बोधिरग्रा स जयति सुगतः शान्तये सज्जनानाम् ॥ २४॥
नानारूपविरूपदृश्यविकृतेर्भूयो ग्रसेद् भूतिभि-
र्बोधैर्योषिति रोधनप्रजनितज्योतिर्ज्वल(द्बन्ध)नैः ।
मारस्यानुचरैर्न यस्य सुधियः किञ्चिन्मनः कम्पितं
नृत्यैर्वा सुगतस्य मारजयिनो गण्डी रणत्यद्भूतम् ॥ २५॥
यस्या नादं निशम्य श्रवणसुखकरं यान्ति तृप्तिं समन्तात्
प्रेता भूमीमुखाद्याः पृथुतरवपुषः क्षुत्पिपासाभिभूताः ।
सम्यगभक्त्या प्रसन्नैः सुरनरवपुषैः श्रूयते चातुरैर्या
सा गण्डी पातु विश्वं दशबलबलिनस्तस्य माना मनोज्ञा ॥ २६॥
नानावाद्यकरीन्द्रवाजिमहिषव्याघ्रादिशब्दैर्युतं
चञ्चत्कुन्तसुबाणतोमरगदाचक्रादिशस्त्रोद्यतम् ।
भग्नं सैन्यमनेन योधसहितं मारस्य येन क्षणात्
तस्येयं करुणानिधेर्भगवतः पायाज्जगद् गण्डिका ॥ २७॥
धर्मे संरम्भचित्ताः प्रभवहतविधिः पापतः सर्वदैव
दाने शीले क्षमायां पठति सकरुणे सज्जनाः संयताः स्युः ।
इत्येवं सर्वसत्त्वान् सुमधुररणितैर्बोधयन्ती विशुद्धा
तन्नः पुण्यैर्वचोभिस्त्रिजगति सकलं बुद्धवीरस्य गण्डी ॥ २८॥
शृण्वन्ती सावधाना प्रशमततशराभ्यासनैर्नैव शब्दं
सेन्द्रादानन्दवज्री स्वभुवननृपतेस्तुङ्गवेलेव देवान् ।
वन्दीभूतान् मुनीन्द्रान् प्रवचनपटुताकारसंरम्भशब्दै-
र्या गण्डी दण्डघातक्रममनुरणनाद् दुन्दुभीवद् धुनोति ॥ २९॥
हुङ्कारी पद्मयोनिस्त्रिपुरविजयिनो वल्लभः शूलपाणि-
र्विष्णुर्यद् वज्रपाणिः सुरपतिरसुरध्वंसनश्चक्रपाणिः ।
ये वा चान्ये स्तुवन्ति प्रमतनिजरवे क्षोभभावे किमास्ते
सर्वे तस्याङघ्रिमूले विनयमुपगता गेयमन्त्रं स्तुवामि ॥ ३०॥
अज्ञान् सर्वज्ञनाथान् मुनिपदसहितान् भ्रामयन्ती त्रिलोकं
मारांश्चान्यप्रकारैर्विविधभयकरान् त्रासयन्ती समस्तान् ।
पापान् प्रोत्सारयन्ती विषयरतिधियः पण्डितान् बोधयन्ती
प्रोच्चैः संरुद्धबोध्यान् प्रवदति भुवने शाक्यसिंहस्य गण्डी ॥ ३१॥
व्याघ्रयै दत्त्वा स्वदेहं गुणशतनिवहं पुण्यसम्भारलब्धं
बुद्धत्वं यः प्रयातः प्रतिहतदुरितो मन्मथोन्मादनार्थी ।
शास्ता यश्चाद्वितीयो भवभयभिदुरो भिन्नपापाभिसन्धि-
स्तस्येयं वै विचित्रा स्तनति भगवतः शाक्यसिंहस्य गण्डी ॥ ३२॥
मायादेव्याश्च कुक्षौ जनितजिनवरः शाक्यसिंहो मुनीन्द्रो
भूम्नि प्रायात्तु मध्ये प्रवरसुमुनिना लोकवृक्षस्य मूले ।
देवेन्द्रब्रह्मरुद्रासुरनरविबुधैः स्नापितो यः स देव-
स्तं वन्दे भक्तिरत्नैः शशधरकिरणाक्षोदिदेहं मुनीन्द्रम् ॥ ३३॥
मारैर्नानाप्रकारैरसिपरशुधनुर्बाणहस्तैर्ज्वलद्भि-
र्भीमास्यैर्दुष्टदंष्ट्रैर्गजभुजगमुखैः सिंहवक्त्रैः श्ववक्त्रैः ।
प्रत्यञ्चेनोनमस्य क्षणमपि शमितस्तस्य बुद्धस्य पादौ
गन्तुं लोकोऽपि सर्वो ध्रुवमिति गतभीश्चैषु गण्डी निनाद्या ॥ ३४॥
इति श्री गण्डीस्तवः समाप्तः ।
इति कृतिरियमाचार्य-आर्यदेवपादानां सम्पूर्णम् ॥