काश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानां रैखिकमध्ययन-प्रारूप्यम्

काश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानां रैखिकमध्ययन-प्रारूप्यम्

१. भूमिका एवं पीठिका (Introduction and Background)

भारतीयदार्शनिकपरम्परासु कश्मीरशैवदर्शनम् (प्रत्यभिज्ञा-त्रिक-सिद्धान्तः) अद्वैतवेदान्तस्य अतिरिच्य चेतनायाः जगद्विस्तारस्य च अत्यन्तं गम्भीरां वैज्ञानिकीं च व्याख्यां करोति । अस्मिन् दर्शने परब्रह्म ``परमशिवः'' स्वकीयया अनन्तया स्वातन्त्र्यशक्त्या आत्मानम् एव विश्वरूपेण प्रकटयति । अस्य विश्वप्रपञ्चस्य अभिव्यक्तेः लयस्य च मूलाधारः षड्त्रिंशत् (३६) तत्त्वानि सन्ति । सामान्यतः एतानि ३६ तत्त्वानि त्रिषु वर्गेषु (शुद्ध-शुद्धाशुद्ध-अशुद्धतत्त्वेषु) विभज्य अध्यीयन्ते । किन्तु परमशिवात् (परमचेतनात्) आरभ्य पृथिवी (स्थूलजडपदार्थः) पर्यन्तम् यः सृष्टिक्रमः अस्ति, तथा पृथिव्याः पुनः परमशिवपर्यन्तं यः लयक्रमः (योगमार्गः) अस्ति, सः कश्चन ``अविच्छिन्नः, क्रमिकः, रैखिकश्च (Continuous Linear Sequence)'' मार्गः अस्ति । अस्मिन् शोधकार्ये एतेषां ३६ तत्त्वानाम् एतादृशस्य रैखिक-परिणामस्य (Linear Hierarchy and Evolution) दार्शनिकम् विश्लेषणात्मकञ्च अध्ययनं करिष्यते ।

२. शोधस्य समस्या (Research Problem)

पारम्परिकग्रन्थेषु ३६ तत्त्वानां वर्गीकरणं खण्डशः (Categorical Division) लभ्यते, येन चेतनायाः (Consciousness) तथा पदार्थस्य (Matter) मध्ये कश्चन कृत्रिमः भेदः दृश्यते । परमचेतनात् जडपदार्थस्य निर्माणे रैखिक-सोपानानां (Linear Transition States) निरन्तरता कथं सिद्ध्यति? शुद्धतत्त्वेभ्यः अशुद्धतत्त्वेषु प्रवेशकाले ``माया'' तथा ``पञ्चकञ्चुकानि'' कथं रैखिक-संधिबिन्दुरूपेण कार्यं कुर्वन्ति? एषा समस्या दार्शनिकदृष्ट्या समाधातुं ३६ तत्त्वानाम् अवरोहण-आरोहणयोः रैखिक-अध्ययनम् अतीव आवश्यकम् अस्ति ।

३. शोधस्य औचित्यम् महत्त्वञ्च (Rationale and Significance)

कः-चेतना-पदार्थयोः सेतुरूपताः अयं शोधः परमशिवस्य अभिन्न-प्रकाश-विमर्शयोः पृथिवीपर्यन्तं घनीभूततायाः (Condensation of Consciousness) रैखिक-मार्गम् उद्घाटयिष्यति । खः- साधनापद्धतेः सुगमता - योगिनः साधनाकाले पृथिव्याः शिवपर्यन्तं यं ``प्रत्याहारम्'' वा ``लयक्रमम्'' कुर्वन्ति, तस्य रैखिक-मानचित्रम् (Linear Blueprint) अनेन शोधेन स्पष्टं भविष्यति । गः-आधुनिकविज्ञानेन सह तुलना - आधुनिक-भौतिकविज्ञाने (Modern Physics) तथा चेतनाविज्ञाने (Consciousness Studies) ``Energy to Matter'' तथा ``Matter to Consciousness'' इति यः विचारः अस्ति, तस्य समीक्षणे अयम् अध्ययनः नूतनां दिशं दास्यति ।

४. शोधस्य उद्देश्यानि (Research Objectives)

उद्देश्यम् क - कश्मीरशैवदर्शनानुसारं परमशिवात् पृथिवीपर्यन्तम् ३६ तत्त्वानां सोपानक्रमस्य (Descending Order) रैखिक-विश्लेषणम् । ख - शुद्ध-शुद्धाशुद्ध-अशुद्ध-इति वर्गत्रयस्य मध्ये रैखिक-सम्बन्धस्य तथा माया-पञ्चकञ्चुकानां सङ्क्रमणकालीन-भूमिकायाः निरूपणम् । ग - साधनादृष्ट्या पृथिव्याः परमशिवपर्यन्तम् आरोहण-रैखिकक्रमस्य (Laya-Krama/ Ascending Path) अनुशीलनम् । घ - अस्य ३६-तत्त्वीय-रैखिक-संरचनायाः आधुनिक-चेतनाविज्ञानेन सह तुलनात्मकं समीक्षणम् ।

५. शोध-प्रश्नाः (Research Questions)

कः कश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानां रैखिकः (Linear) क्रमः कः, तथा अयं क्रमः खण्डशः वर्गीकरणात् कथं श्रेष्ठः? खः परमशिवस्य स्वातन्त्र्यशक्त्या शुद्धतत्त्वेषु ``अहम्'' तथा ``इदम्'' अनयोः सम्बन्धस्य रैखिक-विकासः कथं भवति? गः असीमितस्य शिवस्य परिमितजीवत्वेन संकोचे ``माया'' तथा ``पञ्चकञ्चुकानाम्'' (६-११ तत्त्वानाम्) रैखिकं स्थानं किम्? घः अशुद्धतत्त्वेषु (१२-३६) प्रकृतेः पञ्चमहाभूतपर्यन्तं सूक्ष्मतायाः स्थूलतां प्रति रैखिक-सोपानानि कानि सन्ति? ङः साधनाकाले एतेषां तत्त्वानां विलोम-रैखिक-क्रमः (Ascending Involution) जीवं कथं शिवत्वं नयति?

६. शोधपरिकल्पना (Research Hypothesis)

कश्मीरशैवदर्शने षड्त्रिंशत्तत्त्वानि न तु पृथक्-पृथक् जड-चेतन-खण्डाः, अपितु परमशिवस्य स्वातन्त्र्यशक्त्याः संकोच-विकासयोः एका निरन्तरा, सोपानबद्धा, रैखिकी च श‍ृङ्खला अस्ति, यस्याः अवबोधनेन एव अद्वैत-चितिसत्तायाः जगद्रूपेण परिणामः सिद्ध्यति । ''

७. शोधपद्धतिः (Research Methodology)

अस्मिन् शोधकार्ये पाठाधारिता (Textual Analysis), वैचारिक-विश्लेषणात्मकी (Analytical and Theoretical) तथा तुलनात्मकी (Comparative Methodology) शोधपद्धतिः प्रयुक्ता भविष्यति । प्राथमिकस्रोतांसि- तन्त्रालोकः, ईश्वरप्रत्यभिज्ञाकारिका, प्रत्यभिज्ञाहृदयम्, शिवसूत्रविमर्शिनी, तन्त्रसारः, तत्त्वसन्दोहः च । द्वितीयकस्रोतांसि- कश्मीरशैवदर्शनस्य आधुनिक-विदुषां (यथा- जयदेवसिंहः, जे। सी। चटर्जी, कान्तिचन्द्रपाण्डेयः, मार्कडिचकोव्स्की इत्यादि) शोधग्रन्थाः शोधपत्रिकाश्च ।

८. सम्भाव्यम् अध्यायीकरणम् (Proposed Chapter Scheme)

प्रथमोऽध्यायः १.१-प्रस्तावना १.२-कश्मीराद्वैतदर्शनस्य पीठिका १.३-कश्मीरशैवदर्शनस्य ऐतिहासिक-तथ्यानि १.४-दार्शनिकानां परिचयः । १.५- ``तत्त्व'' अवधारणा तथा ``रैखिक-अध्ययनस्य'' (Linear Methodology) आवश्यकता । द्वितीयोऽध्यायः २.१- परमप्रकाशस्य प्रथमः रैखिक-प्रसारः (शुद्धतत्त्वानि - १ तः ५) २.२- परमशिवः २.३- शक्तिः २.४- सदाशिवः २.५- ईश्वरः २.६- सद्विद्या च २.७-``अहम्'' (Self) तथा ``इदम्'' (Object) अनयोः शुद्ध-सामरस्यस्य रैखिक-विकासः । तृतीयोऽध्यायः ३.१- परिच्छेद-सङ्क्रमणम् (शुद्धाशुद्धतत्त्वानि - ६ तः ११) ३.२- मायातत्त्वस्य अवधारणा । ३.३- पञ्चकञ्चुकानाम् (काल, कला, नियति, राग, विद्या) रैखिक-संकोच-प्रक्रिया । चतुर्थोऽध्यायः ४.१- स्थूलजगतः रैखिक-विस्तारः (अशुद्धतत्त्वानि - १२ तः ३६) ४.२- पुरुष-प्रकृत्योः स्वरूपम् । ४.३- अन्तःकरणम् (३), ज्ञानेन्द्रियाणि (५), कर्मेन्द्रियाणि (५), तन्मात्राः (५), पञ्चमहाभूतानि (५) च । पञ्चमोऽध्यायः ५.१- विलोम-रैखिक-क्रमः (The Ascending Path / Laya-Krama) ५.२- योगसाधनायां प्रत्यभिज्ञाक्रमे च ३६ तत्त्वानां लयक्रमः । ५.३- अवरोहणम् (Evolution) ५.४- आरोहणम् (Involution) ५.५- अनयोः मार्गयोः सादृश्यम् । षष्ठोऽध्यायः ६.१- शोधस्य मुख्याः प्राप्तीनां संक्षेपः । ६.२- आधुनिक-चेतनाविज्ञाने (Consciousness Studies) अस्य रैखिकाध्ययनस्य उपयोगिता । ७- उपसंहारः निष्कर्षाश्च (Conclusion and Findings) ८- सहायकग्रन्थसूची (Select Bibliography) (क) प्राथमिक-संस्कृतग्रन्थाः १. अभिनवगुप्तः - तन्त्रालोकः (जयरथकृत-'' विवेक'' -टीकासहितः), मोतीलाल बनारसीदास, देहली । २. उत्पलदेवः - ईश्वरप्रत्यभिज्ञाकारिका (विमर्शिनी टीकासहिता)। ३. क्षेमराजः - प्रत्यभिज्ञाहृदयम् (स्वोपज्ञवृत्तिसहितम्)। ४. क्षेमराजः - तत्त्वसन्दोहः । ५. वासुगुप्तः - शिवसूत्राणि (क्षेमराजकृत-'' विमर्शिनी'' -सहितानि)। (ख) द्वितीयक-अनुसन्धानग्रन्थाः - १. Chatterji, J. C. - Kashmir Shaivism (The Secret doctrine of the 36 Tattvas), SUNY Press. २. Singh, Jaideva - Pratyabhijñāhṛdayam - The Secret of Self-Recognition, Motilal Banarsidass, Delhi. ३. Dyczkowski, Mark S. G. - The Doctrine of Vibration, SUNY Press, New York. ४. Pandey, K. C. - Abhinavagupta - An Historical and Philosophical Study, Chowkhamba, Varanasi. ५. रस्तोगी, कान्तिचन्द्रः - कश्मीर शैव दर्शन, उत्तर प्रदेश हिन्दी संस्थान, लखनऊ । ६. Wikipedias Prof. Dr. Pradipta Kumar Nanda Retd. Head, Dept.of Sarvadarshan SJSV,Puri Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Kashmirashaivadarshana Prarupyam
% File name             : kAshmIrashaivadarshaneprArupyam.itx
% itxtitle              : kAshmIrashaivadarshana prArupyam (lekhaH)
% engtitle              : kAshmIrashaivadarshana prArupyam
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda pknanda65 at gmail.com
% Proofread by          : Pradipta Kumar Nanda
% Description/comments  : kAshmIrashaivadarshane ShaDtri.nshattattvAnAM raikhikamadhyayana\-prArUpyam
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 19, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org