हास्यशीकरशतकम्

हास्यशीकरशतकम्

सङ्कलनकर्ता - जि. एस्. श्रीनिवासमूर्तिः

भूमिका

आधुनिककाले आङ्ग्लभाषायां हास्यरसोद्दीपकः यः मितवाक्यग्रथितः प्रबन्धः ``जोक्'' इति कथ्यते, तस्य परिचयः संस्कृतभाषायां अस्यां पुस्तिकायां क्रियते । शतं हास्यशीकराः अस्यां पुस्तिकायां प्रकाश्यन्ते । नवरसेषु हास्यरसः परिगणितोऽपि संस्कृतसाहित्ये शिष्टजनास्वादनयोग्यहास्यरसजनकाः रचनाः विरला एव । नाटकाङ्गभूतविदूषकपात्रमुखेन तथा रूपकाङ्गभूतप्रहसनेषु च यत् हास्यमिति प्रयुज्यते तत् बहुशः अश्लीलतासीमानं ग्राम्यतां च प्राप्नोति । पद्य-गद्य-चम्पूकृतिषु हास्यरसः न दृश्यते एव इति कथयामः यदि तत् सत्यदूरं न भवति । वैद्या अपि हास्यशीलता आयुर्वृद्धये स्वास्थ्यक्षेमाय च इत्यामनन्ति । किञ्च, संस्कृतकृतिरचयितारः संस्कृतयोगक्षेमाय नूतनविधाः अन्यभाषासाहित्यशाखाप्रचोदिताः कृतीः रचयेयुः इति सर्वे संस्कृतविद्वांसः संस्कृतप्रेमिणः अभिलषन्ति । तदभिलाषपूरणे हास्यशीलतावृद्धये च इयं रचना किञ्चित्करी चेत् अयं लेखकः कृतार्थः नूनम् । इमे शिष्टजनपठनयोग्याः हास्यशीकराः आङ्ग्लभाषायाम् अन्यभाषासु च बहुशः प्रचलिता, ``ब्लाग्''रूपेण संस्कृते ह्त्त्प्://सिम्प्लेसन्स्क्रित्।ब्लोग्स्पोत्ॅओम्/ जालपुटे अनूद्य लेखकेन प्रकाशिताः एव । अतः केषाञ्चित् पाठकानामत्र नव्यता न द्योतयेत । तथापि संस्कृतसमृद्ध्यर्थं कृताम् इमां कृतिं सर्वे पठन्तु, पठित्वा हसन्तु, मोदन्तामिति सप्रश्रयमाशास्ते लेखकः । इति शम्, जि।एस्।श्रीनिवासमूर्तिः बेङ्गलूरु-७८

हास्यशीकरशतकम्

१. बालचेष्टा-१

रजन्यां कार्यनिरता माता बालं सुतमवदत्, ``वत्स, गृहपृष्ठे संमार्जनी कोणे वर्तते तामानय'' इति। बालः प्रत्यवदत्, ``अहं न गच्छामि । बहिः गाढः अन्धकारः'' इति । माता प्रत्यवदत्, ``मा भैषीः, ईश्वरः सर्वदा सर्वत्र तव रक्षकः भवति । भयं परित्यज्य गच्छ'' इति । भीतः बालः पुनरवदत्, ``अम्ब, ईश्वरः अधुना गृहपृष्ठेऽपि वर्तते किम्।'' माता अवदत् ``निस्संशयं वत्स'' इति । बालः, ``बाढं गच्छामि'' इति वदन् गृहपृष्ठद्वारपर्यन्तमगच्छत् । तत्र स्थित्वा कवाटमीषदुद्घाट्य अवदत्, ``ईश्वर, कृपया कोणे स्थितां संमार्जनीं मह्यं देहि'' इति ।

२. श्वश्रूः-स्नुषा-१

सायं यदा पुरुषः कार्यालयात् गृहमागतः तदा तस्य भार्या अश्रुपूर्णनयना आसीत् । पुरुषः चकितः खिन्नश्च तामपृच्छत्, ``किमिदम्? किं प्रवृत्तम्?'' । भार्या अवदत्, ``अद्य तव जनन्या परिभूताऽस्मि'' । सः अवदत्, ``कथमिव वा भवेत्? सा अन्यनगरे वर्तते खलु?'' । सा प्रत्यवदत्, प्रातः तस्याः सकाशात् तुभ्यं पत्रमेकं समागतम् । तत् कुतूहलाविष्टा पिधानमपावृत्य अपठम् । तत्र अन्ते तया लिखितम्, ``प्रिये स्नुषे, कृपया एतत् पत्रं मम पुत्राय देहि'' इति ।

३. मद्यपानम्-१

पानलोलः पिता तरुणं पुत्रमात्मना सह पानागारमनयत् । पुत्रस्य इदमेव प्रथमपानमासीत् । उभौ पातुं प्रारभेताम् । पुत्रः प्रारम्भ एव पितरमवदत्, ``तात, कथय कदा अहं पानात् विरमै ।'' कतिपयचषकानापीय पिता पुत्रं स्खलितवाचावदत्, ``पुत्र, पश्य तत्र द्वौ दीपौ दृश्येते । यदा चत्वारः दृश्यन्ते तदा पानात् विरमस्व।'' पुत्रः चकितः प्रत्यवदत्, ``तात, तत्र एक एव दीपः दृश्यते खलु'' ।

४. मतिविभ्रमः-१

मनोवैद्यालये कश्चन रुग्णः पार्श्वपर्यङ्के निषीदन्तमन्यं रुग्णमब्रवीत्, ``भोः, वयस्य, ईश्वरेण अहं जगतः सार्वभौमः नियुक्तोऽस्मि'' । ``यद्वदसि तत् मृषा खलु । मया त्वं न नियुक्तोऽसि'' इति प्रत्यवददन्यः ।

५. मौढ्यम्-१

देवदत्तः एकदा जटकाख्यतुरगशकटिकायां गच्छति स्म । मार्गे देवदत्तः शकटिकाचालकं पप्रच्छ, ``भोः, नगर्यां का वार्ता?'' । किञ्चिच्चकितः चालकः अवदत्, ``आर्य, न काचिदपि वार्ता श्रुता मया । परं तु मम वयस्यः कूटमेकं ददौ । तदित्थं, ``मम पितुः पुत्रः वर्तते यः मम अग्रजोऽपि न अनुजोऽपि न भवति । सः कः? आर्यः कथयितुमर्हति । ``देवदत्तः चिरमचिन्तयत् तथापि उत्तरं दातुं न शशाक । पराभूतः अवदत्, ``न जाने । सः कः? कथय'' इति । उच्चैर्विहस्य चालकः अवदत्, ``आर्य, अहमेव'' । देवदत्तोऽपि उच्चैर्जहास, ``रुचिरं खलु तव कूटम् । तव नाम किम्?'' चालकः अवदत्, ``मम नाम मोहम्मद् उस्मान्'' । ``बाढं, त्वं कुत्र वससि?'' । ``मुस्लिम् मोहल्लायाः प्रथम वीथ्याम्'' । देवदत्तः कृच्छ्रेण चालकस्य नामधामविशेषान् कण्ठस्थमकरोत् । अथ कदाचित् सः तस्य वयस्येन नरदत्तेन सममिलत् । कुशलप्रश्नानन्तरं नरदत्तं पप्रच्छ, ``मित्र, अहं कूटमेकं वदामि । उत्तरं कथयसि किम्?'' इति । नरदत्तः प्रत्यवदत्, ``अथ किम्, उत्तरं दातुं यते । कथय । ``देवदत्तः अकथयत्, ``मम पितुः पुत्रः एकः वर्तते । सः मम अग्रजोऽपि न, मम अनुजोऽपि न । सः कः ?``नरदत्तः चिरं विचिन्त्य अवदत्, ``क्षमस्व, उत्तरं न मे भाति ``इति । देवदत्तः उच्चैः विहस्य अवदत्, ``सरलं खलु कूटम् । सः मोहम्मद् उस्मान् यः मुस्लिम् मोहल्लायाः प्रथमवीथ्यां वसति'' इति । नरदत्तश्च उच्चैर्जहास उस्मान् वर्यस्य नामधामविशेषान् कण्ठस्थं चकार च ।

६. दाम्पत्यम्-१

देवदत्तः चिराय अकृतोद्वाहः आसीत् । तस्य सर्वे वयस्याः विवाहिता बभूवुः । बहवः देवदत्तमपृच्छन् । ``कुतस्त्वमकृतोद्वाहः वर्तसे? किम् कारणम् ?'' इति । देवदत्तस्य इदमेव उत्तरमासीत्, ``अहं किं करवाणि? याः कन्याः मह्यं रोचन्ते ताः मम मात्रे न रोचन्ते''। कश्चन वयस्यः नरदत्तनामा देवदत्तमसूचयत्, ``वयस्य काञ्चन त्वन्मातृसदृशीं कन्यां निश्चिनु । तदा सा तव मात्रे रोचते'' । देवदत्ताय नरदत्तस्य सूचना अरोचत अवदच्च, ``बाढम्, तथैव करिष्यामि'' इति । दिनेषु गच्छत्सु एकदा नरदत्तः देवदत्तेन सह सममिलत् । देवदत्तमपृच्छत्, ``मित्र, त्वं किं विवाहितोऽसि । ``नैव, मित्र'' । ``कुतः? त्वं मम सूचनां नाङ्गीकृतवान् किम्?'' । ``मित्र, तव सूचनामनुसृत्य एव कृच्छ्रेण मन्मातृसदृशीं कन्यामेकां अवरयम् । सा मम मात्रे भृशमरोचत । परं तु किं कथयानि?'' नरदत्तः अवदत्, ``कुतः परं तु? कथय'' । देवदत्तः अवदत्, ``कन्या मम पित्रे न अरोचत खलु '' ।

७. दाम्पत्यम्-२

अक्बरमहाराजः अमात्यं बीरबलमवदत्, ``सखे, महाराजोऽप्यहं भार्याधीनः एव भवामि । अतः मम मनः दूयते । किं करवाणि?'' इति । बीरबलः प्रत्यवदत्, ``प्रभो, अत्र विचित्रं किम्? चिन्तनीयं किम्?'' इति । अक्बरः अपृच्छत्, ``किम् त्वमपि तव भार्याधीनः?'' इति । बीरबलः अब्रवीत्, ``निस्संशयं प्रभो अहं भार्याधीन एव । सर्वे गृहस्थाः भार्याधीना एव'' इति । ``कथमित्थं ब्रवीषि? अहं भवेयम्, त्वं भवेः, तत्कारणात् सर्वे गृहस्थाः भार्याधीना इति न सिद्ध्यति'' इति । बीरबलः अगदत्, ``आज्ञापयतु महाराजः, राजसभामामन्त्रयाव । सभ्यान् सर्वान् अस्मिन् विषये प्रष्टुमर्हति महाराजः । ``अक्बरेन बीरबलस्य सूचना अङ्गीकृता राजसभा च आमन्त्रिता । अक्बरः कुशलप्रश्नानन्तरं सभ्यान् अवदत्, ``भोः सभ्याः इदानीं राजमन्त्रणाय इयं सभा न आहूता । बीरबलः वदति, ``सर्वे गृहस्थाः भार्याधीना एव'' इति । अस्मिन् विषये मम संशयः अस्ति । अत एव यूयमत्र आहूताः । ये सभ्याः बीरबलस्य वाक्यमनुमोदन्ते ते मम वामपार्श्वे आगत्य निषीदन्तु । ये नानुमोदन्ते ते मम दक्षिणपार्श्वे आगत्य निषीदन्तु ``इति । बहवः राज्ञः वामपार्श्वे एकैकशः आगत्य न्यषीदन् । एक एव राज्ञः वामपार्श्वं न जगाम । अन्ततः सः शनैः चलन् राज्ञः दक्षिणपार्श्वमागत्य न्यषीदत् । विस्मितः राजा तमपृच्छत्, ``सखे, किमिदम्? त्वमेक एव बीरबलमतं नानुमोदसे?'' । सः मन्दं मन्दमुत्तरमब्रवीत्, ``प्रभो, एतद्विषये किमपि वक्तुं न समर्थोऽस्मि । मयि निर्गच्छति गृहात् मम भार्या मामवोचत्, ``कदापि जनवृन्दं मा प्रविश'' इति । अत एव अहं वामपार्श्वं नागच्छम्'' इति ।

८. दाम्पत्यम्-३

पतिपत्न्योः वाग्वादः अभवत् । कुपितः पतिः अवदत्, ``त्वयि विधाता इयत्सौन्दर्यं इयन्मौढ्यं च कुतः अयुजत् ?``इति । पत्नी अवदत्, ``श‍ृणु, विधाता तथा मामियतीं सुन्दरीमकरोत् यथा त्वं मां वृणुयाः । तथा मामियतीं मूढामकरोत् यथाहं त्वां वृणुयाम् ``इति ।

९. स्खलिताभिज्ञानम्-१

कदाचन देवदत्तः रात्र्यां बेङ्गलूरुनगरात् जालार्पेट्टैपुरं गन्तुं बेङ्गलूरु-चेन्नै रेल्-यानमारुरोह । रेल्-यानः जालार्पेट्टैपुरं रात्रौ एकवादनसमये उपागच्छति खलु । अतः सः रेल्-शयनकोष्ठ-निर्वाहकं प्रार्थयत्, ``अहं कुम्भकर्णवत् स्वपिमि । कृपया भवान् मां बलात् प्रबोध्य जालार्पेट्टैपुरे मम रेल्-यानात् अवरोहणे साहाय्यं करोतु '' इति । निर्वाहकः देवदत्तस्य प्रार्थनामन्वमन्यत, ``तथैव करोमि'' इत्यवदच्च । यदा परेद्युः प्रातः रेल्-यानः चेन्नैनगरीमागतः, तदा भ्रुकुटिं कृत्वा दन्तान् कटकटाय्य च इतस्ततः चलन्तं ``यदि मम दृष्टिपथं गतो भवति तं निर्वाहकं हनिष्यामि'' इति वदन्तं देवदत्तमितरे अपश्यन् । अन्यतमः अन्यमवदत्, ``असौ कुतः भ्रान्तचित्त इव इत्थमुच्चैर्जल्पन् अटति?'' इति । सः प्रत्यवदत्, ``अस्य विचित्रचेष्टितं न किञ्चित् खलु । प्रायेण त्वं जालार्पेट्टैपुरे निर्वाहकेन बलात् प्राबोधितं रेल्-यानात् निष्कासितं इतोऽप्यधिकमपभाषमाणं नरं नापश्यः'' इति ।

१०. विनोदप्रियता-१

नरसिंहः वयस्यैः सह न्यूयार्क् नगर्यां कस्मिन्श्चित् बहुभूमिसौधे पञ्चाशत्तम भूमौ निवसति स्म । कदाचित् ते यदा उद्योगात्स्वनिवासं प्रतिनिवर्तितुं प्रवृत्ताः तदा विद्युत्-भङ्गः अभवत् । अतः निवासं प्राप्तुं सौधस्य सोपानश्रेणिं पद्भ्यामेव आरुह्य गमनं तेषामनिवार्यमभवत् । सोपानश्रेणिमारोढुं प्रवृत्ताश्च । आरोहणायासपरिहरणाय एकैकः काञ्चन कथां श्रावयेत् इति तैः स्वीकृतः । नरसिंहं विहाय सर्वे यथाशक्ति कथाः श्रावयामासुः । नरसिंहस्तु अवदत्, ``अहं मम कथाम् आरोहणान्ते एव कथयामि । सा कथा भयावहा वर्तते '' इति । इतरे सममन्यन्त च । ते यदा आरोहणस्य अन्तिमदशां प्राप्ताः तदा नरसिंहमितरे अवदन्, ``मित्र, इदानीं तावत् तव कथां श्रावयसि कच्चित्?'' इति । नरसिंहः कथयति, ``भो वयस्याः, इयमेव मम कथा । द्वारतालकस्य (door-lock) उद्घाटकः (key) मम उद्योगस्थाने एव वर्तते । अहं तं मया सह आनेतुं विस्मृतवान्'' इति ।

११. मौढ्यम्-२

ताम्रकेशिन्यः ललनाः रूपवत्यः अपि मन्दबुद्धयः इति सर्वे आमनन्ति खलु । कदाचित् काश्चन ताम्रकेशिन्यः समेत्य कस्याञ्चित् प्रागल्भ्यस्पर्धायाम् भागमगृह्णन् । प्राश्निकः अन्यतमामपृच्छत्, ``१४ गुण्यः, । गुणकः, फलं किम्?'' । सा अवदत्, ``१४७'' । इतराः ताम्रकेशिन्यः एकस्वरे उच्चैरवदन्, ``प्राश्निकः अन्यं प्रश्नं पृच्छतु'' इति । तासां प्रार्थनां सम्मान्य प्राश्निकः तामपृच्छत्, ``द्विपञ्चाङ्कयोः संयोजनात् फलितम् किम्?'' । सा झटिति प्रत्युत्तरमदात्, ``पञ्चविंशतिः'' । पुनरपि सर्वा ताम्रकेशिन्यः उच्चैरभाषन्त, ``अन्यं प्रश्नं पृच्छतु'' । प्राश्निकः अपृच्छत्, ``एकस्य एकं संयोजय'' । सा विचिन्त्य अवदत्, ``द्वे'' । इतराः प्रसभं तारस्वरेण अवदन्, ``कृपया प्राश्निकः अन्यं प्रश्नं पृच्छतु'' ।

१२. स्खलिताभिज्ञानम्-२

काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, ``रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति '' । - युवा किञ्चिद्विहस्य अवदत्, ``आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः'' । - वृद्धा झटित्युवाच, ``तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!'' ।

१३. कॄपणता-१

ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी (lawyer) आसीत् । तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, ``आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान्'' इति । ब्रह्मदत्तः गम्भीरस्वरेण अवदत् । ``भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति?'' । किञ्चित्सम्भ्रान्तः देवदत्तः अवदत्, ``न विदितम्'' इति । ब्रह्मदत्तः पुनरुवाच, ``भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?''। देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, ``भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?'' । यावत् देवदत्तः ``भवतः क्षमां याचे । नितरां दुःखितोऽस्मि'' इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, ``यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?'' ।

१४. मद्यपानम्-१

कश्चन ब्रह्मदत्तनामा शुण्डापाने आत्मनः चषकस्य पुरतः उपविष्टः पानमपिबन्नेव चिन्तामग्नः आसीत् । अन्यः कश्चन विश्वदत्तनामा धूर्तः तं दृष्ट्वा सपदि तं पानमपिबत् । ब्रह्मदत्तः रोदितुं प्रारभत । विश्वदत्तः तं सान्त्वयितुमवदत्, ``भ्रातः, कुतः रोदिषि? अहं अन्यमेकं पानं तुभ्यं क्रीणामि । विनोदायैव खलु अहं तव पानमपिबम् ``इति । ब्रह्मदत्तः रुदन्नेव प्रत्यवदत्, ``भ्रातः, किं ब्रवीमि? आप्रातः अद्य मम महती दुर्दशा । प्रातः चिराय सुप्तः उद्योगालयं वेलामतिक्रम्य गतः । मम अधीक्षकः कुपितः उद्योगात् मां निष्कासितवान् । गृहं प्रतिनिवर्तितुमुद्यतः अहं याननिःस्थानमगच्छं यत्र मम यानः केनापि चोरेण मुषितः आसीत् । भाटकयानमेकमारुह्य गृहमगच्छम् । भाटकयाने एव अहं मम धनस्यूतमनवधानेन त्यक्तवान् । गृहं गतः विटपुरुषेण सह रममाणां मम भार्यामपश्यम् । विषण्णः किङ्कर्तव्यतामूढः शुण्डापानमागत्य प्राणत्यागार्थं विषपूर्णं चषकं पिपासामि । तदपि त्वं पिबसि । अहो धिङ्मां दुर्भाग्यम् । ''

१५. विनोदप्रियता-२

अहं साक्षात्करं (television) विलोकयन् आसम् । दूरवाण्याः घण्टा व्यनदत् । दूरवाण्यां ललना काचिदपृच्छत्, ``सुन्दरेण सह संलपितुमिच्छामि'' । अहमेकाकी वसामि, मम नाम सुन्दरो न । दूरवाणीसङ्ख्यास्खलनं व्यक्तमभवत् । तथापि विनोदाय तामहमवदम्, ``सुन्दरः अधुना अत्र नास्ति । सुन्दराय अपि कश्चित्सन्देशः?'' सा अवदत्, ``सुन्दरः कदा पुनरागमिष्यति?'' ``प्रायेण दशवादनसमये आगमिष्यति'' ``भवान् श्यामः किम्?'' मम नाम श्यामः न । तथाप्यहमवदम्, ``बाढम्, अपि कश्चित् सन्देशः सुन्दराय?'' ईषद्प्रक्षुब्धवाण्या सा अवदत्, ``सः मामवादीत्'', ``अद्य रात्र्यां गृहे एव तिष्ठामि । मया सह दूरवाण्यां संलप'' इति । '' । अहमवदम्, ``सः एकहोरायाः प्राक् रेखया सह विहर्तुमगच्छत्'' भूयोऽपि क्रुद्धा सा अवदत्, ``रेखा का?'' ``सा तस्याः प्रियवयस्या'' । ``तदवगतम् । परन्तु सा का?'' ``अहं न जाने । अपि कश्चित् सन्देशः सुन्दराय? '' ``कृपया तं वक्तुमर्हसि, ``गृहमागतः सः मया सह दूरवाण्यां संलपतु'' इति'' ``अपि भवती श्यामा?'' अहमपृच्छम् । ``श्यामा का?'' तस्याः कोपः परां काष्ठां प्राप । ``सः श्यामया सह दशवादनात् पश्चात् विहर्तुं गमिष्यति । क्षमां याचे । भवती श्यामा इत्यचिन्तयम् । '' ``सुन्दरः क्षमां याचेत न भवान् । भवान् कृपया सुन्दरं वक्तुमर्हति, ``शीला दूरवाण्यां अवादीत् यत् त्वं तया सह संल्लपितुमर्हसि इति'' । सपदि तया सम्पर्कः त्रुटितः । ईश्वरः निर्दोषं सुन्दरं रक्षतु मां क्षमतां च ।

१६. दाम्पत्यम्-४

न्यायाधीशः: कच्चित् स्वीकुरुषे यत् त्वम् चतुर्वारं परिधानविपण्याः चोरयितुं अन्तरगच्छः? अभियुक्तः: बाढम्, प्रभो । न्यायाधीशः: त्वं किमचोरयः? अभियुक्तः: परिधानमेकम्, प्रभो । न्यायाधीशः: चतुर्वारं त्वं भित्तिं भङ्क्त्वा विपण्याः अन्तरगच्छः, कथमेकं परिधानमेव अचोरयः । अभियुक्तः: किं करवाणि? त्रिवारं मुषितपरिधानवर्णः मम पत्न्यै नारोचत ।

१७. वाक्चातुर्यम्-१

प्रथितभौतशास्त्रज्ञः ऐन्श्टैनः सापेक्षतावादमधिकृत्य वारं वारं नैकविद्यालयेषु सभाङ्गणेषु भाषते स्म । सभायां ऐन्श्टैने भाषमाणे तस्य कार्-यानस्य सारथिः सभाङ्गणस्य कस्मिंश्चन पीठे एव उपविशति स्म । गच्छत्सु दिनेषु ऐन्श्टैनस्य भाषणवाक्स्रोतः सारथेः कण्ठगतमभवत् । कार्-यानेन कदाचन तयोः सभाङ्गणं गच्छतोः, सारथिः ऐन्श्टैनमवदत्, ``आर्य, यदा भवान् क्लान्तः तदा अहमेव भवतः भाषणं कर्तुं यते।'' ऐन्श्टैनः अवदत्, ``तथास्तु, अद्य एव मम स्थाने मम परिधानं परिधाय त्वमेव भाषस्व । अहं तव परिधानं परिधाय सभायां उपविशामि । ``तौ तथैव अकुरुताम् । सारथिः मनागपि स्खलनम् विना बभाषे । भाषणानन्तरं कश्चन सभ्यः कठिनं प्रश्नमेकमपृच्छत् । सारथिः असम्भ्रान्तः तत्क्षणमेव ``आर्य, तव प्रश्नः अतीव सरलः । मम सारथिरपि उत्तरं दातुं समर्थः,'' इति वदन् ऐन्श्टैनं अङ्गुल्या निरदिशत् ।

१८. दाम्पत्यम्-५

वृद्धौ बयस्यौ परस्परम् संलपन्तौ आस्ताम् । ``देवदत्त, अहो कालस्य महिमा, अस्मद्वयस्येषु बहवो दिवं गताः । परन्त्वहं अस्मद्वयस्यस्य ब्रह्मदत्तस्य मरणं भूयो भूयो शोचामि ।'' ``कुत इत्थं, वयस्य ?'' ``ब्रह्मदत्ते उपरते अहं तस्य विधवां पर्यणयं खलु ।''

१९. वाक्चातुर्यम्-२

चन्द्रदत्तसूर्यदत्तौ वयस्यौ पादकन्दुकक्रीडासक्तौ परस्परं संलपन्तौ आस्ताम् । चन्द्रदत्तः: वयस्य, अपि स्वर्गे पादकन्दुकक्रीडा प्रचलति ? सूर्यदत्तः: न जाने, परन्तु यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं तदा तत्र सा क्रीडा प्रचलति न वा इत्युदन्तं तुभ्यम् आगत्य निवेदयामि । चन्द्रदत्तः: बाढम्, यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं अहमपि तथैव करोमि । विधिवशात् सूर्यदत्तः चन्द्रदत्तात् पूर्वं दिवमगात् । कतिपयदिवसानन्तरं सूर्यदत्तः चन्द्रदत्तस्य प्रत्यक्षमभवत् । चन्द्रदत्तः । वयस्य, स्वर्गादागतः किम्? सूर्यदत्तः :बाढम् चन्द्रदत्तः: स्वर्गे का वार्ता? तत्र पादकन्दुकक्रीडा प्रचलति किम्? सूर्यदत्तः: वयस्य, तुभ्यं वार्ताद्वयमानयामि । एका शुभा अन्या अशुभा । चन्द्रदत्तः: स्वर्गे पादकन्दुकक्रीडा प्रचलतीति शुभा वार्ता । सूर्यदत्तः । तुष्टोऽस्मि । का भवेदशुभा वार्ता ? चन्द्रदत्तः । आगामिनि रविवासरे तत्र त्वं क्रीडिष्यसि ।

२०. मद्यपानम्-२

रत्नदत्तः शुण्डापानं गत्वा पानमेकमक्रीणात् । चषकात् किञ्चित् पानं पीत्वा शेषं पानं पानहरस्य मुखे प्राक्षिपत् । यावत् पानहरः चकितः सम्भ्रान्तश्च वक्तुमुद्यतः तावदेव रत्नदत्तः रोदितुं प्रारभत पानहरमवदच्च, ``सखे, तव क्षमां याचे । किं करवाणि । एतत् दुष्कर्म महता यत्नेनापि रोद्धुमशक्तोऽहम् । पाने पाने एवमेव करोमि । परां व्रीडामनुभवामि रोदिमि च । जनाः कथयन्ति एषः मानसिकव्याधिः इति । ``पानहरः स्नेहशीलः अनुभवी च तमवदत्, ``आर्य, मा शुचः । मनोवैद्यमेकमहं जानामि । तेन सङ्गम्य तस्य उपदेशं प्राप्नुहि । शुभं भूयात्'' इति । रत्नदत्तः वैद्यस्य नामधामविशेषान् पानहरात् लब्ध्वा तस्य उपकृतिं प्रशस्य शुण्डापानात् निरगच्छत् । गतेषु कतिपयमासेषु यदा रत्नदत्तः पुनरपि तदेव शुण्डापानमागतः तदा तं पानहरः अभ्यजानात् तमवदच्च, ``आर्य, अपि त्वं तं मनोवैद्यमगच्छः?``रत्नदत्तः जगाद, ``बाढं सखे । त्वयाहं भूर्युपकृतोऽस्मि । मम व्याधिः निरस्तः'' इति । पानहरः प्रीतोऽभूत् । रत्नदत्तः यथापूर्वं पानं क्रीत्वा पातुं प्रारभत । किञ्चित् पीत्वा चषके अवशिष्टं पानं यथापूर्वं पानहरस्य मुखे प्राक्षिपत् । पानहरः दिग्भ्रान्तः रुष्टश्च अभाषत, ``आर्य किमिदम्? पुनरपि मम मुखे पानं प्रक्षिपसि? व्याधिः निरस्तः इति च वदसि?`` । रत्नदत्तः शान्त एव अवदत्, ``अथ किम् । इदानीं तु यथापूर्वं कुर्वन्नपि अहं व्रीडितो न भवामि न रोदिमि च ।''

२१. मौढ्यम्-३

अमरसिंहः वयस्येन सह कदाचन देवालयं गतः । सर्वे पादुके अवतार्य देवालयं प्रविशन्ति खलु । पादस्यूतपादुकाधारी अमरसिंहस्तु पद्भ्यां पादस्यूतौ (socks) च अवतार्य देवालयं प्रविष्टः । पादस्यूतयोः एकः कृष्णवर्णः अपरः रक्तवर्णश्च आस्ताम् । वयस्यः तौ दृष्ट्वा अमरसिंहमपृच्छत्, ``मित्र, किमिदम्? एकः पादस्यूतः कृष्णवर्णः अन्यः रक्तवर्णश्च भवतः ?'' अमरसिंहः उत्तरमदात्, ``सखे, न जाने कथमित्थमभूदिति । मम गृहेऽपि सदृशौ पादस्यूतौ स्तः ययोः एकः रक्तः अन्यः कृष्णश्च'' ।

२२. बालचेष्टा-२

कश्चन सज्जनः मुहुर्मुहुः उत्प्लवन्तं द्वारघण्ठासङ्घट्टने सततं प्रयतन्तम् कमपि वामनं बालकं कस्यचिद्गृहस्य पुरतः अपश्यत् । बालकस्य साहाय्यार्थं सः सज्जनः तत्समीपं गत्वा द्वारघण्ठां समघट्टयत्, आत्मनः सुकृत्या नितरां प्रीतश्च तमवदत्, ``तव ईप्सितं प्राप्तं खलु । अद्य किं करवाव?'' इति । किशोरः ``किं करवाव? आवां द्रुतं धावाव'' इत्युच्चैर्वदन् सपद्येव अधावत् ।

२३. दाम्पत्यम्-६

कश्चन पुरुषः तस्य वैद्यमवदत्, ``मम भार्यायाः श्रवणसूक्ष्मता क्षयं जिगमिषतीव भाति । किं करणीयम्?'' वैद्यः प्रत्यवदत्, ``भवान् प्रथमतः इमां परीक्षां करोतु । महानसे किमपि कार्यं कुर्वत्याः तस्याः पश्चात् विंशतिहस्तदूरे स्थितः भवान् तां प्रश्नमेकं पृच्छतु । सा यदि प्रत्युत्तरं न ददाति तदा दशहस्तदूरे स्थितः तमेव प्रश्नं पृच्छतु । तदापि सा प्रत्युत्तरं न ददाति चेत् तदा पञ्चहस्तदूरे स्थितः तमेव प्रश्नं पृच्छतु । यावत् सा प्रत्युत्तरं न ददाति तावत् इत्थं तस्याः समीपं गच्छन् प्रश्नमावर्तयतु । तदा तस्याः श्रवणसूक्ष्मता कियतीत्यवगता भवति । '' पुरुषः गृहं गत्वा महानसे अन्नं पचन्त्याः भार्यायाः पश्चादेत्य विंशतिहस्तदूरे स्थितः अपृच्छत्, ``प्रिये, अद्यावयोःअशनाय किम् ``इति । यदा सा न प्रत्यवदत् सः पञ्चदशहस्तदूरे स्थितः तमेव प्रश्नमपृच्छत् । सा तदापि न प्रत्यवदत् । दशहस्तदूरे स्थितः प्रश्नमपृच्छत् । पञ्चहस्तदूरे स्थितः प्रश्नमपृच्छत् । यदा द्विहस्तदूरे स्थितः प्रश्नमपृच्छत् तदा तस्याः उत्तरमश‍ृणोत्, ``त्रिवारमहमकथयम्, ``अद्य कदलीशाकसमन्वितंसूपम् दध्यन्नं च इति'' । तव श्रवणसूक्ष्मता शोचनीया खलु'' ।

२४. वाक्चातुर्यम्-३

एकदा केचन जनाः विमाने प्रयान्ति स्म । मध्येमार्गं विमानस्य यानयन्त्रे दोषः समपद्यत । पतनभीतिः प्रादुरभूत् । आपत्काले विमानकञ्चुकी सर्वेषां प्राणरक्षककञ्चुकान् वितरति खलु । तथैव विमानकञ्चुकी यथाविधि वितरणार्थं कञ्चुकान् सङ्ख्याय सर्वान् इत्थमवदत्, ``भोः, निवेदितुं दुःखितोऽस्मि यत् विमानपतनभीतिरस्ति । अत्र कश्चित् धर्मनिष्ठः अस्ति किं यः ईश्वरं भक्त्या प्रार्थयितुं शक्तः?'' सज्जन एकः अवदत्, ``अहं धर्मनिष्ठः दैवभक्तश्च । अहं सर्वेषां क्षेमाय ईश्वरं प्रार्थयामि'' इति । विमानकञ्चुकी तं सज्जनमवदत्, ``आर्य, कृतज्ञोऽस्मि । अत्र वयं एकविंशतिः स्मः । परन्तु प्राणरक्षककञ्चुकास्तु विंशतिरेव सन्ति । कृपया भवान् आत्मनः क्षेमाय ईश्वरं प्रार्थयतु । अन्येभ्यः अहं कञ्चुकान् वितरामि'' इति ।

२५. श्वश्रूः-स्नुषा-२

स्नुषाः श्वश्रुवः परस्परं बहुमानेन न अवलोकयन्ति इति प्रथा अस्ति खलु । तां प्रथां प्रत्याख्यातुं काश्चन स्नुषाः श्वश्रुवः योजनामेकामरचयन् । योजना सर्वाः दूरस्थितं देवालयमेकं सन्दृश्य तत्र श्वश्रूणां स्नुषाणां परस्परं प्रीतिपूर्वकवृत्त्यर्थम् ईश्वरं प्रार्थयिष्यन्ति इत्येषा आसीत् । परन्तु श्वश्रुवः एकेन बस्-यानेन देवालयं गता स्नुषाः अन्येन बस्-यानेन गताः । विधिवशात् श्वश्रूणां यानं दुर्घटनाग्रस्तमभवत् सर्वाः बस्-यानस्थितश्वश्रुवः मृताश्च । स्नुषाः दुःखदां वार्तामश‍ृण्वन् अश्रूण्यमुञ्चन् च । परन्तु एका स्नुषा प्रभूतं रोदितुं प्रारभत । अन्याभिः सान्त्वनं निष्फलमभवत् । ``कुतः इयतीं यातनामनुभवसि इति पृष्टा सा प्रत्यवदत्, ``मम श्वश्रूः तद्याने न प्रातिष्ठत गृहे एव तिष्ठति'' इति । - - - -

२६. दाम्पत्यम्-७

दम्पती कलहमकुरुताम् । पश्चात् परस्परं मौनमाचरताम् । अपरेद्युः पतेः सूर्योदयात् प्रागेव उद्योगाय गमनं समपद्यत । अतः तस्य प्रातःप्राबोधनार्थं पत्नीं प्रति प्रार्थना आवश्यकी अभवत् । तथापि तां प्रति मौनं भङ्क्तुं नैच्छत् । अतः रात्रौ तस्यै पत्रकमेकमलिखत्, ``मां प्रातः पञ्चवादनसमये प्राबोधय'' इति । तं पत्रकं तस्याः उपधानस्य उपरि न्यवेशयत् । अपरेद्युः यदा पतिः जागृतः तदा अष्टवादनसमयः आसीत् । यावत् क्रुद्धः पत्नीं पिप्रच्छिषुरासीत् तावदेव आत्मनः उपधानस्य निकटे पत्रकमेकमपश्यत् । तस्मिन् पत्न्या लिखितमासीत्, ``इदानीं पञ्चवादनसमयः जागृहि'' इति ।

२७. वाक्चातुर्यम्-४

कदाचित् आङ्ग्ललोकसभायां कश्चन सभ्यः भाषणं कुर्वतीं सभ्यामुद्दिश्य इत्थमवदत्, ``यद्यहं भवत्याः पतिरभविष्यम् तदा भवत्यै विषमदास्यम्'' । सा सभ्या सपद्येव प्रत्यवदत्, ``महोदय, अथ किम्, यदि भवान् मम पतिरभविष्यत् निस्संशयमहं सहर्षं तद्विषमपास्यम्'' इति ।

२८. बालचेष्टा-३

कश्चित् पोगण्डः तस्य अनुजेन अर्भकेन सह गृहाद्बहिः खेलति स्म । सहसा अर्भकः उच्चैः रोदितुं प्रारभत । तयोः पितामहः गृहाद्बहिरागत्य तं पोगण्डमवदत्, ``अर्भकं किमर्थं रोदयसि? सः यद्वाञ्छति तद्देहि'' इति । पोगण्डः प्रत्यवदत्, ``अर्भकः आतपे शोषणार्थं निवेशितं रक्तं मरिचं वाञ्छितवान् । तस्मै तमहं दत्तवान् । सः मरिचं वदने निक्षिप्य इदानीं रोदिति'' इति ।

२९. वाक्चातुर्यम्-५

कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च । इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, ``अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? ``इति । अन्यः देवदत्त नामा अवदत्, ``अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि'' इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, ``भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः'' इति । सा भ्रुमुटिं कृत्वा झटित्यवदत्, ``वद तं मृतिं यातु ``इति । देवदत्तः प्रसह्य ``भवति तथैव निवेदयामि ``इति वदन् तस्याः गृहात् निष्क्रान्तः ।

३०. शितबुद्धिः-१

बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, ``भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि । ``पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, ``बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति'' इति । बालकः अवदत्, ``सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, ``तव श्मश्रुसंस्कारं कारयामि । मया सह आगच्छ'' इति । अतः तेन सह अहमागतः'' इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु ।

३१. वाक्चातुर्यम्-६

प्रसिद्धलेखकः जार्ज् बर्नार्ड् षावर्यः कदाचित् प्रसिद्धराजनयप्रसक्ताय विन्स्टन् चर्चिलाय आत्मनः नाटकस्य प्रथमप्रदर्शनं द्रष्टुं प्रवेशपत्रं प्राहिणोत् । चर्चिलः षावर्याय उत्तरपत्रमलिखत् । ``अनुगृहीतोऽस्मि । परन्तु अनवधानात् प्रथमप्रदर्शनं द्रष्टुं न शक्नोमि । भवतः नाटकस्य द्वितीयप्रदर्शनं भवेद्यदि अहं तद्द्रष्टुमिच्छुः अस्मि । ``अभिभूतः षावर्यः द्वितीयप्रदर्शनार्थं चर्चिलाय द्वे प्रवेशपत्रे प्राहिणोत् इत्थमलिखच्च, ``महोदय, द्वे प्रवेशपत्रे प्रेषिते । यदि भवतः कोऽपि सुहृत् भवेत् तमपि आनयतु'' इति ।

३२. दाम्पत्यम्-८

केचन स्त्रियौ समलपताम्: एका । अहं नितरां क्लान्ता । सदैव मम भर्त्रा सह कलहः सम्भवति । अतः मम भारः दशकिलोमितः न्यूनतरः जातः । अन्या । दुःखिताऽस्मि । कुतस्त्वं विवाहविच्छेदं न कुर्यात्? एका । अधुनैव न । मम भारः अद्यापि समुचितभारात् दशकिलोमितः अधिकतर एव वर्तते ।

३३. दाम्पत्यम्-९

येन चोरेण स्वगृहे भित्तिचौर्यं कृतं सः आरक्षकैः बद्धः वर्तते इति वार्तां श्रुत्वा कश्चन पुरुषः आरक्षकालयं गत्वा आरक्षकमवदत्, ``भोः, अहं चोरेण सह संलपितुमिच्छामि ``इति । आरक्षकेन किमर्थमिति पृष्टः सः प्रत्यवदत्, ``चोरं प्रष्टुमिच्छामि, ``मम भार्यां प्रबोधयन् विना रात्रिमध्यं कथं त्वं गृहं प्रवेष्टवान् । अहं चिरकालात् तथा कर्तुमशक्तोऽस्मि ``इति ।

३४. वाक्चातुर्यम्-७

कश्चित् दीनः याचकः पथि देवसिंहं यत्किञ्चिद्धनमयाचत । देवसिंहः । यदि द्वे रूप्यके तुभ्यं ददामि तदा त्वं पानशुण्डां गत्वा मद्यं क्रीणासि किम्? याचकः । न कदाचित्, प्रभो । देवसिंहः । देवनगृहे धनस्य पणसे किम्? याचकः । न कदाचित्, प्रभो । देवसिंहः । कृपया मया सह मद्गृहमागच्छ । मद्येन विना देवनेन विना नरस्य का अवस्था भवतीति मम भार्या पश्यतु ।

३५. दाम्पत्यम्-१०

भार्या महानसे इतस्ततः परिभ्रमन्तं मक्षिकाहनने उद्यतम् भर्तारमपश्यत् । भार्या: किं कुरुषे? भर्ता: मक्षिकाहनने उद्यतोऽहम् । भार्या: सफलः अभूः कच्चित् ? भर्ता: निस्संशयम् । पञ्चमक्षिकाः अवधिषम् । तासु तिस्रः मक्षिकावधूः । भार्या: स्त्रीपुरुषविवेकः कथमभूत्? भर्ता: सः स्पष्ट एव । तिस्रः दूरभाषायन्त्रस्य उपरि स्थिताः द्वौ मद्यचषकस्योपरि स्थितौ ।

३६. वाक्चातुर्यम्-८

काचन ललना विपणिवीथ्यां गच्छन् विपण्यां पञ्जरस्थं शुकमेकमपश्यत् । शुकस्य सौन्दर्यमनुभवन् तत्रैव क्षणमात्रं तस्थौ । शुकः तामवदत्, ``भवति, कुरूपासु प्रथमा खलु भवती'' इति । अतिकुपिता सा भ्रुकुटिं कृत्वा द्रुतं स्वोद्योगाय निर्जगाम । यदा सा सायमुद्योगात् प्रतिन्यवर्तत तदापि तं शुकमपश्यत् । तदापि शुकः तामवदत्, ``भवति, कुरूपासु प्रथमा खलु भवती'' इति । परेद्युः यदा सा स्वोद्योगाय गच्छन् तं शुकमपश्यत्, स शुकः पुनरुवाच, ``भवति, कुरूपासु प्रथमा खलु भवती'' इति । अतीव कुपिता सा तद्विपणिं प्रविश्य आपणिकमवदत्, ``अयि, भोः, तव शुकः दुर्वचांसि वदति । यदि सः पुनरपि यदि तथैव कथयति अहं राजभटे अभियोगं दास्यामि'' इति । आपणिकः तस्याः क्षमामयाचत अवदच्च, ``भवति, अद्यप्रभृति सः शुकः दुर्वचांसि यथा त्वां न भणति तथा करोमि'' इति । सायमुद्योगात् प्रतिनिवर्तनसमये सा सकुतूहलं तं शुकमपश्यत् । तदा शुकः अवदत्, ``आर्ये'' इति । सा भ्रुकुटिं कृत्वा प्रत्यवदत्, ``ततः किम्'' । सः शुकः सगर्वमभणत्, ``मम कथनेन किम्? भवती वेत्ति खलु'' इति ।

३७. वैद्यः-१

वृद्धौ स्ववैद्ययोः विषये संलपतः स्म । प्रथमः अवदत्, ``भोः, तव वैद्यः विश्वासानर्हः । कस्मैचिद्रुग्णाय सः मूत्रपिण्डव्याधिनिवारणार्थं औषधानि प्रायच्छत् । स रुग्णः पित्थकोशव्याधिना मृतः खलु'' इति । द्वितीयः अवदत्, ``तव वैद्यस्य विषये किं भणसि?'' इति । प्रथमः प्रत्यवदत्, ``यदि मम वैद्यः तुभ्यं मूत्रपिण्डव्याधिनिवारणाय औषधानि प्रदास्यति, तदा त्वं निस्संशयं मूत्रपिण्डव्याधिना एव मरिष्यसि'' इति ।

३८. दाम्पत्यम्-११

अमेरिकादागतौ दम्पती अरब्-देशे प्रयातः स्म । तत्र कश्चन अरब्-देशस्थः तौ दृष्ट्वा भर्तारमवदत्, ``भोः, उष्ट्राणां शतं तुभ्यं दास्यामि । त्वं तव स्त्रियं मह्यं देहि'' इति । चिरेण विचिन्त्य भर्ता तमवदत् । ``मम स्त्रियं न दास्यामि । सा विक्रयाय न भवति'' इति । कुपिता भार्या भर्तारमवदत्, ``कुतस्त्वं तद्वक्तुं चिरेण विचिन्तयसि?'' इति । भर्ता प्रत्यवदत्, ``इतः अमेरिकामुष्ट्राणां शतं कथं नेष्यामि इत्यचिन्तयम्'' इति ।

३९. विनोदप्रियता-१

मद्यपानजनितदुष्परिणामानां विषये कश्चन प्राज्ञः सभायां भाषते स्म । सः सर्वेषां बोधयितुं प्रयोगमेकमकरोत् । चषकं मद्येन पूरयित्वा चञ्चलं कृमिमेकं तस्मिन् न्यक्षिपत् । कृमिः तूर्णमम्रियत । तदा सभामुद्दिश्य अभाषत । ``आर्याः, कथयत, अस्मात् प्रयोगात् किमवगतम्?'' । धर्मदत्तः झटित्युत्थाय अवदत्, ``भोः, इदं सुस्पष्टम् । मद्यपानं कृमिरोगं रुणद्धि``इति ।

४०. शितबुद्धिः-२

कृषीवलः कृच्छ्रेण गोडुम्बानवर्धयत् परन्तु चोराः पक्वानि गोडुम्बानि (water melons) चोरयन्ति स्म । चोरान् निरोद्धुं सः दारुफलके ``सावधाना भवेत, अत्र गोडुम्बनिवहे किञ्चनगोडुम्बं विषपूरितं वर्तते'' इति लिखित्वा दारुफलकं क्षेत्रस्य पुरतः अस्थापयत् । न कोऽपि पक्वानि फलान्यचोरयत् कृषीवलः कृतार्थः प्रीतः अभवच्च । परन्तु कतिपयदिनेषु गतेषु यदा कृषीवलः क्षेत्रमगच्छत् तदा तत्र फलके, ``सावधाना भवेत । इदानीमस्मिन् क्षेत्रे द्वे फले विषपूरिते स्तः'' इति लिखितं दृष्ट्वा दिङ्मूढः अभवत् ।

४१. दाम्पत्यम्-१२

तस्मिन् दिवसे वृद्धदम्पत्योः विवाहादनन्तरं पञ्चाशद्वर्षाः गताः आसन् । दम्पती औत्सुक्येन सम्भ्रमेण च तदवसरमुत्सवरूपेण आचरतः स्म । सायमीश्वरं प्रार्थयितुं देवालयं गतौ । प्रीतः ईश्वरः प्रत्यक्षो भूत्वा ताववदत्, ``भोः, युवयोः अन्योन्यप्रेम्णा प्रीतोऽस्मि । युवां पृथक् पृथक् वरमेकं याचेथाम् । ``पत्नी प्रथमं वरमयाचत, ``प्रभो, अहं मम पत्या सह जगत्पर्यटनं कर्तुमिच्छामि'' इति । ईश्वरः प्रत्यवदत्, ``तथास्तु, पत्युराशा तु का'' इति । झटिति चपलचित्तः पतिरवदत्, ``प्रभो, वयसि मत्तः त्रिंशत्वर्षैः न्यूनां भार्यां वाञ्छामि'' इति । ``तथास्तु । श्वः प्रभाते युवयोः वाञ्छे फलिष्यतः'' इति वदन् ईश्वरः अन्तर्दधे । पत्नी नितरां दुःखिता अभवत्, पतिः नितरां हृष्टोऽभवत् । पृथक् पृथक् पर्यङ्के सुप्तवन्तौ कथमपि रात्रिमनयताम् । शर्वर्यां प्रभातायां कोऽपि दूतः जगत्पर्यटनाय ताभ्यां विमानानुमतिपत्रमानयत् । पत्नी एव उत्थाय यानानुमतिपत्रं जग्राह । वृद्धः पतिः पर्यङ्कादुत्थातुं न शशाक । हन्त, सः पत्न्याः वयसि त्रिंशद्वर्षैः ज्यायान् समभवत् खलु ।

४२. देवनम्-१

देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च । ``देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि''। देवसिंहः, ``यथाज्ञापयत्यार्यः'' इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, ``आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः'' । अधीक्षकः विहस्य अवदत्, ``मया सह किं देवनम्? कः पणः?'' । देवसिंहः झटित्यवदत्, ``आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्?'' । चकितः अधीक्षकः अवदत्, ``किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति''। देवसिंहः प्रत्यवदत्, ``आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परन्तु इदानीमेव परीक्षा भवेत् । ``अधीक्षकः मनस्येव अचिन्तयत्, ``मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं सिद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि । ममापि सहस्रं रूप्यकानां लाभो भवति'' । ``देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति?'' इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, ``हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि'' इति ।

४३. हास्यकृच्छ्रः-१

शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम् उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, ``भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, ``मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति'' इति । शुश्रूषिका प्रत्यवदत्, ``भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु?'' इति । ब्रह्मदत्तः प्रत्यवदत्, ``भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु!'' इति ।

४४. वाक्चातुर्यम्-९

कस्मिन्श्चिद्ग्रामे ``प्रह्लादचरित्रम्''नाम नाटकं नाट्यते स्म । तत्र ब्रह्मदत्तदेवदत्तौ हिरण्यकशिपुप्रह्लादपात्रधारिणौ आस्ताम् । केनापि कारणेन नाटकप्रयोजकेन हिरण्यकशिपुपात्रधारिणे ब्रह्मदत्ताय देयं मासिकवेतनं न दत्तम् । अतः ब्रह्मदत्तः कुपितः आसीत् । सायं नाटके नाट्यमाने विष्णोः । प्रत्यक्षीकरणाङ्कः प्रचलन्नासीत् । ब्रह्मदत्तेन, ``बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत्, सः अस्मिन् स्तम्भेऽप्यस्ति किम्?'' इति रङ्गस्य वामस्तम्भं दर्शयन् भणितव्यमासीत् । प्रह्लादपात्रधारिणा देवदत्तेन, ``निस्संशयम्, तात'' इति भणितव्यमासीत् । तदा झटिति वामस्तम्भान्तर्हितविष्णोः प्रादुर्भावः भाव्यः आसीत् । कुपितः ब्रह्मदत्तस्तु वामस्तम्भस्थले दक्षिणस्तम्भं दर्शयन्, ``बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत् सः अस्मिन् स्तम्भेऽप्यस्ति किम्'''' इत्यपृच्छत् । दिग्भ्रान्तोऽपि प्रह्लादपात्रधारी देवदत्तः प्रत्युत्पन्नमतिः अवदत्, ``तात, विष्णुः तस्मिन् स्तम्भे नास्ति । अस्मिन् स्तम्भे अस्ति'' इति वदन् वामस्तम्भमदर्शयत् ।

४५. वाक्चातुर्यम-१०

सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, ``दशमीटर्-मितवस्त्राय कति रूप्यकाणि?''। युवा स्मितवदनः अवदत्, ``सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयात् ``इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, ``बाढम्, दशमीटर्मितं वस्त्रं देहि'' इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, ``अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति'' इति ।

४६. दाम्पत्यम्-१३

मातुलः । ``वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः '' । स्वस्रीयः । ``आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता '' मातुलः :``जानामि, वत्स, अत एव ब्रवीमि, ``अद्यैव तव आनन्ददायकदिवसेषु महत्तमः'' इति । ''

४७. हास्यकृच्छ्रः-२

विमानानि उड्डयनात् प्राक् उड्डयनावश्यवेगं प्राप्तुं तदर्थरचितमार्गे कतिचननिमिषपर्यन्तं प्रद्रवन्ति खलु । एकदा विमानमित्थं प्रद्राव्य एकघण्ठावेलामतिक्रम्य भूतले एव स्थगितः अभवत् । तदनन्तरं विमानमुदडयत । विमानस्थः यात्रिकः गगनसखीमपृच्छत् । ``कुतः विमानमित्थं स्थगितमभवदिति । गगबसखी प्रत्युवाच, ``उड्डयनपूर्वधावने विमानचालकः विमानयन्त्रे असामान्यशब्दमश्रौषीत् । अपरं विमानचालकमानेतुं विलम्बः अभवत्'' इति ।

४८. वाक्चातुर्यम्-११

काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, ``वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्?''। ``अहं कञ्चन प्रथितं वैद्यं वेद्मि । परन्तु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम्,'' इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् । मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, ``आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते,'' इति । वैद्यः प्रगल्भतरः अवदत्, ``भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम्'' इति ।

४९. दाम्पत्यम्-१५

काचन कन्या वृत्तपत्रिकायां विज्ञापनामेकां प्रकाशितवती । ``पतिमेकं वाञ्छामि'' इति । अपरेद्युः शतानि पत्राणि तया स्वीकृतानि । सर्वेषु पत्रेषु इदमेव निवेदितम्, ``मम पतिं स्वीकुरु'' ।

५०. शितबुद्धिः-३

कदाचन कृपणः वणिक् ब्रह्मगुप्तः तस्य मित्राय धनिकाय देववर्मणे रक्तं प्रदाय मरणोन्मुखाय तस्मै जीवदानमकरोत् । कृतज्ञः देववर्मा अमूल्यं मर्सिडीस्-कार्-यानम् उपायनरूपेण ब्रह्मगुप्ताय ददौ । ब्रह्मगुप्तः नितरां तुष्टः अभवत् । पुनः देववर्मा रुग्णः अभवत् । तस्मै रक्तदानमवश्यमभवत् । पुनरपि ब्रह्मगुप्तः सहर्षं मित्राय देववर्मणे रक्तं ददौ । इदानीं तु देववर्मा मित्राय ब्रह्मगुप्ताय किमपि उपायनं न ददौ । अतुष्टः ब्रह्मगुप्तः देववर्माणमवदत्, ``कथमिदम् । तदानीम् तु कार्-यानमुपायनं अददः । इदानीं तु किमपि न ददासि?'' । देववर्मा प्रत्यवदत्, ``क्षमस्व माम् । इदानीं तु मम देहे प्रभूतं तव रक्तं प्रवहति खलु'' ।

५१. वाक्चातुर्यम्-११

भार्या: यद्यहं दिनपत्रिका अभविष्यम् तदा सदा तव हस्तयोः अस्थास्यम् । भर्ता । निस्संशयम् प्रिये, यदि मम भार्या दिनपत्रिका अभविष्यत् तदा प्रत्यहं सा नवा अभविष्यत् ।

५२. वार्धक्यम्-१

काचन वृद्धा बेङ्गलूरु नगरस्य रेल्-निःस्थानस्य वेदिकायां स्थिता निकटे स्थितं कञ्चन पुरुषमपृच्छत् । वृद्धा: ``भोः, मैसूरुनगरं प्रति रैल्-यानं निष्क्रान्तं किम्?'' पुरुषः: ``बाढम्'' । वृद्धा: ``शिमोग्गानगरात् रैल्-यानमागतं किम्?'' पुरुषः:''बाढम्'' । वृद्धा: ``चेन्नै नगरं प्रति रैल्-यानं निष्क्रान्तं किम्? पुरुषः ``मातः, अहं न जाने । त्वया कुत्र गन्तव्यम्?'' वृद्धा: ``पुत्र, लोहपथं तर्तुं वाञ्छामि । ''

५३. दाम्पत्यम्-१६

काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, ``भोः, किमिदं कृतं भवता? यदा भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम्'' इति । वैद्यः प्रतिवदति, ``देवि, मया किञ्चिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु ``इति ।

५४. हास्यकृच्छ्रः-३

द्वौ नरौ स्वर्गद्वारे सममिलताम् तथा मिथः समभाषेताम् । प्रथमः अवदत्, ``तव मरणं कथमभूत् ?'' द्वितीयः: ``शैत्यसाधने (refrigerator) मृतः अभूवम् । कथमभूत् तव मरणम्?'' प्रथमः । ``मम पत्नी केनापि परपुरुषेणसह रमते इति सन्दिह्य अपराह्ने तस्यै पूर्वसूचनं न ददन् अहम् उद्योगालयात् गृहं प्रतिनिवृत्तः । सा शय्यागारे एकाकिनी प्रसाधने निरता मया दृष्टा । प्रबलशङ्काबाधितेन मया मम सौधे । प्रथमतलात् आचतुर्थतलं प्रसभं सोपानमारुह्य सर्वासु कक्ष्यासु मार्गणं कृतम् । कुत्रापि न कोऽपि मम दृष्टिपथं गतः । नितरां क्लान्तः पञ्चमतलमारोढुं सोपाने पदं न्यविशम् । झटिति हृदयवेदनया मृतोऽभूवम् '' । द्वितीयः: ``हन्त भोः! यदि भवान् प्रथमतले एव निवेशिते शैत्यसाधने अमृगयिष्यत तदा आवां द्वावपि जीवितौ अभविष्याव । ''

५५. दाम्पत्यम्-१७

कस्यचित् नरस्य भार्या मृता । मृतायाः शवं शवपेटिकायां विनिवेश्य शववाहकाः शवपेटिकां शवागारमानयन् । शवागारे शवपेटिका अकस्मात् शवागारस्य भित्त्या विघट्टिता । तदा पेटिकायाः क्षीणकण्ठेन व्याह्रियमाणं किमपि क्रन्दितं श्रुतम् । यदा शववाहकैः पेटिकायाः पिधानमपावृतम् तदा सा स्त्री सजीवा इत्यवगतम् । तस्याः भर्ता विस्मितः किञ्चिद्भीतश्च तामुपचर्य गृहमानाययत् । सा ततः दशवर्षाणि जीवित्वा कालधर्ममगात् । पुनः मृतां तां शवपेटिकायां विनिवेश्य शववाहकाः शवागारमानयन् । तदा मृतायाः पतिः शववाहकानवदत्, ``भोः, शवागारस्य अन्तः सावधानं चलत । पेटिका भित्त्या विघट्टेत``इति ।

५६. वार्धक्यम्-२

कश्चन वृद्धः कश्चन युवा च विपण्यां परस्परमकस्मात् समघट्टयेताम् । वृद्धः अवदत्, ``क्षम्यताम् । भवन्तमहं नादर्शम् । मम पत्नी अस्मिन् जनौघे मम दृष्टिपथात् लुप्ता । तां मृगयामि । ``इति । युवा प्रत्यवदत्, ``किञ्चित्करमेतत् । अहमपि मम भार्यां मृगयामि । सा चिराय मम दृष्टिपथात् लुप्ता ।” वृद्धः अवदत्, ``किंरूपा सा । तस्याः मार्गणे अहं तव सहायः भवेयम्'' इति । युवा सगर्वं सदुःखं च अवदत्, ``सा वरारोहा कुम्भस्तनी पृथुश्रोणी करतलोदरी खलु । भवतः भार्या किंरूपा?'' इति । वृद्धः प्रत्यवदत्, ``मम भार्यायाः वार्ता तावदस्तु, भवतः भार्यामेव विचिनवाव'' इति ।

५७. हास्यकृच्छ्रः-४

कश्चित् पुरुषः तमनुसृत्य भषतः शुनकात् भीतः धावति । शुनकस्तु भषन् तमभिधावति । अन्य एकः तं पुरुषं वदति, ``रे, कुतः भषतः शुनकात् भीतः धावसि? न जानासि किम् यत् भषनशीलः शुनकः न दशति, दशनशीलः शुनकः न भषतीति?'' इति । पुरुषः प्रत्यवदत् ``अहं ध्रुवं जानामि । परं तु अयं शुनकः तमाभाणकं जानाति वा न वा इति संशयग्रस्तः धावामि'' इति ।

५८. दाम्पत्यम्-१८

पृच्छकः कोट्यधीश्वरं पृच्छति, ``आर्य, तव कोट्यधीश्वरत्वस्य किम् कारणम्?'' कोट्यधीश्वरः, ``मम धर्मपत्नी एव कारणम्'' पृच्छकः: ``तव धर्मपत्नी वनितामणिः खलु । तव विवाहात् पूर्वं त्वं किमभवः?'' कोट्यधीश्वरः, ``अहं दशकोट्यधीश्वरः अभवम्'' ।

५९. शितबुद्धिः-४

क्रैस्तप्रार्थनामन्दिरे रविवासरे प्रार्थनानन्तरं मन्दिरस्य धारणार्थं धनसङ्ग्रहणं कुर्वन्ति । तदा विपर्यस्तशिरस्त्राणमेकं एकस्य हस्तात् अन्यस्य हस्तं प्रतिपादयन्ति । सर्वे यथाशक्ति धनं शिरस्त्राणे निवेशयन्ति । एकस्मिन् प्रार्थनामन्दिरे प्रार्थनानन्तरमर्चकः शिरस्त्राणं धनसङ्ग्रहणाय भक्तवृन्दे निहितवान् । त्रयः कृपणाः वयस्याः धनदाने अनिच्छवः एकत्र तत्र आसन् । यदा शिरस्त्राणमपश्यन्, तदा तेष्वेकः मूर्छितवत् सहसा ध्ररायामपतत्, अन्यौ द्वौ पतितं तं वहन्तौ द्रुतं मन्दिरात् बहिः अगच्छताम् ।

६०. दाम्पत्यम्-१९

भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य उद्योगालयं गच्छसि? भर्ता: प्रिये, यदा उद्योगस्थले कृच्छ्राणि सम्भवन्ति तदा त्वदीयचित्रावलोकनेन तानि सुगमानि भासन्ते । भार्या: अहो मम अद्भुतशक्तिः । भर्ता: [नीचस्वरेण] बाढम्, तव चित्रं पश्यन् चिन्तयामि, ``अस्याः कठिनतरा बाधा कास्ति?'' इति ।

६१दाम्पत्यम्-२०

परस्थलवासी कश्चन उपाहारालयं गत्वा परिचारिकामाहूय तां वदति, ``भोः, श‍ृणु, मह्यं कवोष्णां काफ़ीं, अर्धपक्वमपूपद्वयं च कृपया आनय'' इति । परिचारिका मनाक् चकिताऽपि ग्राहकसमीप्सितमाज्ञां मन्यमाना तथैव कवोष्णां काफ़ीमर्धपक्वमपूपद्वयं च आनयति, भोजनफलकस्योपरि निवेशयति च । तदा सः ग्राहकः तां वदति, ``बहुनि दिनान्यतीतानि मद्गृहं गत्वा । गृहोत्कण्ठा मां बाधते । अत्र आसने उपविश्य मां यथामति मद्गृहिणीवत् गर्हस्व``इति ।

६२. शितबुद्धिः-५

कृपण एकः सततम् अर्जितधने स्तोकं धनं व्यययित्वा, किञ्चिद्धनं भार्यायै प्रदाय शेषं धनं एकस्यां पेटिकायां निक्षिपति स्म । अवसानकाले सन्निहिते भार्यामवदत्, ``प्रिये, मम धनप्रियता तव ज्ञाता एव । मयि उपरते मम सधनां धनपेटिकां मया सह निवेश्य भूगतां कुरु । ``भार्या अवदत्, ``प्रिय, निस्संशयं तथैव करोमि, अलं चिन्तया'' इति । कृपणः असूनत्यजत् । विधेया अपि तु स्वार्थपरा भार्या तस्य धनपेटिकात् धनमादाय बैङ्के (bank) स्वसङ्ख्याने (account) न्यस्य तद्धनसमानमौल्यं चैकं (cheque) भर्तृनाम्नि विलिख्य तत् धनपेटिकायां न्यक्षिपत् भर्तुः शवेन साकं भूगतमकरोच्च ।

६३. वार्धक्यम्-४

वृद्धदम्पती अन्यदम्पत्योः गृहे भोजनं स्वीकृतवन्तौ । भोजनानन्तरं पत्नी महानसं गते, पती तु भोजनगृहे एव संलपन्तौ आस्ताम् । वृद्धः इतरमवदत्, ``ह्यः आवां कांश्चन भोजनशालां गतौ यत्र भोजनं रसवत्तरमासीत् । '' इतरः अपृच्छत्, ``तद्भोजनालयस्य नाम किम्?'' वृद्धः चिरमचिन्तयत्, परन्तु तन्नाम स्मृतिपथं नागच्छत् । तदा वृद्धः इतरमपृच्छत्, ``भोः, तत्पुष्पस्य नाम किं यत् श्वेतवर्णं मनोहरगन्धि निदाघकाले भूरि प्रभवति च?'' इतरः अपृच्छत्, ``मल्लिका इति नाम किम्?'' इति । वृद्धः प्रत्यवदत्, ``आम्, तदेव, उपकृतोऽस्मि'' इति । वृद्धः तदा महानसदिशि पश्यन् उच्चैरवदत्, ``मल्लिके, मल्लिके, तद्भोजनशालायाः नाम किम्, यत्र आवां ह्यः भोजनमकुरुताम्?'' इति ।

६४. उद्योगिनः-१

द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ परस्परमभाषेताम् । वन्यसिह्मः । भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् । नागरसिह्मः । किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् । वन्यसिह्मः । उदरपोषणं तु कथमभवत्? नागरसिह्मः । प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति । वन्यसिह्मः । कथमिदानीं बद्धः अभूः ? नागरसिह्मः । मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।

६५. दाम्पत्यम्-२१

चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् । एका: ``कच्चित् कुशली तव भर्ता?'' अन्या: ``मम दौर्भाग्यात् सः दैवाधीनः अभवत् । '' एका: ``सुभृशं खिन्नास्मि । किमभवत् ?'' अन्या:'' एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः । '' एका: ``पश्चात् त्वं किमकरोः ?'' अन्या: ``किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् । ''

६६. हास्यकृच्छ्रः-५

ब्रह्मदत्तः मरणशय्यायां शयानः आसीत् । तस्य आप्तवयस्यः शम्भुः तं द्रष्टुं तत्र आगतः । शम्भुः ब्रह्मदत्तस्य शय्यायाः निकटे स्थित्वा ब्रह्मदत्तमपश्यत् । ब्रह्मदत्तः वक्तुमशक्तः सखेदं शम्भुं हस्तसंज्ञाभिः पत्रं लेखनीं च दातुं प्रार्थयत् । शम्भुः तथैव अकरोत् । यावत् ब्रह्मदत्तः पत्रे किमपि अलिखत् तावदेव सः असूनत्यजत् । खिन्नः शम्भुः तत्समये तत्पत्रपठनं नोचितमिति मत्वा कञ्चुकस्यूते निक्षिप्य गृहं गतः । गृहे पत्रं व्यस्मरत् अतः नापठच्च । अन्येद्युः ब्रह्मदत्तस्मरणसभा आयोजिता यत्र शम्भुः ब्रह्मदत्तस्य विषये किमपि भाषितुं सर्वैः प्रार्थितः । यावत् भाषितुं प्रारब्धवान् तावदेव सः ब्रह्मदत्तलिखितं पत्रं सस्मार यत् दिष्ट्या तस्य कञ्चुकस्यूते एव पिहितमासीत् । सः उच्चैरवदत्, ``अयि भोः, मरणशय्यायां शयानस्य ब्रह्मदत्तस्य अन्तिमसन्देशः अधुनैव मम कञ्चुकस्यूते वर्तते । तं सन्देशं सर्वे श‍ृण्वन्तु । ``इति । पत्रमपावृत्य प्रथमं तत्र लिखितं स्वगतमपठत्, ``रे मूर्ख । मम श्वासाधारस्य आम्लजनकनालस्योपरि स्थितोऽसि'' ।

६७. वाक्चातुर्यम्-१३

परिव्राजकवेषधरः कश्चन भिक्षार्थं ग्रामे अटति स्म । कोऽपि तस्मै भिक्षां न ददौ । अन्ततः कस्याश्चित् गृहिण्याः गृहस्य पुरतः गत्वा भिक्षां ययाचे । गृहिणीमकथयच्च, ``भवति! भिक्षां ददातु । यदि भवती भिक्षां न ददाति तदा यथाहं अन्यस्मिन् ग्रामे समाचरं तथैव अत्रापि समाचरामि । ``तापसः तपोबलेन मां शपेदिति चिन्तयन्ती गृहिणी भीता तस्मै भिक्षां ददौ । भिक्षां दत्त्वा तं परिव्राजकमपृच्छत्, ``भगवन्! अन्यस्मिन् ग्रामे भवता किमाचरितम्?'' । भिक्षाम् कवलयन् परिव्राजकः अवदत्, ``अयि भोः! निरशनव्रतं समाचरम्'' इति ।

६८. वाक्चातुर्यम्-१४

क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च । तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, ``भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता अस्ति किमिति परीक्षे ``इति । स आर्यः अवदत्, ``अहं विमानचालकः आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् ``इति । स्वर्गद्वारपालकः स्मयमानः तमवदत्, ``स्वागतं भोः, इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्व, `` इति । अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् । क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, ``भोः, अहं त्रयस्त्रिंशत् वर्षात् लण्डन्-नगरे जेम्स्-क्रैस्तालयस्य पूजकः आसम्'' इति । द्वारपालकः तमवदत्, ``बाढम्, इमे कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्व ``इति । ईषत्कुपितः क्रैस्तालयपूजकः द्वारपालकमपृच्छत्, ``अहो, कथमित्थम्? अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्?'' । स्मयमानः द्वारपालकः अवोचत्, ``यदा त्वया क्रैस्तालये धर्मोपदेशः कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः, `` इति ।

६९. शितबुद्धिः-६

कुतूहली बालः मातरमपृच्छत्, ``अम्ब, कुतस्तव कतिचनशिरोरुहाः पलिताः?'' इति । माता अस्मिन् समये बालाय सद्वर्तनबोधनं कर्तुं शक्यमिति मन्यमाना तमवदत्, ``वत्स, तव एकैकं दुर्वर्तनं मम एकैकं शिरोरुहं पलितं करोति'' इति । मुग्धः बालः सपदि प्रत्यवदत्, ``अम्ब, इदानीमेव जानामि ''मातामह्याः सर्वे शिरोरुहाः कुतः पलिता'' इति'' इति ।

७०. मौढ्यम्-४

कश्चन पुरुषः आरक्षकमुपेत्य अध्यक्षिपत्, ``आर्य, कष्टमापतितम् । मम गृहात् चोराः साक्षात्करम् (T.V.) एकं विहाय सर्वाणि वस्तून्यादाय पलायितवन्तः ``इति । आरक्षकः अपृच्छत्, ``आश्चर्यम् खलु । कुतः साक्षात्करम् आदाय न गताः?'' । पुरुषः प्रत्यवदत्, ``अहं साक्षात्करे चलचित्रं प्रेक्षमाणः आसम् खलु ``इति ।

७१. हास्यकृच्छ्रः-६

शर्वर्यां गाढान्धकारे पर्जन्यः तडित्स्तनितसहितधारासम्पातैः वर्षति स्म । ब्रह्मदत्तः एकाकी विजने राजपथे चलति स्म । ``किञ्चित् कार्-यानमागच्छेत् यदि चालकं प्रार्थयित्वा कार्-याने गच्छेयम्'' इति चिन्तयन् जलसिक्तः तमसि तडित्ज्वलितराजपथे न्यस्तदृष्टिः शनैः प्राचलत् । तदा किमपि यानं शिरोदीपं विना शनैः आगच्छदिव दृष्टम् । कार्-यानस्य द्वारमपावृतमासीत् । झटिति कार्-यानमारुह्य पृष्ठपीठे उपाविशत् । यदा सिक्तोत्तरीयं परित्यज्य सावधानं परितः तमस्येव दृष्टिमचालयत् तदा तस्मै अवगतमभवत् यत् चार्-चालकस्थानम् रिक्तमासीत्, कार्-याने अन्यः कोऽपि नासीत्, परन्तु कार्-यानं चलन्नेव आसीत् । दिग्भ्रान्तः भयभीतश्च अभवत् । पर्जन्ये निरन्तरं वर्षति सति सः कुत्र वा गच्छेत् । पीठे एव नमितसङ्कुचिताङ्गः ईश्वरं प्रार्थयन् तस्थौ । सपदि कार्-यानस्य वेगः वर्धन्निव अभात् । राजपथे दृष्टिं न्यदधात् । कस्यापि हस्तः यानस्य मार्गनियन्त्रणचक्रं भ्रामयन्निव बभौ । पूर्वमेव भीतस्य ब्रह्मदत्तस्य भयं सीमातीतमभवत् । दैववशात् राजपथपार्श्वे ज्वलन् दीपः दृष्टः । झटिति कार्-यानादवातरत् । दीपः अनतिदूरे स्थितस्य कस्यचन उपाहारगृहस्य आसीत् । तं गृहं प्रति द्रुतं प्राचलत् । अचिरेणैव उपाहारगृहमवाप च । उपाहारगृहे परिधानशोषणं कृत्वा उपाहारं भक्षयितुं प्रारभत । तदा द्वौ बृहत्कायौ सिक्तवस्त्रौ पुरुषौ तत्र आगतौ । तयोः एकः ब्रह्मदत्तं क्रूरदृष्ट्या पश्यन् अन्यमवदत्, ``रे, अयमेव धूर्तः यः यदा आवां अस्मत्-कार्-यानस्य पृष्ठे यानं हस्ताभ्यां बलात् प्रणुदन्तौ आस्व तदा झटिति कार्-याने समुपाविशत्'' इति ।

७२. बालचेष्टा-४

``कुतः रोदसि, वत्स?'' माता अपृच्छत् । बालकः प्रत्यवदत्, ``अम्ब! पिता भित्तौ चित्रम् आलम्बयितुम् मुद्गरेण कीलकं प्रहरति स्म । तदा तस्य अङ्गुली व्रणिता । अत एव, `` इति रोदननिरुद्धकण्ठः सगद्गदमवदत् । माता बालकमाश्वासयन्ती प्रत्यवदत्, ``किञ्चित्करं खलु तत् । मा रुदः । त्वया हसितव्यम् आसीत्, `` इति । बालकः उच्चैः रुदन् अवदत्, ``अम्ब! मया हसितमेव, `` इति ।

७३. वाक्चातुर्यम्-१५

कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, ``बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ । किं कारणम्?'' इति । तेषु एकः प्रत्यवदत्, ``अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते'' इति । पूजकः गम्भीरध्वनिना अवदत्, ``बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम्'' इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, ``एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु'' इति ।

७४. वाक्चातुर्यम्-१६

कदाचन काचित् स्त्री नद्याः तटे भर्तुः जीर्णकञ्चुकस्य नवीकरणे निरता आसीत् । तदा अकस्मात् तस्याः हस्तात् सूची नद्याः जले न्यपतत् । तदा सा उच्चैः रोदितुमारब्धा, ``मम भर्ता मां ताडयति यद्यहं तस्य कञ्चुकं न नवीकृत्य गृहं गच्छामि चेत्'' इति । ईश्वरः तस्याः रोदनं श‍ृण्वन् तत्र आगत्य तस्यै जलात् एकां सुवर्णसूचीं उद्धृत्य ददौ । सा रुदन्ती एव अवदत्, ``सा सूची मम न भवति'' इति ।तदा ईश्वरः तस्यै जलात् एकां रजतसूचीं उद्धृत्य ददौ । तदापि सा अवदत्, ``सा सूची मम न भवति'' इति । तदा ईश्वरः जलात् आयससूचीम् उद्धृत्य तस्यै ददौ । सा हृष्टा अवदत्, ``सा सूची एव मम'' इति । तदा तुष्टः ईश्वरः तिस्रः अपि सूचीः तस्यै सत्यवचनायै ददौ । तदा सन्तुष्टा सा ईश्वरं संस्तुत्य गृहं गता । अन्येद्युः सा भर्त्रा साकं नदीतटे गच्छति स्म । तस्याः भर्ता पदस्खलनात् नद्याः जले न्यपतत् । सा ईश्वरं प्रार्थयामास, ``परमेश्वर, मम पतिं देहि'' इति । ईश्वरः तत्र आगत्य तस्यै विक्रमादित्यं जलादुधृत्य ``किमयं तव भर्ता'' इत्यपृच्छत् । सा अवदत्, ``बाढं स एव मम भर्ता'' इति । तदा कुपितः ईश्वरः तामपृच्छत्, ``कथमिदानीम् असत्यं वदसि?'' इति । ``प्रभो! श्रुणुश्व, यद्यहं, ``अयं मम पतिर्नभवति'' इत्यवदिष्यं तदा त्वं भोजराजं मम भर्तारं च मह्यम् अदास्यः । इदानीं मम स्वास्थ्यं समुचितं न भवति । पतित्रयप्रीणने अशक्ता खलु । मां क्षमस्व ``इति । कृपालुः ईश्वरः तस्याः अङ्के विक्रमादित्यमेव न्यवेशयत् ।

७५. वाक्चातुर्यम्-१७

कश्चन युवा कार्यालये विवर्णवदनः चिन्तामग्नः आसीत् । तस्य मित्रं तमपृच्छत्, ``भोः, चिन्ताक्रान्तः असि इति मे भाति । किमापन्नम्?'' इति । '' किं वदानि । श्वः मम श्वश्रुवः जन्मदिनम् । तदवसरे मया तस्यै किञ्चिदुपायनम् देयम् । उचितमुपायनं किमिति चिन्तयामि `` । मित्रं प्रत्यवदत्, ``भण, परुत् त्वया किं दत्तम्?'' ``मया तस्यै बहुमूल्यं श्मशानस्थलं क्रीतम् '' मित्रम् उच्चैः हसति वदति च, ``त्वया महार्घम् उपायनमेव दत्तम् । ऐषमः त्वया तस्यै किमपि न देयं खलु।'' `` कथमित्थं वदसि?'' ``श्रुणु, श्वः यदा त्वं तया सह मिलसि, सा त्वां पृच्छेत् । ``जामातः, ऐषमः मह्यं किमुपायनं प्रयच्छसि '' इति । तदा त्वं स्मितवदनः इत्थं वदेः, ``मातः, मया परुत् दत्त्तमुपायनं त्वया अद्यापि न उपयुक्तं खलु । अतः ऐषमः किञ्चिदपि न ददामि'' इति'' ।

७६. बालचेष्टा-५

पिता पुत्रं बालं स्वापयितुं यतमानः अस्ति । बालं स्वकोष्ठे तल्पे शाययित्वा द्वारं पिधाय बहिरागच्छति । कतिपय क्षणादनन्तरमेव बालः उच्चैः क्रोशति, ``तात, अहं जलं पिपासामि । मह्यं जलपूर्णं चषकमानय ``इति । पिता उच्चैः प्रतिवदति, ``वत्स, इदानीं त्वया जलं न पेयम् । तूष्णीं स्वपिहि'' इति । कतिपयक्षणादनन्तरं पुनः बालः उच्चैः वदति, ``तात, मह्यं पिपासा बाधते । द्रुतं जलमानय ``इति । क्रुद्धः पिता उच्चैः प्रतिवदति, ``पश्य, अहं जलं न आनयामि, यदि पुनः जलार्थं क्रोशसि, तदा त्वां दण्डयामि ``इति । पुनः कतिपयनिमेषादनन्तरं बालः उच्चैः वदति, ``तात, यदा त्वं मां दण्डयितुं ममकोष्टम् आगमिष्यसि तदा मह्यं जलमानयेः'' इति ।

७७. हास्यकृच्छ्रः-७

कश्चन पण्डितः वाग्मी कदाचित् ग्राममेकमगच्छत् । यदा ग्रामवासिनः तस्य पाण्डित्यं वाग्मितां च अवगच्छन्, ते तमवदन्, ``पण्डितवर्य! अस्मानुद्दिश्य प्रवचनं भवान् करोतु'' इति । पण्डितः अनुमेने निर्दिष्ट दिवसे विर्दिष्टवेलायां प्रवचनमारभत च । प्रवचन विषयः, ``भारवेः अर्थगौरवम्'' इत्यासीत् । पण्डितस्य निरर्गलवाग्धाराभिः ग्रामीणाः सुसिक्ताः अभवन् । परं तु प्रवचने ते किमपि नावगच्छन् । गतेषु कतिचननिमिषेषु कश्चन सभ्यः निश्शब्दं सभाभवनात् बहिरगच्छत् । तं निर्गच्छन्तं दृष्ट्वा कतिचन अन्येऽपि सभामत्यजन् । इत्थं अर्धमुहूर्ते गते, पण्डितं विहाय सभायामेक एव ग्रामीणः आसीनः आसीत् । परिभूतः पण्डितः तमवदत्, ``प्रिय, त्वम् एक एव प्रवचने आसक्तः इति भाति'' इति । सः ग्रामीणः अवदत्, ``आर्य, यस्यां कुथायां भवान् आसीनः सा मम भवति । प्रवचनान्ते सा मया गृहं नीयते । प्रवचनान्तं प्रतीक्षमाणः स्थितोऽस्मि'' इति ।

७८. वाक्चातुर्यम्-१८

मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतित्थम् । ``केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः'' ॥ आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः । ``रे रे मूषिक! कथय क्व त्वं क्व मृगराजो भ्राता ॥ '' मूषिक अवदत् सभयं । ``क्षमस्व बन्धो मम धार्ष्ट्यं कृपया । अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् ''॥

७९. उद्योगिनः-१

त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म । प्रथमः । अये, श‍ृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति । द्वितीयः । तद्यत्किञ्चित् खलु । श‍ृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति । तृतीयः । युवां कुतः कत्थेथे? श‍ृणुतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः । तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं सार्धचतुर्वादनसमय एव उपैति ।

८०. शितबुद्धिः-७

मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् । विपणी तच्चौर्यं नापश्यत् । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, ``पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्'' इति । देवदत्तः तं ``तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव'' इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, ``आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि'' इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, ``मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि'' इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, ``तत्र का माया?'' । देवदत्तः अवदत्, ``इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति'' इति ।

८१. मौढ्यम्-५

कश्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म ।सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, ``कतिपयवर्षेभ्यः प्राक् प्रारब्धःसततः प्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्'' इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, ``बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः'' इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, ``इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्'' इति । तुष्टाः प्राश्निकाः तमवदन्, ``भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्'' इति । कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, ``भोः, ब्रूहि, किं पृष्टम्?'' । सः अवदत्, ``प्रश्नाः गोप्याः । वक्तुं न शक्नोमि'' इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, ``प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि'' इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत् । प्रगल्भः धर्मसिंहः तान्युत्तराणि कण्ठगतान्यकरोत् । यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, ``तव जन्म कदा अभवत्?'' इति । सः प्रत्यवदत्, ``कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततःप्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्'' इति । उत्तरेण विस्मितः तमपृच्छत्, ``तव पितुर्नाम किम्?'' इति । सः प्रत्यवदत्, ````बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः'' इति । रुष्टः प्राश्निकः अपृच्छत्, ``भ्रान्तः असि किम्?'' इति । सः विनीतः प्रत्युवाच ``इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्'' इति ।

८२. शितबुद्धिः-८

कदाचित् न्यायवादी वृद्धश्च विमानयाने परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम् ।सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, ``भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि ?'' इति । वृद्धः अवदत्, ``का क्रीडा?'' न्यायवादी । प्रश्नमेकं प्रक्ष्यामि । यदि सदुत्तरं न दास्यसि तदा मह्यं पञ्चाशत्रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?'' वृद्धः सुषुप्सुरासीत् तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, ``चन्द्रः भूम्याः कियद्दूरे अस्ति?''। वृद्धः, ``न जाने'' इति वदन् तस्मै पञ्चाशत्रूप्यकाणि ददौ । वृद्धः न्यायवादिनमपृच्छत्, ``आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?'' । न्यायवादी बहुकालमचिन्तयत् तथापि तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पञ्चशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, ``तव प्रश्नस्य उत्तरं किम्?'' । वृद्धः, ``न जाने'' इति वदन् न्यायवादिने पञ्चाशत्रूप्यकाणि दत्त्वा सुखं सुष्वाप ।

८३. हास्यकृच्छ्रः-८

त्रयः पुरुषाः कस्मिंश्चित् निर्जने द्वीपे नौकाघातात् क्षिप्ता अभवन् । किङ्कर्तव्यतामूढाः ते ईश्वरं प्रार्थयामासुः । काले गते कश्चन दिव्यरूपधारी पुरुषः प्रत्यक्षः अभूत् । सः तानवदत्, `` भोः, ईश्वरेण प्रेषितोऽहम् । प्रीतोऽस्मि, एकैकः एकं वरं वृणीताम् ``इति । प्रथमः अवदत्, ``देव, मां मद्गृहं प्रहिणोतु'' इति । तथैव अभवत् । द्वितीयोऽपि तथैव स्वगृहमगच्छत् । देवेन पृष्टः तृतीयः स्मितवदनः अवदत्, ``देव, अहमेकाकी अस्मि । अत्र मम मित्रयोः पुनरागमनं वाञ्छामि'' इति । हन्त! ते मित्रे पुनरागते ।

८४. दाम्पत्यम्-२२

स्त्री पत्या सह कलहमकरोत् । तदनु स्वमातरं दूरवाण्या अवदत्, ``अम्ब, पुनः मम भर्ता मया सह कलहमकरोत् । तेन सह जीवनं दुष्करम् । तव गृहमागमिष्यामि'' इति । माता अवदत्, ``वत्से, त्वमत्र आगमिष्यसि चेत् सः सुखी एव भविष्यति । तस्य अपराध: दण्डनीयः । अहमेव तत्र आगमिष्यामि । मम उपस्थित्या एव तं दण्डयिष्यसि'' इति ।

८५. वाक्चातुर्यम्-१९

क्रिस्तदेवालयस्य अर्चकः साप्ताहिकप्रवचनाय देवालये जनान् समीक्षते स्म । चिराय एक एव कर्षकः आगतः । अर्चकः तमपृच्छत्, ``भोः अद्य मम प्रवचनाय एक एव आगतोऽसि । किमहं प्रभाषै उत न?'' इति । कर्षकः सप्रश्रयं प्रत्यवदत्, ``भगवन्, भवान् किमित्थं पृच्छति । कुक्कुटपरिवेषणसमये यदि एक एव कुक्कुटः आगच्छति तदा तस्मै खाद्यं न देयं किम्?'' इति । कर्षकप्रत्युत्तरेण विस्मितः अर्चकः तमवदत्, ``भोः, तव विवक्षितमवगतम् । अवहितः श‍ृणु'' इत्युक्त्वा निरर्गलं सार्धघटिकापर्यन्तं बभाषे । अन्ते अर्चकः कर्षकमपृच्छत्, ``भोः, कच्चिन्मम प्रवचनं समीचीनम्?'' इति । तदा कर्षकः प्रत्यवदत्, ``भगवन्, खादनसमये यदि एक एव कुक्कुटः समागतः तदा सर्वं द्रोणप्रमाणं खाद्यं तस्मै न समर्पयामि खलु ``इति ।

८६. हास्यकृच्छ्रः-९

भार्या: ``प्रिय! मम कार्-यानस्य वाय्विन्धनमिश्रके (carburetor) जलं प्रविष्टम् इति भाति'' । भर्ता: प्रिये! कथमिदं स्यात्? तव कार्-यानम् इदानीं कुत्रास्ति? भार्या: [सगद्गदम्] अस्मत्-प्लवन-कासारे (swimming pool)

८७. हास्यकृच्छ्रः-१०

एकदा सुहृदौ अमरसिंहधर्मसिंहौ मृगयार्थं गुलिकास्त्रधारिणौ वनमगच्छताम् । मृगयाप्रसङ्गे धर्मसिंहः भल्लूकेन भृशं व्रणितः विगतासुरिव ज्ञानशून्यः अभवत् । अमरसिंहः ससाध्वसं चलदूरभाषकेन नगरस्थितनगरभटालयस्य सम्पर्कमकरोत् अवदच्च, ``भोः! मयि मम सुहृदि च मृगयार्थं वने विचरतोः मम सुहृद् भल्लूकेन व्रणितः शेते । सः न प्रतिभाषते, न जाने यदि मृतः भवेत् । भवान् कृपया निर्दिशतु मया किं करणीयमिति ''। नगरभटः प्रत्युवाच, ``भोः! प्रथमं तावत् त्वया दृढं ज्ञातव्यम् यदि तव सुहृत् सजीवः मृतो वा इति'' । अमरसिंहः प्रत्यवदत्, ``भोः! कतिपय क्षणान् तावत् निरीक्षताम् । वदामि'' इति । कतिपयक्षणानन्तरं नगरभटः दूरवाण्यां गुलिकास्त्रप्रयोगजनितशब्दमश‍ृणोत् । सपदि एव अमरसिंहः दूरवाण्यामवदत्, ``भोः! इदानीं मम सुहृत् निस्संशयं मृतः'' इति ।

८८. मद्यपानम्-३

धर्मसिंहः कोल्कतानगरे कस्मिन्श्चित्शुण्डापाने मदिरां पातुं प्रतिसायमागच्छति । मदिरायाः काचकूपी(bottle)त्रयं क्रीणाति एकैकं पिबति च । एकदा कुतूहलात् शौण्डिकः तमपृच्छत्, ``आर्य! कुतः एककाले एव काचकूपीत्रयं क्रीणासि? इतरे तु एकां काचकूपीं पीत्वा एव अन्यां क्रीणन्ति'' इति । धर्मसिंहः स्मितवदनः व्यवृणोत्, ``भोः! मम भ्रातरौ स्तः । एकः दिल्लीनगरे वसति, अन्यः मुम्बयी नगरे । अस्मिन्नेव काले सायं द्वावपि तन्नगरस्थशुण्डापाने काचकूपीत्रयमितां मदिरां क्रीणीतः । प्रथमा काचकूपी आत्मनः पानार्थम् । द्वितीया तृतीया तु भ्रात्रोः पानार्थम् । एकदेशे मिलितुमशक्ताः एवं संज्ञामकरवाम । यदा मदिरां पिबामः एकस्थले एव मदिरां पिबन्तः इव भावं विन्दामः ``इति । धर्मसिंहस्य उत्तरात् तृप्तः शौण्डिकः स्वस्थानं प्रति न्यवर्तत । एवमेव प्रत्यहं धर्मसिंहः सायमागच्छति काचकूपीत्रयं क्रीणाति, पिबति च । एकस्मिन् दिवसे धर्मसिंहः काचकूपीद्वयमेव अक्रीणात् । शौण्डिकः मनसि अशङ्कत, ``अस्य भ्रात्रोः अन्यतरस्य दुरवस्था आपतिता भवेत्'' इति । अपरेद्युः यदा धर्मसिंहः आगत्य काचकूपीद्वयमक्रीणात्, तदा शौण्डिकः सविनयं तमपृच्छत्, ``अपि तव भ्रातरौ कुशलौ?'' इति । धर्मसिंहः स्मयमानः अवदत्, ``निस्संशयं, सखे!'' इति । ``कथं काचकूपीद्वयमेव क्रीणासि?'' इति । धर्मसिंहः गम्भीरस्वरेण अवदत्, ``सखे! इदानीमहं मद्यपानात् विरतः । काचकूपीद्वयं तु मम भ्रात्रोः एव'' इति ।

८९. वाक्चातुर्यम्-२०

काचन मान्या स्त्री औषधापणिं गता । सा आपणिकमपृच्छत्, ``भोः! मया सियनैड् विषः क्रयणीयः । अत्र लभ्यते किम्?'' इति । चकितः आपणिकः तामपृच्छत्, ``आर्ये, किमर्थं विषं क्रीणासि?'' इति । सा गम्भीरस्वरेण तं प्रत्यवदत्, ``अहं मम भर्त्रे विषं दातुमिच्छामि'' इति । दिग्भ्रान्तः आपणिकः अवदत्, ``आर्ये! किं वदसि? यदि तदर्थं तुभ्यं विषं विक्रीणै मां त्वां च आरक्षकाः कारागारं नयेयुः । इतः कृपया अपसर ``इति । तदा सा आत्मनः वित्तस्यूतात् छायाचित्रमेकमुद्धृत्य तस्मै अदर्शयत् यस्मिन् छायाचित्रे आपणिकस्य पत्न्या सह तस्याः पतिः रतिक्रीडायां निरतः आसीत् । निर्वर्णः उद्विग्नश्च आपणिकः अवदत्, ``असंशयं तुभ्यं सियनैड् विक्रीणे । त्वया प्रथममेव वक्तव्यमासीत् यत् वैद्यनिर्देशात् विषं क्रीणामि'' इति ।

९०. न्यायवादी-२

न्यायालये न्यायवादी साक्षिस्थानस्थितं वैद्यं परीक्षते । न्यायवादी: वैद्यवर्य! यदा त्वया कुणपपरीक्षणार्थं कर्तनं कृतं तदा कर्तनात् प्राक् त्वया नाडीपरीक्षणं कृतं किम्? साक्षी: न कृतम् । न्यायवादी: कच्चित् त्वया तस्य रक्तसंमर्दः परीक्षितः? साक्षी: न परीक्षितः । न्यायवादी: तस्य श्वसनं परीक्षितं किम्? साक्षी: सर्वथा न । न्यायवादी: अतः, कच्चित् मन्यसे भाव्यं यत् सः तव परीक्षणात् पूर्वं जीवितः आसीत्? साक्षी: न हि । न्यायवादी: कथं त्वं निस्संशयं मन्यसे? साक्षी: यतः परीक्षणात् पूर्वमेव तस्य मस्तिष्कं मम लेखनतले (table) स्थापितमासीत् । न्यायवादी: तथापि भाव्यं खलु सः जीवित एव आसीत्? साक्षी: [विमृश्य] यदि तत् भाव्यं सः कुत्रापि न्यायवादी एव भवति ।

९१. हास्यकृच्छ्रः-११

पत्रदूतः (postman) कस्यचित् जनस्य गृहं प्रति पत्रवितरणाय गच्छति यदा सः बृहत्सारमेयेन सह स्थितं कञ्चन बालकं पश्यति । सः सारमेयात् भीतः तं बालकं पृच्छति, ``बाल! कच्चित् तव सारमेयः दशति?'' इति । बालकः प्रतिवदति, ``मम सारमेयः कदापि कमपि न दशति'' इति । यावत् भयमुक्तः पत्रदूतः पुरतः गच्छति तावदेव स सारमेयः तं दशति । दंशबाधितः पत्रदूतः रुष्टः बालं पृच्छति, ``रे! कुतः अनृतं वदसि । त्वां ताडयामि'' इति । बालकः प्रतिवदति, ``अहमनृतं न वदामि । अयं सारमेयः मम न भवति खलु, `` इति ।

९२. हास्यकृच्छ्रः-१२

हरिदत्तः धर्मदत्तः सन्जयदत्तश्च वयस्याः आसन् । त्रयोऽपि एककाले एव स्वर्गमगच्छन् । तत्र चित्रगुप्तः तानवदत्, ``भोः! श‍ृणुत, पृष्टप्रश्नस्य सत्यमेव उत्तरं प्रदेयम् । यदि कोऽपि असत्यं वदेत् तर्हि सः स्वर्गात् बहिष्क्रियते ``इति । अथ । सः हरिदत्तमपृच्छत्, ``कच्चित् भूलोके परदाररतः अभवः?'' ``कदापि न प्रभो'' इत्यवदत् हरिदत्तः । ``बाढम्, इमानि कौशेयवस्त्राणि परिधाय स्वर्गसुखमनुभव'' इति । हरिदत्तः तुष्टः कौशेयवस्त्राणि परिजग्राह । चित्रगुप्तः धर्मदत्तमपि तथैव अपृच्छत् । ``कदा कदा परदाररक्तः अभवम् ।परन्तु पश्चात् तप्तः स्वदारास्वेव रतः अभवम्''इति । चित्रदत्तः तस्मै कार्पासवस्त्राणि ददौ । चित्रगुप्तेन तथैव पृष्टः सन्जयदत्तः उत्तरमदात्, ``क्षमस्व माम् । अहं सदा परदारास्वेव रतः अभवम्'' इति । तस्मै चित्रगुप्तः वल्कलानि ददौ । काले गते एकदा सन्जयदत्तः हरिदत्तेन सह सममिलत् । तदा दुःखसागरे निमग्नं हरिदत्तं सन्जयदत्तः अपृच्छत्, ``मित्र! किमिदम्? कुतः दुःखमग्नः असि?'' इति । ``ह्यः वल्कलवस्त्रधारिणीं मम भार्यामत्र अपश्यम् '' इति निर्विण्णः हरिदत्तः अवदत् ।

९३. दाम्पत्यम्-२२

पतिः पत्नीं वदति, ``प्रिये! अहं मममित्रमेकम् अद्यरात्रौ भोजनाय आह्वयम्'' इति । पत्नी वदति, ``अरे, किमिदम्? मत्तोऽसि किम्? गृहमव्यवस्थितं वर्तते । वस्त्राणि क्रेतुमापणं जिगमिषामि । अद्य भक्ष्यभोज्ययुतभोजनपाके मम आस्था नास्ति । '' पतिः, ``अहं सर्वं जानामि'' । पत्नी । ``अथ कुतः मित्रम् आह्वयः?'' पतिः, ``मुग्धः सः परिणेतुं वाञ्छति'' ।

९४. वाक्चातुर्यम्-२१

भर्ता: प्रिये, यदि मह्यं प्रभूतं स्वं मम पिता न अदास्यत् त्वं मां अवरिष्यः किम्? भार्या: प्रिय, यदि न केवलं तव पिता अन्यः कोऽपि तुभ्यं प्रभूतं स्वम् अदास्यत्, तदापि अहं त्वाम् अवरिष्यम् ।

९५. न्यायवादी-२

न्यायवादी: इदानीं वयमभियोगे जितवन्तः खलु । कच्चिद्वदसि यदि त्वया चौर्यं कृतम्? अभियुक्तः: ह्यः न्यायालये भवतः वादसरणीं श्रुत्वा शङ्कितोऽहं यदि मया चौर्यं कृतं वा न वा ।

९६. शितबुद्धिः-९

काचन कार्-यानचालिका राजपथे आरक्षकेण अवरुद्धा । अवरोधकारणं पृष्टः आरक्षकः प्रत्यवदत्, ``आर्ये! अनुज्ञातवेगमतिक्रम्य वाहनं त्वया चालितम् । कृपया दर्शय तव चालनानुज्ञापत्रम् । स्त्री प्रत्यवदत्, ``आर्य! मम अनुज्ञापत्रं नास्ति । त्रिवारं मदिरापानमत्ता कार्-यानचालनमकरवमिति कारणात् आरक्षकैः तत् स्वायत्तीकृतम्''। चकितः आरक्षकः अपृच्छत्, ``आर्ये! कृपया वाहनस्य पञ्जीसङ्ख्यापत्रं दर्शय'' इति । स्त्री प्रत्यवदत्, ``तन्नास्ति, अहं इमं कारयानमपाहरम् '' । आरक्षकः, ``अपाहरः?'' स्त्री, ``बाढम्, न केवलं कार्-यानमपाहरं, तस्य स्वामिनं हत्वा तस्य कायं खण्डशः निकर्त्य कार्-यानस्य सामग्रीकोष्ठे न्यवेशयम्'' आरक्षकः नितरां भ्रान्तः स्वनियामकेन सह दूरवाण्या समलपत् साहाय्यं प्रार्थयच्च । क्षणात् नियामकः कतिचन आरक्षकैः सह तत्र वाहने आगच्छत् । तां स्त्रियं स्वगुलिकास्त्रस्य लक्ष्यं कृत्वा अवदत्, ``कृपया यानादवातर''।स्त्री अवातरत् अपृच्छच्च, ``आर्य, किमापतितम्?'' नियामकः, `` आर्ये! मम आरक्षकः वदति, ``त्वं, कार्-यानमपहृत्य तस्य स्वामिनमहन्'' इति । दिग्भ्रान्ता इव स्त्री अवदत्, ``किं?किं? अहमहनम्? ``इति । नियामकः अवदत्, ``कार्-यानस्य सामग्रीकोष्ठम् अपावृणु'' इति । स्त्री सामग्री-कोष्ठम् अपावृणोत् । सामग्री कोष्ठे न किञ्चिदपि वस्तु अवर्तत । नियामकः, ``कच्चिदिदं तव यानम्?'' स्त्री, ``आर्य! निःसंशयम्'' । ``तर्हि तव यानस्य पञ्जीसङ्ख्यापत्रं दर्शय'' । ``पश्य, इदं पत्रम्'' इति वदन्ती पञ्जीसङ्ख्यापत्रमदर्शयत् । ``तव चालनानुज्ञापत्रं दर्शय'' । हस्तस्यूतात् अनुज्ञापत्रमुद्धृत्य स्त्री अदर्शयत् । नियामकः उद्भ्रान्तः तामवदत्, ``आर्ये! क्षमस्व माम् । आरक्षकः मामवादीत् त्वं कारयानमपहृत्य, कार्-यानस्वामिनं हत्वा, तस्य कलेवरं निकर्त्य यानस्य सामग्री-कोष्ठे न्यवेशयः । त्वया साकं न कार्-यानपञ्जीसङ्ख्यापत्रं न च तव चालनानुज्ञापत्रं वर्तेते इति । '' स्त्री, ``अहो! अनृतस्य पराकाष्ठा खलु । स च प्रायेण अवादीत् यदहं अनुज्ञातवेगमतिक्रम्य कार्-यानचालनमकार्षं च?''

९७. वाक्चातुर्यम्-२२

वैद्यः चिकित्सां लब्धवता केनचन सह दूरवाण्यां समलपत्, ``भोः, त्वया दत्तं वित्तकोषपत्रं(cheque) पुनरागतम् खलु'' इति । चिकित्सितः प्रत्यवदत्, ``क्षम्यतां, मम जानुवेदना च पुनरायाता'' इति ।

९८. वाक्चातुर्यम्-२३

कार्-याने उद्योगालयं गच्छन् नर एकः स्वोद्योगालयस्य निकटे कार्-यानसंस्थापनाय स्थलम् मार्गयति स्म । कुत्रापि अवकाशः न दृष्टः । स्वकार्याय त्वरितं गन्तुकामः ईश्वरं यावत् प्रार्थयत्, ``प्रभो! त्वत्कृपया यदि कार्-संस्थापनाय अवकाशः लभ्यते चेत् अद्य प्रभृति धूमपानं न करिष्यामि'' इति तावदेव अवकाशः दृष्टः । झटिति ईश्वरमवदत्, ``विस्मर यदुक्तम् प्रभो । इदानीमेव अवकाशः लब्धः'' इति ।

९९. दाम्पत्यम्-२३

परिचारिका वेतनवृद्धिम् अवाञ्छत् । सा तस्याः स्वामिनीं प्रार्थयत, ``भवति, अहं मम मासिकवेतने वृद्धिं काङ्क्षामि'' । स्वामिनी सगर्वमपृच्छत्, ``वृद्धिः कुतः?'' । परिचारिका प्रत्यवदत्, ``भवति, त्रीणि कारणानि भवन्ति । अहं वस्त्रधावने भवत्याः चतुरतरा'' । स्वामिनी रुष्टा अपृच्छत्, ``को वदति त्वं चतुरतरा इति?'' । परिचारिका: ``भवत्याः भर्ता । किञ्च अहं पाककलायामपि भवत्याः चतुरतरा'' । स्वामिनी: ``मृषा खलु । को वदति इत्थम्?'' परिचारिका: ``भवति! भवत्याः भर्ता एव । अपि च अहं भवत्याः कामकलायामपि चतुरतरा ।'' स्वामिनी [सरोषम्] ``हञ्जे! पुनः मम भर्ता अवदत् किम्?'' परिचारिका: ``नहि, नहि, भवत्याः निष्कुटपालकः अवदत्'' स्वामिनी चकिता निर्वाक्या अभवत् । सावधानं परिचारिकाम् अपृच्छत्, ``भगिनि! कियतीं वेतनवृद्धिमपेक्षसे?''

१००. शितबुद्धिः-१०

सहोदरी सहोदरं पृच्छति: भ्रातः, पितामह्यै तस्याः जन्मदिने किम् उपायनं दातुम् इच्छसि? सहोदरः: अहं तस्यै पादकन्दुकं दास्यामि । सहोदरी: व्यर्थः खलु । सा पादकन्दुकेन किं वा करिष्यति? सहोदरः: यतः, सा मम जन्मदिने मह्यं भगवद्गीताम् अदात् खलु । -इति शम्- Compiled/written, encoded, and proofread by G.S.S. Murthy murthygss at gmail dot com
% Text title            : Hasyashikarashatakam
% File name             : hAsyashIkarashatakam.itx
% itxtitle              : hAsyashIkarashatakam
% engtitle              : hAsyashIkarashatakam
% Category              : misc, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : G.S.S. Murthy murthygss at gmail dot com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : G.S.S. Murthy
% Proofread by          : G.S.S. Murthy
% Indexextra            : (Text, Simple Sanskrit Blog 1, 2)
% Latest update         : July 7, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org