दण्डिनः कृतौ काव्यादर्शः
प्रथमपरिच्छेदः
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ १.१॥
पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च ।
यथासामर्थ्यम्मस्माभिः क्रियते काव्यलक्षणम् ॥ १.२॥
इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा ।
वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ १.३॥
इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाहवयं ज्योतिरासंसारन्न दीप्यते ॥ १.४॥
आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् ।
तेषामसन्निधानेऽपि न स्वयं पश्य नश्यति ॥ १.५॥
गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः ।
दुष्प्रयुक्ता पुनार्गोत्वं प्रयोक्तुः सैव शंसति ॥ १.६॥
तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथं चन ।
स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥ १.७॥
गुणदोषानशास्त्रज्ञः कथं विभजते जनः ।
किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ १.८॥
अतः प्रजानां (व्ल्. पदानां)व्युत्पत्तिमभिसन्धाय सूरयः ।
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥ १.९॥
तैः शरीरं च काव्यानामलङ्काराश्च दर्शिताः ।
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ १.१०॥
पद्यं गद्यं च मिश्रं च तत्त्रिधैव व्यवस्थितम् ।
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ १.११॥
छन्दोविचित्यां सकलस्तप्रपञ्चो निदर्शितः ।
सा विद्या नौर्विविक्षूणां गम्भीरं काव्यसागरम् ॥ १.१२॥
मुक्तकं कुलकं कोषः सङ्घात इति तादृशः ।
सर्गबन्धांशरूपत्वादनुक्तः पद्यविस्तरः ॥ १.१३॥
सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् ।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥ १.१४॥
इतिहासकथोद्भूतमितरद्वा सदाश्रयम् ।
चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् ॥ १.१५॥
नगरार्णवशैलार्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥ १.१६॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ १.१७॥
अलङ्कृतमसङ्क्षिप्तं रसभावनिरन्तरम् ।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १.१८॥
सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् ।
काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति ॥ १.१९॥
न्यूनमप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति ।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विधः ॥ १.२०॥
गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ १.२१॥
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि ।
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ॥ १.२२॥
अपादः पदसन्तानो गद्यमाख्यायिका कथा ।
इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल ॥ १.२३॥
नायकेनैव वाच्यान्या नायकेनेतरेण वा ।
स्वगुणाविष्क्रियादोषो नात्रा भूर्तार्थशंसिनः ॥ १.२४॥
अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् ।
अन्यो वक्ता स्वयं वेति कीदृग्वा भेदकारणं (लक्षणम्) ॥ १.२५॥
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् ।
चिह्नमाख्यायिकायाश्चेत्प्रसङ्गेन कथास्वपि ॥ १.२६॥
आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः ।
भेदश्च दृष्टो लम्भादिरुच्छ्वासो वस्तु किं ततः ॥ १.२७॥
तत्कथाख्यायिकेत्युक्ता जातिः संज्ञाद्वयाङ्किता ।
अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ १.२८॥
कन्याहरणसङ्ग्रामविप्रलम्भोदयादयः ।
सर्गबन्धसमा एव नैते वैशेषिका गुणाः ॥ १.२९॥
कविभावकृतं चिह्नमन्यत्रापि न दुष्यति ।
मुखमिष्टास्र्थसंसिद्धौ किं हि न स्यात्कृतात्मनाम् ॥ १.३०॥
मिश्राणि नाटकादीनि तेषामन्यत्र विस्तरः ।
गद्यपद्यमयी का चिच्चम्पूरित्यभिधीयते ॥ १.३१॥
तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा ।
अपभ्रंशाश्च मिश्रं चेत्याहुरार्याश्चतुर्विधम् ॥ १.३२॥
संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः ।
तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ॥ १.३३॥
महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः ।
सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥ १.३४॥
शौरसेनी च गौडी च लाटी चान्या च तादृशी ।
याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥ १.३५॥
आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः ।
शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥ १.३६॥
संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत् ।
ओसरादिरपभ्रंशो नाटकादि तु मिश्रकम् ॥ १.३७॥
कथा हि सर्वभाषाभिः संस्कृतेन च बध्यते ।
भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम् ॥ १.३८॥
लास्यच्छलितशम्पादि प्रेक्षार्थमितरत्पुनः ।
श्रव्यमेवेति सैषापि द्वयी गतिरुदाहृता ॥ १.३९॥
अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् ।
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ १.४०॥
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ १.४१॥
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ।
एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ॥ १.४२॥
श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम् ।
शिथिलं मालतीमाला लोलालिकलिला यथा ॥ १.४३॥
अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात् ।
वैदर्भमालतीदाम लङ्घितं भ्रमरैरिति ॥ १.४४॥
प्रसादवत्प्रसिद्धार्थमिन्दोरिन्दीवरद्युति ।
लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः ॥ १.४५॥
व्युत्पन्नमिति गौडीयैर्नातिरूढमपीष्यते ।
यथानत्यर्जुनाब्जन्मसदृक्षाङ्को वलक्षगुः ॥ १.४६॥
समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः ।
बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ॥ १.४७॥
कोकिलालापवाचालो ममैति मलयानिलः ।
उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः ॥ १.४८॥
चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः ।
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ॥ १.४९॥
इत्यनालोच्य वैषम्यमर्थालङ्कारडमबरौ ।
अवेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥ १.५०॥
मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः ।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ १.५१॥
यया कया चिच्छ्रुत्या यत्समानमनुभूयते ।
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ॥ १.५२॥
एष राजा यदा लक्ष्मीं प्राप्तवान्ब्राह्मणप्रियः ।
तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ॥ १.५३॥
इतीदं नादृतं गौडैरनुप्रासस्तु तत्प्रियः ।
अनुप्रासादपि प्रायो वैदर्भैरिदमीप्सितम् ॥ १.५४॥
वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कारबोधिनी यद्यदूरता ॥ १.५५॥
चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे ।
इन्द्रनीलनिभं लक्ष्म सन्दधात्यलिनः श्रियम् ॥ १.५६॥
चारु चान्द्रमसं भीरु बिम्बं पश्यैतदम्बरे ।
मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुमुद्यतम् ॥ १.५७॥
इत्यनुप्रासमिच्छन्ति नातिदूरान्तरश्रुतिम् ।
न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति ॥ १.५८॥
स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः ।
च्युतो मानोधिको रागो मोहो जातोसवो गताः ॥ १.५९॥
इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति ।
अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥ १.६०॥
आवृत्तिं वर्णसङ्घातगोचरां यमकं विदुः ।
तत्तु नैकान्तमधुरमतः पश्चाद्विधास्यते ॥ १.६१॥
कामं सर्वोऽप्यलङ्कारो रसमर्थे निषिञ्चति ।
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥ १.६२॥
कन्ये कामयमानं मां न त्वं कामयसे कथम् ।
इति ग्राम्योऽयमर्थात्मा वैरस्याय प्रकल्पते ॥ १.६३॥
कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि निर्मत्सरो दिष्ट्येत्यग्रामोऽर्थो रसावहः ॥ १.६४॥
शब्देऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात् ।
यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ १.६५॥
पदसन्धानवृत्त्या वा वाक्यार्थत्वेन वा पुनः ।
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥ १.६६॥
खरं प्रहत्य विश्रान्तः पुरुषो वीर्यवानिति ।
एवमादि न शंसन्ति मार्गयोरुभयोरपि ॥ १.६७॥
भगिनीभगवत्यादि सर्वत्रैवानुमन्यते ।
विभक्तमिति माधुर्यमुच्यते सुकुमारता ॥ १.६८॥
अनिष्ठुराक्षरप्रायं सुकुमारमिहेष्यते ।
बन्धशैथिल्यदोषोऽपि दर्शितः सर्वकोमले ॥ १.६९॥
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ १.७०॥
इत्यनूर्जित एवार्थो नालङ्कारोऽपि तादृशः ।
सुकुमारतयैवैतदारोहति सतां मनः ॥ १.७१॥
दीप्तमित्यपरैर्भूम्ना कृच्छ्रोद्यमपि बध्यते ।
न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादिति ॥ १.७२॥
अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता ।
भूः खुरक्षुण्णनागासृग्लोहितादुदधेरिति ॥ १.७३॥
मही महावराहेण लोहितादुद्धृतोदधेः ।
इतीयत्येव निर्दिष्टे नेयत्वमुरगासृजः ॥ १.७४॥
नेदृशं बहु मन्यत्ने मार्गयोरुभयोरपि ।
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी ॥ १.७५॥
उत्कर्षवान्गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते ।
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ १.७६॥
अर्थिणां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् ।
तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ १.७७॥
इति त्यागस्य वाक्येऽस्मिन्नुत्कर्षः साधु लक्ष्यते ।
अनेनैव पथान्यच्च समानन्यायमूह्यताम् ॥ १.७८॥
श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ।
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ॥ १.७९॥
ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् ।
पद्येऽप्यदक्षिणात्यानामिदमेकं परायणम् ॥ १.८०॥
तद्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः ।
उच्चावचप्रकारं तद्दृश्यमाख्यायिकादिषु ॥ १.८१॥
अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा ।
पीनस्तनस्थितातांरकम्रवस्त्रेव वारुणी ॥ १.८२॥
इति पद्येऽपि पौरस्त्या बध्नन्त्योजस्विनीगिरः ।
अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥ १.८३॥
पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका ।
कस्य कामातुरं चेतो वारुणी न करिष्यति ॥ १.८४॥
कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् ।
तच्च वार्ताभिधानेषु वर्णनास्वपि दृश्यते ॥ १.८५॥
गृहाणि नाम तान्येव तपोराशिर्भवादृशः ।
सम्भावयति यान्येव पावनैः पादपांसुभिः ॥ १.८६॥
अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ १.८७॥
इति सम्भाव्यमेवैतद्विशेषाख्यानसंस्कृतम् ।
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ १.८८॥
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः ।
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥ १.८९॥
देवाधिष्ण्यमिवाराध्यमद्यप्रभृति नो गृहम् ।
युष्मत्पादरजःपातधौतनिःशेषकिल्बिषम् ॥ १.९०॥
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधिं भावि भवत्याः स्तनजृम्भणम् ॥ १.९१॥
इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम् ।
प्रस्थानं प्राक्प्रणीतं तु सारमन्यस्य वर्त्मनः ॥ १.९२॥
अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना ।
सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ १.९३॥
कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च ।
इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः ॥ १.९४॥
निष्टःयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ १.९५॥
पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः ॥ १.९६॥
इति हृदमहृद्यं तु निष्ठीवति वधूरिति ।
युगपन्नैकधर्माणामध्यासश्च स्मृतो यथा ॥ १.९७॥
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः ।
अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ १.९८॥
उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः ।
इतीमे गर्भिणीधर्मा बहवोऽप्यत्र दर्शिताः ॥ १.९९॥
तदेतत्काव्यसर्वस्वं समाधिर्नाम यो गुणः ।
कविसार्थः समग्रोऽपि तमेनमनुगच्छति ॥ १.१००॥
इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् ।
तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः ॥ १.१०१॥
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ १.१०२॥
नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् ।
अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥ १.१०३॥
न विद्यते यद्यपि पूर्ववासनागुणानुबन्धि प्रतिभानमद्भुतम् ।
श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १.१०४॥
तदस्ततन्द्रैरनिशं सरस्वती
श्रमादुपास्या खलु कीर्तिमीप्सुभिः ।
कृशे कवित्वेऽपि जनाः कृतश्रमा
विदग्धगोष्ठीषु विहर्तुमीशते ॥ १.१०५॥
इत्याचार्यदण्डिनः कृतौ काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः ॥
द्वितो परिच्छेदः
काव्यशोभाकारान्धर्मानलङ्कारान्प्रचक्षते ।
ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति ॥ २.१॥
किं तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितम् ।
तदेव परिसंस्कर्तुमयमस्मत्परिश्रमः ॥ २.२॥
काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः ।
साधारणमलङ्कारजातमन्यत्प्रदर्श्यते ॥ २.३॥
स्वभावाख्यानमुपमा रूपकं दीपकावृत्ती ।
आक्षेपोऽर्थान्तन्यासो व्यतिरेको विभावना ॥ २.४॥
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः ।
प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ॥ २.५॥
उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता ।
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ २.६॥
सहोक्तिः परिवृत्त्याशीः सङ्कीर्णमथ भाविकम् ।
इति वाचामलङ्कारा दर्शिताः पूर्वसूरिभिः ॥ २.७॥
नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती ।
स्वभावोक्तिश्च जातिश्चेत्याद्या सालङ्कृतिर्यथा ॥ २.८॥
तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः ।
त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ २.९॥
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ॥ २.१०॥
बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् ।
नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ २.११॥
कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः ।
जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः ॥ २.१२॥
जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम् ।
शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥ २.१३॥
यथाकथञ्चित्सादृश्यं यत्रोद्भूतं प्रतीयते ।
उपमा नाम तस्याः प्रपञ्चोदयं प्रदर्श्यते ॥ २.१४॥
अम्भोरुहमिवाताम्रं मुग्धे करतलं तव ।
इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्शनात् ॥ २.१५॥
राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव ।
इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ २.१६॥
त्वदाननमिवोन्निद्रमरविन्दमभूदिति ।
सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ २.१७॥
तवाननमिवाम्भोजमम्भोजमिव ते मुखम् ।
इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी ॥ २.१८॥
त्वन्मुखं कमलेनैव तुल्यं नान्येन केन चित् ।
इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ २.१९॥
पद्मं तावत्तवान्वेति मुखमन्यच्च तादृशम् ।
अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ॥ २.२०॥
समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव ।
ह्लादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ २.२१॥
त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः ।
इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥ २.२२॥
मय्येवास्या मुकह्श्रीरित्यलमिन्दोर्विकत्थनैः ।
पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ॥ २.२३॥
यदि किं चिद्भवेत्पद्मं सुभ्रु विभ्रान्तलोचनम् ।
तत्ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥ २.२४॥
शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया ।
इन्दुमप्यनुधावामीत्येषा मोहोपमा स्मृता ॥ २.२५॥
किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् ।
मम दोलायते चित्तमितीयं संशयोपमा ॥ २.२६॥
न पद्मस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः ।
अतस्त्वन्मुखमेवेदमित्यसौ निर्णयोपमा ॥ २.२७॥
शिशिरांशुप्रत्स्पर्धि श्रीमत्सुरभिगन्धि च ।
अम्भोजमिव ते वक्त्रमिति श्लेषोपमा स्मृता ॥ २.२८॥
सरूपशब्दवाच्यत्वात्सा समानोपमा यथा ।
बालेवोद्यानमालेयं सालकाननशोभिनी ॥ २.२९॥
पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम् ।
समानमपि सोत्सेकमिति निन्दोपमा स्मृता ॥ २.३०॥
ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शम्भुशिरोधृतः ।
तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥ २.३१॥
चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः ।
स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विदुः ॥ २.३२॥
शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् ।
परस्परविरोधीति सा विरोधोपमा मता ॥ २.३३॥
न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम् ।
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥ २.३४॥
मृगेक्षणाङ्कं ते वक्त्रं मृगेणैवाङ्कितः शशी ।
तथापि सम एवासौ नोत्कर्षीति चटूपमा ॥ २.३५॥
न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥ २.३६॥
चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव ।
आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा ॥ २.३७॥
सर्वपद्मप्रभासारः समाहृत इव क्वचित् ।
त्वदाननं विभातीति तामभूतोपमां विदुः ॥ २.३८॥
चन्द्रबिम्बादिव विषं चन्दनादिव पावकः ।
परुषा वागितो वक्त्रादित्यसम्भावितोपमा ॥ २.३९॥
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः ।
स्पर्शस्तवेत्यतिशयं बोधयन्ति बहूपमा ॥ २.४०॥
चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम् ।
तव तन्वङ्गि वदनमित्यसौ विक्रियोपमा ॥ २.४१॥
पूष्ण्यातप इवाह्णीव पूषा व्योम्नीव वासरः ।
विक्रमस्त्वय्यधाल्लक्ष्मीमिति मालोपमा मता ॥ २.४२॥
वाक्यर्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते ।
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा ॥ २.४३॥
त्वदाननमधीराक्षमाविर्दशनदीधितिः ।
भ्रमद्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥ २.४४॥
नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम् ।
मया मधुव्रतेनेव पायं पायमरम्यत ॥ २.४५॥
वस्तु किञ्चिदुपन्यस्य न्यसनात्तत्सधर्मणः ।
साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ॥ २.४६॥
नैकोऽपि त्वादृशोऽद्यापि जायमानेषु राजसु ।
ननु द्वितीयो नास्त्येव पारिजातस्य पादपः ॥ २.४७॥
अधिकेन समीकृत्य हीनमेकक्रियाविधौ ।
यद्ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ २.४८॥
दिवो जगर्ति रक्षायै पुलोमारिर्भुवो भवान् ।
असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः ॥ २.४९॥
कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् ।
राजन्ननुकरोषीति सैषा हेतूपमा मता ॥ २.५०॥
न लिङ्गवचने भिन्ने न हीनाधिकतापि वा ।
उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥ २.५१॥
स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव ।
प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता ॥ २.५२॥
भवानिव महीपाल देवराजो विराजते ।
अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ २.५३॥
इत्येवमादौ सौभाग्यं न जहात्येव जातु चित् ।
अस्त्येव क्व चिदुद्वेगः प्रयोगे वाग्विदां यथा ॥ २.५४॥
हंसीव धवलश्चन्द्रः सरांसीवामलं नभः ।
भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ २.५५॥
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् ।
गुणदोषविचाराय स्वयमेव मनीषिभिः ॥ २.५६॥
इववद्वायथाशब्दाः समाननिभसन्निभाः ।
तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः ॥ २.५७॥
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः ।
सदृक्सदृशसंवादिसजातीयानुवादिनः ॥ २.५८॥
प्रतिबिम्बप्रतिच्छन्दसरूपसमसम्मिताः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ २.५९॥
कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि ।
सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः ॥ २.६०॥
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु ।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ २.६१॥
आक्रोशत्यवजानाति कदर्थयति निन्दति ।
विडम्बयति सन्धत्ते हसतीर्ष्यत्यसूयति ॥ २.६२॥
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ।
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥ २.६३॥
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते ।
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ २.६४॥
तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः ।
उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ २.६५॥ इत्युपमाचक्रम् ॥
उपमैव तिरोभूतभेदा रूपकमुच्यते ।
यथा बाहुलता पाणिपद्मं चरणपल्लवः ॥ २.६६॥
अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः ।
बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ २.६७॥
इत्येतदसमस्ताख्यं समस्तं पूर्वरूपकम् ।
स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥ २.६८॥
ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् ।
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् ॥ २.६९॥
अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् ।
तद्योग्यस्थानविन्यासादेतत्सकलरूपकम् ॥ २.७०॥
अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् ।
मुखं मुक्तारुचो धत्ते धर्माम्भःकणमञ्जरीः ॥ २.७१॥
मञ्जरीकृत्यधर्माम्भः पल्लवीकृत्य चाधरम् ।
नान्यथा कृतमत्रास्यमतोऽवयवरूपकम् ॥ २.७२॥
वल्गितभ्रु गलद्धर्मजलमालोहितेक्षणम् ।
विवृणोति मदावस्थामिदं वदनपङ्कजम् ॥ २.७३॥
अविकृत्य मुखाङ्गानि मुखमेवारविन्दताम् ।
आसीद्गमितमत्रेदमतोऽवयविरूपकम् ॥ २.७४॥
मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते ।
मुखेन मुग्धः सोऽप्येष जनो रागमयः क्र्तः ॥ २.७५॥
एकाङ्गरूपकं चैतदेवं द्विप्रभृतीन्यपि ।
अङ्गानि रूपयन्त्यत्र योगायोगौ भिदाकरौ ॥ २.७६॥
स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम् ।
इति पुष्पद्विरेफाणां सङ्गत्या युक्तरूपकम् ॥ २.७७॥
इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् ।
इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम् ॥ २.७८॥
रूपणादङ्गिनोऽङ्गानां रूपणारूपणाश्रयात् ।
रूपकं विषमं नाम ललितं जायते यथा ॥ २.७९॥
मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना ।
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ॥ २.८०॥
हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः ।
जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः ॥ २.८१॥
विशेषणसमग्रस्य रूपं केतोर्यदीदृशम् ।
पादे तदर्पणादेतत्सविशेषणरूपकम् ॥ २.८२॥
न मीलयति पद्मानि न नभोऽप्यवगाहते ।
त्वन्मुखेन्दुर्ममासूनां हरणायैव कल्पते ॥ २.८३॥
अक्रिया चन्द्रकार्याणामन्यकार्यस्य च क्रिया ।
अत्र सन्दर्श्यते यस्माद्विरुद्धं नाम रूपकम् ॥ २.८४॥
गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः ।
कामदत्वाच्च लोकानामसि त्वं कल्पपादपः ॥ २.८५॥
गाम्भीर्यप्रमुखैरत्र हेतुभिः सागरो गिरिः ।
कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकम् ॥ २.८६॥
राजहंसोपभोगार्हं भ्रमरप्रार्थ्यसौरभम् ।
सखि वक्त्राम्बुजमिदं तवेति श्लिष्टरूपकम् ॥ २.८७॥
इष्टं साधर्म्यवैधर्म्यदर्शनाद्गौणमुख्ययोः ।
उपमाव्यतिरेकाख्यं रूपकाद्वितयं यथा ॥ २.८८॥
अयमालोहितच्छायो मदेन मुखचन्द्रमाः ।
सन्नद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ २.८९॥
चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः ।
असमग्रोऽप्यसौ शश्वदापूर्णमण्डलः ॥ २.९०॥
मुखचन्द्रस्य चन्द्रत्वमित्थमन्योपतापिनः ।
न ते सुन्दरि संवादीत्येतदाक्षेपरूपकम् ॥ २.९१॥
मुखेन्दुरपि ते चण्डि मां निर्दहति निर्दयम् ।
भाग्यदोषान्ममैवेति तत्समाधानरूपकम् ॥ २.९२॥
मुखपङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव ।
लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥ २.९३॥
नैतन्मुखमिदं पद्मं त नेत्रे भ्रमराविमौ ।
एतानि केसराण्येव नैता दन्तार्चिषस्तव ॥ २.९४॥
मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात् ।
उद्भावितगुणोत्कर्षं तत्त्वापह्नवरूपकम् ॥ २.९५॥
न पर्यन्तो विकल्पानां रूपकोपमयोरतः ।
दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ २.९६॥ इति रूपकचक्रम् ॥
जातिक्रियागुणद्रव्यवाचिनैकत्र वर्तिना ।
सर्ववाक्योपकारश्चेत्तमाहुर्दीपकं यथा ॥ २.९७॥
पवनो दक्षिणः पार्णं जीर्णं हरति वीरुधाम् ।
स एवावनताङ्गीनां मानभङ्गाय कल्पते ॥ २.९८॥
चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥ २.९९॥
श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः ।
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ॥ २.१००॥
विष्णुना विक्रमस्थेन दानवानां विभूतयः ।
क्वापि नीताः कुतोऽप्यासन्नानीता देवेतर्द्धयः ॥ २.१०१॥
इत्यादिदीपकान्युक्तान्येवं मध्यान्तयोरपि ।
वाक्ययोर्दर्शयिष्यामः कानि चित्तानि तद्यथा ॥ २.१०२॥
नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः ।
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥ २.१०३॥
मन्दो गन्धवहः क्षारो वह्निरिन्दुश्च जायते ।
चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनाम् ॥ २.१०४॥
जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम् ।
चलं च तडितां दाम बलं कुसुमधन्वनः ॥ २.१०५॥
त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने ।
मयापि मरणे चेतस्त्रयमेतत्समं कृतम् ॥ २.१०६॥
शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः ।
स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः ॥ २.१०७॥
इत्यादिदीपकत्वेऽपि पूर्वपूर्वव्यपेक्षिणी ।
वाक्यमाला प्रयुक्तेति तन्मालादीपकं मतम् ॥ २.१०८॥
अवलेपमनङ्गस्य वर्धयन्ति बलाहकाः ।
कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः ॥ २.१०९॥
अवलेपपदेनात्र बलाहकपदेन च ।
क्रिये विरुद्धे संयुक्ते तद्विरुद्धार्थदीपकम् ॥ २.११०॥
हरत्याभोगमाशानां गृह्णाति ज्योतिषां गणम् ।
आदत्ते चाद्य मे प्राणानसौ जलधरावली ॥ २.१११॥
अनेकशाब्दोपादानात्क्रियैकवात्र दीप्यते ।
यतो जलधरावल्या तस्मादेकार्थदीपकम् ॥ २.११२॥
हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः ।
दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः ॥ २.११३॥
अत्र धर्मैरभिन्नानामभ्राणां दन्तिनां तथा ।
भ्रमणेनैव सम्बन्ध इति श्लिष्टार्थदीपकम् ॥ २.११४॥
अनेनैव प्रकारेण शेषाणामपि दीपके ।
विकल्पानामवगतिर्विधातव्या विचक्षणैः ॥ २.११५॥ इति दीपकचक्रम् ॥
अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च ।
दीपकस्थान एवेष्टमलङ्कारत्रयं यथा ॥ २.११६॥
विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः ।
उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च ॥ २.११७॥
उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् ।
यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः ॥ २.११८॥
जित्वा विश्वं भवानत्र विहरत्यवरोधनैः ।
विहरत्वप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥ २.११९॥ इत्यावृत्तिचक्रम् ॥
प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा ।
अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता ॥ २.१२०॥
अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः ।
इत्यसम्भाव्यमथवा विचित्रा वस्तुशक्तयः ॥ २.१२१॥
इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह ।
प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥ २.१२२॥
कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥ २.१२३॥
स वर्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलम् ।
कर्णे का चित्प्रियेणैवं चाटुकारेण रुध्यते ॥ २.१२४॥
सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे ।
अन्यचुम्बनसङ्क्रान्तलाक्षारक्तेन चक्षुष ॥ २.१२५॥
सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्विनी ।
कदाचिदपराधोऽस्य भावीत्येवमरुन्द्ध यत् ॥ २.१२६॥
तव तन्वङ्गि मिथ्यैव रूढमङ्गेषु मार्दवम् ।
यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम् ॥ २.१२७॥
धर्माक्षेपोऽयमाक्षिप्तमङ्गनागात्रमार्दवम् ।
कामुकेन यदत्रैवं कर्मणा तद्विरोधिना ॥ २.१२८॥
सुन्दरी सा न वेत्येष विवेकः केन जायते ।
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ २.१२९॥
धर्म्याक्षेपोऽयमाक्षिप्तो धर्मी धर्मं प्रभाह्वयम् ।
अनुज्ञायैव यद्रूपमत्याश्चर्यं विवक्षता ॥ २.१३०॥
चक्षुषी तव रज्येते स्फुरत्यधरपल्लवः ।
भ्रुवौ च भुग्ने न तथाप्यदुष्टस्यास्ति मे भयम् ॥ २.१३१॥
स एष कारणाक्षेपः प्रधानं कारणं भियः ।
स्वापराधो निषिद्धोऽत्र यत्प्रियेण पटीयसा ॥ २.१३२॥
दूरे प्रियतमः सोऽयमागतो जलदागमः ।
दृष्टश्च फुल्ला निचुला न मृता चास्मि किं न्विदम् ॥ २.१३३॥
कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात् ।
तत्कारणमुपन्यस्य दारुणं जलदागमम् ॥ २.१३४॥
न चिरं मम तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यमलमाशङ्कयात्र ते ॥ २.१३५॥
इत्यनुज्ञामुखेनैव कन्तस्याक्षिप्यते गतिः ।
मरणं सूचयन्त्यैव सोऽनुज्ञाक्षेप उच्यते ॥ २.१३६॥
धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि ।
न च मे प्राणसन्देहस्तथापि प्रिय मा स्म गाः ॥ २.१३७॥
इत्याचक्षाणया हेतून्प्रिययात्रानुबन्धिनः ।
प्रभुत्वेनैव रुद्धस्तत्प्रभुत्वाक्षेप उच्यते ॥ २.१३८॥
जीविताशा बलवती धनाशा दुर्बला मम ।
गच्छ तिष्ठ वा कान्त स्वावस्था तु निवेदिता ॥ २.१३९॥
असावनादराक्षेपो यदनादरवद्वचः ।
प्रियप्रयाणं रुन्धत्या प्रयुक्तमिह रक्तया ॥ २.१४०॥
गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ २.१४१॥
इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना ।
स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ २.१४२॥
यदि सत्यैव यात्रा ते काप्यन्या मृग्यतां त्वया ।
अहमद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना ॥ २.१४३॥
इत्येष परुषाक्षेपः परुषाक्षरपूर्वकम् ।
कान्तस्याक्षिप्यते यस्मात्प्रस्थानं प्रेमनिघ्नया ॥ २.१४४॥
गन्ता चेद्गच्छ तूर्णं ते कर्णौ यान्ति पुरा रवाः ।
आर्तबन्धुमुखोद्गीर्णाः प्रयाणपरिपन्थिनः ॥ २.१४५॥
साचिव्य्वाक्षेप एवैष यदत्र प्रतिषिध्यते ।
प्रियप्रयाणं साचिव्यं कुर्वत्येवातिरक्तया ॥ २.१४६॥
गच्छेति वक्तुमिच्छामि मत्प्रिय त्वत्प्रियैषिणी ।
निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् ॥ २.१४७॥
यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि ।
विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ॥ २.१४८॥
क्षणं दर्शनविघ्नाय पक्ष्मस्पन्दाय कुप्यतः ।
प्रेम्णः प्रयाणं त्वं ब्रूहि मया तस्येष्टमिष्यते ॥ २.१४९॥
सोऽयं परवशाक्षेपो यत्प्रेमपरतन्त्रया ।
तया निषिध्यते यात्रान्यस्यार्थसोपसूचनत् ॥ २.१५०॥
सहिष्ये विरहं नाथ देह्यदृश्याञ्जनं मम ।
यदक्तनेत्रां कन्दर्पः प्रहर्ता मां न पश्यति ॥ २.१५१॥
दुष्करं जीवनोपायमुपन्यस्योपरुध्यते ।
पत्युः प्रस्थानमित्याहुरुपायाक्षेपमीदृशम् ॥ २.१५२॥
प्रवृत्तैव प्रयामीति वाणी वल्लभ ते मुखात् ।
अयतापि त्वयेदानीं मन्दप्रेम्णा ममास्ति किम् ॥ २.१५३॥
रोषाक्षेपोऽयमुद्रिक्तस्नेहनिर्यन्त्रितात्मना ।
संरब्धया प्रियारब्धं प्रयाणं यन्निषिध्यते ॥ २.१५४॥
मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्छिता ।
बुद्ध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् ॥ २.१५५॥
इति तत्कालसम्भूतमूर्छयाक्षिप्यते गतिः ।
कान्तस्य कातराक्ष्या यन्मूर्छाक्षेप स ईदृशः ॥ २.१५६॥
नाघ्रातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम् ।
त्वद्द्विषां दीर्घिकास्येव विशीर्णं नीलमुत्पलम् ॥ २.१५७॥
असावनुक्रोशाक्षेपः सानुक्रोशमिवोत्पले ।
व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदर्शनात् ॥ २.१५८॥
अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके ।
मुखेन्दौ तव सत्यस्मिन्नपरेण किमिन्दुना ॥ २.१५९॥
इति मुख्येन्दुराक्षिप्तो गुणान्गौणेन्दुवर्तिनः ।
तत्समान्दर्शयित्वेह श्लिष्टाक्षेपस्तथाविधः ॥ २.१६०॥
अर्थो न सम्भृतः कश्चिन्न विद्या का चिदर्चिता ।
न तपः सञ्चिन्तं किं चिद्गतं च सकलं वयः ॥ २.१६१॥
असावनुशयाक्षेपो यस्मादनुशयोत्तरम् ।
अर्थार्जनादेर्व्यावृत्तिर्दर्शितेह गतायुषा ॥ २.१६२॥
किमयं शरदम्भोदः किं वा हंसकदम्बकम् ।
रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ॥ २.१६३॥
इत्ययं संशयाक्षेपः संशयो यन्निवर्त्यते ।
धर्मेण हंससुलभेनास्पृष्टघनजानिता ॥ २.१६४॥
चित्रमाक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति ।
कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः ॥ २.१६५॥
अयमर्थान्तराक्षेपः प्रक्रान्तो यन्निवार्यते ।
विस्मयोऽर्थन्तरस्येह दर्शनात्तत्सधर्मणः ॥ २.१६६॥
न स्तूयसे नरेन्द्र त्वं ददासीति कदा चन ।
स्वमेव मत्वा गृह्णन्ति यतस्त्वद्धनमर्थिनः ॥ २.१६७॥
इत्येवमादिराक्षेपो हेत्वाक्षेप इति स्मृतः ।
अनेनैव दिशान्येऽपि विकल्पाः शक्यमूहितुम् ॥ २.१६८॥ इत्याक्षेपचक्रम् ॥
ज्ञेयह्सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किं चन ।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ २.१६९॥
विश्वव्यापी विशेषस्थः श्लेषाविद्धो विरोधवान् ।
अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्ययः ॥ २.१७०॥
इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः ।
उदाहरणमालैषां रूपव्यक्त्यै निदर्श्यते ॥ २.१७१॥
भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि ।
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ २.१७२॥
पयोमुचः परीतापं हरन्त्येव शरीरिणाम् ।
नवात्मलाभो महतां परदुःखोपशान्तये ॥ २.१७३॥
उत्पादयति लोकस्य प्रीतिं मलयमारुतः ।
ननु दाक्षिण्यसम्पन्नः सर्वस्य भवति प्रियः ॥ २.१७४॥
जगदानन्दयत्येष मलिनोऽपि निशाकरः ।
अनुगृह्णाति हि परान्सदोषोऽपि द्विजेश्वरः ॥ २.१७५॥
मधुपानकलात्कण्ठान्निर्गतोऽप्यलिनां ध्वनिः ।
कटुर्भवति कर्णस्य कामिनां पापमीदृशम् ॥ २.१७६॥
अयं मम दहत्यङ्गमम्भोजदलसंस्तरः ।
हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥ २.१७७॥
क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति माम् ।
मलिनाचरितं कर्म सुरभेर्नन्वसाम्प्रतम् ॥ २.१७८॥
कुमुदान्यपि दाहाय किमयं कमलाकरः ।
न हीन्दुगृह्येषूग्रेषु सूर्यगृह्यो मधुर्भवेत् ॥ २.१७९॥ इत्यर्थान्तरन्यासचक्रम् ॥
शब्दोपात्ते प्रातीते वा सादृश्ये वस्तुनोर्द्वयोः ।
तत्र यद्भेदकथनं व्यतिरेकः स कथ्यते ॥ २.१८०॥
धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः ।
गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ २.१८१॥
इत्येकव्यतिरेकोऽयं धर्मेणैकत्रवर्तिना ।
प्रतीतिविषयप्राप्तेर्भेदस्योभयवर्तिनः ॥ २.१८२॥
अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि ।
असावञ्जनसङ्काशस्त्वं तु चामीकरद्युतिः ॥ २.१८३॥
उभयव्यतिरेकोऽयमुभयोर्भेदकौ गुणौ ।
कार्ष्ण्यं पिशङ्गता चोभौ यत्पृथग्दर्शिताविह ॥ २.१८४॥
त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ ।
अयं तु युवयोर्भेदः स जडात्मा पटुर्भवान् ॥ २.१८५॥
स एष श्लेषरूपत्वात्सश्लेष इति गृह्यताम् ।
साक्षेपश्च सहेतुश्च दर्श्यते तदपि द्वयम् ॥ २.१८६॥
स्थितिमानपि धीरोऽपि रत्नानामाकरोऽपि सन् ।
तव कक्षां न यात्येव मलिनो मकरालयः ॥ २.१८७॥
वहन्नपि महीं कृत्स्नां सशैलद्वीपसागराम् ।
भर्तृभावाद्भुजङ्गानां शेषस्त्वत्तो निकृष्यते ॥ २.१८८॥
शब्दोपादानसादृश्यव्यतिरेकोऽयमीदृशः ।
प्रतीयमानसादृश्योऽप्यस्ति सोऽप्यभिधीयते ॥ २.१८९॥
त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा ।
कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ॥ २.१९०॥
अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम् ।
इदं तु नयनद्वन्द्वं तव तगुणभूषितम् ॥ २.१९१॥
पूर्वस्मिन्भेदमात्रोक्तिरस्मिन्नाधिक्यदर्शनम् ।
सदृशव्यतिरेकश्च पुनरन्यः प्रदर्श्यते ॥ २.१९२॥
त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी ।
भ्रमद्भ्रमरमम्भोजं लोलनेत्रं मुखं तु ते ॥ २.१९३॥
चन्द्रोऽयमम्बरोत्तंसो हंसोऽयं तोयभूषणम् ।
नभो नक्षत्रमालीदमुत्फुल्लकुमुदं पयः ॥ २.१९४॥
प्रतीय्मानशौक्ल्यादिसाम्ययोर्वियदम्भसोः ।
कृतः प्रतीतशुद्ध्योश्च भेदोऽस्मिंश्चन्द्रहंसयोः ॥ २.१९५॥
पूर्वत्र शाब्दवत्साम्यमुभयत्रापि भेदकम् ।
भृङ्गनेत्रादि तुल्यं तत्सदृशव्यतिरेकता ॥ २.१९६॥
अरत्नालोकसंहार्यमहार्यं सूर्यरश्मिभिः ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ २.१९७॥
सजातीव्यतिरेकोऽयं तमोजातेरिदं तमः ।
दृष्टिरोधितया तुल्यं भिन्नमन्यैरदर्शि तत् ॥ २.१९८॥ इति व्यतिरेकचक्रम् ॥
प्रसिद्धहेतुव्यावृत्त्या यत्किञ्चिट्कारणान्तरम् ।
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥ २.१९९॥
अपीतक्षीबकादम्बमसम्मृष्टाभलाम्बरम् ।
अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम् ॥ २.२००॥
अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता ।
अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ॥ २.२०१॥
यदपीतादिजन्यं स्यात्क्षीबत्वाद्यन्यहेतुजम् ।
अहेतुकं च तस्येह विवक्षेत्यविरुद्धता ॥ २.२०२॥
वक्त्रं निसर्गसुरभि वपुरव्याजसुन्दरम् ।
अकारणरिपुश्चन्द्रो निर्निमित्तासुहृत्स्मरः ॥ २.२०३॥
निसर्गादिपदैरत्र हेतुः साक्षान्निवर्तितः ।
उक्तं च सुरभित्वादि फलं तत्सा विभावना ॥ २.२०४॥ इति विभावनाचक्रम् ॥
वस्तु किञ्चिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः ।
उक्तिः सङ्क्षेपरूपत्वात्सा समासोक्तिरिष्यते ॥ २.२०५॥
पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे ।
अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुड्मलम् ॥ २.२०६॥
इति प्रौढाङ्गनाबद्धरतिलीलस्य रागिणः ।
कस्यां चिदिह बालायामिच्छावृत्तिर्विभाव्यते ॥ २.२०७॥
विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा ।
अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ २.२०८॥
रूढमूलः फलभरैः पुष्णन्ननिशमर्थिनः ।
सान्द्रच्छायो महावृक्षः सोऽयमासादितो मया ॥ २.२०९॥
अनल्पविटपाभोगः फलपुष्पसमृद्धिमान् ।
सोच्छ्रयः स्थैर्यवान्दैवादेष लब्धो मया द्रुमः ॥ २.२१०॥
उभयत्र पुमान्कश्चिद्वृक्षत्वेनोवर्णितः ।
सर्वे साधारणा धर्माः पूर्वत्रान्यत्र तु द्वयम् ॥ २.२११॥
निवृत्तव्यालसंसर्गो निसर्गमधुराशयः ।
अयमम्भोनिधिः कष्टं कालेन परिशुष्यति ॥ २.२१२॥
इत्यापूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात् ।
समुद्रेण समानस्य पुंसो व्यापत्तिसूचनात् ॥ २.२१३॥ इति समासोक्तिचक्रम् ॥
विवक्षा या विशेषस्य लोकसीमातिवर्तिनी ।
असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ २.२१४॥
मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः चोमः सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम् ।
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ २.२१५॥
चन्द्रातपस्य बाहुल्यमुक्तमुत्कर्षवत्तया ।
संशयातिशयादीनां व्यक्त्यै किं चिन्निदर्श्यते ॥ २.२१६॥
स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥ २.२१७॥
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥ २.२१८॥
अहो विशालं भूपाल भुवनत्रितयोदरम् ।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ २.२१९॥
अलङ्कारान्तराणामप्येकमाहुः परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयम् ॥ २.२२०॥ इत्यतिशयोक्तिचक्रम् ॥
अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा ।
अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्यथा ॥ २.२२१॥
माध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः ।
मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः ॥ २.२२२॥
स्नातुं पातुं बिसान्यत्तुं करिणो जलगाहनम् ।
तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥ २.२२३॥
कर्णस्य भूषणमिदं ममायातिविरोधिनः ।
इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ॥ २.२२४॥
अपाङ्गभागपातिन्या दृष्टेरंशुभिरुत्पलम् ।
स्पृश्यते वा न वेत्येवं कविनोत्प्रेक्ष्य वर्ण्यते ॥ २.२२५॥
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणानन्वितम् ॥ २.२२६॥
केषां चिदुपमाभ्रान्तिरिवश्रुत्येह जायते ।
नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥ २.२२७॥
उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया ।
लिम्पतेस्तमसश्चासौ धर्मः कोऽत्र समीक्ष्यते ॥ २.२२८॥
यदि लेपनमेवेष्टं लिम्पतिर्नाम कोऽपरः ।
स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते ॥ २.२२९॥
कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् ॥ २.२३०॥
यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः ।
अङ्गानीति न सम्बद्धं सोऽपि मृग्यः समो गुणः ॥ २.२३१॥
यथेन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते ।
न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते ॥ २.२३२॥
तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः ।
अङ्गकर्मा च पुंसैवमुत्प्रेक्ष्यत इतीष्यताम् ॥ २.२३३॥
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ २.२३४॥ इत्युत्प्रेक्षाचक्रम् ॥
हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् ।
कारकज्ञापकौ हेतू तौ चानेकविधौ यथा ॥ २.२३५॥
अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २.२३६॥
प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम् ।
अलङ्कारतयोद्दिष्टं निवृत्तावपि तत्समम् ॥ २.२३७॥
चन्दनारण्यमाधूय स्पृष्ट्वा मलयनिर्झरान् ।
पथिकानामभावाय पवनोऽयमुपस्थितः ॥ २.२३८॥
अभावसाधनायालमेवम्भूतो हि मारुतः ।
विरहज्वरसम्भूतमनोज्ञारोचके जने ॥ २.२३९॥
निवर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया ।
प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैव हेतुता ॥ २.२४०॥
हेतुर्निर्वर्तनीयस्य दर्शितः शेषयोर्द्वयोः ।
दत्त्वोदाहरणद्वन्द्वं ज्ञापको वर्णयिष्यते ॥ २.२४१॥
उत्प्रवालाण्यरण्यानि वाप्यः सम्फुल्लपङ्कजाः ।
चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम् ॥ २.२४२॥
मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम् ।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा ॥ २.२४३॥
गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इतीदमपि साध्वेव कालावस्थानिवेदने ॥ २.२४४॥
अवध्यैरिन्दुपादानामसाध्यैश्चन्दनाम्भसाम् ।
देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ॥ २.२४५॥
इति लक्ष्याः प्रयोगेषु रम्या ज्ञापकहेतवः ।
अभावहेतवः के चिद्व्याह्रियन्ते मनोहराः ॥ २.२४६॥
अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणाञ्जायते व्यसनं नृणाम् ॥ २.२४७॥
गतः कामकथोन्मादो गलितो यौवनज्वरः ।
क्षतो मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः ॥ २.२४८॥
वनान्यमूनि न गृहाण्येता नद्यो न योषितः ।
मृगा इमे न दायादास्तन्मे नन्दति मानसम् ॥ २.२४९॥
अत्यन्तमसदार्याणामनलोचितचेष्टितम् ।
अतस्तेषां विवर्धन्ते सततं सर्वसम्पदः ॥ २.२५०॥
उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी ।
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ॥ २.२५१॥
प्रागभावादिरूपस्य हेतुत्वमिह वस्तुनः ।
भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति ॥ २.२५२॥
दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा ।
अयुक्तयुक्तकार्यौ चेत्यसङ्ख्याश्चित्रहेतवः ॥ २.२५३॥
तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः ।
अत्यन्तसुन्दरा दृष्टास्तदुदाहृतयो यथा ॥ २.२५४॥
त्वदपाङ्गाह्वयं जैत्रमनङ्गास्त्रं यदङ्गने ।
मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः ॥ २.२५५॥
आविर्भवति नारीणां वयः पर्यस्तशैशवम् ।
सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैः ॥ २.२५६॥
पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ २.२५७॥
राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः ।
देव त्वच्चरणद्वन्द्वरागबालातपः स्पृशन् ॥ २.२५८॥
पाणिपद्मानि भूपानां सङ्कोचयितुमीशते ।
त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥ २.२५९॥
इति हेतुविकल्पानां दर्शिता गतिरीदृशी ॥ इति हेतुचक्रम् ॥
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ॥ २.२६०॥
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् ।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ २.२६१॥
पद्मसम्मीलनादत्र सूचितो निशि सङ्गमः ।
आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम् ॥ २.२६२॥
मदर्पितदृशस्तस्या गीतगोष्ठ्यामवर्धत ।
उद्दामरागतरला छाया कापि मुखाम्बुजे ॥ २.२६३॥
इत्यनुद्भिन्नरूपत्वाद्रत्युत्सवमनोरथह् ।
अनुल्लङ्ह्ग्यैव सूक्ष्मत्वमभूदत्र व्यवस्थितः ॥ २.२६४॥ इति सूक्ष्मचक्रम् ॥
लेशो लेशेन निर्भिन्नवस्तुरूपनिगूहनम् ।
उदाहरण एवास्य रूपमाविर्भविष्यति ॥ २.२६५॥
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकः ।
अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् ॥ २.२६६॥
आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् ।
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम् ॥ २.२६७॥
इत्येवमादिस्थानेऽयमलङ्कारोऽतिशोभते ।
लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः कृताम् ॥ २.२६८॥
युवैष गुणवान्राजा योग्यस्ते पतिरूर्जितः ।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥ २.२६९॥
वीर्योत्कर्षस्तुतिर्निन्दैवास्मिन्भावनिवृत्तये ।
कन्यायाः कल्पते भोगान्निर्विविक्षोर्निरन्तरम् ॥ २.२७०॥
चपलो निर्दयश्चासौ जनः किं तेन मे सखि ।
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥ २.२७१॥
दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता ।
मानं सखिजनोद्दिष्टं कर्तुं रागादशक्तया ॥ २.२७२॥ इति लेशचक्रम् ॥
उद्दिष्टानां पदार्थानामनूद्देशो यथाक्रमम् ।
यथासङ्ख्यमिति प्रोक्तं सङ्ख्यानं क्रम इत्यपि ॥ २.२७३॥
ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः ।
स्नातुमम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥ २.२७४॥ इति क्रमः ॥
प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् ।
ऊर्जस्वि रूढाहङ्कारं युक्तोत्कर्षं च तत्त्रयम् ॥ २.२७५॥
अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥ २.२७६॥
इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः ।
भक्तिमात्रसमाराध्यः सुप्रीतश्च ततो हरिः ॥ २.२७७॥
सोमः सूर्यो मरुद्भूमिर्व्योम होतानलो जलम् ।
इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव के वयम् ॥ २.२७८॥
इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः ।
प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम् ॥ २.२७९॥
मृतेऽति प्रेत्य सङ्गन्तुं यया मे मरणं मतम् ।
सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥ २.२८०॥
प्राक्प्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता ।
रूपबाहुल्ययोगेन तदिदं रसवद्वचः ॥ २.२८१॥
निगृह्य केशेष्वाकृष्टा कृष्णा येनाग्रतो मम ।
सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणम् ॥ २.२८२॥
इत्यारुह्य परां कोटिं क्रोधो रौद्रात्मतां गतः ।
भीमस्य पश्यतः शत्रुमित्येतद्रसवद्वचः ॥ २.२८३॥
अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः ।
अदत्वा चार्थमर्थिभ्यो भवेयः पार्थिवः कथम् ॥ २.२८४॥
इत्युत्साहः प्रकृष्टात्मा तिष्ठन्वीररसात्मना ।
रसवत्त्वं गिरामासां समर्थयितुमीश्वरः ॥ २.२८५॥
यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी ।
साधिशेते कथं तन्वी हुताशनवतीं चिताम् ॥ २.२८६॥
इति कारुण्यमुद्रिक्तमलङ्कारतया स्मृतम् ।
तथापरेऽपि बीभत्सहास्याद्भुतभयानकाः ॥ २.२८७॥
पायं पायं तवारीणां शोणितं पाणिसम्पुटैः ।
कौणपाः सह नृत्यन्ति कबन्धैरन्त्रभूषणाः ॥ २.२८८॥
इदमम्लानमानाया लग्नं स्तनतटे तव ।
छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥ २.२८९॥
अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् ।
शाखाश्च मन्दिराण्येषां चित्रं नन्दनशाखिनाम् ॥ २.२९०॥
इदं मघोनः कुलिशं धारासन्निहितानलम् ।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ २.२९१॥
वाक्यस्याग्राम्यतायोनिर्माधुर्ये दर्शितो रसः ।
इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम् ॥ २.२९२॥ इति रसवच्चक्रम् ॥
अपकर्ताहमस्मीति हृदि ते मा स्म भूद्भयम् ।
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥ २.२९३॥
इति मुक्तः परो युद्धे निरुद्धो दर्पशलिना ।
पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्येवमादिकम् ॥ २.२९४॥ इत्यूर्जस्वि ॥
अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये ।
यत्प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते ॥ २.२९५॥
दशत्यसौ परभृतह्सहकारस्य मञ्जरीम् ।
तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम् ॥ २.२९६॥
सङ्गमय्य सखीं यूना सङ्केते तद्रतोत्सवम् ।
निर्वर्तयितुमिच्छन्त्या कयाप्यपसृतं ततः ॥ २.२९७॥ इति पर्यायोक्तम् ॥
किञ्चिदारभमाणस्य कार्यं दैववशात्पुनः ।
तत्साधनसमापत्तिर्या तदाहुः समाहितम् ॥ २.२९८॥
मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितम् ॥ २.२९९॥ इति समाहितम् ॥
आशयस्य विभूतेर्वा यन्महत्वमनुत्तमम् ।
उदात्तं नाम तं प्राहुरलङ्कारं मनीषिभिः ॥ २.३००॥
गुरोः शसनमत्येतुं न शशाक स राघवः ।
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ॥ २.३०१॥
रत्नभित्तिषु सङ्क्रान्तैः प्रतिबिम्बशतैर्वृतः ।
ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ २.३०२॥
पूर्वत्राशयमाहात्म्यमत्राभ्युदयगौरवम् ।
सुव्यञ्जितमिति प्रोक्तमुदात्तद्वयमप्यदः ॥ २.३०३॥ इत्युदात्तम् ॥
अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्शनम् ।
न पञ्चेषु स्मरस्तस्य सहस्रं पत्रिणामिति ॥ २.३०४॥
चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः ।
सेयमग्निमयी सृष्टिर्मयि शीता परान्प्रति ॥ २.३०५॥
शैशिर्यमभ्युपेत्यैव परेष्वात्मनि कामिना ।
औष्ण्यप्रकाशनात्तस्य सेयं विषयनिःनुतिः ॥ २.३०६॥
अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः ।
अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ॥ २.३०७॥
इति चन्द्रत्वमेवेन्दौ निवर्त्यार्थान्तरात्मता ।
उक्ता स्मरार्तेनेत्येषा स्वरूपापह्नुतिर्मता ॥ २.३०८॥
उपमापह्नुतिः पूर्वमुपमास्वेव दर्शिता ।
इत्यपह्नुतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ॥ २.३०९॥ इत्यपहनुतिः ॥
श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः ।
तदभिन्नपदं भिन्नपदप्रायमिति द्विधा ॥ २.३१०॥
असावुदयमारूढः कान्तिमान्रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ २.३११॥
दोषाकरेण सम्बध्नन्नक्षत्रपथवर्तिना ।
राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते ॥ २.३१२॥
उपमारूपकाक्षेपव्यतिरेकादिगोचराः ।
प्रागेव दर्शिताः श्लेषा दर्श्यन्ते के चनापरे ॥ २.३१३॥
अस्त्यभिन्नक्रियः कश्चिदविरुद्धक्रियोऽपरः ।
विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ॥ २.३१४॥
नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि ।
तेषां निदर्शनेष्वेव रूपमाविर्भविष्यति ॥ २.३१५॥
वक्राः स्वभावमधुराः शंसन्त्यो रागमुल्बणम् ।
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ २.३१६॥
मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः ।
आकर्ण्यन्ते मदकलाह्श्लिष्यन्ते चासितेक्षनाः ॥ २.३१७॥
रागमादर्शयन्नेष वारुणीयोगवर्धितम् ।
तिरोभवति धर्मांशुरङ्गजस्तु विजृम्भते ॥ २.३१८॥
निस्त्रिंशत्वमसावेव धनुष्येवास्य वक्रता ।
शरेष्वेव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥ २.३१९॥
पद्मानामेव दण्डेषु कण्टकस्त्वयि रक्षति ।
अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि ॥ २.३२०॥
महीभृद्भूरिकटकस्तेजस्वी नियतोदयः ।
दक्षः प्रजापतिश्चासीत्स्वामी शक्तिधरश्च सः ॥ २.३२१॥
अच्युतोऽप्यवृषच्छेदी राजाप्यविदितक्षयः ।
देवोऽप्य् अविबुधो जज्ञे शङ्करोऽप्यभुजङ्गवान् ॥ २.३२२॥ इति श्लेषचक्रम् ॥
गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥ २.३२३॥
न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः ।
तथापि जितमेवासीदमुना भुवनत्रयम् ॥ २.३२४॥
न देवकन्यका नापि गन्धर्वकुलसम्भवा ।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ॥ २.३२५॥
न बद्धा भ्रूकुटिर्नापि स्फुरितो दशनच्छदः ।
न च रक्ताभवद्दृष्टिर्जितं च द्विषतां कुलम् ॥ २.३२६॥
न रथा न च मातङ्गा न हया न च पत्तयः ।
स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ २.३२७॥
एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ २.३२८॥
सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात् ।
अयमेव क्रमोऽन्येषां भेदानामपि कल्पने ॥ २.३२९॥ इति विशेषोक्तिचक्रम् ॥
विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्य चित् ।
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ २.३३०॥
यमः कुबेरो वरुणः सहस्राक्षो भवानपि ।
बिभ्रन्त्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ २.३३१॥
सङ्गतानि मृगाक्षीणां तडिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ २.३३२॥ इति तुल्ययोगिता ॥
विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् ।
विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥ २.३३३॥
कूजितं राजहंसानां वर्धते मदमञ्जुलम् ।
क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥ २.३३४॥
प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते ।
रागेण पुनराक्रान्तं जायते जगतां मनः ॥ २.३३५॥
तनुमध्यं पृथुश्रोणि रक्तौष्ठमसितेक्षणम् ।
नतनाभि वपुः स्त्रीणां कं न हरत्युन्नतस्तनम् ॥ २.३३६॥
मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् ।
अपि ते रूपमस्माकं तन्वि तापाय कल्पते ॥ २.३३७॥
उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः ।
उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ २.३३८॥
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिनि ॥ २.३३९॥
इत्यनेकप्रकारोऽयमलङ्कारः प्रतीयते ॥ इति विरोधचक्रम् ॥
अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः ॥ २.३४०॥
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ।
अन्नैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ॥ २.३४१॥
सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ।
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥ २.३४२॥ इत्यप्रस्तुतप्रशंसा ॥
यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्म्र्ता ।
दोषाभासा गुणा एव लभन्ते ह्यत्र सन्निधिम् ॥ २.३४३॥
तापसेनापि रामेण जितेयं भूतधारिणी ।
त्वया राज्ञापि सैवेयं जिता मा भून्मदस्तव ॥ २.३४४॥
पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते ।
राजन्निक्षाकुवंशस्य किमिदं तव युज्यते ॥ २.३४५॥
भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी ।
अहङ्कारः परां कोटिमारोहति कुतस्तव ॥ २.३४६॥
इति श्लेषानुविद्धानामन्येषां चोपलक्ष्यताम् ।
व्याजस्तुतिप्रकाराणामपर्यन्तस्तु विस्तरः ॥ २.३४७॥ इति व्याजस्तुतिः ॥
अर्थान्तरप्रवृत्तेन किं चित्तत्सदृशं फलम् ।
सदसद्वा निदर्श्येत यदि तत्स्यान्निदर्शनम् ॥ २.३४८॥
उदयन्नेष सविता पद्मेष्वर्पयति श्रियम् ।
विभावयितुं ऋद्धीनां फलं सुहृदनुग्रहम् ॥ २.३४९॥
याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् ।
सद्यो राजविरुद्धानां सूचयन्ती दुरन्तताम् ॥ २.३५०॥ इति निदर्शनम् ॥
सहोक्तिः सहभावेन कथनं गुणकर्मणाम् ।
अर्थानां यो विनिमयः परिवृत्तिस्तु सा स्मृता ॥ २.३५१॥
सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः ।
पाण्डुराश्च ममैवाङ्गेः सह ताश्चन्द्रभूषणाह् ॥ २.३५२॥
वर्धते सह पान्थानां मूर्च्छया चूतमञ्जरी ।
पतन्ति च समं तेषामसुभिर्मलयानिलाः ॥ २.३५३॥
कोकिलालापसुभगा सुगन्धिवनवायवः ।
यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः ॥ २.३५४॥
इत्युदाहृतयो दत्ताः सहोक्तेरत्र काश्चन ॥ इति सहोक्तिः ॥
क्रियते परिवृत्तेश्च किं चिद्रूपनिदर्शनम् ॥ २.३५५॥
शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् ।
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ २.३५६॥ इति परिवृत्तिः ॥
आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा ।
पातु वः परमं ज्योतिरवाङ्मनसगोचरम् ॥ २.३५७॥ इत्याशीः ॥
अनन्वयससन्देहाव् उपमास्वेव दर्शितौ ।
उपमारूपकं चापि रूपकेष्वेव दर्शितम् ॥ २.३५८॥
उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोऽपि च ।
नानालङ्कारसंसृष्टिः संसृष्टिस्तु निगद्यते ॥ २.३५९॥
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्यलङ्कारसंसृष्टेर्लक्षणीया द्वयी गतिः ॥ २.३६०॥
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् ।
कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥ २.३६१॥
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ २.३६२॥
श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् ।
भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम् ॥ २.३६३॥ इति संसृष्टिः ॥
तद्भाविकमिति प्राहुः प्रबन्धविषयं गुणम् ।
भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः ॥ २.३६४॥
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् ।
विशेषाणां व्यर्थानामक्रिया स्थानवर्णना ॥ २.३६५॥
व्यक्तिरुक्तिक्रमबलाद्गम्भीरस्यापि वस्तुनः ।
भावायत्तामिदं सर्वमिति तद्भाविकं विदुः ॥ २.३६६॥ इति भाविकम् ॥
यच्च सन्ध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे ।
व्यावर्णितमिदं चेष्टमलङ्कारतयाइव नः ॥ २.३६७॥
पन्थाः स एष विवृतः परिमाणवृत्त्या
संहृत्य विस्तरमनन्तमलङ्क्रियाणाम् ।
वाचामतीत्य विषयं परिवर्तमाना-
नभ्यास एव विवरीतुमलं विशेषान् ॥ २.३६८॥
इत्याचार्यदण्डिनः कृतौ काव्यादर्शेऽर्थालङ्कारविभागो नाम द्वितीयो परिच्छेदः ॥
तृतीयः परिच्छेदः
अव्येपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः ।
यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ ३.१॥
एकद्वित्रिचतुष्पादयमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ ३.२॥
अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराश्चैव दृस्र्यन्ते तत्र केचन ॥ ३.३॥
मानेन मानेन सखि प्रणयोऽभूत् प्रिये जने ।
खण्डिता कण्ठमाश्लिष्य तमेव कुरु सत्रपम् ॥ ३.४॥
मेघनादेन हंसानां मदनो मदनोदिना ।
नन्नुमानं मनः स्त्रीणां सह रत्या विगाहते ॥ ३.५॥
राजन्वत्यः प्रजा जाता भवन्तं प्राप्य साम्प्रतम् ।
चतुरं चतुरम्बोधिरसनोर्वीकग्रहे ॥ ३.६॥
अरणयं कैस्चिदाक्रान्तमन्यैः सद्म दिवोकसाम् ।
पदातिरथनागाश्वरहितैरहितैस्तव ॥ ३.७॥
मधुरं मधुरम्भोजवदने वद नेत्रयोः ।
विभ्रमं भ्रमरभ्रन्त्या विडम्बयति किंन्विदम् ॥ ३.८॥ (कित्र ते, किं नु ते)
वारणो वा रणोद्दामो हयो वा स्मरः दिर्धरः ।
न यतो न यतोऽन्तं नस्तदहो विक्रमस्तव ॥ ३.९॥
राजितैराजितैक्ष्ण्येन जीयते तेवादृशैर्नृपैः ।
नीयते च पुनस्तृप्त वसुधा वसुधारया ॥ ३.१०॥
करोति सहकारस्य कलिकोत्कलिकोत्तरम् ।
मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः ॥ ३.११॥
कथं त्वदुपलम्भासाविहताविह तादृशी ।
अवस्था नालमारोढुमङ्गनामङ्गनाशिनी ॥ ३.१२॥
निगृह्य नेत्रे कर्षन्ति बालपल्लवशोभिना ।
तरुणा तरुणान् कृष्टानलिनो नलिनोन्मुखाः ॥ ३.१३॥
विशदा विशदामत्तसारसे सारसे जले ।
कुरुते करुतेनेयं हंसी मामन्तकामिषम् ॥ ३.१४॥
विषमं विषमन्वेति मदनं मदनन्दनः ।
सहेन्दुकलयापोढमलया मलयानिलः ॥ ३.१५॥
मानिनी मा निनीषुस्ते निषङ्गत्वमनङ्ग मे ।
हारिणी हारिणी शर्म तनुतां तनुतां यतः ॥ ३.१६॥
जयता त्वन्मुखेनास्मानकथं न कथं जितम् ।
कमलं कमलङ्कुर्वदलिमद्दलि मत्प्रिये ॥ ३.१७॥
रमणी रमणीया मे पाटला पाटलांशुका ।
वारुणीवारुणीभूतसौरभा सौरभास्पदम् ॥ ३.१८॥
इति पादादियमकमव्यपेतं विकल्पितम् ।
व्यपेतस्यापि वण्र्यन्ते विकल्पास्तस्य केचना ॥ ३.१९॥
मधुरेणदृशां मानम्मधुरेण सुगन्धिना ।
सहकारोद्भमेनैव शब्दशेषं करिष्यति ॥ ३.२०॥
करोऽतिताम्रो रामाणां तन्त्रीतानविभ्रमम् ।
करोति सेष्र्यं कान्ते वा श्रवणोत्पलतानम् ॥ ३.२१॥
सकलापोल्लसनया कलापिन्यानुनृत्यते ।
मेघाली नर्तिता वातैः सकलापो विमुञ्चति ॥ ३.२२॥
स्वयमेव गलन्मानकलि कामिनि ते मनः ।
कलिकामद्य नीपस्य दृष्ट्वा कां नु स्पृशेद्दशाम् ॥ ३.२३॥
आरुह्याक्रीशैलस्य चन्द्रकान्तस्थलीमिमाम् ।
नृत्यत्येष चलच्चारुचन्द्रकान्तः शिखावलः ॥ ३.२४॥
उद्धृता राजकादूर्वी ध्रियतेऽद्य भुजेन ते ।
वराहेणोद्धृता यासौ वराहेरुपरिस्थिता ॥ ३.२५॥
करणे ते रणेष्वन्तकरेण द्विषतां हताः ।
करेणवः क्षरद्रक्ता भान्ति सान्ध्यघना इव ॥ ३.२६॥
परागतरुरीजीव वातैध्र्वस्ता भटैश्चमूः ।
परागतमिव क्वापि परागतमम्बरम् ॥ ३.२७॥
पातु वो भगवत् विष्णुः सदानवघनद्युतिः ।
स दानवकुलध्वंसी सदानवरदन्तिहा ॥ ३.२८॥
कमलेः समकेशान्ते कमलोष्र्याकरं मुखम् ।
कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ ३.२९॥
मुदा रमममन्वीतमुदारमणिभूषणाः ।
मदभ्रमदृशः कर्तुमदभ्रजघनाः क्षमाः ॥ ३.३०॥
उदितैरन्यपुष्टानामारुतैर्मे हृतं मनः ।
उदितैरपि ते दूति!मारुतैरपि दक्षिणैः ॥ ३.३१॥
सुराजितह्रियो यूनां तनुमध्यासते स्त्रियः ।
तनुमध्या क्षरत्स्वेदसुराजितमुखेन्दवः ॥ ३.३२॥
इति व्यपेतयमकप्रभेदोऽप्येष दर्शितः ।
अव्यपेतव्यपेतात्मा विकल्पोऽप्यस्ति तद्यथा ॥ ३.३३॥
सालं सालम्बकलिकासालं सालं न वीक्षितुम् ।
नाली नालीनवकुलानाली नालीकिनीरपि ॥ ३.३४॥
कालं कालमनालक्ष्यतारतारकमीक्षितुम् ।
तारतारम्यरसितं कालं कालमहाघनम् ॥ ३.३५॥
याम यामत्रयाधीनायामया मरणं निशा ।
यामयाम दियास्वात्र्याया मया मथितैव सा ॥ ३.३६॥
इत्यादिपादयमकविकल्पस्येदृशी गतिः ।
एवमेव विकल्प्यानि यमकानीतराण्यपि ॥ ३.३७॥
न प्रञ्चभयाद् भेदाः कात्स्र्नेनाख्यातुमीप्सिताः ।
दुष्कराभिमता एव दश्र्यन्ते तत्र केचन ॥ ३.३८॥
स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् ।
अमायतेयतेऽप्यभूत् सुखाय तेयते क्षयम् ॥ ३.३९॥
सभासु राजन्नसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः ।
न भसुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः ॥ ३.४०॥
तव प्रिया सञ्चरिताप्रमत्त या विभूषणं धार्यमिहाशुमत्तया ।
रतोत्सवामोदविशेषमत्तया न मे फलं किञ्चन कान्तिमत्तया ॥ ३.४१॥
भवादृसा नाथ!न जानते नते रसं विरुद्धे खलु सन्नतेनते ।
य एव दीनाः शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते ॥ ३.४२॥
लीलास्मितेन शुचिना मृदुनोदितेन
व्यालोकितेन लघुना गुरुणा गतेन ।
व्याजृम्भितेन जघनेन च दर्शितेन
सा हन्ति तेन गलितं मम जीवितेन ॥ ३.४३॥
श्रीमानमानमरवत्र्मसमानमानमात्मानमानतजगत्प्रथमानमानम् ।
भूमानमानयति यः स्थितिमानमाननामानमानमतमप्रतिमानमानम् ॥ ३.४४॥
सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरा तम् ।
सारसानुकृतसारसकाञ्ची सा रसायनमसारमवैति ॥ ३.४५॥
नयानयालोचनयानयानयानयानयान्धान् विनयानयायते ।
न यानयासीर्जिनयानया नयानयानयास्तं जनयानयाश्रितान् ॥ ३.४६॥
रवेण भौमो ध्वजवर्तिवीरवे रवेजि सयत्यतुलास्त्रगौरवे ।
रवेरिवोग्रस्य पुरो हरेरवे रवेत तुल्यं रिपुमस्य भैरवे ॥ ३.४७॥
मयामयालम्ब्यकलामयामयामयामयातव्यविरामयामया ।
मयामयार्तिं निशयामयामयामयामयामूं करुणामयामया ॥ ३.४८॥
मतान्धुनानारमतामकामतामतापलब्धाग्रिमतानुलोमता ।
मतावयत्युत्तमताविलोमतामताम्यकस्ते समता न वामता ॥ ३.४९॥
कालकालगलकालकालमुखकालकाल-
कालकालपनकालकालघनकालकाल- ।
कालकालसितकालका ललनिकालकाल-
कालकालगतु कालकालकलिकालकाल ॥ ३.५०॥
सन्दष्टयमकस्थानमन्तादी पादयोद्र्वयोः ।
उक्तान्तर्गतमप्येतत् स्वातन्त्र्येणात्र कीत्र्यते ॥ ३.५१॥
उपोढरगाप्यबला मदेन सा
मदेनसा मन्युरसेन योजिता ।
न योजितात्मानमनङ्गतापिता-
ङ्गतापि तापाय ममास नेयते ॥ ३.५२॥
अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः ।
पादाभ्यासोऽप्यनेकात्मा व्यज्यते स निदर्शनैः ॥ ३.५३॥
ना स्थेयः सत्त्वया वज्र्यः परमायतमानया ।
नास्थेयः स त्वयावज्र्यः परमायतमानया ॥ ३.५४॥
नरा जिता माननया समेत्य
न राजिता माननया समेत्य ।
विनाशिता वैभवतापनेन
विनाशिता वै भवतापनेन ॥ ३.५५॥
कलापिनां चारुतयोपयन्ति
वृन्दानि लापोढघनागमानाम् ।
वृन्दनिलापोढघनागमानां
कलापिनां चारुतयोऽपयन्ति ॥ ३.५६॥
न मन्दयावर्जितमानसामत्या
नमन्दयावर्जितमानसात्मया ।
उरस्युपास्तीर्णपयोधरद्वयं
मया समालिङ्ग्यत जीवितेश्वरः ॥ ३.५७॥
सभासुराणामबला विभूषिता
गुणैस्तवारोहि मृणालनिर्मलैः ।
स भासुराणामबला विभूषिता
विहारयन्निर्विश सम्पदः पुराम् ॥ ३.५८॥
कलं कमुक्तं तनुमध्यनामिका
स्तनद्वयो च त्वदृते न हन्त्यतः ।
न याति भूतं गणेन भवन्मुखे
कलङ्कमुक्तं तनुमद्ध्यनामिका ॥ ३.५९॥
यशश्च ते दिक्षु रजश्च सैनिका
वितन्वतेऽजोपम!दंशिता युधा ।
वितन्वतेजोऽपमदं शितायुधा
द्विषा च कुर्वन्न्ति कुलं तरस्विनः ॥ ३.६०॥
बिभर्ति भूमेर्वलयं भुजेन ते
भुजङ्गम्प्मा स्मरतो मदञ्चितम् ।
श्रृणूक्तमेकं स्वमवेत्य भूधरं
भुजङ्गमो मा स्म रतो मदं चितम् ॥ ३.६१॥
स्मरानलो मानविवर्धितो यः स निर्वृतिं ते किमपाकरोति ।
समन्ततस्तामरसेक्षणो न समं ततस्तामरसे क्षणेन ॥ ३.६२॥
प्रभावतो नामन वासवस्य प्रभावतोऽनाम नवासवस्य ।
प्रभावतो नाम न वा सवस्य विच्छित्तिरासीत् त्वयि पिष्टपस्य ॥ ३.६३॥
परं पराया बलवा रणानां धूलीः स्थलीव्र्योम विधाय रुन्धन् ।
परम्पराया बलवारणानां परं पराया बलवारणानाम् ॥ ३.६४॥
न श्रद्धधे वाचमज्ज!मिथ्याभवद्धिधानामसमाहितानाम् ।
भवद्धिधानामसमाहितानां भवद्धिधानामसमाहितानाम् ॥ ३.६५॥
सन्नाहितोमानमराजसेन सन्नाहितोमानमराजसेन ।
सन्ना हितोमानमराजसेन सन्नाहितो मानम रोजसे न ॥ ३.६६॥
सकृद् द्विस्त्रिश्च योऽभ्यासः पादस्यैवं प्रदर्सितः ।
श्लोकद्वयं तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा ॥ ३.६७॥
विनायकेन भवता वृत्तोपचितबाहुना ।
स्वमित्रोद्धारिणाभीता पृथ्वीयमतुलाश्रिता ॥ ३.६८॥
विनायकेम भवता वृत्तोपचितबाहुना ।
स्वमित्रोद्धारिणाभीता पृथ्वी यमतुलाश्रिता ॥ ३.६९॥
एकाकारं चतुष्पादं तन्महायमकाह्वयम् ।
तत्रापि दृश्यतेऽभ्यासः सा परा यमकक्रिया ॥ ३.७०॥
समानयासमानया समानया स मानया ।
समानयासमान या समानयासमानया ॥ ३.७१॥
धराधराकारधरा धराभुजां भुजामहीं पातुमहीनविक्रमाः ।
क्रमात् सहन्ते सहसा हतारयो रस्योद्ध्रा मानधुरावलम्बिनः ॥ ३.७२॥
आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा ।
यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम् ॥ ३.७३॥
यामताश कृतायासा सा यता कृशता मया ।
रमणारकतात तेस्तु स्तुतेताकरणामर ॥ ३.७४॥
नादिनोऽमदनाधीः स्वा नमे काचन कामिता ।
तामिका न च कामने स्वाधीना दमनोदिना ॥ ३.७५॥
यानमानयमाराविकशोनानजनासना ।
यामुदारशताधीनामायामायमनादि सा ॥ ३.७६॥
सा दिनामयमायामा नाधीता शरदामिया ।
नासनाजनना सोकविरामाय न मानया ॥ ३.७७॥
वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः ।
गोमूबिकेति तत् प्राहुर्दुष्करं तद्विदो यथा ॥ ३.७८॥
मदनो मदिराक्षीणामपाङ्गास्त्रो जयेदयम् ।
मदेनो यदि तत् क्षीणमनङ्गायाञ्जलिं ददे ॥ ३.७९॥
आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि ।
तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः ॥ ३.८०॥
मनोभव तवानीकं नोदयाय न मानिनी ।
भयादमेयामा मा वा वयमेनोमया नत ॥ ३.८१॥
सामायामा माया मासा मारानायायाना रामा ।
यानावारारावानाया मायारामा मारायामा ॥ ३.८२॥
यः स्वरस्थानवर्णानां नियमो दुष्करोष्वसौ ।
इष्टश्चतुः प्रभृत्येषु दश्र्यते सुकरः परः ॥ ३.८३॥
आम्नायानामाहान्त्या वाग् गीतीरीरीः प्रीतार्भीतीः ।
भोगो रोगो मोदो मोहो धे ये चेच्छे देशे क्षेमे ॥ ३.८४॥
क्षितिविजितिस्थितिविहितिवर्तरतयः परगतयः ।
उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥ ३.८५॥
श्रीदीप्ती ह्रीकीर्ती गीःप्रीती ।
एधेते द्वे द्वे ते ये नेमे देवेशे ॥ ३.८६॥
सामायामा माया मासा मारानायायाना रामा ।
यानावारारावानाया मायारामामारायामा ॥ ३.८७॥
नयनानन्दजनने नक्षत्रगणशालिनि ।
अघने गगने दृष्टिरङ्गने!दीयतां सकृत् ॥ ३.८८॥
अलिनीलालकलतं कं न हन्ति घनस्तनि ।
आननं नलिलच्छायनयनं शशिकान्ति ते ॥ ३.८९॥
अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना ।
सदानघ सदानन्द नताङ्गासङ्गसङ्गत ॥ ३.९०॥
अगागाङ्गाङ्गकाकाकगाहकाघककाकहा ।
अहाहाङ्गखगाङ्कागखगकाककः ॥ ३.९१॥
रे रे रोरुरुरोरुगागोगोऽगाङ्गगोऽगगुः ।
किं केकाकाकुकः काको मामा गामा ममामम ॥ ३.९२॥
देवानां नन्दनो देवो नोदनो वेदनिन्दिनः ।
दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ ३.९३॥
सुरिः सुरासुरासारिसारः सारसिसारसाः ।
ससार सरसीः सीरी ससूरूः स सुरारसी ॥ ३.९४॥
नूनं नुन्ननि नानेन नाननेनाननानि नः ।
नानेना ननु नानूनेनैनेनानानिनो निनीः ॥ ३.९५॥
प्रहेलिकीप्रकाराणां पुनरुद्दिश्यते गतिः ॥ ३.९६॥
क्रीआगोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे ।
परव्यामोहने चापि सोपयोगाः प्रहेलिकाः ॥ ३.९७॥
आहुः समागतां नाम गूढार्थां पदसन्धिना ।
वञ्चितान्यत्र रूढेन यत्र शब्देन वञ्चना ॥ ३.९८॥
व्युत्क्रान्तातिव्यवहितप्रयोगान्मोहकारिणी ।
सा स्यात् प्रमुषिता यस्यां दुर्बोधर्था पदावली ॥ ३.९९॥
समानरूप गौणर्थारोपितैग्र्रथिता पदैः ।
परुषा लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः ॥ ३.१००॥
सङ्ख्याता नाम सङ्ख्यानं यत्र व्यामोहकारणम् ।
अन्यथा भसते यत्र वाक्यार्थः सा प्रकल्पिता ॥ ३.१०१॥
सा नामान्तरिता यस्या नाम्नि नानार्थकल्पना ।
निभृता निभृतान्यार्था तुल्यधर्मस्पृशा गिरा ॥ ३.१०२॥
समानशब्देपन्यस्तसब्दपर्यायसाधिता ।
सम्मूढां नाम या साक्षान्निर्दिष्टार्थपि मूढये ॥ ३.१०३॥
योगमालात्मकं नाम यस्याः सा पारिहारिकी ।
एकच्छन्नाश्रितं व्यज्य यस्यामाश्रयगोपनम् ॥ ३.१०४॥
सा भवेदुभयच्छन्ना यस्यामुभयगोपनम् ।
सङ्कीर्णा नाम सा यस्यां नानालक्षणसङ्करः ॥ ३.१०५॥
एताः षोश निर्दिष्टाः पूर्वाचार्यैः प्रहेलिकाः ।
दुष्टप्रहेलिकाश्चान्यास्तैरधीताश्चतुर्दश ॥ ३.१०६॥
दोषानपरिसङ्ख्येयान् मन्यमाना वयं पुनः ।
साध्वीरेवाभिधास्यामस्ता दुष्टा यास्त्वलक्षणाः ॥ ३.१०७॥
न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि ।
अस्थानरुदितैरेतैरलमालोहितेक्षणे ॥ ३.१०८॥
कुब्जामासेवमानस्य यथा ते वर्धते रतिः ।
नैवं निर्विशतो नारीरमरस्त्रीविम्बिनीः ॥ ३.१०९॥
दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके ।
मुखं वल्गुरवं कुर्वंस्तुण्डेनाङ्गानि घदृयन् ॥ ३.११०॥
खातयः कनि काले ते स्फातयः स्फीतवल्गवः ।
चन्द्रे साक्षाद्भवन्त्यत्र वायवो मम चारिणः ॥ ३.१११॥
अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा ।
पल्लवे पल्लवे चाद्र्रा यस्याः कुसुममञ्जरी ॥ ३.११२॥
सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा ।
मज्जन्त इव मत्तास्ते सौर सरसि सम्प्रति ॥ ३.११३॥
नासिक्यमध्या परितश्चातुर्वण्यविभूषिता ।
अस्ति काचित् पुरी यस्यामष्टवर्माढद्धठ्ठड वया नृपाः ॥ ३.११४॥
गिरा स्खलन्त्य नम्रेण शिरसा दीनया दृशा ।
तिष्ठन्तमपि सोत्कम्पं वृद्धे!मां नानुकम्पसे ॥ ३.११५॥
आदौ राजेत्यधीराक्षि! पार्थिवः कोऽपि गीयते ।
सनातनस्च नैवासौ राजा नैव सनातनः ॥ ३.११६॥
हृतद्रव्यं जनं त्यक्त्वा धनवन्तं व्रजन्ति काः ।
नानाभङ्गिशताकृष्टलोका वेश्या न दुर्धराः ॥ ३.११७॥
जितप्रकृष्टकेसाख्यो यस्तवाभूमिसाह्वयः ।
असौ मामुत्कमधिकं करोति कलभाषिणि ॥ ३.११८॥
शयनीये परावृत्य शयितौ कामिनौ रुषा ।
तथैव शयितौ रागात् स्वैरं मुखमचुम्बताम् ॥ ३.११९॥
विजितान्नभवद्वेषिगुरुपादहतो जन ।
हिमापहामित्रधरैव्र्याप्तं व्योमाभिनन्दति ॥ ३.१२०॥
न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्लम् ।
अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥ ३.१२१॥
केन कः सह सम्भूय सर्वकार्येषु सन्निधिम् ।
लब्ध्वा भोजनकाले तु यदि दृष्टे निरस्यते ॥ ३.१२२॥
सया सगजा सेना सभटेयं न चेज्जिता ।
अमातृकोऽयं मूढः स्यादक्षरज्ञस्तु नः सुतः ॥ ३.१२३॥
सा नामान्तरितामिश्रवञ्चितारूपयोगिनी ।
एवमेवेतरासामप्युन्नेयः सङ्करक्रमः ॥ ३.१२४॥
अपार्थ व्यर्थम्मेकार्थं ससंशयमपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥ ३.१२५॥
देशकालकलालोकन्यायागमविरोधि च ।
इति दोषा दशैवैते वज्र्याः काव्येषु सूरिभिः ॥ ३.१२६॥
प्रतिज्ञाहेतुदृष्टान्तहानिर्दोषो न वेत्यसौ ।
विचारः कर्कशप्रायस्तेनालीढने किं फलम् ॥ ३.१२७॥
समुदायार्थशून्यं यत् तदपार्थमितीष्यते ।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दष्यति ॥ ३.१२८॥
समुद्रः पीयते देवैरहमस्मि जरातुरः ।
अमी गर्जन्ति जीमूता हरेरैरावणः प्रियः ॥ ३.१२९॥
इदमस्वस्थचित्तानामाबिधानमनिन्दितम् ।
इतरत्र कविः को वा प्रयुञ्जीतैवमादिकम् ॥ ३.१३०॥
एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम् ।
विरुद्धार्थतया व्यर्थमिति दोषेषु पठ्यते ॥ ३.१३१॥
जहि शत्रुकुलं कृस्त्नं जय विश्वम्भरामिमाम् ।
न हि ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥ ३.१३२॥
अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः ।
यस्यां भवेदभिमता विरुद्धार्थपि भारती ॥ ३.१३३॥
परदाराभिलाषो मे कथमार्यंस्य युज्यते ।
पिबामि तरलं कदा नु दशनच्छदम् ॥ ३.१३४॥
अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीत्र्ये ।
अर्थतऋः शब्दतो वापि तदेकार्थं मतं यथा ॥ ३.१३५॥
उत्कामुन्मनयन्त्यते बालां तदलकत्विषः ।
अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ ३.१३६॥
अनुकम्पाद्यत्शयो यदि कश्चिद् विवक्ष्यते ।
न दोषः पुनरुक्तोऽपि प्रत्युतेयमलङ्कृतिः ॥ ३.१३७॥
हन्यते सा वरारोहा स्मरेणाकाण्वैरिणा ।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ ३.१३८॥
निर्णयार्थं प्रयुक्तानि संसयं जनयन्ति चेत् ।
वचांसि दोष एवासौ ससंशय इति स्मृतः ॥ ३.१३९॥
मनोरथप्रियालोकरसलोलेक्षणे सखि ।
आराद्वृत्तिरसौ माता न क्षमा द्रष्टुमीदृशम् ॥ ३.१४०॥
ईदृशं संशयायैव यदि जातु प्रयज्यते ।
स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा ॥ ३.१४१॥
पश्याम्यनङ्गजातङ्कलङ्घितां तामनिन्दिताम् ।
कालेनैव कठोरेण ग्रस्तां किं नस्त्वदाशया ॥ ३.१४२॥
कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः ।
युवानमाकुलीकर्तुमिति दूत्याह नर्मणा ॥ ३.१४३॥
उद्देशानुगुणोऽर्थानामनुदेशो न चेत् कृतः ।
अपक्रमाभिधानं तं दोषमाचक्षते बुधाः ॥ ३.१४४॥
स्थितिनिर्माणसंहारहेतवो जगतामजाः ।
शम्भुनारायणाम्भोजयोनयः पालयन्तु वः ॥ ३.१४५॥
यत्नः सम्बन्धविज्ञानहेतुः कोऽपि कृतो यदि ।
क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा ॥ ३.१४६॥
बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु ।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥ ३.१४७॥
शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धति ।
पदप्रयोगोऽशिष्टेष्टः शष्टेष्टस्तु न दुष्यति ॥ ३.११४८॥
अवते भवते बाहुर्महीमर्णवशक्वरीम् ।
महाराजन्नजिज्ञासौ नास्तीत्यासां गिरां रसः ॥ ३.१४९॥
दक्षिणाद्रेरुपसरन् मारुतश्चूतपादपान् ।
कुरुते ललिताधूतप्रवालाङ्कुरसोभिनः ॥ ३.१५०॥
इत्यादिशास्त्रमाहात्म्यद्रसनालसचेतसाम् ।
अपभाषणवद् भाति न च सौभाग्यमुज्झति ॥ ३.१५१॥
श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः ।
तदपेतं यतिभ्रष्टं श्रवणोद्वेजनं यता ॥ ३.१५२॥
स्त्रीणां सङ्गीतविधिमयमादित्यवंशयो नरेन्द्रः
पस्यत्यक्लिष्टरसमिह शिष्टैरमेत्यादि दुष्टम् ।
कार्याकार्याण्ययमविकलान्यागमेनैव पश्यन्
वश्यामुर्वीवहति नृप इत्यस्ति चैवं प्रयोगः ॥ ३.१५३॥
लुप्ते पदान्ते शिष्टस्य पदत्वं निश्चितं यता ।
तता सन्धिविकारान्तं पदमेवेति वण्र्यते ॥ ३.१५४॥
तथापि कटु कर्णानां कवयो न प्रयुज्यते ।
ध्वजिनी तस्य राज्ञः के तूदस्तजलदेत्यदः ॥ ३.१५५॥
वर्णानां न्यूनताधिक्ये गुरुलघ्वयथास्थितिः ।
यत्र तङ्क्तिन्नवृत्तं स्यादेष दोषः सुनिन्दितः ॥ ३.१५६॥
इन्दुपादाः शिशिरा स्पृशन्तीत्यूनवर्णता ।
सहकारस्य किसलयान्याद्र्राणीत्यधिकाक्षरम् ॥ ३.१५७॥
कामेन बाणा निशिता विमुक्ता मृगेक्षणाष्वित्ययथागुरुत्वम् ।
मदनबाणा निशिताः पततन्ति वामेक्षणास्वित्ययथालघुत्वमे ॥ ३.१५८॥
न संहितां विवक्षामीत्यसन्धानं पदेषु यत् ।
तद्विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥ ३.१५९॥
मन्दान्लेन चरता अङ्गनागण्डमण्डले ।
लुप्तमुद्भेदि घर्माम्बो नभस्यस्मन्मनस्यपि ॥ ३.१६०॥
आसु रात्रिष्विति प्राज्ञैरज्ञातन्यङ्गमीदृशम् ॥ ३.१६१॥
देशोऽद्रिवनराष्ट्रादिः कालो रातिंरदिवर्तवः ।
नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः ॥ ३.१६२॥
चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता ।
हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः ॥ ३.१६३॥
तेषु तेष्वयथारूढं यदि किञ्चित् प्रवर्तते ।
कवेः प्रमादाद् देशादिविरोधोत्येतदुच्यते ॥ ३.१६४॥
कर्पूरपादपामर्शसुरभिर्मलयानिलः ।
कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः ॥ ३.१६५॥
चोलाः कालागरुश्यामाः कावेरीतीरभूमयः ।
इति देशविरोधिन्या वाचः प्रस्थानमीदृशम् ॥ ३.१६६॥
मधुरत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ ३.१६७॥
श्रव्यहंसगिरो वर्षाः शरदामत्तबर्हिणी ।
हेमन्तो निर्मलादित्यः शिशिरः श्लाघ्यचन्दनः ॥ ३.१६८॥
इति कालविरोधस्य दर्शिता गतिरीदृशी ।
मार्गः कलाविरोधस्य मनागुद्दिश्यते यता ॥ ३.१६९॥
वीरश्रृङ्गारयोर्भावौ स्थायिनौ क्रोधविस्मयौ ।
पूर्णसप्तस्वरः सोऽयं भिन्नमार्गः प्रवर्तते ॥ ३.१७०॥
इत्थं कलाचतुःषष्टौ विरोधः साधु नीयताम् ।
तस्याः कलापरिच्छेदे रूपसाविर्भविष्यति ॥ ३.१७१॥
आधूतकेशरो हस्ती तीक्ष्णश्रृङ्गस्तुरङ्गमः ।
गुरुसारोऽयमेरणो निःसारः खदिरद्रुमः ॥ ३.१७२॥
विरोधो हेतुविद्यासु न्यायाख्यासु निदश्र्यते ॥ ३.१७३॥
सत्यमेवाह सुगतः संस्कारानविनश्वरान् ।
तथा हि सा चकोराक्षी स्थितैवाद्यापि मे हृदि ॥ ३.१७४॥
कापिलैरदुद्भूतिः स्थान एवोपवण्र्यते ।
असतामेव दृश्यन्ते यस्मादस्माभिरुद्भावः ॥ ३.१७५॥
गतिन्र्यायविरोधस्य सैषा सर्वत्र दृश्यताम् ।
अथागमविरोधस्य प्रस्थानं दर्शयिष्यते ॥ ३.१७६॥
अनाहिताग्नयोऽप्येते जातपुत्रा वितन्वते ।
विप्रा वैश्वानरीमिष्टिमक्लिष्टाचारभूषणाः ॥ ३.१७७॥
असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
सेवभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ ३.१७८॥
विरोधः सकलोऽप्येष कदाचित् कविकौशलात् ।
उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ ३.१७९॥
तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे ।
आद्र्रांशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ ३.१८०॥
राज्ञां विनाशपिशुनश्चचार खरमारुतः ।
धुन्वन् कदम्बरजसा सह सप्तच्छदोद्गमान् ॥ ३.१८१॥
दोलातिप्रेरणत्रस्तवधूजनमुखोद्गतम् ।
कामिनां लयवैषम्याद् गेयं रागमवर्धयत् ॥ ३.१८२॥
ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेसविक्लवो गणयत्ययम् ॥ ३.१८३॥
प्रेमेयोऽप्यप्रमेयोऽसि सकलोऽप्यसि निष्कलः ।
एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये ॥ ३.१८४॥
पञ्चानां पाण्डुपुत्राणां पत्नी पञ्चालकन्यका ।
सतीनामग्रणीश्चासीद् दैवो हि विधिरीदृशः ॥ ३.१८५॥
शब्दार्तालङ्क्रियाश्चित्रमार्गाः सुकरदुष्कराः ।
गुणा दोषाश्च काव्यानामिति सङ्क्षिप्य दर्शिताः ॥ ३.१८६॥
व्युत्पन्नबुद्धिरमुना विधिदर्शितेन
मार्गेण दोषगुणयोर्वशवर्तिनीभिः ।
वाग्भिः कृताभिसरणो मदिरेक्षणाभि-
र्धन्या युवेव रमते लभते च कीर्तिम् ॥ ३.१८७॥
इत्याचार्यदण्डिनः कृतौ काव्यादर्शे तृतीयो परिच्छेदः ॥