दण्डिनः कृतौ काव्यादर्शः

दण्डिनः कृतौ काव्यादर्शः

प्रथमपरिच्छेदः

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १.१॥ पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च । यथासामर्थ्यम्मस्माभिः क्रियते काव्यलक्षणम् ॥ १.२॥ इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा । वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ १.३॥ इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाहवयं ज्योतिरासंसारन्न दीप्यते ॥ १.४॥ आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । तेषामसन्निधानेऽपि न स्वयं पश्य नश्यति ॥ १.५॥ गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनार्गोत्वं प्रयोक्तुः सैव शंसति ॥ १.६॥ तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथं चन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥ १.७॥ गुणदोषानशास्त्रज्ञः कथं विभजते जनः । किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ १.८॥ अतः प्रजानां (व्ल्. पदानां)व्युत्पत्तिमभिसन्धाय सूरयः । वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥ १.९॥ तैः शरीरं च काव्यानामलङ्काराश्च दर्शिताः । शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ १.१०॥ पद्यं गद्यं च मिश्रं च तत्त्रिधैव व्यवस्थितम् । पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ १.११॥ छन्दोविचित्यां सकलस्तप्रपञ्चो निदर्शितः । सा विद्या नौर्विविक्षूणां गम्भीरं काव्यसागरम् ॥ १.१२॥ मुक्तकं कुलकं कोषः सङ्घात इति तादृशः । सर्गबन्धांशरूपत्वादनुक्तः पद्यविस्तरः ॥ १.१३॥ सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥ १.१४॥ इतिहासकथोद्भूतमितरद्वा सदाश्रयम् । चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् ॥ १.१५॥ नगरार्णवशैलार्तुचन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥ १.१६॥ विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ १.१७॥ अलङ्कृतमसङ्क्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १.१८॥ सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति ॥ १.१९॥ न्यूनमप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति । यद्युपात्तेषु सम्पत्तिराराधयति तद्विधः ॥ १.२०॥ गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् । निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ १.२१॥ वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ॥ १.२२॥ अपादः पदसन्तानो गद्यमाख्यायिका कथा । इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल ॥ १.२३॥ नायकेनैव वाच्यान्या नायकेनेतरेण वा । स्वगुणाविष्क्रियादोषो नात्रा भूर्तार्थशंसिनः ॥ १.२४॥ अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् । अन्यो वक्ता स्वयं वेति कीदृग्वा भेदकारणं (लक्षणम्) ॥ १.२५॥ वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् । चिह्नमाख्यायिकायाश्चेत्प्रसङ्गेन कथास्वपि ॥ १.२६॥ आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः । भेदश्च दृष्टो लम्भादिरुच्छ्वासो वस्तु किं ततः ॥ १.२७॥ तत्कथाख्यायिकेत्युक्ता जातिः संज्ञाद्वयाङ्किता । अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ १.२८॥ कन्याहरणसङ्ग्रामविप्रलम्भोदयादयः । सर्गबन्धसमा एव नैते वैशेषिका गुणाः ॥ १.२९॥ कविभावकृतं चिह्नमन्यत्रापि न दुष्यति । मुखमिष्टास्र्थसंसिद्धौ किं हि न स्यात्कृतात्मनाम् ॥ १.३०॥ मिश्राणि नाटकादीनि तेषामन्यत्र विस्तरः । गद्यपद्यमयी का चिच्चम्पूरित्यभिधीयते ॥ १.३१॥ तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशाश्च मिश्रं चेत्याहुरार्याश्चतुर्विधम् ॥ १.३२॥ संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः । तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ॥ १.३३॥ महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥ १.३४॥ शौरसेनी च गौडी च लाटी चान्या च तादृशी । याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥ १.३५॥ आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥ १.३६॥ संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत् । ओसरादिरपभ्रंशो नाटकादि तु मिश्रकम् ॥ १.३७॥ कथा हि सर्वभाषाभिः संस्कृतेन च बध्यते । भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम् ॥ १.३८॥ लास्यच्छलितशम्पादि प्रेक्षार्थमितरत्पुनः । श्रव्यमेवेति सैषापि द्वयी गतिरुदाहृता ॥ १.३९॥ अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् । तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ १.४०॥ श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ १.४१॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः । एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ॥ १.४२॥ श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम् । शिथिलं मालतीमाला लोलालिकलिला यथा ॥ १.४३॥ अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात् । वैदर्भमालतीदाम लङ्घितं भ्रमरैरिति ॥ १.४४॥ प्रसादवत्प्रसिद्धार्थमिन्दोरिन्दीवरद्युति । लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः ॥ १.४५॥ व्युत्पन्नमिति गौडीयैर्नातिरूढमपीष्यते । यथानत्यर्जुनाब्जन्मसदृक्षाङ्को वलक्षगुः ॥ १.४६॥ समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः । बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ॥ १.४७॥ कोकिलालापवाचालो ममैति मलयानिलः । उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः ॥ १.४८॥ चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः । स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ॥ १.४९॥ इत्यनालोच्य वैषम्यमर्थालङ्कारडमबरौ । अवेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥ १.५०॥ मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः । येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ १.५१॥ यया कया चिच्छ्रुत्या यत्समानमनुभूयते । तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ॥ १.५२॥ एष राजा यदा लक्ष्मीं प्राप्तवान्ब्राह्मणप्रियः । तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ॥ १.५३॥ इतीदं नादृतं गौडैरनुप्रासस्तु तत्प्रियः । अनुप्रासादपि प्रायो वैदर्भैरिदमीप्सितम् ॥ १.५४॥ वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च । पूर्वानुभवसंस्कारबोधिनी यद्यदूरता ॥ १.५५॥ चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे । इन्द्रनीलनिभं लक्ष्म सन्दधात्यलिनः श्रियम् ॥ १.५६॥ चारु चान्द्रमसं भीरु बिम्बं पश्यैतदम्बरे । मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुमुद्यतम् ॥ १.५७॥ इत्यनुप्रासमिच्छन्ति नातिदूरान्तरश्रुतिम् । न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति ॥ १.५८॥ स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः । च्युतो मानोधिको रागो मोहो जातोसवो गताः ॥ १.५९॥ इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति । अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥ १.६०॥ आवृत्तिं वर्णसङ्घातगोचरां यमकं विदुः । तत्तु नैकान्तमधुरमतः पश्चाद्विधास्यते ॥ १.६१॥ कामं सर्वोऽप्यलङ्कारो रसमर्थे निषिञ्चति । तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥ १.६२॥ कन्ये कामयमानं मां न त्वं कामयसे कथम् । इति ग्राम्योऽयमर्थात्मा वैरस्याय प्रकल्पते ॥ १.६३॥ कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः । त्वयि निर्मत्सरो दिष्ट्येत्यग्रामोऽर्थो रसावहः ॥ १.६४॥ शब्देऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात् । यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ १.६५॥ पदसन्धानवृत्त्या वा वाक्यार्थत्वेन वा पुनः । दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥ १.६६॥ खरं प्रहत्य विश्रान्तः पुरुषो वीर्यवानिति । एवमादि न शंसन्ति मार्गयोरुभयोरपि ॥ १.६७॥ भगिनीभगवत्यादि सर्वत्रैवानुमन्यते । विभक्तमिति माधुर्यमुच्यते सुकुमारता ॥ १.६८॥ अनिष्ठुराक्षरप्रायं सुकुमारमिहेष्यते । बन्धशैथिल्यदोषोऽपि दर्शितः सर्वकोमले ॥ १.६९॥ मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ १.७०॥ इत्यनूर्जित एवार्थो नालङ्कारोऽपि तादृशः । सुकुमारतयैवैतदारोहति सतां मनः ॥ १.७१॥ दीप्तमित्यपरैर्भूम्ना कृच्छ्रोद्यमपि बध्यते । न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादिति ॥ १.७२॥ अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता । भूः खुरक्षुण्णनागासृग्लोहितादुदधेरिति ॥ १.७३॥ मही महावराहेण लोहितादुद्धृतोदधेः । इतीयत्येव निर्दिष्टे नेयत्वमुरगासृजः ॥ १.७४॥ नेदृशं बहु मन्यत्ने मार्गयोरुभयोरपि । न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी ॥ १.७५॥ उत्कर्षवान्गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ १.७६॥ अर्थिणां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् । तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ १.७७॥ इति त्यागस्य वाक्येऽस्मिन्नुत्कर्षः साधु लक्ष्यते । अनेनैव पथान्यच्च समानन्यायमूह्यताम् ॥ १.७८॥ श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते । यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ॥ १.७९॥ ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् । पद्येऽप्यदक्षिणात्यानामिदमेकं परायणम् ॥ १.८०॥ तद्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः । उच्चावचप्रकारं तद्दृश्यमाख्यायिकादिषु ॥ १.८१॥ अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा । पीनस्तनस्थितातांरकम्रवस्त्रेव वारुणी ॥ १.८२॥ इति पद्येऽपि पौरस्त्या बध्नन्त्योजस्विनीगिरः । अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥ १.८३॥ पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका । कस्य कामातुरं चेतो वारुणी न करिष्यति ॥ १.८४॥ कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् । तच्च वार्ताभिधानेषु वर्णनास्वपि दृश्यते ॥ १.८५॥ गृहाणि नाम तान्येव तपोराशिर्भवादृशः । सम्भावयति यान्येव पावनैः पादपांसुभिः ॥ १.८६॥ अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १.८७॥ इति सम्भाव्यमेवैतद्विशेषाख्यानसंस्कृतम् । कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ १.८८॥ लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥ १.८९॥ देवाधिष्ण्यमिवाराध्यमद्यप्रभृति नो गृहम् । युष्मत्पादरजःपातधौतनिःशेषकिल्बिषम् ॥ १.९०॥ अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधिं भावि भवत्याः स्तनजृम्भणम् ॥ १.९१॥ इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम् । प्रस्थानं प्राक्प्रणीतं तु सारमन्यस्य वर्त्मनः ॥ १.९२॥ अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ १.९३॥ कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च । इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः ॥ १.९४॥ निष्टःयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ १.९५॥ पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः । भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः ॥ १.९६॥ इति हृदमहृद्यं तु निष्ठीवति वधूरिति । युगपन्नैकधर्माणामध्यासश्च स्मृतो यथा ॥ १.९७॥ गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ १.९८॥ उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः । इतीमे गर्भिणीधर्मा बहवोऽप्यत्र दर्शिताः ॥ १.९९॥ तदेतत्काव्यसर्वस्वं समाधिर्नाम यो गुणः । कविसार्थः समग्रोऽपि तमेनमनुगच्छति ॥ १.१००॥ इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् । तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः ॥ १.१०१॥ इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ १.१०२॥ नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् । अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥ १.१०३॥ न विद्यते यद्यपि पूर्ववासनागुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १.१०४॥ तदस्ततन्द्रैरनिशं सरस्वती श्रमादुपास्या खलु कीर्तिमीप्सुभिः । कृशे कवित्वेऽपि जनाः कृतश्रमा विदग्धगोष्ठीषु विहर्तुमीशते ॥ १.१०५॥ इत्याचार्यदण्डिनः कृतौ काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः ॥

द्वितो परिच्छेदः

काव्यशोभाकारान्धर्मानलङ्कारान्प्रचक्षते । ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति ॥ २.१॥ किं तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितम् । तदेव परिसंस्कर्तुमयमस्मत्परिश्रमः ॥ २.२॥ काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः । साधारणमलङ्कारजातमन्यत्प्रदर्श्यते ॥ २.३॥ स्वभावाख्यानमुपमा रूपकं दीपकावृत्ती । आक्षेपोऽर्थान्तन्यासो व्यतिरेको विभावना ॥ २.४॥ समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः । प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ॥ २.५॥ उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता । विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ २.६॥ सहोक्तिः परिवृत्त्याशीः सङ्कीर्णमथ भाविकम् । इति वाचामलङ्कारा दर्शिताः पूर्वसूरिभिः ॥ २.७॥ नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालङ्कृतिर्यथा ॥ २.८॥ तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः । त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ २.९॥ कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥ २.१०॥ बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् । नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ २.११॥ कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः । जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः ॥ २.१२॥ जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम् । शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥ २.१३॥ यथाकथञ्चित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम तस्याः प्रपञ्चोदयं प्रदर्श्यते ॥ २.१४॥ अम्भोरुहमिवाताम्रं मुग्धे करतलं तव । इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्शनात् ॥ २.१५॥ राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ २.१६॥ त्वदाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ २.१७॥ तवाननमिवाम्भोजमम्भोजमिव ते मुखम् । इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी ॥ २.१८॥ त्वन्मुखं कमलेनैव तुल्यं नान्येन केन चित् । इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ २.१९॥ पद्मं तावत्तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ॥ २.२०॥ समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । ह्लादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ २.२१॥ त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥ २.२२॥ मय्येवास्या मुकह्श्रीरित्यलमिन्दोर्विकत्थनैः । पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ॥ २.२३॥ यदि किं चिद्भवेत्पद्मं सुभ्रु विभ्रान्तलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥ २.२४॥ शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामीत्येषा मोहोपमा स्मृता ॥ २.२५॥ किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा ॥ २.२६॥ न पद्मस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः । अतस्त्वन्मुखमेवेदमित्यसौ निर्णयोपमा ॥ २.२७॥ शिशिरांशुप्रत्स्पर्धि श्रीमत्सुरभिगन्धि च । अम्भोजमिव ते वक्त्रमिति श्लेषोपमा स्मृता ॥ २.२८॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा । बालेवोद्यानमालेयं सालकाननशोभिनी ॥ २.२९॥ पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम् । समानमपि सोत्सेकमिति निन्दोपमा स्मृता ॥ २.३०॥ ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शम्भुशिरोधृतः । तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥ २.३१॥ चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विदुः ॥ २.३२॥ शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ २.३३॥ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम् । कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥ २.३४॥ मृगेक्षणाङ्कं ते वक्त्रं मृगेणैवाङ्कितः शशी । तथापि सम एवासौ नोत्कर्षीति चटूपमा ॥ २.३५॥ न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥ २.३६॥ चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव । आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा ॥ २.३७॥ सर्वपद्मप्रभासारः समाहृत इव क्वचित् । त्वदाननं विभातीति तामभूतोपमां विदुः ॥ २.३८॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः । परुषा वागितो वक्त्रादित्यसम्भावितोपमा ॥ २.३९॥ चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः । स्पर्शस्तवेत्यतिशयं बोधयन्ति बहूपमा ॥ २.४०॥ चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम् । तव तन्वङ्गि वदनमित्यसौ विक्रियोपमा ॥ २.४१॥ पूष्ण्यातप इवाह्णीव पूषा व्योम्नीव वासरः । विक्रमस्त्वय्यधाल्लक्ष्मीमिति मालोपमा मता ॥ २.४२॥ वाक्यर्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा ॥ २.४३॥ त्वदाननमधीराक्षमाविर्दशनदीधितिः । भ्रमद्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥ २.४४॥ नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम् । मया मधुव्रतेनेव पायं पायमरम्यत ॥ २.४५॥ वस्तु किञ्चिदुपन्यस्य न्यसनात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ॥ २.४६॥ नैकोऽपि त्वादृशोऽद्यापि जायमानेषु राजसु । ननु द्वितीयो नास्त्येव पारिजातस्य पादपः ॥ २.४७॥ अधिकेन समीकृत्य हीनमेकक्रियाविधौ । यद्ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ २.४८॥ दिवो जगर्ति रक्षायै पुलोमारिर्भुवो भवान् । असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः ॥ २.४९॥ कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् । राजन्ननुकरोषीति सैषा हेतूपमा मता ॥ २.५०॥ न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥ २.५१॥ स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता ॥ २.५२॥ भवानिव महीपाल देवराजो विराजते । अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ २.५३॥ इत्येवमादौ सौभाग्यं न जहात्येव जातु चित् । अस्त्येव क्व चिदुद्वेगः प्रयोगे वाग्विदां यथा ॥ २.५४॥ हंसीव धवलश्चन्द्रः सरांसीवामलं नभः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ २.५५॥ ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् । गुणदोषविचाराय स्वयमेव मनीषिभिः ॥ २.५६॥ इववद्वायथाशब्दाः समाननिभसन्निभाः । तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः ॥ २.५७॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । सदृक्सदृशसंवादिसजातीयानुवादिनः ॥ २.५८॥ प्रतिबिम्बप्रतिच्छन्दसरूपसमसम्मिताः । सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ २.५९॥ कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि । सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः ॥ २.६०॥ समासश्च बहुव्रीहिः शशाङ्कवदनादिषु । स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ २.६१॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति सन्धत्ते हसतीर्ष्यत्यसूयति ॥ २.६२॥ तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति । तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥ २.६३॥ तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ २.६४॥ तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः । उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ २.६५॥ इत्युपमाचक्रम् ॥ उपमैव तिरोभूतभेदा रूपकमुच्यते । यथा बाहुलता पाणिपद्मं चरणपल्लवः ॥ २.६६॥ अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः । बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ २.६७॥ इत्येतदसमस्ताख्यं समस्तं पूर्वरूपकम् । स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥ २.६८॥ ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् । ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् ॥ २.६९॥ अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् । तद्योग्यस्थानविन्यासादेतत्सकलरूपकम् ॥ २.७०॥ अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् । मुखं मुक्तारुचो धत्ते धर्माम्भःकणमञ्जरीः ॥ २.७१॥ मञ्जरीकृत्यधर्माम्भः पल्लवीकृत्य चाधरम् । नान्यथा कृतमत्रास्यमतोऽवयवरूपकम् ॥ २.७२॥ वल्गितभ्रु गलद्धर्मजलमालोहितेक्षणम् । विवृणोति मदावस्थामिदं वदनपङ्कजम् ॥ २.७३॥ अविकृत्य मुखाङ्गानि मुखमेवारविन्दताम् । आसीद्गमितमत्रेदमतोऽवयविरूपकम् ॥ २.७४॥ मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते । मुखेन मुग्धः सोऽप्येष जनो रागमयः क्र्तः ॥ २.७५॥ एकाङ्गरूपकं चैतदेवं द्विप्रभृतीन्यपि । अङ्गानि रूपयन्त्यत्र योगायोगौ भिदाकरौ ॥ २.७६॥ स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम् । इति पुष्पद्विरेफाणां सङ्गत्या युक्तरूपकम् ॥ २.७७॥ इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् । इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम् ॥ २.७८॥ रूपणादङ्गिनोऽङ्गानां रूपणारूपणाश्रयात् । रूपकं विषमं नाम ललितं जायते यथा ॥ २.७९॥ मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना । नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ॥ २.८०॥ हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः । जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः ॥ २.८१॥ विशेषणसमग्रस्य रूपं केतोर्यदीदृशम् । पादे तदर्पणादेतत्सविशेषणरूपकम् ॥ २.८२॥ न मीलयति पद्मानि न नभोऽप्यवगाहते । त्वन्मुखेन्दुर्ममासूनां हरणायैव कल्पते ॥ २.८३॥ अक्रिया चन्द्रकार्याणामन्यकार्यस्य च क्रिया । अत्र सन्दर्श्यते यस्माद्विरुद्धं नाम रूपकम् ॥ २.८४॥ गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः । कामदत्वाच्च लोकानामसि त्वं कल्पपादपः ॥ २.८५॥ गाम्भीर्यप्रमुखैरत्र हेतुभिः सागरो गिरिः । कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकम् ॥ २.८६॥ राजहंसोपभोगार्हं भ्रमरप्रार्थ्यसौरभम् । सखि वक्त्राम्बुजमिदं तवेति श्लिष्टरूपकम् ॥ २.८७॥ इष्टं साधर्म्यवैधर्म्यदर्शनाद्गौणमुख्ययोः । उपमाव्यतिरेकाख्यं रूपकाद्वितयं यथा ॥ २.८८॥ अयमालोहितच्छायो मदेन मुखचन्द्रमाः । सन्नद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ २.८९॥ चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः । असमग्रोऽप्यसौ शश्वदापूर्णमण्डलः ॥ २.९०॥ मुखचन्द्रस्य चन्द्रत्वमित्थमन्योपतापिनः । न ते सुन्दरि संवादीत्येतदाक्षेपरूपकम् ॥ २.९१॥ मुखेन्दुरपि ते चण्डि मां निर्दहति निर्दयम् । भाग्यदोषान्ममैवेति तत्समाधानरूपकम् ॥ २.९२॥ मुखपङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव । लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥ २.९३॥ नैतन्मुखमिदं पद्मं त नेत्रे भ्रमराविमौ । एतानि केसराण्येव नैता दन्तार्चिषस्तव ॥ २.९४॥ मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात् । उद्भावितगुणोत्कर्षं तत्त्वापह्नवरूपकम् ॥ २.९५॥ न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ २.९६॥ इति रूपकचक्रम् ॥ जातिक्रियागुणद्रव्यवाचिनैकत्र वर्तिना । सर्ववाक्योपकारश्चेत्तमाहुर्दीपकं यथा ॥ २.९७॥ पवनो दक्षिणः पार्णं जीर्णं हरति वीरुधाम् । स एवावनताङ्गीनां मानभङ्गाय कल्पते ॥ २.९८॥ चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः । चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥ २.९९॥ श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः । भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ॥ २.१००॥ विष्णुना विक्रमस्थेन दानवानां विभूतयः । क्वापि नीताः कुतोऽप्यासन्नानीता देवेतर्द्धयः ॥ २.१०१॥ इत्यादिदीपकान्युक्तान्येवं मध्यान्तयोरपि । वाक्ययोर्दर्शयिष्यामः कानि चित्तानि तद्यथा ॥ २.१०२॥ नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः । बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥ २.१०३॥ मन्दो गन्धवहः क्षारो वह्निरिन्दुश्च जायते । चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनाम् ॥ २.१०४॥ जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम् । चलं च तडितां दाम बलं कुसुमधन्वनः ॥ २.१०५॥ त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने । मयापि मरणे चेतस्त्रयमेतत्समं कृतम् ॥ २.१०६॥ शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः । स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः ॥ २.१०७॥ इत्यादिदीपकत्वेऽपि पूर्वपूर्वव्यपेक्षिणी । वाक्यमाला प्रयुक्तेति तन्मालादीपकं मतम् ॥ २.१०८॥ अवलेपमनङ्गस्य वर्धयन्ति बलाहकाः । कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः ॥ २.१०९॥ अवलेपपदेनात्र बलाहकपदेन च । क्रिये विरुद्धे संयुक्ते तद्विरुद्धार्थदीपकम् ॥ २.११०॥ हरत्याभोगमाशानां गृह्णाति ज्योतिषां गणम् । आदत्ते चाद्य मे प्राणानसौ जलधरावली ॥ २.१११॥ अनेकशाब्दोपादानात्क्रियैकवात्र दीप्यते । यतो जलधरावल्या तस्मादेकार्थदीपकम् ॥ २.११२॥ हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः । दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः ॥ २.११३॥ अत्र धर्मैरभिन्नानामभ्राणां दन्तिनां तथा । भ्रमणेनैव सम्बन्ध इति श्लिष्टार्थदीपकम् ॥ २.११४॥ अनेनैव प्रकारेण शेषाणामपि दीपके । विकल्पानामवगतिर्विधातव्या विचक्षणैः ॥ २.११५॥ इति दीपकचक्रम् ॥ अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च । दीपकस्थान एवेष्टमलङ्कारत्रयं यथा ॥ २.११६॥ विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः । उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च ॥ २.११७॥ उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् । यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः ॥ २.११८॥ जित्वा विश्वं भवानत्र विहरत्यवरोधनैः । विहरत्वप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥ २.११९॥ इत्यावृत्तिचक्रम् ॥ प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा । अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता ॥ २.१२०॥ अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः । इत्यसम्भाव्यमथवा विचित्रा वस्तुशक्तयः ॥ २.१२१॥ इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह । प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥ २.१२२॥ कुतः कुवलयं कर्णे करोषि कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥ २.१२३॥ स वर्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलम् । कर्णे का चित्प्रियेणैवं चाटुकारेण रुध्यते ॥ २.१२४॥ सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे । अन्यचुम्बनसङ्क्रान्तलाक्षारक्तेन चक्षुष ॥ २.१२५॥ सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्विनी । कदाचिदपराधोऽस्य भावीत्येवमरुन्द्ध यत् ॥ २.१२६॥ तव तन्वङ्गि मिथ्यैव रूढमङ्गेषु मार्दवम् । यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम् ॥ २.१२७॥ धर्माक्षेपोऽयमाक्षिप्तमङ्गनागात्रमार्दवम् । कामुकेन यदत्रैवं कर्मणा तद्विरोधिना ॥ २.१२८॥ सुन्दरी सा न वेत्येष विवेकः केन जायते । प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ २.१२९॥ धर्म्याक्षेपोऽयमाक्षिप्तो धर्मी धर्मं प्रभाह्वयम् । अनुज्ञायैव यद्रूपमत्याश्चर्यं विवक्षता ॥ २.१३०॥ चक्षुषी तव रज्येते स्फुरत्यधरपल्लवः । भ्रुवौ च भुग्ने न तथाप्यदुष्टस्यास्ति मे भयम् ॥ २.१३१॥ स एष कारणाक्षेपः प्रधानं कारणं भियः । स्वापराधो निषिद्धोऽत्र यत्प्रियेण पटीयसा ॥ २.१३२॥ दूरे प्रियतमः सोऽयमागतो जलदागमः । दृष्टश्च फुल्ला निचुला न मृता चास्मि किं न्विदम् ॥ २.१३३॥ कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात् । तत्कारणमुपन्यस्य दारुणं जलदागमम् ॥ २.१३४॥ न चिरं मम तापाय तव यात्रा भविष्यति । यदि यास्यसि यातव्यमलमाशङ्कयात्र ते ॥ २.१३५॥ इत्यनुज्ञामुखेनैव कन्तस्याक्षिप्यते गतिः । मरणं सूचयन्त्यैव सोऽनुज्ञाक्षेप उच्यते ॥ २.१३६॥ धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि । न च मे प्राणसन्देहस्तथापि प्रिय मा स्म गाः ॥ २.१३७॥ इत्याचक्षाणया हेतून्प्रिययात्रानुबन्धिनः । प्रभुत्वेनैव रुद्धस्तत्प्रभुत्वाक्षेप उच्यते ॥ २.१३८॥ जीविताशा बलवती धनाशा दुर्बला मम । गच्छ तिष्ठ वा कान्त स्वावस्था तु निवेदिता ॥ २.१३९॥ असावनादराक्षेपो यदनादरवद्वचः । प्रियप्रयाणं रुन्धत्या प्रयुक्तमिह रक्तया ॥ २.१४०॥ गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ २.१४१॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ २.१४२॥ यदि सत्यैव यात्रा ते काप्यन्या मृग्यतां त्वया । अहमद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना ॥ २.१४३॥ इत्येष परुषाक्षेपः परुषाक्षरपूर्वकम् । कान्तस्याक्षिप्यते यस्मात्प्रस्थानं प्रेमनिघ्नया ॥ २.१४४॥ गन्ता चेद्गच्छ तूर्णं ते कर्णौ यान्ति पुरा रवाः । आर्तबन्धुमुखोद्गीर्णाः प्रयाणपरिपन्थिनः ॥ २.१४५॥ साचिव्य्वाक्षेप एवैष यदत्र प्रतिषिध्यते । प्रियप्रयाणं साचिव्यं कुर्वत्येवातिरक्तया ॥ २.१४६॥ गच्छेति वक्तुमिच्छामि मत्प्रिय त्वत्प्रियैषिणी । निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् ॥ २.१४७॥ यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ॥ २.१४८॥ क्षणं दर्शनविघ्नाय पक्ष्मस्पन्दाय कुप्यतः । प्रेम्णः प्रयाणं त्वं ब्रूहि मया तस्येष्टमिष्यते ॥ २.१४९॥ सोऽयं परवशाक्षेपो यत्प्रेमपरतन्त्रया । तया निषिध्यते यात्रान्यस्यार्थसोपसूचनत् ॥ २.१५०॥ सहिष्ये विरहं नाथ देह्यदृश्याञ्जनं मम । यदक्तनेत्रां कन्दर्पः प्रहर्ता मां न पश्यति ॥ २.१५१॥ दुष्करं जीवनोपायमुपन्यस्योपरुध्यते । पत्युः प्रस्थानमित्याहुरुपायाक्षेपमीदृशम् ॥ २.१५२॥ प्रवृत्तैव प्रयामीति वाणी वल्लभ ते मुखात् । अयतापि त्वयेदानीं मन्दप्रेम्णा ममास्ति किम् ॥ २.१५३॥ रोषाक्षेपोऽयमुद्रिक्तस्नेहनिर्यन्त्रितात्मना । संरब्धया प्रियारब्धं प्रयाणं यन्निषिध्यते ॥ २.१५४॥ मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्छिता । बुद्ध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् ॥ २.१५५॥ इति तत्कालसम्भूतमूर्छयाक्षिप्यते गतिः । कान्तस्य कातराक्ष्या यन्मूर्छाक्षेप स ईदृशः ॥ २.१५६॥ नाघ्रातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम् । त्वद्द्विषां दीर्घिकास्येव विशीर्णं नीलमुत्पलम् ॥ २.१५७॥ असावनुक्रोशाक्षेपः सानुक्रोशमिवोत्पले । व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदर्शनात् ॥ २.१५८॥ अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके । मुखेन्दौ तव सत्यस्मिन्नपरेण किमिन्दुना ॥ २.१५९॥ इति मुख्येन्दुराक्षिप्तो गुणान्गौणेन्दुवर्तिनः । तत्समान्दर्शयित्वेह श्लिष्टाक्षेपस्तथाविधः ॥ २.१६०॥ अर्थो न सम्भृतः कश्चिन्न विद्या का चिदर्चिता । न तपः सञ्चिन्तं किं चिद्गतं च सकलं वयः ॥ २.१६१॥ असावनुशयाक्षेपो यस्मादनुशयोत्तरम् । अर्थार्जनादेर्व्यावृत्तिर्दर्शितेह गतायुषा ॥ २.१६२॥ किमयं शरदम्भोदः किं वा हंसकदम्बकम् । रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ॥ २.१६३॥ इत्ययं संशयाक्षेपः संशयो यन्निवर्त्यते । धर्मेण हंससुलभेनास्पृष्टघनजानिता ॥ २.१६४॥ चित्रमाक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति । कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः ॥ २.१६५॥ अयमर्थान्तराक्षेपः प्रक्रान्तो यन्निवार्यते । विस्मयोऽर्थन्तरस्येह दर्शनात्तत्सधर्मणः ॥ २.१६६॥ न स्तूयसे नरेन्द्र त्वं ददासीति कदा चन । स्वमेव मत्वा गृह्णन्ति यतस्त्वद्धनमर्थिनः ॥ २.१६७॥ इत्येवमादिराक्षेपो हेत्वाक्षेप इति स्मृतः । अनेनैव दिशान्येऽपि विकल्पाः शक्यमूहितुम् ॥ २.१६८॥ इत्याक्षेपचक्रम् ॥ ज्ञेयह्सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किं चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ २.१६९॥ विश्वव्यापी विशेषस्थः श्लेषाविद्धो विरोधवान् । अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्ययः ॥ २.१७०॥ इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः । उदाहरणमालैषां रूपव्यक्त्यै निदर्श्यते ॥ २.१७१॥ भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ २.१७२॥ पयोमुचः परीतापं हरन्त्येव शरीरिणाम् । नवात्मलाभो महतां परदुःखोपशान्तये ॥ २.१७३॥ उत्पादयति लोकस्य प्रीतिं मलयमारुतः । ननु दाक्षिण्यसम्पन्नः सर्वस्य भवति प्रियः ॥ २.१७४॥ जगदानन्दयत्येष मलिनोऽपि निशाकरः । अनुगृह्णाति हि परान्सदोषोऽपि द्विजेश्वरः ॥ २.१७५॥ मधुपानकलात्कण्ठान्निर्गतोऽप्यलिनां ध्वनिः । कटुर्भवति कर्णस्य कामिनां पापमीदृशम् ॥ २.१७६॥ अयं मम दहत्यङ्गमम्भोजदलसंस्तरः । हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥ २.१७७॥ क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति माम् । मलिनाचरितं कर्म सुरभेर्नन्वसाम्प्रतम् ॥ २.१७८॥ कुमुदान्यपि दाहाय किमयं कमलाकरः । न हीन्दुगृह्येषूग्रेषु सूर्यगृह्यो मधुर्भवेत् ॥ २.१७९॥ इत्यर्थान्तरन्यासचक्रम् ॥ शब्दोपात्ते प्रातीते वा सादृश्ये वस्तुनोर्द्वयोः । तत्र यद्भेदकथनं व्यतिरेकः स कथ्यते ॥ २.१८०॥ धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः । गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ २.१८१॥ इत्येकव्यतिरेकोऽयं धर्मेणैकत्रवर्तिना । प्रतीतिविषयप्राप्तेर्भेदस्योभयवर्तिनः ॥ २.१८२॥ अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि । असावञ्जनसङ्काशस्त्वं तु चामीकरद्युतिः ॥ २.१८३॥ उभयव्यतिरेकोऽयमुभयोर्भेदकौ गुणौ । कार्ष्ण्यं पिशङ्गता चोभौ यत्पृथग्दर्शिताविह ॥ २.१८४॥ त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ । अयं तु युवयोर्भेदः स जडात्मा पटुर्भवान् ॥ २.१८५॥ स एष श्लेषरूपत्वात्सश्लेष इति गृह्यताम् । साक्षेपश्च सहेतुश्च दर्श्यते तदपि द्वयम् ॥ २.१८६॥ स्थितिमानपि धीरोऽपि रत्नानामाकरोऽपि सन् । तव कक्षां न यात्येव मलिनो मकरालयः ॥ २.१८७॥ वहन्नपि महीं कृत्स्नां सशैलद्वीपसागराम् । भर्तृभावाद्भुजङ्गानां शेषस्त्वत्तो निकृष्यते ॥ २.१८८॥ शब्दोपादानसादृश्यव्यतिरेकोऽयमीदृशः । प्रतीयमानसादृश्योऽप्यस्ति सोऽप्यभिधीयते ॥ २.१८९॥ त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा । कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ॥ २.१९०॥ अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम् । इदं तु नयनद्वन्द्वं तव तगुणभूषितम् ॥ २.१९१॥ पूर्वस्मिन्भेदमात्रोक्तिरस्मिन्नाधिक्यदर्शनम् । सदृशव्यतिरेकश्च पुनरन्यः प्रदर्श्यते ॥ २.१९२॥ त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी । भ्रमद्भ्रमरमम्भोजं लोलनेत्रं मुखं तु ते ॥ २.१९३॥ चन्द्रोऽयमम्बरोत्तंसो हंसोऽयं तोयभूषणम् । नभो नक्षत्रमालीदमुत्फुल्लकुमुदं पयः ॥ २.१९४॥ प्रतीय्मानशौक्ल्यादिसाम्ययोर्वियदम्भसोः । कृतः प्रतीतशुद्ध्योश्च भेदोऽस्मिंश्चन्द्रहंसयोः ॥ २.१९५॥ पूर्वत्र शाब्दवत्साम्यमुभयत्रापि भेदकम् । भृङ्गनेत्रादि तुल्यं तत्सदृशव्यतिरेकता ॥ २.१९६॥ अरत्नालोकसंहार्यमहार्यं सूर्यरश्मिभिः । दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ २.१९७॥ सजातीव्यतिरेकोऽयं तमोजातेरिदं तमः । दृष्टिरोधितया तुल्यं भिन्नमन्यैरदर्शि तत् ॥ २.१९८॥ इति व्यतिरेकचक्रम् ॥ प्रसिद्धहेतुव्यावृत्त्या यत्किञ्चिट्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥ २.१९९॥ अपीतक्षीबकादम्बमसम्मृष्टाभलाम्बरम् । अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम् ॥ २.२००॥ अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता । अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ॥ २.२०१॥ यदपीतादिजन्यं स्यात्क्षीबत्वाद्यन्यहेतुजम् । अहेतुकं च तस्येह विवक्षेत्यविरुद्धता ॥ २.२०२॥ वक्त्रं निसर्गसुरभि वपुरव्याजसुन्दरम् । अकारणरिपुश्चन्द्रो निर्निमित्तासुहृत्स्मरः ॥ २.२०३॥ निसर्गादिपदैरत्र हेतुः साक्षान्निवर्तितः । उक्तं च सुरभित्वादि फलं तत्सा विभावना ॥ २.२०४॥ इति विभावनाचक्रम् ॥ वस्तु किञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः । उक्तिः सङ्क्षेपरूपत्वात्सा समासोक्तिरिष्यते ॥ २.२०५॥ पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे । अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुड्मलम् ॥ २.२०६॥ इति प्रौढाङ्गनाबद्धरतिलीलस्य रागिणः । कस्यां चिदिह बालायामिच्छावृत्तिर्विभाव्यते ॥ २.२०७॥ विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा । अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ २.२०८॥ रूढमूलः फलभरैः पुष्णन्ननिशमर्थिनः । सान्द्रच्छायो महावृक्षः सोऽयमासादितो मया ॥ २.२०९॥ अनल्पविटपाभोगः फलपुष्पसमृद्धिमान् । सोच्छ्रयः स्थैर्यवान्दैवादेष लब्धो मया द्रुमः ॥ २.२१०॥ उभयत्र पुमान्कश्चिद्वृक्षत्वेनोवर्णितः । सर्वे साधारणा धर्माः पूर्वत्रान्यत्र तु द्वयम् ॥ २.२११॥ निवृत्तव्यालसंसर्गो निसर्गमधुराशयः । अयमम्भोनिधिः कष्टं कालेन परिशुष्यति ॥ २.२१२॥ इत्यापूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात् । समुद्रेण समानस्य पुंसो व्यापत्तिसूचनात् ॥ २.२१३॥ इति समासोक्तिचक्रम् ॥ विवक्षा या विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ २.२१४॥ मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः चोमः सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम् । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ २.२१५॥ चन्द्रातपस्य बाहुल्यमुक्तमुत्कर्षवत्तया । संशयातिशयादीनां व्यक्त्यै किं चिन्निदर्श्यते ॥ २.२१६॥ स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव । अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥ २.२१७॥ निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥ २.२१८॥ अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ २.२१९॥ अलङ्कारान्तराणामप्येकमाहुः परायणम् । वागीशमहितामुक्तिमिमामतिशयाह्वयम् ॥ २.२२०॥ इत्यतिशयोक्तिचक्रम् ॥ अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्यथा ॥ २.२२१॥ माध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः । मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः ॥ २.२२२॥ स्नातुं पातुं बिसान्यत्तुं करिणो जलगाहनम् । तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥ २.२२३॥ कर्णस्य भूषणमिदं ममायातिविरोधिनः । इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ॥ २.२२४॥ अपाङ्गभागपातिन्या दृष्टेरंशुभिरुत्पलम् । स्पृश्यते वा न वेत्येवं कविनोत्प्रेक्ष्य वर्ण्यते ॥ २.२२५॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणानन्वितम् ॥ २.२२६॥ केषां चिदुपमाभ्रान्तिरिवश्रुत्येह जायते । नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥ २.२२७॥ उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया । लिम्पतेस्तमसश्चासौ धर्मः कोऽत्र समीक्ष्यते ॥ २.२२८॥ यदि लेपनमेवेष्टं लिम्पतिर्नाम कोऽपरः । स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते ॥ २.२२९॥ कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे । स्वक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् ॥ २.२३०॥ यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः । अङ्गानीति न सम्बद्धं सोऽपि मृग्यः समो गुणः ॥ २.२३१॥ यथेन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते । न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते ॥ २.२३२॥ तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः । अङ्गकर्मा च पुंसैवमुत्प्रेक्ष्यत इतीष्यताम् ॥ २.२३३॥ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ २.२३४॥ इत्युत्प्रेक्षाचक्रम् ॥ हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् । कारकज्ञापकौ हेतू तौ चानेकविधौ यथा ॥ २.२३५॥ अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः । उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २.२३६॥ प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम् । अलङ्कारतयोद्दिष्टं निवृत्तावपि तत्समम् ॥ २.२३७॥ चन्दनारण्यमाधूय स्पृष्ट्वा मलयनिर्झरान् । पथिकानामभावाय पवनोऽयमुपस्थितः ॥ २.२३८॥ अभावसाधनायालमेवम्भूतो हि मारुतः । विरहज्वरसम्भूतमनोज्ञारोचके जने ॥ २.२३९॥ निवर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया । प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैव हेतुता ॥ २.२४०॥ हेतुर्निर्वर्तनीयस्य दर्शितः शेषयोर्द्वयोः । दत्त्वोदाहरणद्वन्द्वं ज्ञापको वर्णयिष्यते ॥ २.२४१॥ उत्प्रवालाण्यरण्यानि वाप्यः सम्फुल्लपङ्कजाः । चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम् ॥ २.२४२॥ मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम् । बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा ॥ २.२४३॥ गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः । इतीदमपि साध्वेव कालावस्थानिवेदने ॥ २.२४४॥ अवध्यैरिन्दुपादानामसाध्यैश्चन्दनाम्भसाम् । देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ॥ २.२४५॥ इति लक्ष्याः प्रयोगेषु रम्या ज्ञापकहेतवः । अभावहेतवः के चिद्व्याह्रियन्ते मनोहराः ॥ २.२४६॥ अनभ्यासेन विद्यानामसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणाञ्जायते व्यसनं नृणाम् ॥ २.२४७॥ गतः कामकथोन्मादो गलितो यौवनज्वरः । क्षतो मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः ॥ २.२४८॥ वनान्यमूनि न गृहाण्येता नद्यो न योषितः । मृगा इमे न दायादास्तन्मे नन्दति मानसम् ॥ २.२४९॥ अत्यन्तमसदार्याणामनलोचितचेष्टितम् । अतस्तेषां विवर्धन्ते सततं सर्वसम्पदः ॥ २.२५०॥ उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी । देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ॥ २.२५१॥ प्रागभावादिरूपस्य हेतुत्वमिह वस्तुनः । भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति ॥ २.२५२॥ दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा । अयुक्तयुक्तकार्यौ चेत्यसङ्ख्याश्चित्रहेतवः ॥ २.२५३॥ तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः । अत्यन्तसुन्दरा दृष्टास्तदुदाहृतयो यथा ॥ २.२५४॥ त्वदपाङ्गाह्वयं जैत्रमनङ्गास्त्रं यदङ्गने । मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः ॥ २.२५५॥ आविर्भवति नारीणां वयः पर्यस्तशैशवम् । सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैः ॥ २.२५६॥ पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ २.२५७॥ राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः । देव त्वच्चरणद्वन्द्वरागबालातपः स्पृशन् ॥ २.२५८॥ पाणिपद्मानि भूपानां सङ्कोचयितुमीशते । त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥ २.२५९॥ इति हेतुविकल्पानां दर्शिता गतिरीदृशी ॥ इति हेतुचक्रम् ॥ इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ॥ २.२६०॥ कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ २.२६१॥ पद्मसम्मीलनादत्र सूचितो निशि सङ्गमः । आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम् ॥ २.२६२॥ मदर्पितदृशस्तस्या गीतगोष्ठ्यामवर्धत । उद्दामरागतरला छाया कापि मुखाम्बुजे ॥ २.२६३॥ इत्यनुद्भिन्नरूपत्वाद्रत्युत्सवमनोरथह् । अनुल्लङ्ह्ग्यैव सूक्ष्मत्वमभूदत्र व्यवस्थितः ॥ २.२६४॥ इति सूक्ष्मचक्रम् ॥ लेशो लेशेन निर्भिन्नवस्तुरूपनिगूहनम् । उदाहरण एवास्य रूपमाविर्भविष्यति ॥ २.२६५॥ राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकः । अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् ॥ २.२६६॥ आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् । अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम् ॥ २.२६७॥ इत्येवमादिस्थानेऽयमलङ्कारोऽतिशोभते । लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः कृताम् ॥ २.२६८॥ युवैष गुणवान्राजा योग्यस्ते पतिरूर्जितः । रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥ २.२६९॥ वीर्योत्कर्षस्तुतिर्निन्दैवास्मिन्भावनिवृत्तये । कन्यायाः कल्पते भोगान्निर्विविक्षोर्निरन्तरम् ॥ २.२७०॥ चपलो निर्दयश्चासौ जनः किं तेन मे सखि । आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥ २.२७१॥ दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता । मानं सखिजनोद्दिष्टं कर्तुं रागादशक्तया ॥ २.२७२॥ इति लेशचक्रम् ॥ उद्दिष्टानां पदार्थानामनूद्देशो यथाक्रमम् । यथासङ्ख्यमिति प्रोक्तं सङ्ख्यानं क्रम इत्यपि ॥ २.२७३॥ ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः । स्नातुमम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥ २.२७४॥ इति क्रमः ॥ प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् । ऊर्जस्वि रूढाहङ्कारं युक्तोत्कर्षं च तत्त्रयम् ॥ २.२७५॥ अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥ २.२७६॥ इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः । भक्तिमात्रसमाराध्यः सुप्रीतश्च ततो हरिः ॥ २.२७७॥ सोमः सूर्यो मरुद्भूमिर्व्योम होतानलो जलम् । इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव के वयम् ॥ २.२७८॥ इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः । प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम् ॥ २.२७९॥ मृतेऽति प्रेत्य सङ्गन्तुं यया मे मरणं मतम् । सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥ २.२८०॥ प्राक्प्रीतिर्दर्शिता सेयं रतिः श‍ृङ्गारतां गता । रूपबाहुल्ययोगेन तदिदं रसवद्वचः ॥ २.२८१॥ निगृह्य केशेष्वाकृष्टा कृष्णा येनाग्रतो मम । सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणम् ॥ २.२८२॥ इत्यारुह्य परां कोटिं क्रोधो रौद्रात्मतां गतः । भीमस्य पश्यतः शत्रुमित्येतद्रसवद्वचः ॥ २.२८३॥ अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयः पार्थिवः कथम् ॥ २.२८४॥ इत्युत्साहः प्रकृष्टात्मा तिष्ठन्वीररसात्मना । रसवत्त्वं गिरामासां समर्थयितुमीश्वरः ॥ २.२८५॥ यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी । साधिशेते कथं तन्वी हुताशनवतीं चिताम् ॥ २.२८६॥ इति कारुण्यमुद्रिक्तमलङ्कारतया स्मृतम् । तथापरेऽपि बीभत्सहास्याद्भुतभयानकाः ॥ २.२८७॥ पायं पायं तवारीणां शोणितं पाणिसम्पुटैः । कौणपाः सह नृत्यन्ति कबन्धैरन्त्रभूषणाः ॥ २.२८८॥ इदमम्लानमानाया लग्नं स्तनतटे तव । छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥ २.२८९॥ अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् । शाखाश्च मन्दिराण्येषां चित्रं नन्दनशाखिनाम् ॥ २.२९०॥ इदं मघोनः कुलिशं धारासन्निहितानलम् । स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ २.२९१॥ वाक्यस्याग्राम्यतायोनिर्माधुर्ये दर्शितो रसः । इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम् ॥ २.२९२॥ इति रसवच्चक्रम् ॥ अपकर्ताहमस्मीति हृदि ते मा स्म भूद्भयम् । विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥ २.२९३॥ इति मुक्तः परो युद्धे निरुद्धो दर्पशलिना । पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्येवमादिकम् ॥ २.२९४॥ इत्यूर्जस्वि ॥ अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते ॥ २.२९५॥ दशत्यसौ परभृतह्सहकारस्य मञ्जरीम् । तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम् ॥ २.२९६॥ सङ्गमय्य सखीं यूना सङ्केते तद्रतोत्सवम् । निर्वर्तयितुमिच्छन्त्या कयाप्यपसृतं ततः ॥ २.२९७॥ इति पर्यायोक्तम् ॥ किञ्चिदारभमाणस्य कार्यं दैववशात्पुनः । तत्साधनसमापत्तिर्या तदाहुः समाहितम् ॥ २.२९८॥ मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितम् ॥ २.२९९॥ इति समाहितम् ॥ आशयस्य विभूतेर्वा यन्महत्वमनुत्तमम् । उदात्तं नाम तं प्राहुरलङ्कारं मनीषिभिः ॥ २.३००॥ गुरोः शसनमत्येतुं न शशाक स राघवः । यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ॥ २.३०१॥ रत्नभित्तिषु सङ्क्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ २.३०२॥ पूर्वत्राशयमाहात्म्यमत्राभ्युदयगौरवम् । सुव्यञ्जितमिति प्रोक्तमुदात्तद्वयमप्यदः ॥ २.३०३॥ इत्युदात्तम् ॥ अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्शनम् । न पञ्चेषु स्मरस्तस्य सहस्रं पत्रिणामिति ॥ २.३०४॥ चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः । सेयमग्निमयी सृष्टिर्मयि शीता परान्प्रति ॥ २.३०५॥ शैशिर्यमभ्युपेत्यैव परेष्वात्मनि कामिना । औष्ण्यप्रकाशनात्तस्य सेयं विषयनिःनुतिः ॥ २.३०६॥ अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः । अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ॥ २.३०७॥ इति चन्द्रत्वमेवेन्दौ निवर्त्यार्थान्तरात्मता । उक्ता स्मरार्तेनेत्येषा स्वरूपापह्नुतिर्मता ॥ २.३०८॥ उपमापह्नुतिः पूर्वमुपमास्वेव दर्शिता । इत्यपह्नुतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ॥ २.३०९॥ इत्यपहनुतिः ॥ श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः । तदभिन्नपदं भिन्नपदप्रायमिति द्विधा ॥ २.३१०॥ असावुदयमारूढः कान्तिमान्रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ २.३११॥ दोषाकरेण सम्बध्नन्नक्षत्रपथवर्तिना । राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते ॥ २.३१२॥ उपमारूपकाक्षेपव्यतिरेकादिगोचराः । प्रागेव दर्शिताः श्लेषा दर्श्यन्ते के चनापरे ॥ २.३१३॥ अस्त्यभिन्नक्रियः कश्चिदविरुद्धक्रियोऽपरः । विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ॥ २.३१४॥ नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि । तेषां निदर्शनेष्वेव रूपमाविर्भविष्यति ॥ २.३१५॥ वक्राः स्वभावमधुराः शंसन्त्यो रागमुल्बणम् । दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ २.३१६॥ मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः । आकर्ण्यन्ते मदकलाह्श्लिष्यन्ते चासितेक्षनाः ॥ २.३१७॥ रागमादर्शयन्नेष वारुणीयोगवर्धितम् । तिरोभवति धर्मांशुरङ्गजस्तु विजृम्भते ॥ २.३१८॥ निस्त्रिंशत्वमसावेव धनुष्येवास्य वक्रता । शरेष्वेव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥ २.३१९॥ पद्मानामेव दण्डेषु कण्टकस्त्वयि रक्षति । अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि ॥ २.३२०॥ महीभृद्भूरिकटकस्तेजस्वी नियतोदयः । दक्षः प्रजापतिश्चासीत्स्वामी शक्तिधरश्च सः ॥ २.३२१॥ अच्युतोऽप्यवृषच्छेदी राजाप्यविदितक्षयः । देवोऽप्य् अविबुधो जज्ञे शङ्करोऽप्यभुजङ्गवान् ॥ २.३२२॥ इति श्लेषचक्रम् ॥ गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम् । विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥ २.३२३॥ न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥ २.३२४॥ न देवकन्यका नापि गन्धर्वकुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ॥ २.३२५॥ न बद्धा भ्रूकुटिर्नापि स्फुरितो दशनच्छदः । न च रक्ताभवद्दृष्टिर्जितं च द्विषतां कुलम् ॥ २.३२६॥ न रथा न च मातङ्गा न हया न च पत्तयः । स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ २.३२७॥ एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ २.३२८॥ सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात् । अयमेव क्रमोऽन्येषां भेदानामपि कल्पने ॥ २.३२९॥ इति विशेषोक्तिचक्रम् ॥ विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्य चित् । कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ २.३३०॥ यमः कुबेरो वरुणः सहस्राक्षो भवानपि । बिभ्रन्त्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ २.३३१॥ सङ्गतानि मृगाक्षीणां तडिद्विलसितानि च । क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ २.३३२॥ इति तुल्ययोगिता ॥ विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् । विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥ २.३३३॥ कूजितं राजहंसानां वर्धते मदमञ्जुलम् । क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥ २.३३४॥ प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते । रागेण पुनराक्रान्तं जायते जगतां मनः ॥ २.३३५॥ तनुमध्यं पृथुश्रोणि रक्तौष्ठमसितेक्षणम् । नतनाभि वपुः स्त्रीणां कं न हरत्युन्नतस्तनम् ॥ २.३३६॥ मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् । अपि ते रूपमस्माकं तन्वि तापाय कल्पते ॥ २.३३७॥ उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः । उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ २.३३८॥ कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिनि ॥ २.३३९॥ इत्यनेकप्रकारोऽयमलङ्कारः प्रतीयते ॥ इति विरोधचक्रम् ॥ अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः ॥ २.३४०॥ सुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अन्नैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ॥ २.३४१॥ सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते । राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥ २.३४२॥ इत्यप्रस्तुतप्रशंसा ॥ यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्म्र्ता । दोषाभासा गुणा एव लभन्ते ह्यत्र सन्निधिम् ॥ २.३४३॥ तापसेनापि रामेण जितेयं भूतधारिणी । त्वया राज्ञापि सैवेयं जिता मा भून्मदस्तव ॥ २.३४४॥ पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते । राजन्निक्षाकुवंशस्य किमिदं तव युज्यते ॥ २.३४५॥ भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी । अहङ्कारः परां कोटिमारोहति कुतस्तव ॥ २.३४६॥ इति श्लेषानुविद्धानामन्येषां चोपलक्ष्यताम् । व्याजस्तुतिप्रकाराणामपर्यन्तस्तु विस्तरः ॥ २.३४७॥ इति व्याजस्तुतिः ॥ अर्थान्तरप्रवृत्तेन किं चित्तत्सदृशं फलम् । सदसद्वा निदर्श्येत यदि तत्स्यान्निदर्शनम् ॥ २.३४८॥ उदयन्नेष सविता पद्मेष्वर्पयति श्रियम् । विभावयितुं ऋद्धीनां फलं सुहृदनुग्रहम् ॥ २.३४९॥ याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् । सद्यो राजविरुद्धानां सूचयन्ती दुरन्तताम् ॥ २.३५०॥ इति निदर्शनम् ॥ सहोक्तिः सहभावेन कथनं गुणकर्मणाम् । अर्थानां यो विनिमयः परिवृत्तिस्तु सा स्मृता ॥ २.३५१॥ सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः । पाण्डुराश्च ममैवाङ्गेः सह ताश्चन्द्रभूषणाह् ॥ २.३५२॥ वर्धते सह पान्थानां मूर्च्छया चूतमञ्जरी । पतन्ति च समं तेषामसुभिर्मलयानिलाः ॥ २.३५३॥ कोकिलालापसुभगा सुगन्धिवनवायवः । यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः ॥ २.३५४॥ इत्युदाहृतयो दत्ताः सहोक्तेरत्र काश्चन ॥ इति सहोक्तिः ॥ क्रियते परिवृत्तेश्च किं चिद्रूपनिदर्शनम् ॥ २.३५५॥ शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् । चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ २.३५६॥ इति परिवृत्तिः ॥ आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा । पातु वः परमं ज्योतिरवाङ्मनसगोचरम् ॥ २.३५७॥ इत्याशीः ॥ अनन्वयससन्देहाव् उपमास्वेव दर्शितौ । उपमारूपकं चापि रूपकेष्वेव दर्शितम् ॥ २.३५८॥ उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोऽपि च । नानालङ्कारसंसृष्टिः संसृष्टिस्तु निगद्यते ॥ २.३५९॥ अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता । इत्यलङ्कारसंसृष्टेर्लक्षणीया द्वयी गतिः ॥ २.३६०॥ आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ २.३६१॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ २.३६२॥ श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् । भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम् ॥ २.३६३॥ इति संसृष्टिः ॥ तद्भाविकमिति प्राहुः प्रबन्धविषयं गुणम् । भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः ॥ २.३६४॥ परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् । विशेषाणां व्यर्थानामक्रिया स्थानवर्णना ॥ २.३६५॥ व्यक्तिरुक्तिक्रमबलाद्गम्भीरस्यापि वस्तुनः । भावायत्तामिदं सर्वमिति तद्भाविकं विदुः ॥ २.३६६॥ इति भाविकम् ॥ यच्च सन्ध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे । व्यावर्णितमिदं चेष्टमलङ्कारतयाइव नः ॥ २.३६७॥ पन्थाः स एष विवृतः परिमाणवृत्त्या संहृत्य विस्तरमनन्तमलङ्क्रियाणाम् । वाचामतीत्य विषयं परिवर्तमाना- नभ्यास एव विवरीतुमलं विशेषान् ॥ २.३६८॥ इत्याचार्यदण्डिनः कृतौ काव्यादर्शेऽर्थालङ्कारविभागो नाम द्वितीयो परिच्छेदः ॥

तृतीयः परिच्छेदः

अव्येपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ ३.१॥ एकद्वित्रिचतुष्पादयमकानां विकल्पनाः । आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ ३.२॥ अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः । सुकरा दुष्कराश्चैव दृस्र्यन्ते तत्र केचन ॥ ३.३॥ मानेन मानेन सखि प्रणयोऽभूत् प्रिये जने । खण्डिता कण्ठमाश्लिष्य तमेव कुरु सत्रपम् ॥ ३.४॥ मेघनादेन हंसानां मदनो मदनोदिना । नन्नुमानं मनः स्त्रीणां सह रत्या विगाहते ॥ ३.५॥ राजन्वत्यः प्रजा जाता भवन्तं प्राप्य साम्प्रतम् । चतुरं चतुरम्बोधिरसनोर्वीकग्रहे ॥ ३.६॥ अरणयं कैस्चिदाक्रान्तमन्यैः सद्म दिवोकसाम् । पदातिरथनागाश्वरहितैरहितैस्तव ॥ ३.७॥ मधुरं मधुरम्भोजवदने वद नेत्रयोः । विभ्रमं भ्रमरभ्रन्त्या विडम्बयति किंन्विदम् ॥ ३.८॥ (कित्र ते, किं नु ते) वारणो वा रणोद्दामो हयो वा स्मरः दिर्धरः । न यतो न यतोऽन्तं नस्तदहो विक्रमस्तव ॥ ३.९॥ राजितैराजितैक्ष्ण्येन जीयते तेवादृशैर्नृपैः । नीयते च पुनस्तृप्त वसुधा वसुधारया ॥ ३.१०॥ करोति सहकारस्य कलिकोत्कलिकोत्तरम् । मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः ॥ ३.११॥ कथं त्वदुपलम्भासाविहताविह तादृशी । अवस्था नालमारोढुमङ्गनामङ्गनाशिनी ॥ ३.१२॥ निगृह्य नेत्रे कर्षन्ति बालपल्लवशोभिना । तरुणा तरुणान् कृष्टानलिनो नलिनोन्मुखाः ॥ ३.१३॥ विशदा विशदामत्तसारसे सारसे जले । कुरुते करुतेनेयं हंसी मामन्तकामिषम् ॥ ३.१४॥ विषमं विषमन्वेति मदनं मदनन्दनः । सहेन्दुकलयापोढमलया मलयानिलः ॥ ३.१५॥ मानिनी मा निनीषुस्ते निषङ्गत्वमनङ्ग मे । हारिणी हारिणी शर्म तनुतां तनुतां यतः ॥ ३.१६॥ जयता त्वन्मुखेनास्मानकथं न कथं जितम् । कमलं कमलङ्कुर्वदलिमद्दलि मत्प्रिये ॥ ३.१७॥ रमणी रमणीया मे पाटला पाटलांशुका । वारुणीवारुणीभूतसौरभा सौरभास्पदम् ॥ ३.१८॥ इति पादादियमकमव्यपेतं विकल्पितम् । व्यपेतस्यापि वण्र्यन्ते विकल्पास्तस्य केचना ॥ ३.१९॥ मधुरेणदृशां मानम्मधुरेण सुगन्धिना । सहकारोद्भमेनैव शब्दशेषं करिष्यति ॥ ३.२०॥ करोऽतिताम्रो रामाणां तन्त्रीतानविभ्रमम् । करोति सेष्र्यं कान्ते वा श्रवणोत्पलतानम् ॥ ३.२१॥ सकलापोल्लसनया कलापिन्यानुनृत्यते । मेघाली नर्तिता वातैः सकलापो विमुञ्चति ॥ ३.२२॥ स्वयमेव गलन्मानकलि कामिनि ते मनः । कलिकामद्य नीपस्य दृष्ट्वा कां नु स्पृशेद्दशाम् ॥ ३.२३॥ आरुह्याक्रीशैलस्य चन्द्रकान्तस्थलीमिमाम् । नृत्यत्येष चलच्चारुचन्द्रकान्तः शिखावलः ॥ ३.२४॥ उद्धृता राजकादूर्वी ध्रियतेऽद्य भुजेन ते । वराहेणोद्धृता यासौ वराहेरुपरिस्थिता ॥ ३.२५॥ करणे ते रणेष्वन्तकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति सान्ध्यघना इव ॥ ३.२६॥ परागतरुरीजीव वातैध्र्वस्ता भटैश्चमूः । परागतमिव क्वापि परागतमम्बरम् ॥ ३.२७॥ पातु वो भगवत् विष्णुः सदानवघनद्युतिः । स दानवकुलध्वंसी सदानवरदन्तिहा ॥ ३.२८॥ कमलेः समकेशान्ते कमलोष्र्याकरं मुखम् । कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ ३.२९॥ मुदा रमममन्वीतमुदारमणिभूषणाः । मदभ्रमदृशः कर्तुमदभ्रजघनाः क्षमाः ॥ ३.३०॥ उदितैरन्यपुष्टानामारुतैर्मे हृतं मनः । उदितैरपि ते दूति!मारुतैरपि दक्षिणैः ॥ ३.३१॥ सुराजितह्रियो यूनां तनुमध्यासते स्त्रियः । तनुमध्या क्षरत्स्वेदसुराजितमुखेन्दवः ॥ ३.३२॥ इति व्यपेतयमकप्रभेदोऽप्येष दर्शितः । अव्यपेतव्यपेतात्मा विकल्पोऽप्यस्ति तद्यथा ॥ ३.३३॥ सालं सालम्बकलिकासालं सालं न वीक्षितुम् । नाली नालीनवकुलानाली नालीकिनीरपि ॥ ३.३४॥ कालं कालमनालक्ष्यतारतारकमीक्षितुम् । तारतारम्यरसितं कालं कालमहाघनम् ॥ ३.३५॥ याम यामत्रयाधीनायामया मरणं निशा । यामयाम दियास्वात्र्याया मया मथितैव सा ॥ ३.३६॥ इत्यादिपादयमकविकल्पस्येदृशी गतिः । एवमेव विकल्प्यानि यमकानीतराण्यपि ॥ ३.३७॥ न प्रञ्चभयाद् भेदाः कात्स्र्नेनाख्यातुमीप्सिताः । दुष्कराभिमता एव दश्र्यन्ते तत्र केचन ॥ ३.३८॥ स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् । अमायतेयतेऽप्यभूत् सुखाय तेयते क्षयम् ॥ ३.३९॥ सभासु राजन्नसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः । न भसुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः ॥ ३.४०॥ तव प्रिया सञ्चरिताप्रमत्त या विभूषणं धार्यमिहाशुमत्तया । रतोत्सवामोदविशेषमत्तया न मे फलं किञ्चन कान्तिमत्तया ॥ ३.४१॥ भवादृसा नाथ!न जानते नते रसं विरुद्धे खलु सन्नतेनते । य एव दीनाः शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते ॥ ३.४२॥ लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन । व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ ३.४३॥ श्रीमानमानमरवत्र्मसमानमानमात्मानमानतजगत्प्रथमानमानम् । भूमानमानयति यः स्थितिमानमाननामानमानमतमप्रतिमानमानम् ॥ ३.४४॥ सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरा तम् । सारसानुकृतसारसकाञ्ची सा रसायनमसारमवैति ॥ ३.४५॥ नयानयालोचनयानयानयानयानयान्धान् विनयानयायते । न यानयासीर्जिनयानया नयानयानयास्तं जनयानयाश्रितान् ॥ ३.४६॥ रवेण भौमो ध्वजवर्तिवीरवे रवेजि सयत्यतुलास्त्रगौरवे । रवेरिवोग्रस्य पुरो हरेरवे रवेत तुल्यं रिपुमस्य भैरवे ॥ ३.४७॥ मयामयालम्ब्यकलामयामयामयामयातव्यविरामयामया । मयामयार्तिं निशयामयामयामयामयामूं करुणामयामया ॥ ३.४८॥ मतान्धुनानारमतामकामतामतापलब्धाग्रिमतानुलोमता । मतावयत्युत्तमताविलोमतामताम्यकस्ते समता न वामता ॥ ३.४९॥ कालकालगलकालकालमुखकालकाल- कालकालपनकालकालघनकालकाल- । कालकालसितकालका ललनिकालकाल- कालकालगतु कालकालकलिकालकाल ॥ ३.५०॥ सन्दष्टयमकस्थानमन्तादी पादयोद्र्वयोः । उक्तान्तर्गतमप्येतत् स्वातन्त्र्येणात्र कीत्र्यते ॥ ३.५१॥ उपोढरगाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता । न योजितात्मानमनङ्गतापिता- ङ्गतापि तापाय ममास नेयते ॥ ३.५२॥ अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः । पादाभ्यासोऽप्यनेकात्मा व्यज्यते स निदर्शनैः ॥ ३.५३॥ ना स्थेयः सत्त्वया वज्र्यः परमायतमानया । नास्थेयः स त्वयावज्र्यः परमायतमानया ॥ ३.५४॥ नरा जिता माननया समेत्य न राजिता माननया समेत्य । विनाशिता वैभवतापनेन विनाशिता वै भवतापनेन ॥ ३.५५॥ कलापिनां चारुतयोपयन्ति वृन्दानि लापोढघनागमानाम् । वृन्दनिलापोढघनागमानां कलापिनां चारुतयोऽपयन्ति ॥ ३.५६॥ न मन्दयावर्जितमानसामत्या नमन्दयावर्जितमानसात्मया । उरस्युपास्तीर्णपयोधरद्वयं मया समालिङ्ग्यत जीवितेश्वरः ॥ ३.५७॥ सभासुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः । स भासुराणामबला विभूषिता विहारयन्निर्विश सम्पदः पुराम् ॥ ३.५८॥ कलं कमुक्तं तनुमध्यनामिका स्तनद्वयो च त्वदृते न हन्त्यतः । न याति भूतं गणेन भवन्मुखे कलङ्कमुक्तं तनुमद्ध्यनामिका ॥ ३.५९॥ यशश्च ते दिक्षु रजश्च सैनिका वितन्वतेऽजोपम!दंशिता युधा । वितन्वतेजोऽपमदं शितायुधा द्विषा च कुर्वन्न्ति कुलं तरस्विनः ॥ ३.६०॥ बिभर्ति भूमेर्वलयं भुजेन ते भुजङ्गम्प्मा स्मरतो मदञ्चितम् । श्रृणूक्तमेकं स्वमवेत्य भूधरं भुजङ्गमो मा स्म रतो मदं चितम् ॥ ३.६१॥ स्मरानलो मानविवर्धितो यः स निर्वृतिं ते किमपाकरोति । समन्ततस्तामरसेक्षणो न समं ततस्तामरसे क्षणेन ॥ ३.६२॥ प्रभावतो नामन वासवस्य प्रभावतोऽनाम नवासवस्य । प्रभावतो नाम न वा सवस्य विच्छित्तिरासीत् त्वयि पिष्टपस्य ॥ ३.६३॥ परं पराया बलवा रणानां धूलीः स्थलीव्र्योम विधाय रुन्धन् । परम्पराया बलवारणानां परं पराया बलवारणानाम् ॥ ३.६४॥ न श्रद्धधे वाचमज्ज!मिथ्याभवद्धिधानामसमाहितानाम् । भवद्धिधानामसमाहितानां भवद्धिधानामसमाहितानाम् ॥ ३.६५॥ सन्नाहितोमानमराजसेन सन्नाहितोमानमराजसेन । सन्ना हितोमानमराजसेन सन्नाहितो मानम रोजसे न ॥ ३.६६॥ सकृद् द्विस्त्रिश्च योऽभ्यासः पादस्यैवं प्रदर्सितः । श्लोकद्वयं तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा ॥ ३.६७॥ विनायकेन भवता वृत्तोपचितबाहुना । स्वमित्रोद्धारिणाभीता पृथ्वीयमतुलाश्रिता ॥ ३.६८॥ विनायकेम भवता वृत्तोपचितबाहुना । स्वमित्रोद्धारिणाभीता पृथ्वी यमतुलाश्रिता ॥ ३.६९॥ एकाकारं चतुष्पादं तन्महायमकाह्वयम् । तत्रापि दृश्यतेऽभ्यासः सा परा यमकक्रिया ॥ ३.७०॥ समानयासमानया समानया स मानया । समानयासमान या समानयासमानया ॥ ३.७१॥ धराधराकारधरा धराभुजां भुजामहीं पातुमहीनविक्रमाः । क्रमात् सहन्ते सहसा हतारयो रस्योद्ध्रा मानधुरावलम्बिनः ॥ ३.७२॥ आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा । यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम् ॥ ३.७३॥ यामताश कृतायासा सा यता कृशता मया । रमणारकतात तेस्तु स्तुतेताकरणामर ॥ ३.७४॥ नादिनोऽमदनाधीः स्वा नमे काचन कामिता । तामिका न च कामने स्वाधीना दमनोदिना ॥ ३.७५॥ यानमानयमाराविकशोनानजनासना । यामुदारशताधीनामायामायमनादि सा ॥ ३.७६॥ सा दिनामयमायामा नाधीता शरदामिया । नासनाजनना सोकविरामाय न मानया ॥ ३.७७॥ वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूबिकेति तत् प्राहुर्दुष्करं तद्विदो यथा ॥ ३.७८॥ मदनो मदिराक्षीणामपाङ्गास्त्रो जयेदयम् । मदेनो यदि तत् क्षीणमनङ्गायाञ्जलिं ददे ॥ ३.७९॥ आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि । तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः ॥ ३.८०॥ मनोभव तवानीकं नोदयाय न मानिनी । भयादमेयामा मा वा वयमेनोमया नत ॥ ३.८१॥ सामायामा माया मासा मारानायायाना रामा । यानावारारावानाया मायारामा मारायामा ॥ ३.८२॥ यः स्वरस्थानवर्णानां नियमो दुष्करोष्वसौ । इष्टश्चतुः प्रभृत्येषु दश्र्यते सुकरः परः ॥ ३.८३॥ आम्नायानामाहान्त्या वाग् गीतीरीरीः प्रीतार्भीतीः । भोगो रोगो मोदो मोहो धे ये चेच्छे देशे क्षेमे ॥ ३.८४॥ क्षितिविजितिस्थितिविहितिवर्तरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥ ३.८५॥ श्रीदीप्ती ह्रीकीर्ती गीःप्रीती । एधेते द्वे द्वे ते ये नेमे देवेशे ॥ ३.८६॥ सामायामा माया मासा मारानायायाना रामा । यानावारारावानाया मायारामामारायामा ॥ ३.८७॥ नयनानन्दजनने नक्षत्रगणशालिनि । अघने गगने दृष्टिरङ्गने!दीयतां सकृत् ॥ ३.८८॥ अलिनीलालकलतं कं न हन्ति घनस्तनि । आननं नलिलच्छायनयनं शशिकान्ति ते ॥ ३.८९॥ अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना । सदानघ सदानन्द नताङ्गासङ्गसङ्गत ॥ ३.९०॥ अगागाङ्गाङ्गकाकाकगाहकाघककाकहा । अहाहाङ्गखगाङ्कागखगकाककः ॥ ३.९१॥ रे रे रोरुरुरोरुगागोगोऽगाङ्गगोऽगगुः । किं केकाकाकुकः काको मामा गामा ममामम ॥ ३.९२॥ देवानां नन्दनो देवो नोदनो वेदनिन्दिनः । दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ ३.९३॥ सुरिः सुरासुरासारिसारः सारसिसारसाः । ससार सरसीः सीरी ससूरूः स सुरारसी ॥ ३.९४॥ नूनं नुन्ननि नानेन नाननेनाननानि नः । नानेना ननु नानूनेनैनेनानानिनो निनीः ॥ ३.९५॥ प्रहेलिकीप्रकाराणां पुनरुद्दिश्यते गतिः ॥ ३.९६॥ क्रीआगोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे । परव्यामोहने चापि सोपयोगाः प्रहेलिकाः ॥ ३.९७॥ आहुः समागतां नाम गूढार्थां पदसन्धिना । वञ्चितान्यत्र रूढेन यत्र शब्देन वञ्चना ॥ ३.९८॥ व्युत्क्रान्तातिव्यवहितप्रयोगान्मोहकारिणी । सा स्यात् प्रमुषिता यस्यां दुर्बोधर्था पदावली ॥ ३.९९॥ समानरूप गौणर्थारोपितैग्र्रथिता पदैः । परुषा लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः ॥ ३.१००॥ सङ्ख्याता नाम सङ्ख्यानं यत्र व्यामोहकारणम् । अन्यथा भसते यत्र वाक्यार्थः सा प्रकल्पिता ॥ ३.१०१॥ सा नामान्तरिता यस्या नाम्नि नानार्थकल्पना । निभृता निभृतान्यार्था तुल्यधर्मस्पृशा गिरा ॥ ३.१०२॥ समानशब्देपन्यस्तसब्दपर्यायसाधिता । सम्मूढां नाम या साक्षान्निर्दिष्टार्थपि मूढये ॥ ३.१०३॥ योगमालात्मकं नाम यस्याः सा पारिहारिकी । एकच्छन्नाश्रितं व्यज्य यस्यामाश्रयगोपनम् ॥ ३.१०४॥ सा भवेदुभयच्छन्ना यस्यामुभयगोपनम् । सङ्कीर्णा नाम सा यस्यां नानालक्षणसङ्करः ॥ ३.१०५॥ एताः षोश निर्दिष्टाः पूर्वाचार्यैः प्रहेलिकाः । दुष्टप्रहेलिकाश्चान्यास्तैरधीताश्चतुर्दश ॥ ३.१०६॥ दोषानपरिसङ्ख्येयान् मन्यमाना वयं पुनः । साध्वीरेवाभिधास्यामस्ता दुष्टा यास्त्वलक्षणाः ॥ ३.१०७॥ न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि । अस्थानरुदितैरेतैरलमालोहितेक्षणे ॥ ३.१०८॥ कुब्जामासेवमानस्य यथा ते वर्धते रतिः । नैवं निर्विशतो नारीरमरस्त्रीविम्बिनीः ॥ ३.१०९॥ दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके । मुखं वल्गुरवं कुर्वंस्तुण्डेनाङ्गानि घदृयन् ॥ ३.११०॥ खातयः कनि काले ते स्फातयः स्फीतवल्गवः । चन्द्रे साक्षाद्भवन्त्यत्र वायवो मम चारिणः ॥ ३.१११॥ अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा । पल्लवे पल्लवे चाद्र्रा यस्याः कुसुममञ्जरी ॥ ३.११२॥ सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा । मज्जन्त इव मत्तास्ते सौर सरसि सम्प्रति ॥ ३.११३॥ नासिक्यमध्या परितश्चातुर्वण्यविभूषिता । अस्ति काचित् पुरी यस्यामष्टवर्माढद्धठ्ठड वया नृपाः ॥ ३.११४॥ गिरा स्खलन्त्य नम्रेण शिरसा दीनया दृशा । तिष्ठन्तमपि सोत्कम्पं वृद्धे!मां नानुकम्पसे ॥ ३.११५॥ आदौ राजेत्यधीराक्षि! पार्थिवः कोऽपि गीयते । सनातनस्च नैवासौ राजा नैव सनातनः ॥ ३.११६॥ हृतद्रव्यं जनं त्यक्त्वा धनवन्तं व्रजन्ति काः । नानाभङ्गिशताकृष्टलोका वेश्या न दुर्धराः ॥ ३.११७॥ जितप्रकृष्टकेसाख्यो यस्तवाभूमिसाह्वयः । असौ मामुत्कमधिकं करोति कलभाषिणि ॥ ३.११८॥ शयनीये परावृत्य शयितौ कामिनौ रुषा । तथैव शयितौ रागात् स्वैरं मुखमचुम्बताम् ॥ ३.११९॥ विजितान्नभवद्वेषिगुरुपादहतो जन । हिमापहामित्रधरैव्र्याप्तं व्योमाभिनन्दति ॥ ३.१२०॥ न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्लम् । अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥ ३.१२१॥ केन कः सह सम्भूय सर्वकार्येषु सन्निधिम् । लब्ध्वा भोजनकाले तु यदि दृष्टे निरस्यते ॥ ३.१२२॥ सया सगजा सेना सभटेयं न चेज्जिता । अमातृकोऽयं मूढः स्यादक्षरज्ञस्तु नः सुतः ॥ ३.१२३॥ सा नामान्तरितामिश्रवञ्चितारूपयोगिनी । एवमेवेतरासामप्युन्नेयः सङ्करक्रमः ॥ ३.१२४॥ अपार्थ व्यर्थम्मेकार्थं ससंशयमपक्रमम् । शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥ ३.१२५॥ देशकालकलालोकन्यायागमविरोधि च । इति दोषा दशैवैते वज्र्याः काव्येषु सूरिभिः ॥ ३.१२६॥ प्रतिज्ञाहेतुदृष्टान्तहानिर्दोषो न वेत्यसौ । विचारः कर्कशप्रायस्तेनालीढने किं फलम् ॥ ३.१२७॥ समुदायार्थशून्यं यत् तदपार्थमितीष्यते । तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दष्यति ॥ ३.१२८॥ समुद्रः पीयते देवैरहमस्मि जरातुरः । अमी गर्जन्ति जीमूता हरेरैरावणः प्रियः ॥ ३.१२९॥ इदमस्वस्थचित्तानामाबिधानमनिन्दितम् । इतरत्र कविः को वा प्रयुञ्जीतैवमादिकम् ॥ ३.१३०॥ एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम् । विरुद्धार्थतया व्यर्थमिति दोषेषु पठ्यते ॥ ३.१३१॥ जहि शत्रुकुलं कृस्त्नं जय विश्वम्भरामिमाम् । न हि ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥ ३.१३२॥ अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः । यस्यां भवेदभिमता विरुद्धार्थपि भारती ॥ ३.१३३॥ परदाराभिलाषो मे कथमार्यंस्य युज्यते । पिबामि तरलं कदा नु दशनच्छदम् ॥ ३.१३४॥ अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीत्र्ये । अर्थतऋः शब्दतो वापि तदेकार्थं मतं यथा ॥ ३.१३५॥ उत्कामुन्मनयन्त्यते बालां तदलकत्विषः । अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ ३.१३६॥ अनुकम्पाद्यत्शयो यदि कश्चिद् विवक्ष्यते । न दोषः पुनरुक्तोऽपि प्रत्युतेयमलङ्कृतिः ॥ ३.१३७॥ हन्यते सा वरारोहा स्मरेणाकाण्वैरिणा । हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ ३.१३८॥ निर्णयार्थं प्रयुक्तानि संसयं जनयन्ति चेत् । वचांसि दोष एवासौ ससंशय इति स्मृतः ॥ ३.१३९॥ मनोरथप्रियालोकरसलोलेक्षणे सखि । आराद्वृत्तिरसौ माता न क्षमा द्रष्टुमीदृशम् ॥ ३.१४०॥ ईदृशं संशयायैव यदि जातु प्रयज्यते । स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा ॥ ३.१४१॥ पश्याम्यनङ्गजातङ्कलङ्घितां तामनिन्दिताम् । कालेनैव कठोरेण ग्रस्तां किं नस्त्वदाशया ॥ ३.१४२॥ कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः । युवानमाकुलीकर्तुमिति दूत्याह नर्मणा ॥ ३.१४३॥ उद्देशानुगुणोऽर्थानामनुदेशो न चेत् कृतः । अपक्रमाभिधानं तं दोषमाचक्षते बुधाः ॥ ३.१४४॥ स्थितिनिर्माणसंहारहेतवो जगतामजाः । शम्भुनारायणाम्भोजयोनयः पालयन्तु वः ॥ ३.१४५॥ यत्नः सम्बन्धविज्ञानहेतुः कोऽपि कृतो यदि । क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा ॥ ३.१४६॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु । आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥ ३.१४७॥ शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धति । पदप्रयोगोऽशिष्टेष्टः शष्टेष्टस्तु न दुष्यति ॥ ३.११४८॥ अवते भवते बाहुर्महीमर्णवशक्वरीम् । महाराजन्नजिज्ञासौ नास्तीत्यासां गिरां रसः ॥ ३.१४९॥ दक्षिणाद्रेरुपसरन् मारुतश्चूतपादपान् । कुरुते ललिताधूतप्रवालाङ्कुरसोभिनः ॥ ३.१५०॥ इत्यादिशास्त्रमाहात्म्यद्रसनालसचेतसाम् । अपभाषणवद् भाति न च सौभाग्यमुज्झति ॥ ३.१५१॥ श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः । तदपेतं यतिभ्रष्टं श्रवणोद्वेजनं यता ॥ ३.१५२॥ स्त्रीणां सङ्गीतविधिमयमादित्यवंशयो नरेन्द्रः पस्यत्यक्लिष्टरसमिह शिष्टैरमेत्यादि दुष्टम् । कार्याकार्याण्ययमविकलान्यागमेनैव पश्यन् वश्यामुर्वीवहति नृप इत्यस्ति चैवं प्रयोगः ॥ ३.१५३॥ लुप्ते पदान्ते शिष्टस्य पदत्वं निश्चितं यता । तता सन्धिविकारान्तं पदमेवेति वण्र्यते ॥ ३.१५४॥ तथापि कटु कर्णानां कवयो न प्रयुज्यते । ध्वजिनी तस्य राज्ञः के तूदस्तजलदेत्यदः ॥ ३.१५५॥ वर्णानां न्यूनताधिक्ये गुरुलघ्वयथास्थितिः । यत्र तङ्क्तिन्नवृत्तं स्यादेष दोषः सुनिन्दितः ॥ ३.१५६॥ इन्दुपादाः शिशिरा स्पृशन्तीत्यूनवर्णता । सहकारस्य किसलयान्याद्र्राणीत्यधिकाक्षरम् ॥ ३.१५७॥ कामेन बाणा निशिता विमुक्ता मृगेक्षणाष्वित्ययथागुरुत्वम् । मदनबाणा निशिताः पततन्ति वामेक्षणास्वित्ययथालघुत्वमे ॥ ३.१५८॥ न संहितां विवक्षामीत्यसन्धानं पदेषु यत् । तद्विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥ ३.१५९॥ मन्दान्लेन चरता अङ्गनागण्डमण्डले । लुप्तमुद्भेदि घर्माम्बो नभस्यस्मन्मनस्यपि ॥ ३.१६०॥ आसु रात्रिष्विति प्राज्ञैरज्ञातन्यङ्गमीदृशम् ॥ ३.१६१॥ देशोऽद्रिवनराष्ट्रादिः कालो रातिंरदिवर्तवः । नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः ॥ ३.१६२॥ चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता । हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः ॥ ३.१६३॥ तेषु तेष्वयथारूढं यदि किञ्चित् प्रवर्तते । कवेः प्रमादाद् देशादिविरोधोत्येतदुच्यते ॥ ३.१६४॥ कर्पूरपादपामर्शसुरभिर्मलयानिलः । कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः ॥ ३.१६५॥ चोलाः कालागरुश्यामाः कावेरीतीरभूमयः । इति देशविरोधिन्या वाचः प्रस्थानमीदृशम् ॥ ३.१६६॥ मधुरत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ ३.१६७॥ श्रव्यहंसगिरो वर्षाः शरदामत्तबर्हिणी । हेमन्तो निर्मलादित्यः शिशिरः श्लाघ्यचन्दनः ॥ ३.१६८॥ इति कालविरोधस्य दर्शिता गतिरीदृशी । मार्गः कलाविरोधस्य मनागुद्दिश्यते यता ॥ ३.१६९॥ वीरश्रृङ्गारयोर्भावौ स्थायिनौ क्रोधविस्मयौ । पूर्णसप्तस्वरः सोऽयं भिन्नमार्गः प्रवर्तते ॥ ३.१७०॥ इत्थं कलाचतुःषष्टौ विरोधः साधु नीयताम् । तस्याः कलापरिच्छेदे रूपसाविर्भविष्यति ॥ ३.१७१॥ आधूतकेशरो हस्ती तीक्ष्णश्रृङ्गस्तुरङ्गमः । गुरुसारोऽयमेरणो निःसारः खदिरद्रुमः ॥ ३.१७२॥ विरोधो हेतुविद्यासु न्यायाख्यासु निदश्र्यते ॥ ३.१७३॥ सत्यमेवाह सुगतः संस्कारानविनश्वरान् । तथा हि सा चकोराक्षी स्थितैवाद्यापि मे हृदि ॥ ३.१७४॥ कापिलैरदुद्भूतिः स्थान एवोपवण्र्यते । असतामेव दृश्यन्ते यस्मादस्माभिरुद्भावः ॥ ३.१७५॥ गतिन्र्यायविरोधस्य सैषा सर्वत्र दृश्यताम् । अथागमविरोधस्य प्रस्थानं दर्शयिष्यते ॥ ३.१७६॥ अनाहिताग्नयोऽप्येते जातपुत्रा वितन्वते । विप्रा वैश्वानरीमिष्टिमक्लिष्टाचारभूषणाः ॥ ३.१७७॥ असावनुपनीतोऽपि वेदानधिजगे गुरोः । सेवभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ ३.१७८॥ विरोधः सकलोऽप्येष कदाचित् कविकौशलात् । उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ ३.१७९॥ तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे । आद्र्रांशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ ३.१८०॥ राज्ञां विनाशपिशुनश्चचार खरमारुतः । धुन्वन् कदम्बरजसा सह सप्तच्छदोद्गमान् ॥ ३.१८१॥ दोलातिप्रेरणत्रस्तवधूजनमुखोद्गतम् । कामिनां लयवैषम्याद् गेयं रागमवर्धयत् ॥ ३.१८२॥ ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् । अबलाविरहक्लेसविक्लवो गणयत्ययम् ॥ ३.१८३॥ प्रेमेयोऽप्यप्रमेयोऽसि सकलोऽप्यसि निष्कलः । एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये ॥ ३.१८४॥ पञ्चानां पाण्डुपुत्राणां पत्नी पञ्चालकन्यका । सतीनामग्रणीश्चासीद् दैवो हि विधिरीदृशः ॥ ३.१८५॥ शब्दार्तालङ्क्रियाश्चित्रमार्गाः सुकरदुष्कराः । गुणा दोषाश्च काव्यानामिति सङ्क्षिप्य दर्शिताः ॥ ३.१८६॥ व्युत्पन्नबुद्धिरमुना विधिदर्शितेन मार्गेण दोषगुणयोर्वशवर्तिनीभिः । वाग्भिः कृताभिसरणो मदिरेक्षणाभि- र्धन्या युवेव रमते लभते च कीर्तिम् ॥ ३.१८७॥ इत्याचार्यदण्डिनः कृतौ काव्यादर्शे तृतीयो परिच्छेदः ॥
% Text title            : kAvyAdarshaH daNDin
% File name             : kAvyAdarshaHdaNDin.itx
% itxtitle              : kAvyAdarshaH daNDinaH virachitaH
% engtitle              : kAvyAdarshaH daNDin
% Category              : kAvya, misc, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text, Scans 1, 2, 3, 4, Hindi 1, 2, 3, 4, English 1, 2, 3, 4, German, Wiki 1, )
% Latest update         : September 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org