लोकातीतस्तवः
लोकातीत नमस्तुभ्यं विविक्तज्ञानवेदिने ।
यस्त्वं जगद्धितायैव खिन्नः करुणया चिरम् ॥ १॥
स्कन्धमात्रविनिर्मुक्तो न सत्त्वोऽस्तीति तेन तम् ।
सत्त्वार्थं च परिखेदमगमस्त्वं महामुने ॥ २॥
तेऽपि स्कन्धास्त्वया धीमन् धीमद्भयः संप्रकाशिताः ।
मायामरीचिगन्धर्वनगरस्वप्नसन्निभाः ॥ ३॥
हेतुतः सम्भवो येषां तदभावान्न सन्ति ये ।
कथं नाम न तत्स्पष्टं प्रतिबिम्बसमागताः ॥ ४॥
भूतान्यचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् ।
रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः ॥ ५॥
वेदनीयं विना नास्ति वेदनाऽतो निरात्मिका ।
तच्च वेद्यं स्वभावेन नास्तीत्यभिमतं तव ॥ ६॥
संज्ञार्थयोरनन्यत्वे मुखं दह्येत वह्निना ।
अन्यत्वेऽधिगमाभावस्त्वयोक्तो भूतवादिना ॥ ७॥
कर्ता स्वतन्त्रः कर्माऽपि त्वयोक्तं व्यवहारतः ।
परस्परापेक्षिकी तु सिद्धिस्तेऽभिमताऽनयोः ॥ ८॥
न कर्ताऽस्ति न भोक्ताऽस्ति पुण्यापुण्यं प्रतीत्यजम् ।
यत्प्रतीत्य न तज्जातं प्रोक्तं वाचस्पते त्वया ॥ ९॥
अज्ञाप्यमानं न ज्ञेयं विज्ञानं तद्विना न च ।
तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वमूचिवान् ॥ १०॥
लक्ष्याल्लक्षणमन्यच्चेत् स्यात्तल्लक्ष्यमलक्षणम् ।
तयोरभावोऽनन्यत्वे विस्पष्टं कथितं त्वया ॥ ११॥
लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् ।
शान्तं जगदिदं दृष्टं भवता ज्ञानचक्षुषा ॥ १२॥
न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च ।
न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ॥ १३॥
न सतः स्थितियुक्तस्य विनाश उपपद्यते ।
नासतोऽश्वविषाणेन समस्य समता कथम् ॥ १४॥
भावान्नार्थान्तरं नाशो नाप्यनर्थान्तरं मतम् ।
अर्थान्तरे भवेन्नित्यो नाप्यनर्थान्तरे भवेत् ॥ १५॥
एकत्वे नहि भावस्य विनाश उपपद्यते ।
पृथक्त्वेन हि भावस्य विनाश उपपद्यते ॥ १६॥
विनष्टात् कारणात्तावत् कार्योत्पत्तिर्न युज्यते ।
न वाऽविनष्टात् स्वप्नेन तुल्योत्पत्तिर्मता तव ॥ १७॥
निरुद्धाद्वाऽनिरुद्धाद्वा बीजादङ्कुरसम्भवः ।
मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते ॥ १८॥
अतस्त्वया जगदिदं परिकल्पसमुद्भवम् ।
परिज्ञातमसद्भूतमनुत्पन्नं न नश्यति ॥ १९॥
नित्यस्य संसृतिर्नास्ति नैवानित्यस्य संसृतिः ।
स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदांवर ॥ २०॥
स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
तार्किकैरिष्यते दुःखं त्वयातूक्तं प्रतीत्यजम् ॥ २१॥
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः ॥ २२॥
सर्वसङ्कल्पहानाय शून्यतामृतदेशना ।
यस्य तस्यामपि ग्राहस्त्वयाऽसाववसादितः ॥ २३॥
निरीहावशिकाः शून्या मायावत् प्रत्ययोद्भवाः ।
सर्वधर्मास्त्वया नाथ निःस्वभावाः प्रकाशिताः ॥ २४॥
न त्वयोत्पादितं किञ्चिन्न किञ्चिच्च निरोधितम् ।
यथा पूर्वं तथा पश्चात् तथतां बुद्धवानसि ॥ २५॥
आर्यैर्निषेवितामेतामनागम्य हि भावनाम् ।
अनिमित्तस्य विज्ञानं भवतीह कथञ्चन ॥ २६॥
अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान् ।
अतस्त्वया महायाने तत् साकल्येन दर्शितम् ॥ २७॥
यदवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् ।
निमित्तबन्धनापेतं भूयात् तेनाखिलं जगत् ॥ २८॥
इति श्रीलोकातीतस्तवः समाप्तः ॥