जाॅर्ज बर्कले दर्शनसमीक्षणम्

जाॅर्ज बर्कले दर्शनसमीक्षणम्

लेखकः - डाॅ. नन्दप्रदीप्तकुमारः उपाचार्यः, सर्वदर्शन-विभागमुख्यश्च श्रीजगन्नाथसंस्कृतविश्वविद्यालयः,श्रीविहारः,पुरी ३ शोधसारः- भारतीयाः खलु आध्यात्मिकवादिन ईश्वर-जीव-जगतां विषये चिन्तयन्ति । आत्मतत्त्वानुसन्धाने प्राच्यानां मतिः सदैव सुदृढा दृश्यते । इमे पाश्चात्या यदिवा आत्मतत्त्व-जगत्तत्त्वविषये च यत्र तत्र किमपि कथयन्ति,किन्तु एतेषां विचारप्रक्रिया प्राच्यतः संपूर्णभिन्ना । भौतिकवस्तूनां विचारे तेषां समयोऽतिवाहितः । स्थूल-बाह्यप्रत्ययचिन्तने निरन्तर-कुशलाः पाश्चात्याः खलु सुक्ष्मान्तरिकचिन्तनकर्तुमसमर्था चिन्त्यन्ते । इदं बर्कलेदर्शनं पाश्चात्यदर्शनेष्वन्तर्भूतम् । अत्र पूर्वप्रवर्तितमतानां खण्डनं स्वपक्षमण्डनं च कृत्वा विचारप्रक्रिया प्रचलति । अमूर्तप्रत्ययवादखण्डनम्, जडद्रव्यखण्डनं,भाषाविश्लेषणादीनां बहुविषयाः मुख्यरूपेणात्र समुपस्थापिताः दृश्यन्ते । पाश्चात्येषु अन्यतमः सुदूरप्रसारि-स्वकीयमतमुपस्थापितवानयमाचार्यो बर्कले महोदयः । सुतरामेतद्दर्शनमवश्यं विचारणीयं प्रतिभाति । स्थालीपुलाकन्यायेन दर्शं दर्शं केनापि सारल्येन बर्कलेमतमुपस्थापयाष्यामीति मनसि विचिन्त्यऽग्रेसरामि । (i) कूटशब्दाः- बर्कले, अमूर्तप्रत्ययः, जडद्रव्यम्, भाषा-विश्लेषणम् प्रासंगिकोपक्रमः- Bishop (George) Berkely (१६८५-१७५३) प्रसिद्धं नाम । अद्भूतं व्यक्तित्वम् । मान्यो दार्शनिको विज्ञानवादस्यै । ``क्लोइन''नगरस्य पाद्री Bishop पूजार्हः ।(ii) इन्द्रियानुभववादस्य अग्रगामियोद्धा जर्ज बर्केलिः १२/०३/१६८५ ख्रीष्टाब्दे ``आयारलाण्ड Ireland `` स्थित ``किलकेनि Kilkenny `` नामके क्षेत्रे स्वास्तित्वसंपन्नो बभूव ।(iii) स खलु प्रथमः पूर्वाचार्य-लिखितानि शास्त्राणि सम्यगधीत्य तानि सर्वाणि तत्याज । बर्कले ``विलियम बर्कले'' इत्यस्य ज्येष्ठः पुत्रः आसीत् । पिता विलियम बर्कले तत्रत्य ``सज्जनः'' (iv) इति श्रूयते । १६९६ तमे वर्षे किल्केनी-महाविद्यालये, १७०० तमे वर्षे डब्लिन्-नगरस्य ट्रिनिटी-महाविद्यालये च प्रवेशं प्राप्तवान् सः, तत्रैव बी।ए। degree कृत्वा १७०४ तमे फेलोशिप् प्राप्तवान् । पश्चात्तेन भौतिकपदार्थप्रसंगे समीक्षात्मकमध्ययनं चकार । तच्चिन्तने मुख्याः प्रभावोऽनुभववादः आसीत् । लक् प्रवर्तितवादस्य पुनरीक्षणं समाप्य सयौक्तिकं विज्ञानवादः प्रतिष्ठापितः ।(v) पाश्चात्यदर्शनस्य इतिहासे बर्कलेदर्शनस्य वैज्ञानिकत्वमतीव महत्त्वपूर्णमस्ति । अनेन विज्ञानवादः प्रतिष्ठापितः । विज्ञानवादस्य अयमारम्भः सामान्यतया प्लेटोतः इति मन्यते । यद्यपि बर्कले- पूर्वंवर्तिनो दार्शनिकाः प्लेटोप्रभृतयो विज्ञानवादिनोऽभवन्, परन्तु अनुभव-विज्ञानयोः याथार्थ्यं न केनापि प्रमाणीकृतम् । विज्ञानविषयक-द्वन्द्वं सम्भवतो न निरस्तम् । भिन्नार्थेन इतः पूर्वं भौतिकवस्तूनां जडद्रव्याणां वा केनापि पूर्णतया निषिद्धं न कृतम् । एषः सज्जनो बर्कले-महोदयः जडद्रव्यं सम्पूर्णतया खण्डयित्वा अध्यात्मवादस्य प्रत्ययवादस्यवि वा संस्थापनं विहितम् । Berkeley इत्यस्य मुख्यग्रन्थाः- बर्कले महोदयस्य प्राधान्येन दशग्रन्थाः प्रसिद्धाः दृश्यन्ते । (vii) वक्ष्यमाणे तेषां नामानि प्रकाशनसमयाश्च प्रदत्तानि सन्ति । 1. Common Place Book (सामान्यस्थानपुस्तकम्) 1705 2. An Essay Towards a New Theory of Vision (दृष्टेः नूतनसिद्धान्तस्य प्रतिनिबन्धः) 1709 3. A Treatise Concerning the Principles of Understanding (अवगमनसिद्धान्तसम्बद्धः ग्रन्थः) 1710 4. passive obedience (निष्क्रिय आज्ञापालनम्) 1711 5. An Essay Towards preventing the Ruin of Great Britain 1721 (ग्रेट् ब्रिटेन-विनाश निवारणात्मकः निबन्धः ) 6. Three Dialogues Between Hylas and Philoneus 1731 (हाइलास्-फिलोनियसयोः मध्ये त्रयः संवादाः ) 7. Alciphron or the Minute Philosopher 1732(अल्सिफ्रोन् अथवा निमेषदार्शनिकः) 8. The Theory of Vision Viindicated and Explained 1733 (दृष्टिसिद्धान्तः विनिदर्शितः व्याख्यानं च ) 9. The Analyst 1734 (विश्लेषकः) 10. A Defence of Free Thinking in Mathematics 1735 (गणितस्य स्वतन्त्रचिन्तन-रक्षणम् ) ईश्वरसमर्थनम्- बर्कले मूलतः धार्मिकदार्शनिकोऽस्ति । ईश्वरस्य आत्मानश्च अस्तित्वं प्रमाणयितुं सः मानवस्य पुण्यं कर्तव्यमिति स्वीकरोति । तन्नये ईश्वरादीनामाध्यात्मिकविषयाणामाधारस्तदा सुदृढो स्यात् यदा भौतिकवादस्य खण्डनं संपूर्णतया न भूतम् । एतस्मात्कारणात् बर्कले भौतिकवादं नास्तिकवादं च सर्वथा नांगीकृतवान् । बर्कले ईसाइ-धर्मस्य पुरोहितः Father आसीत् । समाजे धार्मिकभावनानां उज्जागरणमेव स्वकीयं पवित्रं कर्म मन्यमानः सन् सर्वदा जनानां प्रवृत्तौ धार्मिकचिन्ताधारां सर्जयामास । तदानीं बर्कले-दर्शनस्य मौलिकसमस्या जीववादस्य ईश्वरवादस्य च स्थापनमस्ति । (viii) ईश्वरवादस्य सिद्ध्यर्थं बर्कले आदर्शवादस्य समर्थनं करोति, अथवा ईश्वरवादस्तस्यादर्शवादानुसारं प्रभवति । विज्ञानवादमुपस्थापनम्- अवधारणावादो विज्ञानवादो वा वस्तुतः सत्यम् । बर्कले सिद्धान्तानुसारं प्रत्यक्षतो वयं भौतिकवस्तुनि न प्राप्नुमः, विज्ञानमेव प्राप्नुमः । तदेव ध्येयम् । अनेन आत्मेश्वर-जगदादीनि विज्ञानानि आध्यात्मिकविषयान् वर्णयन्ति । अक्षरशः यत् वयं पश्यामः स्पृशामो वा तन्न भौतिकं किन्तु विज्ञानरूपमिति भाव्यम् । विज्ञानात् परं किमपि न विद्यते । (ix) विज्ञानानामस्तित्वं मनसि आत्मनि वा वर्तते । सुतरां वस्तूनामस्तित्वमपि आत्मनः सापेक्षं वा आत्मनिर्भरम् । आत्मा एव द्रष्टा । सः अनुभवी अस्ति । आत्मनः इयमनुभवशक्तिः परमात्मनो वा ईश्वरस्य वा दानमस्ति । आत्मा इन्द्रियाणामनुभावकः उच्यते । बर्कलेदर्शनज्ञातुं तत्पूर्ववर्तीनां केषाञ्चन दार्शनिकानां विचारमपेक्षते । अनुभववादस्य पराकाष्ठा संशयवादे अस्ति । बर्कले न अनुभववादस्य प्रवर्तको नापि तद्दर्शने अनुभववादस्यान्तः प्राप्यते । इत्यत्र बीजरूपानुभवस्य परिवर्धनं भूत्वा महाबोधिरूपेणाविर्बभूव । बर्कले अनुभववादस्य संशोधनं कृतवान्,परिमार्जितं कृतवान् । अनुभववादे या असङ्गतिः आसीत् सा सर्वा तैर्निरस्ता । स अनुभववादं पूर्णं कर्तुं प्रयत्नः कृतः । लक् महोदयस्य अनुभववादं बर्कलेमहोदयेन विज्ञानवादे परिवर्तितं कृतवान् । अमूर्त्ततत्त्वविचारः- अमूर्तप्रत्ययस्य खण्डनं जार्ज बर्कले इत्यस्य दर्शने अतीव महत्त्वपूर्णं मन्यते । यतोहि अस्याधारेण सः स्वदर्शनं तर्कसंगतं कर्तुं समर्थोऽभवत् । उल्लेखनीयं यत्, बर्कले पूर्ववर्ति-दार्शनिको जाॅन् लक् अमूर्तविचारं कृतवान् आसीत् । बर्कले मते अयं अमूर्तविचारो लोके दर्शने च बह्वी असङ्गतिं जनयति । ``मानवीय-ज्ञानसिद्धान्ताः'' इत्यस्मिन् प्रसिद्धे ग्रन्थे तेन अस्मिन् विषये सम्यग्गालोचना विहिता । अस्य ग्रन्थस्य भूमिकायां बर्कले लक् मतं दृढतया सह खण्डनं कृतवान् । अयं अमूर्तविचारः कः ? बर्कले कस्मात्तस्य खण्डनं विदधाति ? इति विषयान् विस्तरेण चर्चाकर्तुं पूर्वं लाॅक्-बर्कलेमतयोर्मध्ये यत् सादृश्यमसादृश्यं वा विद्यते तद्विषये अवलोकयामः । विरोधस्यापि केचन बिन्दवोऽत्र पश्यामः । अमूर्त प्रत्ययसमीक्षणम् (Abstracy idea) लक् अनुभववादी आसीत् । तर्कवादस्य विरुद्धतां प्रदर्श्य अनुभववादं प्रस्तुय तेन ज्ञानसृष्टौ इन्द्रियाणां च भूमिका विचारिता । बर्कले तर्कवादस्यालोचकः अनुभववादस्य च कदाचित् समर्थकः आसीत् । लक् नये यद् वयं किमपि जानीमः, तत्तु आत्म-संवेदन-रूपेण इन्द्रियाणां माध्यमेन जायते । एवं इन्द्रियानुभवोऽस्माकं ज्ञानस्य सीमा अस्ति । परन्तु इन्द्रियानुभवाधाररूपेण द्रव्यमस्तीति लक् मतस्य समर्थनं बर्कले न कृतवान् । वस्तुतोऽस्य बाह्यप्रकरणस्य खण्डनं बर्कले महोदयस्य मुख्यमुद्देश्यमासीत् । यथा वयं आरम्भे दृष्टवन्तः, भौतिकविचारयुक्तान् जनान् उद्धर्तुं तान् आस्तिकत्वेन प्रेरयितुं च बर्कले भौतिकद्रव्यस्य खण्डनं अत्यावश्यकं भाषितम् । यतो हि लक् अमूर्तविचाराणामाधाररूपेण अक्रियद्रव्यस्य अस्तित्वं स्वीकृतम् । बर्कले अक्रियद्रव्यस्यास्वीकारात्तत्खण्डयितुं प्रवर्तते स्म । बर्कलेद्वारा खण्डनम् - किमपि सामान्यं जातिर्वा अमूर्तप्रत्यय उच्यते । यथा मनुष्ये मनुष्यत्वम् । यतो हि राम-श्याम-काम-विमलादिनामानि जातिविचाराः प्रवर्तन्ते । केचन लोकाः कथयन्ति यत् मानवचिन्तने अमूर्तप्रत्ययचिन्तनस्य महत्त्वपूर्णा भूमिका अस्ति । तान् विहाय विकासो न भवितुमर्हति । अनेन माध्यमेन एव मानवस्य ज्ञानस्य विज्ञानस्य च वृद्धिः भवति । अमूर्तचिन्तनं केवलं पशुभ्यः मनुष्याणां श्रेष्ठतां स्थापयति । द्रव्याणामस्तित्वविषये जनाः कथयन्ति यत्, यद्यपि वयं अनुभवद्वारा इन्द्रिय-माध्यमेन यत् जानीमस्तत् केवलो गुणः एव, परन्तु तेषामनेकगुणानां समर्थनेन वयं द्रव्यसामान्यमेव कल्पयामः । एवं अमूर्तसंकल्पनास्वीकारो भवति । अमूर्ततायाः एषा क्रिया लोके तर्कशक्तिरिति उच्यते । अत्रेन्द्रियाणि केवलं विशेषान् प्रकाशयन्ति, परन्तु एतान् विशेषान् प्राप्य बुद्धिः सद्यः क्रियाशीलः भवति, एतेषां आधारेण सामान्यं निश्चीयते । बर्कले उपर्युक्त-लोक मतस्य दृढतया विरोधः कृतः । अस्य कृते बर्कले निम्नलिखितवादान् प्रददाति स्म । (x) मानवबुद्धौ एतादृशी शक्तिः नास्ति । उदाहरणरूपेण बर्कले कथयति यदस्माकं बुद्धेः अमूर्ततायाः शक्तिः अस्ति चेद् भावयामस्तर्हि भ्रमः एव । या विशेषं गृहीत्वा सामान्यं करोतीति निश्चीयते । ते वदन्ति- ``अन्यजनेषु एषा शक्तिः अस्ति वा न, केवलं ते वक्तुं शक्नुवन्ति, मम कृते तु अहं निश्चयेन वक्तुं साहसं करोमि यत् मम कृते एतादृशी शक्तिर्नास्ति । श्वेत-कृष्ण-लम्ब-कुब्जादिप्रत्ययविचारेण वयममूर्तप्रत्ययसाधयितुं न शक्नुमः ।(xi) १. ज्ञानशास्त्रीयतर्कः- बर्कलेमते जडद्रव्यं कदापि ज्ञानस्य विषयो भवितुं न पारयति, अतः ज्ञानेन तस्य अस्तित्वं विचारयितुं कदापि न शक्यते । जडद्रव्यज्ञानं न प्रत्यक्षेण नापि बुद्ध्या वा सम्भवति, प्रत्ययमात्रत्वात् । २. तार्किकतर्कः- लक् नये अस्माकं बुद्धौ वर्तमानाः षट् क्षमतासु एका क्षमता अस्ति या अमूर्तीकरणात्मिका Abstraction uchyate , यया सामान्यस्य Universal तथा द्रव्यस्य Substance प्रादुर्भावः स्वीक्रियते । बर्कले तन्न आद्रियते । तन्नये अमूर्तविचारस्य धारणा सर्वादौ भ्रमात्मका । बालभाषायां सामान्यप्रत्ययाः जातिवाचक-संज्ञारूपेण आगच्छन्ति, किन्तु तेषु अमूर्तीकरणक्षमता न विद्यते । ३. कार्य-कारणवादः- कर्या-कारणवादखण्डनार्थं बर्कले उक्तं यत् चेतनसंकल्पनाजननशक्तिः अक्रियद्रव्येषु न, अपितु आत्मेश्वरादिषु चेतनसत्त्वेषु एव विचारणीया । लक् महोदयस्य द्वितीयस्तर्को यत् प्रतीतिस्मृत्योर्मध्ये कोऽपि भेदः सिद्ध्यति । तत्र स्मृतिर्नाम आन्तरिकस्थितिः । प्रतीतिस्तु बाह्यभौतिकवस्तुप्रतीतिः । अनयोर्मध्ये तादात्म्यं नास्ति । नात्र कार्य-कारणभावः स्वीक्रियते ।(xii) जडद्रव्यखण्डनम्- बर्कले इत्यस्य मते अमूर्त-विचाराणाम् (जाति-विज्ञानानाम्) निषेधं विना वयं जडवस्तूनाम् अस्तित्वं निवारयितुं न शक्नुमः । यतः अमूर्तविचाराः अक्रिय-जडवस्तुनः स्वरूपाः सन्ति । अमूर्तविचारस्य अथवा काल्पनिकसामान्यस्य आधारेण जडवस्तुनो ज्ञानं प्राप्नुमः । वयं विविधमनुष्येषु मनुष्यत्वं कल्पयामः, नानाजातीयेषु गोषु गोत्वं विचिन्तयामः । यदि वयं सामान्यजातिं प्रत्ययं वा निराकुर्मस्तर्हि जडद्रव्यस्य निराकरणे सहायतां प्राप्स्यामः । अत एव बर्कले कथयति यत् अस्माकं भौतिकवस्तूनाम् विश्वासस्य मूलकारणम् योऽमूर्तविचारः सः काल्पनिकः । साधुषाषाप्रयोगाभावात् । अमूर्तविचारः भाषायाः दूषितः प्रयोगः अस्ति (xiii) इति वर्कले आचार्या विवदन्ते । भाषाविश्लेषणम्- भाषायाः प्रकृतिः तस्याः दुरुपयोगः च - बर्कले प्रथमं भाषायास्तस्य दुरुपयोगस्य च दर्शने विचारः कृतोऽस्ति । यतो हि अधिकांशः दार्शनिकसमस्याः भाषायाः दुरुपयोगाद् हि उत्पद्यन्ते । अत एव बर्कले कथयति यत् प्रथमं भाषायाः सम्यक् प्रयोगो ज्ञातव्यः, येन अनुचितप्रयोग-परिहरितुं शक्नुमः । प्रथमं भाषा,तस्य व्यक्तीकरणप्रक्रिया, असाधुप्रयोगः,व्यवहारस्थानानि विषये सम्यग्ज्ञात्वा दर्शनक्षेत्रे तस्याः साधुप्रयोगः कर्तव्यः । अन्यथा भाषासमस्या बारम्बारं समायाति । अत्र वयं चिन्तयामः यत् बर्कले दार्शनिकविषयान् विहाय भाषाविज्ञानस्य विषये कस्मादुपदिशति ? । समाधानमत्र बर्कले भाषाविज्ञानस्य व्याकरणस्य च प्रश्नं न उत्थापयति । किन्तु दार्शनिककठिनतायाः एकमात्रं कारणं भवति भाषासमस्या इति प्रमाणयति । । भाषायाः दुरुपयोगः एव विचारान् जटिलान् दोषपूर्णान् च करोति । इत्यत्र साधुप्रयोगज्ञानम् अत्यावश्यकम् । प्रायशो वयं दार्शनिकाः यदिवा अस्याः समस्यायाः समाधानं कुर्मः, तथापि न पूर्णतया । फलतः क्रमशः समस्याः वर्धमानाः भवन्ति । प्रत्येकस्य समाधानं प्राप्नुमः, नूतना समस्या काचिदुत्पद्यते । एवं समस्यानां संख्या सीमातीता भवति तथा च वयं किमपि अन्तिमं समाधानं कर्तुं न न शक्नुमः । यस्मात् परं समस्याः न उत्पद्यन्ते । प्रश्नोऽस्ति एताः समस्याः कथं समाप्ताः भवेयुः? किमर्थं वयं अन्तिमनिदानं न प्राप्नुमः ? बर्कले अस्य उत्तरं प्रददाति -यदि वयं अस्माकं समस्यायाः व्यर्थतां ज्ञातुं आगच्छामः तर्हि समस्यायाः समाप्तिः भविष्यति ।xiv उपसंहारः- पाश्चात्यदर्शनेषु जर्ज बर्कले दर्शनस्य लोकप्रियता जनजनविदिता । समाजसेवा आसीदस्य महानुभावस्य चरमा पराकाष्ठा । ईश्वरवादप्रसंगो भवतु वा दरिद्रनारायणस्य सेवा, यत्र कुत्रापि तस्याविर्भावो बलवत्तरः तदानीन्तनःसमाजे । जनसेवा संपादयितुमनेन चिकित्सापद्धतिरपि कापि विलिखिता श्रूयते xv । सूक्ष्मदार्शनिक-विचारो बर्कलेदर्शने लालित्यपूर्णरूपेण प्रकाशितः । सर्वत्र अध्यात्म्यवादविचारप्रसंगे विचार्यमाणेऽस्य दर्शनस्य योगदानं महत्वपूर्णं वक्तुमिह शक्यते । अत्याधुनिक-मनोवैज्ञानिकाः केचन बर्कलेमतं समर्थयन्ति अन्ये नाद्रियन्ते । अत्यलं पल्लवितेन । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : A review of George Berkeley's views
% File name             : jarjabakaledarshanasamIkShaNam.itx
% itxtitle              : jA.crja barkale darshanasamIkShaNam (lekhaH)
% engtitle              : jorja barkale darshanasamIkShaNam
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda pknanda65 at gmail.com
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 12, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org