काश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानां रैखिकमध्ययन-प्रारूप्यम्
१. भूमिका एवं पीठिका (Introduction and Background)
भारतीयदार्शनिकपरम्परासु कश्मीरशैवदर्शनम् (प्रत्यभिज्ञा-त्रिक-सिद्धान्तः) अद्वैतवेदान्तस्य अतिरिच्य चेतनायाः जगद्विस्तारस्य च अत्यन्तं गम्भीरां वैज्ञानिकीं च व्याख्यां करोति । अस्मिन् दर्शने परब्रह्म ``परमशिवः'' स्वकीयया अनन्तया स्वातन्त्र्यशक्त्या आत्मानम् एव विश्वरूपेण प्रकटयति । अस्य विश्वप्रपञ्चस्य अभिव्यक्तेः लयस्य च मूलाधारः षड्त्रिंशत् (३६) तत्त्वानि सन्ति ।
सामान्यतः एतानि ३६ तत्त्वानि त्रिषु वर्गेषु (शुद्ध-शुद्धाशुद्ध-अशुद्धतत्त्वेषु) विभज्य अध्यीयन्ते । किन्तु परमशिवात् (परमचेतनात्) आरभ्य पृथिवी (स्थूलजडपदार्थः) पर्यन्तम् यः सृष्टिक्रमः अस्ति, तथा पृथिव्याः पुनः परमशिवपर्यन्तं यः लयक्रमः (योगमार्गः) अस्ति, सः कश्चन ``अविच्छिन्नः, क्रमिकः, रैखिकश्च (Continuous Linear Sequence)'' मार्गः अस्ति । अस्मिन् शोधकार्ये एतेषां ३६ तत्त्वानाम् एतादृशस्य रैखिक-परिणामस्य (Linear Hierarchy and Evolution) दार्शनिकम् विश्लेषणात्मकञ्च अध्ययनं करिष्यते ।
२. शोधस्य समस्या (Research Problem)
पारम्परिकग्रन्थेषु ३६ तत्त्वानां वर्गीकरणं खण्डशः (Categorical Division) लभ्यते, येन चेतनायाः (Consciousness) तथा पदार्थस्य (Matter) मध्ये कश्चन कृत्रिमः भेदः दृश्यते । परमचेतनात् जडपदार्थस्य निर्माणे रैखिक-सोपानानां (Linear Transition States) निरन्तरता कथं सिद्ध्यति? शुद्धतत्त्वेभ्यः अशुद्धतत्त्वेषु प्रवेशकाले ``माया'' तथा ``पञ्चकञ्चुकानि'' कथं रैखिक-संधिबिन्दुरूपेण कार्यं कुर्वन्ति? एषा समस्या दार्शनिकदृष्ट्या समाधातुं ३६ तत्त्वानाम् अवरोहण-आरोहणयोः रैखिक-अध्ययनम् अतीव आवश्यकम् अस्ति ।
३. शोधस्य औचित्यम् महत्त्वञ्च (Rationale and Significance)
कः-चेतना-पदार्थयोः सेतुरूपताः अयं शोधः परमशिवस्य अभिन्न-प्रकाश-विमर्शयोः पृथिवीपर्यन्तं घनीभूततायाः (Condensation of Consciousness) रैखिक-मार्गम् उद्घाटयिष्यति ।
खः- साधनापद्धतेः सुगमता - योगिनः साधनाकाले पृथिव्याः शिवपर्यन्तं यं ``प्रत्याहारम्'' वा ``लयक्रमम्'' कुर्वन्ति, तस्य रैखिक-मानचित्रम् (Linear Blueprint) अनेन शोधेन स्पष्टं भविष्यति ।
गः-आधुनिकविज्ञानेन सह तुलना - आधुनिक-भौतिकविज्ञाने (Modern Physics) तथा चेतनाविज्ञाने (Consciousness Studies) ``Energy to Matter'' तथा ``Matter to Consciousness'' इति यः विचारः अस्ति, तस्य समीक्षणे अयम् अध्ययनः नूतनां दिशं दास्यति ।
४. शोधस्य उद्देश्यानि (Research Objectives)
उद्देश्यम्
क - कश्मीरशैवदर्शनानुसारं परमशिवात् पृथिवीपर्यन्तम् ३६ तत्त्वानां सोपानक्रमस्य (Descending Order) रैखिक-विश्लेषणम् ।
ख - शुद्ध-शुद्धाशुद्ध-अशुद्ध-इति वर्गत्रयस्य मध्ये रैखिक-सम्बन्धस्य तथा माया-पञ्चकञ्चुकानां सङ्क्रमणकालीन-भूमिकायाः निरूपणम् ।
ग - साधनादृष्ट्या पृथिव्याः परमशिवपर्यन्तम् आरोहण-रैखिकक्रमस्य (Laya-Krama/ Ascending Path) अनुशीलनम् ।
घ - अस्य ३६-तत्त्वीय-रैखिक-संरचनायाः आधुनिक-चेतनाविज्ञानेन सह तुलनात्मकं समीक्षणम् ।
५. शोध-प्रश्नाः (Research Questions)
कः कश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानां रैखिकः (Linear) क्रमः कः, तथा अयं क्रमः खण्डशः वर्गीकरणात् कथं श्रेष्ठः?
खः परमशिवस्य स्वातन्त्र्यशक्त्या शुद्धतत्त्वेषु ``अहम्'' तथा ``इदम्'' अनयोः सम्बन्धस्य रैखिक-विकासः कथं भवति?
गः असीमितस्य शिवस्य परिमितजीवत्वेन संकोचे ``माया'' तथा ``पञ्चकञ्चुकानाम्'' (६-११ तत्त्वानाम्) रैखिकं स्थानं किम्?
घः अशुद्धतत्त्वेषु (१२-३६) प्रकृतेः पञ्चमहाभूतपर्यन्तं सूक्ष्मतायाः स्थूलतां प्रति रैखिक-सोपानानि कानि सन्ति?
ङः साधनाकाले एतेषां तत्त्वानां विलोम-रैखिक-क्रमः (Ascending Involution) जीवं कथं शिवत्वं नयति?
६. शोधपरिकल्पना (Research Hypothesis)
कश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानि न तु पृथक्-पृथक् जड-चेतन-खण्डाः, अपितु परमशिवस्य स्वातन्त्र्यशक्त्याः संकोच-विकासयोः एका निरन्तरा, सोपानबद्धा, रैखिकी च शृङ्खला अस्ति, यस्याः अवबोधनेन एव अद्वैत-चितिसत्तायाः जगद्रूपेण परिणामः सिद्ध्यति । ''
७. शोधपद्धतिः (Research Methodology)
अस्मिन् शोधकार्ये पाठाधारिता (Textual Analysis), वैचारिक-विश्लेषणात्मकी (Analytical and Theoretical) तथा तुलनात्मकी (Comparative Methodology) शोधपद्धतिः प्रयुक्ता भविष्यति ।
प्राथमिकस्रोतांसि- तन्त्रालोकः, ईश्वरप्रत्यभिज्ञाकारिका, प्रत्यभिज्ञाहृदयम्, शिवसूत्रविमर्शिनी, तन्त्रसारः, तत्त्वसन्दोहः च ।
द्वितीयकस्रोतांसि- कश्मीरशैवदर्शनस्य आधुनिक-विदुषां (यथा- जयदेवसिंहः, जे। सी। चटर्जी, कान्तिचन्द्रपाण्डेयः, मार्कडिचकोव्स्की इत्यादि) शोधग्रन्थाः शोधपत्रिकाश्च ।
८. सम्भाव्यम् अध्यायीकरणम् (Proposed Chapter Scheme)
प्रथमोऽध्यायः
१.१-प्रस्तावना
१.२-कश्मीराद्वैतदर्शनस्य पीठिका
१.३-कश्मीरशैवदर्शनस्य ऐतिहासिक-तथ्यानि
१.४-दार्शनिकानां परिचयः ।
१.५- ``तत्त्व'' अवधारणा तथा ``रैखिक-अध्ययनस्य'' (Linear Methodology) आवश्यकता ।
द्वितीयोऽध्यायः
२.१- परमप्रकाशस्य प्रथमः रैखिक-प्रसारः (शुद्धतत्त्वानि - १ तः ५)
२.२- परमशिवः
२.३- शक्तिः
२.४- सदाशिवः
२.५- ईश्वरः
२.६- सद्विद्या च
२.७-``अहम्'' (Self) तथा ``इदम्'' (Object) अनयोः शुद्ध-सामरस्यस्य रैखिक-विकासः ।
तृतीयोऽध्यायः
३.१- परिच्छेद-सङ्क्रमणम् (शुद्धाशुद्धतत्त्वानि - ६ तः ११)
३.२- मायातत्त्वस्य अवधारणा ।
३.३- पञ्चकञ्चुकानाम् (काल, कला, नियति, राग, विद्या) रैखिक-संकोच-प्रक्रिया ।
चतुर्थोऽध्यायः
४.१- स्थूलजगतः रैखिक-विस्तारः (अशुद्धतत्त्वानि - १२ तः ३६)
४.२- पुरुष-प्रकृत्योः स्वरूपम् ।
४.३- अन्तःकरणम् (३), ज्ञानेन्द्रियाणि (५), कर्मेन्द्रियाणि (५), तन्मात्राः (५), पञ्चमहाभूतानि (५) च ।
पञ्चमोऽध्यायः
५.१- विलोम-रैखिक-क्रमः (The Ascending Path / Laya-Krama)
५.२- योगसाधनायां प्रत्यभिज्ञाक्रमे च ३६ तत्त्वानां लयक्रमः ।
५.३- अवरोहणम् (Evolution)
५.४- आरोहणम् (Involution)
५.५- अनयोः मार्गयोः सादृश्यम् ।
षष्ठोऽध्यायः
६.१- शोधस्य मुख्याः प्राप्तीनां संक्षेपः ।
६.२- आधुनिक-चेतनाविज्ञाने (Consciousness Studies) अस्य रैखिकाध्ययनस्य उपयोगिता ।
७- उपसंहारः निष्कर्षाश्च (Conclusion and Findings)
८- सहायकग्रन्थसूची (Select Bibliography)
(क) प्राथमिक-संस्कृतग्रन्थाः
१. अभिनवगुप्तः - तन्त्रालोकः (जयरथकृत-'' विवेक'' -टीकासहितः), मोतीलाल बनारसीदास, देहली ।
२. उत्पलदेवः - ईश्वरप्रत्यभिज्ञाकारिका (विमर्शिनी टीकासहिता)।
३. क्षेमराजः - प्रत्यभिज्ञाहृदयम् (स्वोपज्ञवृत्तिसहितम्)।
४. क्षेमराजः - तत्त्वसन्दोहः ।
५. वासुगुप्तः - शिवसूत्राणि (क्षेमराजकृत-'' विमर्शिनी'' -सहितानि)।
(ख) द्वितीयक-अनुसन्धानग्रन्थाः -
१. Chatterji, J. C. - Kashmir Shaivism (The Secret doctrine of the 36 Tattvas), SUNY Press.
२. Singh, Jaideva - Pratyabhijñāhṛdayam - The Secret of Self-Recognition, Motilal Banarsidass, Delhi.
३. Dyczkowski, Mark S. G. - The Doctrine of Vibration, SUNY Press, New York.
४. Pandey, K. C. - Abhinavagupta - An Historical and Philosophical Study, Chowkhamba, Varanasi.
५. रस्तोगी, कान्तिचन्द्रः - कश्मीर शैव दर्शन, उत्तर प्रदेश हिन्दी संस्थान, लखनऊ ।
६. Wikipedias
Prof. Dr. Pradipta Kumar Nanda
Retd. Head, Dept.of Sarvadarshan
SJSV,Puri
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com