जातिसम्बन्धं ब्रह्मवैवर्तपुराणान्तर्गतम्

जातिसम्बन्धं ब्रह्मवैवर्तपुराणान्तर्गतम्

पिता तातस्तु जनको जन्मदाता प्रकीर्तितः । अम्बा माता च जननी जनयित्री प्रसूरपि ॥ १३९॥ पितामहः पितृपिता तत्पिता प्रपितामहः । अत उर्ध्व ज्ञातयश्च सगोत्राः परिकीर्तिताः ॥ १४० ॥ मातामहः पिता मातुः प्रमातामह् एव च । मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः ॥ १४१ ॥ पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही । तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही ॥ १४२ ॥ मातामही मातृमाता मातृतुल्या च पूजिता । प्रमातामहीति ज्ञेया प्रमातामहकामिनी॥ १४३ ॥ वृद्धमातामही ज्ञेया तत्पितुः कामिनि तथा । पितृभ्राता पितृव्यश्च मातृभ्राता च मातुलः ॥ १४४ ॥ पितृष्वसा पितुर्मातृष्वसा मातुः स्वसा स्मृता । सूनुश्च तनयः पुत्रो दायादश्चाऽत्मजस्तथा॥ १४५ ॥ धनभाग्वीर्यजश्चैव पुंसि जन्ये च वर्तते । जन्यायां दुहिता कन्या चाऽऽत्मजा परिकीर्तिता ॥ १४६ ॥ पुत्रपत्नी वधूर्ज्ञेया जामाता दुहितुः पतिः । पतिः प्रियश्च भर्ता च स्वामी कान्ते च वर्तते ॥ १४७ ॥ देवरः स्वामिनो भ्राता ननान्दा स्वामिनः स्वसा । श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥ १४८ ॥ भार्या जाया प्रिया कान्ता स्त्री च पत्नी प्रकीर्तिता । पत्निभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका ॥ १४९ ॥ पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः । सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ॥ १५० ॥ भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः । आवुत्तो भगिनीकान्तो भगिनीपतिरेव च ॥ १५१ ॥ श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना । श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ॥ १५२ ॥ अन्नदाता भयत्राता पत्नीतातस्तथैव च । विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥ १५३ ॥ अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी । माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ॥ १५४ ॥ मातुर्माता पितुर्माता श्वश्रूःपित्रोः स्वसा तथा । पितृव्यस्त्री मातुलानी मातरश्च चतुर्दश ॥ १५५ ॥ पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च । तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः ॥ १५६ ॥ कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बान्धवाः । भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ॥ १५७ ॥ भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः । गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः ॥ १५८ ॥ गुरुकन्या च भगिनी पोष्या मातृसमा मुने । पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ॥ १५९ ॥ पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः । कन्यायाः श्वशुरे चैव तत्संबन्धः प्रकीर्तितः ॥ १६० ॥ गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवाः । गुरुश्वशुरभ्रातृणां गुरुतुल्यः प्रकीर्तितः ॥ १६१ ॥ बन्धुता येन सार्धं च तन्मित्रं परिकीर्तितम् । मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ॥ १६२ ॥ बान्धवो दुःखदो दैवान्निःसंबन्धोऽसुखप्रदः । संबन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले ॥ १६३ ॥ विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः । मित्रं तु प्रीतिजं ज्ञेयं स संबन्धः सुदुर्लभः ॥ १६४ ॥ मित्रमाता मित्रभार्या मातृतुल्या न संशयः । मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम् ॥ १६५ ॥ चतुर्थं नामसंबन्धमित्याह कमलोद्भवः । जारश्चोपपतिर्बन्धुर्दुष्टसंभोगकर्तरि ॥ १६६ ॥ उपपत्न्यां नवज्ञा च प्रेयसि चित्तहारिणी । स्वामितुल्यश्च जारश्च नवज्ञा गृहिणीसमा ॥ १६७ ॥ संबन्धो देशभेदे च सर्वदेशे विगर्हितः । अवैदिको निन्दतस्तु विश्वमित्रेण निर्मितः ॥ १६८ ॥ दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते । अकीर्तिजनकः पुंसां योषितां च विशेषतः ॥ १६९ ॥ तेजीयसां न दोषाय विद्यमाने युगे युगे ॥ १७० ॥ इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे जातिसंबन्धनिर्णयो नाम् दशमोऽध्यायः ॥ १०॥ Encoded and proofread by Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com
% Text title            : jAtisambandha brahmavaivartapurANe
% File name             : jAtisambandhaBVP.itx
% itxtitle              : jAtisambandham (brahmavaivartapurANAntargatam)
% engtitle              : Relations brahmavaivartapurANa
% Category              : purana
% Location              : doc_z_misc_general
% Sublocation           : purana
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : pranav.tendulkar at gmail dotcom
% Proofread by          : vrushaliagarkar at gmail dotcom
% Description-comments  : brahmakhaNDe adhyAya 10
% Indexextra            : (brahmavaivartapurANa)
% Latest update         : January 28, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org