श्रीक्षेत्रसुधानिधि जगन्नाथतत्त्वम्- दार्शनिकसमालोचनात्मकशोधप्रारूप्यम्
१. प्रस्तावना
भारतीयसंस्कृतिः नाम केवलं प्राचीनसभ्यतायाः परिचायकः न, अपितु सा विश्वमानवजीवनस्य आध्यात्मिकचेतनायाः मूलाधारः वर्तते । अस्याः संस्कृतेः मूलं वेदाः, उपनिषदः, पुराणानि, इतिहासाः, आगमाः, तन्त्रग्रन्थाश्च सन्ति । एतेषु समस्तेषु ग्रन्थेषु प्रतिपादितं परमं तत्त्वं ब्रह्मतत्त्वमेव, यदेव विविधनामरूपोपाधिभिः लोकानुग्रहार्थं अवतीर्य मानवसमाजस्य धर्मसंस्थापनाय कार्यं करोति । तदेव परब्रह्म श्रीजगन्नाथस्वरूपेण नीलाचले विराजमानं सर्वधर्मसमन्वयस्य, सर्वदर्शनसमन्वयस्य, सर्वलोककल्याणस्य च अद्वितीयं प्रतीकमिति भारतीयदार्शनिकपरम्परायां प्रसिद्धम् ।
श्रीजगन्नाथः न केवलं वैष्णवसम्प्रदायस्य आराध्यदेवता, अपि तु शैव-शाक्त-वैष्णव-सौर-गाणपत्य-तान्त्रिक-बौद्ध-जैनादीनामपि समन्वितचिन्तनस्य केन्द्रभूतः । अयं समन्वयभावः भारतीयसंस्कृतेः वैशिष्ट्यम् । अतः श्रीजगन्नाथतत्त्वं केवलं धार्मिकभावनायाः विषयः न, किन्तु दर्शनशास्त्रस्य, धर्ममीमांसायाः, तत्त्वमीमांसायाः, सांस्कृतिकाध्ययनस्य च अत्यन्तं महत्त्वपूर्णः अनुसन्धानविषयः ।
श्रीक्षेत्रसुधानिधिः नाम संस्कृतमहाकाव्यं श्रीजगन्नाथसंस्कृतेः, श्रीक्षेत्रमहिम्नः, श्रीमन्दिरपरम्परायाः, ऐतिहासिकप्रसङ्गानां, दार्शनिकतत्त्वानां, भक्तिसाधनायाः, मोक्षमार्गस्य च समन्वितप्रतिपादकं विशिष्टं काव्यमस्ति । अस्मिन् काव्ये कविना श्रीजगन्नाथस्य स्वरूपं केवलं देवतारूपेण न निरूपितम्, अपि तु वेदान्तप्रतिपाद्यपरब्रह्मरूपेण, प्रणववाच्यरूपेण, दारुब्रह्मरूपेण, सर्वमतसमन्वयात्मकविश्वचैतन्यरूपेण च प्रतिपादितम् । काव्यस्य प्रारम्भ एव-
``वेदान्तसूत्रमधुगोलकनेत्रयुग्मं
वेदात्मकं प्रणववाच्यहरिं स्मरामि । ''
इति पद्येन कविः श्रीजगन्नाथं वेदान्तप्रतिपाद्यं प्रणवस्वरूपं परब्रह्मत्वेन प्रतिष्ठापयति । एषा दृष्टिः सामान्यभक्तिकाव्येषु विरला दृश्यते ।
एवमेव काव्ये श्रीजगन्नाथस्य ``सकलमतपरं सर्वतन्त्रं स्वतन्त्रम्'' इत्युक्त्या तस्य सार्वभौमिकं स्वरूपं प्रतिपादितम् । अयं सिद्धान्तः भारतीयदर्शनस्य समन्वयपरम्परां पुष्णाति । अत्र भगवान् न केवलं विष्णुः, न केवलं शिवः, न केवलं शक्तिः, किन्तु सर्वदर्शनानां परमार्थतत्त्वस्य मूर्तिमदभिव्यक्तिरिति प्रतिपाद्यते ।
तथैव श्रीक्षेत्रसुधानिधौ श्रीमन्दिरस्य वर्णनं केवलं स्थापत्यवैभवस्य चित्रणं न, अपि तु प्रत्येकं देवालयं, प्रत्येकः संस्कारः, प्रत्येकः उत्सवः, प्रत्येकं तीर्थं च आध्यात्मिकदृष्ट्या विवेचितम् । विमलादेव्याः शक्तितत्त्वम्, दारुब्रह्मणः रहस्यम्, नीलचक्रस्य ब्रह्माण्डीयप्रतीकत्वम्, महाप्रसादस्य समतादर्शनम्, पतितपावनमूर्तेः विश्वबन्धुत्वम्-एतानि सर्वाणि विषयाणि दार्शनिकदृष्ट्या विश्लेषणीयानि भवन्ति ।
यद्यपि श्रीजगन्नाथविषये बहवः ग्रन्थाः, शोधप्रबन्धाः, लेखाश्च उपलब्धाः सन्ति, तथापि श्रीक्षेत्रसुधानिधेः दार्शनिकस्वरूपस्य सम्यक्, समालोचनात्मकं, तुलनात्मकं च अनुसन्धानं अद्यावधि न दृश्यते । विशेषतः वेदान्तदृष्ट्या, तत्त्वमीमांसादृष्ट्या, सर्वमतसमन्वयदृष्ट्या, शक्तिवैष्णवसम्बन्धदृष्ट्या, दारुब्रह्मतत्त्वदृष्ट्या च अस्य काव्यस्य विश्लेषणं न पर्याप्तरूपेण सम्पन्नम् । अतः अस्य शोधस्य आवश्यकता स्वयमेव सुस्पष्टा भवति ।
अस्य शोधप्रबन्धस्य प्रमुखोद्देशः श्रीक्षेत्रसुधानिधौ प्रतिपादितस्य जगन्नाथतत्त्वस्य दार्शनिकस्वरूपस्य सम्यगनुशीलनं कर्तुम् । अस्मिन् अनुसन्धाने वेद, उपनिषदः, ब्रह्मसूत्रम्, भगवद्गीता, पुराणानि, आगमाः, तन्त्रग्रन्थाः तथा भारतीयदर्शनपरम्परायाः प्रमुखाचार्याणां सिद्धान्ताः आधारभूतत्वेन स्वीकृताः भविष्यन्ति । तेषां प्रकाशे श्रीक्षेत्रसुधानिधेः प्रतिपाद्यतत्त्वानां समालोचनात्मकं परीक्षणं क्रियते ।
अन्ततः एषः शोधप्रबन्धः केवलं काव्यविश्लेषणरूपेण न भविष्यति, अपि तु श्रीजगन्नाथतत्त्वस्य सार्वभौमिकं, दार्शनिकं, सांस्कृतिकं, आध्यात्मिकं च स्वरूपं प्रकाशयन् भारतीयदर्शनसाहित्ये नूतनं योगदानं दास्यतीति विश्वासः ।
२. समस्याविषयः
यद्यपि जगन्नाथसंस्कृतौ बहवः ग्रन्थाः सन्ति, तथापि श्रीक्षेत्रसुधानिधेः दार्शनिकस्वरूपस्य व्यवस्थितं शोधकार्यं न दृश्यते । विशेषतः-
-- जगन्नाथस्य ब्रह्मस्वरूपम् ।
-- दारुब्रह्मतत्त्वम् ।
-- वेदान्तदृष्ट्या जगन्नाथः ।
-- शाक्त-शैव-वैष्णवसमन्वयः ।
-- भक्तेर्मोक्षस्य च स्वरूपम् ।
इत्येते विषयाः अद्यापि सम्यगनुसन्धेयाः ।
३. शोधस्य उद्देश्याः
१. श्रीक्षेत्रसुधानिधौ प्रतिपादितस्य जगन्नाथतत्त्वस्य विश्लेषणम् ।
२. वेदान्तदृष्ट्या जगन्नाथस्य ब्रह्मस्वरूपनिर्णयः ।
३. दारुब्रह्मणः दार्शनिकमहत्त्वस्य विवेचनम् ।
४. शाक्त-वैष्णव-शैव-तान्त्रिकसमन्वयस्य परीक्षणम् ।
५. भक्तिमोक्षयोः तात्त्विकस्वरूपस्य विवेचनम् ।
६. भारतीयदर्शनपरम्परायां अस्य काव्यस्य योगदाननिर्णयः ।
४. शोधप्रश्नाः
-- किं जगन्नाथः परब्रह्मस्वरूपः?
-- दारुब्रह्मशब्दस्य दार्शनिकार्थः कः?
-- कथं वेदान्तस्य प्रतिपादनं काव्ये दृश्यते?
-- कथं शक्तितत्त्वं वैष्णवतत्त्वेन सह समन्वितम्?
-- मोक्षस्य स्वरूपं किम्?
५. शोधपद्धतिः
-- विश्लेषणात्मकपद्धतिः
-- तुलनात्मकपद्धतिः
-- दार्शनिकपद्धतिः
-- ग्रन्थानुशीलनम्
-- प्रमाणविश्लेषणम्
अध्यायविभागः
प्रथमोऽध्यायः
जगन्नाथसंस्कृतेः ऐतिहासिकदार्शनिकपृष्ठभूमिः
-- भारतीयदर्शनस्य स्वरूपम्
-- जगन्नाथसंस्कृतेः विकासः
-- श्रीक्षेत्रस्य महत्त्वम्
-- श्रीक्षेत्रसुधानिधेः परिचयः
द्वितीयोऽध्यायः
श्रीक्षेत्रसुधानिधेः काव्यस्वरूपम्
-- ग्रन्थकर्तुः परिचयः
-- काव्यरचना
-- छन्दः
-- भाषा
-- अलङ्काराः
-- काव्यस्य वैशिष्ट्यम्
तृतीयोऽध्यायः
श्रीक्षेत्रसुधानिधौ प्रतिपादितं ब्रह्मतत्त्वम्
-- वेदान्तदृष्ट्या ब्रह्म
-- प्रणवतत्त्वम्
-- दारुब्रह्म
-- पुरुषोत्तमतत्त्वम्
-- परमात्मस्वरूपम्
चतुर्थोऽध्यायः
श्रीक्षेत्रसुधानिधौ प्रतिपादितं जगन्नाथदर्शनम्
-- जगन्नाथः परब्रह्म
-- सर्वमतसमन्वयः
-- शैववैष्णवसमन्वयः
-- शाक्तवैष्णवसमन्वयः
-- तन्त्रवैष्णवसमन्वयः
-- जगन्नाथस्य विश्वरूपम्
पञ्चमोऽध्यायः
श्रीक्षेत्रसुधानिधौ भक्तिमोक्षतत्त्वम्
-- भक्तिस्वरूपम्
-- उपासनातत्त्वम्
-- महाप्रसादतत्त्वम्
-- मोक्षतत्त्वम्
-- लोकमङ्गलदृष्टिः
षष्ठोऽध्यायः
श्रीक्षेत्रसुधानिधेः दार्शनिकसमालोचनम्
-- अद्वैतदृष्ट्या समीक्षा
-- विशिष्टाद्वैतदृष्ट्या समीक्षा
-- द्वैतदृष्ट्या समीक्षा
-- शाक्तदृष्ट्या समीक्षा
-- तन्त्रदृष्ट्या समीक्षा
-- आधुनिकदृष्ट्या मूल्याङ्कनम्
उपसंहारः
-- शोधस्य निष्कर्षाः
-- नवीनोपलब्धयः
-- भाविशोधस्य सम्भावनाः
अपेक्षितस्रोतांसि
मूलग्रन्थाः
-- श्रीक्षेत्रसुधानिधिः
-- ऋग्वेदः
-- उपनिषदः
-- ब्रह्मसूत्रम्
-- भगवद्गीता
-- श्रीमद्भागवतम्
-- स्कन्दपुराणम् (पुरुषोत्तममाहात्म्यम्)
-- ब्रह्मपुराणम्
-- नीलाद्रिमहोदयः
-- कपिलसंहिता
-- तन्त्रग्रन्थाः
-- पाञ्चरात्रागमाः
सहायकग्रन्थाः
-- शाङ्करभाष्यम्
-- श्रीभाष्यम्
-- मध्वभाष्यम्
-- आधुनिकजगन्नाथशोधग्रन्थाः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
Retd.Head, Dept.of Sarvadarshan
SJSV,Puri