जीवन्मुक्तस्तोत्रम्
अखण्डं परमाद्वैतं स्वतन्त्रं परमं शिवम् ।
सर्वगं सच्चिदानन्दं जीवन्मुक्तं नमाम्यहम् ॥ १॥
निरालम्बं निरातङ्कं द्वैताद्वैतविवर्जितम् ।
सर्वात्मानं सदा शान्तं जीवन्मुक्तं नमाम्यहम् ॥ २॥
चिन्मयं परमं तीर्थं सुनित्यं नित्यनिर्मलम् ।
ब्रह्मचित्तं सतां सेव्यं जीवन्मुक्तं नमाम्यहम् ॥ ३॥
सर्वसद्गुणसम्पूर्णं शुद्धसत्त्वमयं शुभम् ।
जन्ममृत्युजरातीतं जीवन्मुक्तं नमाम्यहम् ॥ ४॥
धन्यं धन्यं सदा धन्यं स्वरूपावस्थितं परम् ।
सुखरूपं सदा पूर्णं जीवन्मुक्तं नमाम्यहम् ॥ ५॥
द्वेष्यं नास्ति प्रियं नास्ति यस्य नास्ति शुभाशुभम् ।
स्वार्थहीनं समं शुद्धं जीवन्मुक्तं नमाम्यहम् ॥ ६॥
भवन्ति यस्य कर्माणि लोककल्याणहेतवे ।
मायातीतं गुणातीतं जीवन्मुक्तं नमाम्यहम् ॥ ७॥
ईश्वरं सर्वविश्वानां सर्वविश्वस्वरूपकम् ।
सर्वोपाधिविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ ८॥
चित्स्वभावं स्वतन्त्रं च हेयोपादेयवर्जितम् ।
निष्कलं परमानन्दं जीवन्मुक्तं नमाम्यहम् ॥ ९॥
नैव निन्दाप्रशंसाभ्यां यस्य विक्रियते मनः ।
आत्मतृप्तं सदा तुष्टं जीवन्मुक्तं नमाम्यहम् ॥ १०॥
नित्यं जाग्रदवस्थायां सुप्तवद् योऽवतिष्ठते ।
पुण्यापुण्यविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ ११॥
माया नास्ति जगन्नास्ति यस्य ज्ञानमहोदधेः ।
सर्वदोषविनिर्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ १२॥
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
अन्तर्व्योमवदाच्छन्नं जीवन्मुक्तं नमाम्यहम् ॥ १३॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
कुर्वतोऽकुर्वतो वा तं जीवन्मुक्तं नमाम्यहम् ॥ १४॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोन्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ १५॥
यः समस्तार्थजालेषु व्यवहार्यपि शीतलः ।
निर्द्वन्द्वं वासनाहीनं जीवन्मुक्तं नमाम्यहम् ॥ १६॥
चैत्यवर्जितचिन्मात्रे पदे परमपावने ।
अक्षुब्धचित्तं विश्रान्तं जीवन्मुक्तं नमाम्यहम् ॥ १७॥
इदं जगदहं सोऽयं दृश्यजातमवास्तवम् ।
यस्य चित्ते न स्फुरति जीवन्मुक्तं नमाम्यहम् ॥ १८॥
स्वयमेव स्वयं हंसं स्वयमेव स्वयं स्थितिम् ।
स्वयमेव स्वयं पश्यन् जीवन्मुक्तं नमाम्यहम् ॥ १९॥
ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी ।
स्वच्छरूपो महामौनी जीवन्मुक्तं नमाम्यहम् ॥ २०॥
शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः ।
नित्यानन्दः प्रसन्नात्मा जीवन्मुक्तं नमाम्यहम् ॥ २१॥
इति जीवन्मुक्तस्तोत्रं सम्पूर्णम् ।
Proofread by Jonathan Wiener wiener78 at sbcglobal.net