लोकेश्वरशतकम्
ॐ नमो लोकनाथाय ।
भास्वन्माणिक्यभासो मुकुटभृति नमन्नाकनाथोत्तमाङ्गे
भक्तिप्रह्वे सरोजासनशिरसि हसन्मालतीमालिकाभः ।
मौलौ मीलन्मृगाङ्गामकृशकपिशतां शाम्भवे शातयन्त्यो
लोके लोकेशपादामलनखशशभृत्कान्तयः सन्तु शान्त्यै ॥ १॥
निर्धूता धूर्जटीन्दोर्न खलु पटु जटापिङ्गमासङ्गशारैः
सारैरारान्मयूखैर्न च हरिमुकुटामन्दमाणिक्यभाभिः ।
कालिम्नो नापि लीना विबुधगणललत्कुन्तलालीनलीनाल्
लोकेश्वर्योऽनिवार्याश्चरणनखरुचः सन्तु वो ध्वान्तशान्त्यै ॥ २॥
पर्याप्तोदारकोषस्फुटतरकमलाभोगसम्पत्तिहेतु-
र्दूरीभूतप्रियाणामपहृतविषमातङ्कशङ्का जनानाम् ।
न क्षिप्तालङ्घनैरप्युपशमिततमोदुर्ग्रहोद्भूतभीति-
र्लोकेशाङ्घ्र्योरपूर्वा नखशिशिररूचां चन्द्रिका वः पुनातु ॥ ३॥
निःशेषं क्लेशराशीन्धनदहनमहापावकोच्चैः शिखा वो
लीलालोकास्त्रिलोक्यामपहृतगहनाबद्धमोहान्धकाराः ।
वह्निस्कन्धेष्वबन्ध्या नरकभुवि सुधावारिविस्तारधाराः
संसारीं संहरन्तां नखनिवहरुचः पद्मभृत्पादजाताः ॥ ४॥
स्वच्छन्दच्छेदिवाञ्च्छावितरणचतुराचिन्त्यचिन्तामणीनां
उद्गाढातङ्कशङ्कोद्गमशमनमनोहारिणी हारभासाम् ।
स्पष्टाविर्भूतनानागुणनिवहधृतादर्शबिम्बच्छवीनां
छाया वः पातु लोकेश्वरचरणभुवामुन्मयूउखा नखानाम् ॥ ५॥
नाथस्योदञ्चदुच्चामितरुचिरुचिभी रोचमानोरुचूडा-
रोचिष्णोरुच्चकासच्चरणनखरुचां सञ्चयोऽसौ चिरं वः ।
अत्युच्चीयात् तदर्चाचतुरसुरशिरश्चारुरत्नोच्चयोच्चै-
र्नानानिश्चारिरोचिश्चयरचितशचीरुच्यचापोपचारः ॥ ६॥
श्रीमद्भोगोन्नतीनामभिमतविषयप्राप्तिदानादहीनां
सेवाभाजां समन्तादविचलितरुचः प्रीतिमुत्पादयन्तः ।
वैमल्यातुल्यबिम्बोपहसितशशिनः शातितध्वान्तदोषा-
स्तोषं माणिक्यदीपा इव ददतु नखाः पद्मपाणेः पदोर्वः ॥ ७॥
राजद्राजीवपाणेर्नखनिवहरुचां पादपद्मोद्भवानां
उद्भेदो भेदकोऽसौ भवतु भवभियां निर्भराणां भरं वः ।
जातस्तद्देहभूमेचविरतकरुणावारिदत्तोपकारो
योऽनल्पः कल्पवृक्षाङ्कुरनिकर इवोपात्तविज्ञानबीजः ॥ ८॥
लोकेशस्याङ्घ्रिपद्मप्रभवनखरुचो दत्तमारारिसेना-
सन्त्रासाः शोणतूणोन्मुखनिहितफलामोघबाणांशुशोभाः ।
शश्वत्संसारघोरावटपतितजनोत्तारणासज्जरज्जु-
प्रारोहा रोहयन्तां दुरधिगममहासम्पदुच्चैः पदं वः ॥ ९॥
भास्वन्तः क्लेशकर्मश्रमविवशजगत्तापविच्छेदशूरां
दूराद्दोषोपलब्धेः पटुबुधगुरवस्तारका ये जनस्य ।
सान्द्रानन्दं ददानाः सकलशशधरश्रीभृतो निष्कलङ्का-
स्ते वश्चिन्तामचिन्त्याः कमलकरनखाः पादजाता जयन्तु ॥ १०॥
भास्वत्खण्डेन्दुखण्डैरपचितिरचना किं कृता शम्भुनेयं
न्यस्ता रत्नावली वा किमु निरतिशयोत्कण्ठया बोधिलक्ष्म्या ।
देवैर्दिव्याद्भुतानामसमसुमनसां लम्बिता मालिका नु
प्रीयात्पङ्क्तिर्नखानामिति जनितमतिर्लोकनाथाङ्घ्रिजा वः ॥ ११॥
क्वायं राजीवजन्मा नमदमरशिरस्तुङ्गमाणिक्यशय्या-
शश्वत्सुप्ताङ्घ्रिरेणुः क्व च धरणितलालम्बमौलिप्रणामः ।
इत्थं सञ्जातहासा इव रुचिनिचयैर्दन्तुरा ये दुरन्ता
ध्वान्तच्छेदाय लोकेश्वरचरणभवास्ते नखा वो भवन्तु ॥ १२॥
शूरास्तापापहारे शिशिरतरसुधाशीकरासारकाराः
प्राकाराः क्रूरदूरप्रसरदुरुशरासारमारापकारे ।
संसाराकारकारागृहबृहदुदरोदारदुःखप्रकारं
घोरं वः संहरन्तां चरणनखरुचः श्रीकराः पद्मपाणेः ॥ १३॥
भासो लोकेशपादप्रभवनखभुवां दूरदुर्वारमार-
व्यामुक्तव्यापिबाणावरणजवनिकाभ्रान्तिमुत्पादयन्त्यः ।
सङ्क्लेशानीकनाशस्फुटपिशुनमहाकेतुसङ्घातकल्पा-
स्त्रैलोक्याशक्यशक्तित्रिभवजयबृहद्वैजयन्त्यो जयन्ति ॥ १४॥
सम्यक्सम्बोधिचेतः शशिन इव समुद्भासिभासां समूहो
निर्दग्धक्लेशभूतिप्रचय इव बृहन्मुक्तिमार्गानिलास्तः ।
विन्यस्तादभ्रशुभ्रोपलफलक इव क्रूरमारैरभेद्यः
पायादुत्प्रेक्षितो वो नखरुचिनिकरः पादजः पद्मपाणेः ॥ १५॥
वैलक्ष्येणेक्षणीयाः क्षणमसमतमःक्षेपदक्षाः क्षपाणां
नाथेनाक्षुण्णपक्षक्षतिनिजविपदा निष्कलङ्काक्षया ये ।
अक्षीणारातिपक्षक्षपणपटुजगद्रक्षणाक्षुण्णदीक्षा-
रक्षा रक्षन्तु लोकेश्वरचरणनखास्तेऽक्षणक्षेपतो वः ॥ १६॥
सत्सम्पत्साधनस्य प्रवरकमलभृत्पाददुर्गाश्रयस्य
त्रैलोक्यश्रीजिगीषोर्नखरुचिनिवहस्यातुलोऽभ्युच्चयो वः ।
मित्रेणाप्तोदयेन स्फुटमनुवलतालम्भितात्यन्तवृद्धेः
पायात् सापायसर्वव्यसनरिपुमहायानसंसिद्धिहेतुः ॥ १७॥
अव्रीडश्चूडयाऽसौ वहति पशुपतिः काममर्धेन्दुभूषां
शौरेः शोभाभिलाषः कथमपि कृतिनः कौस्तुभेनास्तमेति ।
दृष्टेऽस्मिन् सोऽपि मोघो मघवमणिमहामौलिरित्याप्तचित्तै-
र्यत्कान्त्याचिन्ति लोकैश्चरणनखगणः पद्मपाणेः स जीयात् ॥ १८॥
आरादुच्चैरुदञ्चत्कृतविततिरधस्तारको नारकाणाम् ।
उद्यन्नीहाररोचिः शुचिररिवदनश्यामतापातहेतुः ।
दुर्विज्ञेयानुभावो निखिलजगदतिस्पष्टदृष्टिप्रकाशः
पादाम्भोजावलम्बी नखकिरणचयः पातु वो बुद्धमौलेः ॥ १९॥
दृष्टो हृष्टामरेशार्चनचतुरवधूमुक्तकर्पूरपांशु-
प्रोद्भासो भक्तिभारप्रवणहरजटाभूतिविभ्रान्तभूमिः ।
पूजाविक्षिप्तलक्ष्मीकरकमलगलत्केशराग्राणुरेणु-
च्छायः पायादपायान्नखकरविसरः पद्महस्ताङ्घ्रिजो वः ॥ २०॥
मेरौ निष्पीतपीतद्युतिरमरकरिस्फारसिन्दूरधूली-
शोणश्रीशान्तशूरो हरितहरिहयाहीनहारित्यहारी ।
मीलन्नीलावभासो नखरुचिविसरः पद्मभृत्पादपद्माद्
उद्यद्दुग्धाब्धिवृद्धित्रसदमरवधूवीक्षितो रक्षताद् वः ॥ २१॥
शोभा सम्भाव्यतेऽस्मिन् हिमकरधवलैर्नामरैश्चामरैर्वा
भक्त्यारम्भेण रम्भे परिकिरसि मुधा किं नु कर्पूरधूलीः ।
किं ते पुष्पैः प्रकीर्णैः शचिशुचिभिरिति स्वामिना स्वर्भुवां वः
पूजायामब्जपाणेर्नखरुचिनिवहः पादजो वर्णितोऽव्यात् ॥ २२॥
कैलासोद्भासिविन्ध्ये कवलितबलिजित्कायकालिम्नि काली-
लीलालावण्यलेपे विहतहरितिमश्वेतपूषाश्वरश्मौ ।
लोकेशाङ्घ्रेर्नखानामुरुकरनिकरे किं मयेतीव शीर्णं
शीतांशोः पातु पूजाचतुरसुरजनाकीर्णकुण्डच्छलाद् वः ॥ २३॥
पादाः पादोद्भवानामतिविततिभृतां बुद्धमौलेर्नखानां
पारे संसारयादःपतिगमनमहासेतुबन्धायमानाः ।
उद्यद्दुर्वारदुःखानलशमनमहापुण्यसम्भारवारि-
स्वच्छन्दाच्छच्छटाभा झटिति विघटनं कुर्वतां वो भवस्य ॥ २४॥
कालीकान्तेन्दुकान्तेः परिभवविधृतिर्भूरिकैलासभूभृद्-
भासां हासावगीतिर्हतिरपि हिमवद्गौरतागौरवस्य ।
क्षीराकूपारपूरप्लुतिरपि ककुभां नाकनागीयदन्त-
च्छेदच्छायाक्षतिर्वो नखरुचिविततिः पातु लोकेश्वराङ्घ्र्योः ॥ २५॥
यत्पूजापारिजाते वलितमलिकुलं मीलति श्रीसरोजे
सेवासक्तः स्वयम्भूर्मुकुलितनलिनाद् दुःस्थितो यत्र तस्थौ ।
येनाश्यामा दिनश्रीः शमितसुरवधूक्लान्तिदोषा निशाऽभूत्
पादोऽसौ पद्मपाणेर्नखविधुविलसच्चन्द्रिकः पातु युष्मान् ॥ २६॥
कान्तो विभ्रान्तकान्तामरयुवतिजनैरर्चितो दृष्टिपातैः
शुभ्रं विभ्राण्मृणालीनिकरमिव नखोद्योतनोद्भूतशोभः ।
कामीवानल्पकामप्रसरपरवशानेकचर्याप्रवृत्तः
पादो वः पद्मपाणेरवतु सुरपुरीचन्दनामन्दचर्चः ॥ २७॥
आनन्दामन्दभारोल्लसदमरकरैः पारिजाते विकीर्णे
कालीयः कालकूटोत्कटपटल इव प्रोल्लसद्भृङ्गसार्थे ।
श्रेयो वः श्रीर्विधत्तामलममलनखद्योतदुग्धाब्धिमध्याद्
उद्यन्ती पद्मपाणेश्चरणसरसिजस्याच्युतप्रीतिहेतोः ॥ २८॥
वाञ्छाविच्छित्तिखेदोच्छलदनलशिखाछेदकच्छोच्छ्र्यो वः
पद्मच्छायानुकारच्छलितमधुकराच्छादनाच्छादितश्रीः ।
स्वच्छन्दानच्छमूर्छच्छुचिनखकिरणोच्छूनगुच्छैरतुच्छो
देयात् पादोऽब्जकान्तिच्छुरितकररूचोऽच्छिन्नमिच्छामकृच्छ्रात् ॥ २९॥
उद्भूतोद्भासिचक्रद्युतिरमलनखैरद्वितीयोदितश्री-
र्बिभ्राणो लक्षणानां गणमतुलगुणागण्यपुण्योपनीतम् ।
निःशेषद्वीपदीपप्रभवदतिमहद्वैभवो बुद्धमौलेः
पायात् पादो नमस्यद्भुवनपतिशिरश्चक्रवर्ती चिरं वः ॥ ३०॥
कीर्णैराकाशगङ्गाकनककमलिनीकुड्मलैः को गुणोऽस्मिन्
किं गीतैर्गीतमेव स्फुटसरसिरूहभ्रान्तिभृङ्गावलीभिः ।
शक्यं माणिक्यदाम्नामिह रूचिरनखे शोभितुं नेत्यवादीद्
यत्पूजायां सुरेशः स जयति चरणो वारिजव्यग्रपाणेः ॥ ३१॥
यो नाथस्यैव नासीदपि खलु सुगतेः कारणं जन्मभाजां
यस्मिन् पद्माभिलाषी न मधुपनिवहः पक्षपाती जनोऽपि ।
येनोर्वी नातिगुर्वी नतिमतिगुरुणा लम्भितापि त्रिलोकी
लोकं पादः स पायात् सुगतशशधरद्योतविद्योतमौलेः ॥ ३२॥
योऽलीनां पानदानादकृत धृतमुदं संहतिं सेवकानां
यस्मिन्नालं विहीनं न खलु हरिततात्यन्तशोभोपधानम् ।
देयाद्वो लौकनाथिश्चिरममरशिरःशायिरेणूत्करोऽसौ
श्रेयः श्रीवासभूमिर्नखकिरणहसत्केशरः पादपद्मः ॥ ३३॥
देहद्रोहावहोग्राहितहतिविहितो देहिनां हेतिरीहा-
सिद्धेराहूतिराहो हृतिरतिमहतो बृंहतांहोमहिम्नः ।
क्लेशव्यूहाहितेहाहुतिविहितबृहद्द्रोहिदुःखाग्निदाह-
व्यापोहा वाहिनी स्ताद्वहुविहितहिता पद्महस्ताङघ्रिभावः ॥ ३४॥
बुद्धालङ्कारमौलेरविकलकमलभ्रान्तिभृद्भृङ्गमाला
वाचाला निर्विचारा रचयतु चरणोत्सर्पिणी सम्पदं वः ।
सत्त्वत्राणैककार्या स्थिरतरसुचिरावस्थितिस्थापनार्थं
विन्यस्ता शृङ्खलेव प्रचुरकरुणया स्थूलकालायसस्य ॥ ३५॥
राजीवान्तःपलाशावलिरुचिरमृदुर्वज्रसारो विसारो
क्रुध्यद्वैरिप्रमुक्तप्रहरणनिवहस्योद्भवद्भङ्गभूमिः ।
रक्तो रागोपशान्तेरतिशयबलवत्कारणं तारणायां
संसाराम्भोनिधेर्वः सुगतशशिभृतोऽपास्तखेदोऽस्तु पादः ॥ ३६॥
जम्भारेर्जृम्भिताम्भोरुहरुचिरचये चापलेनाप्यलीना
नालं लोलापि लोला हरकरविहितानन्दकुन्दोत्करेऽपि ।
भ्राजिष्णौ विष्णुकीर्णे परिमलिनि पुरः पारिजातेऽप्यजात-
प्रीतिर्यत्रालिमाला रमति जिनभृतः सोऽङघ्रिपद्मोऽवताद् वः ॥ ३७॥
भूयादुद्भूतभूरिद्युतिनिवहलसत्केशरोद्भासुरो वो
रक्तच्छायानुविद्धोन्मुखनखदशनोद्भासिकान्त्या करालः ।
त्रस्यद्दुर्वृत्तवैरिद्विपतरलचलल्लोचनालोकनीयो
लोकेशस्याङघ्रिसिंहः कमलभवजटारण्यशायी शिवाय ॥ ३८॥
अच्छीयानप्यनच्छो लघुरपि न लघुर्लङ्घने दिङ्मुखानां
त्रैलोक्यानन्दनोऽपि प्रबलपरपुरव्यापिसन्तापहेतुः ।
लावण्यालेपलिप्तोऽप्यतिशयमधुरो वैधुराधेर्निरोद्धा
पादोद्द्योतः क्रियाद् वो जिनरूचिविकसन्मालिकाशेखरस्य ॥ ३९॥
राजीवै राजराजो हरिरपि हरितैर्हारिभिः पारिजातैः
कुन्दैः सानन्दमिन्दुर्बहुवसुविसरैर्वासवो भासमानैः ।
प्रीतः पाशी पलाशैरिति विबुधजनः प्राज्यपूजाविशेषं
यत्रानुप्रासकाव्यायितमतत स वः पातु पादोऽब्जपाणेः ॥ ४०॥
भानुर्भासां विकाशे नुतिमकृत नखेषून्मुखो नाकनाथः
शर्वः शाखाग्रपर्वण्यविचलनयनोऽप्यन्तकः प्रान्तकान्तौ ।
यस्यासामान्यशोभाविषयमतिशयं द्रष्टुमासीदनीशो
निःशेषं दिव्यलोकः स जयति चरणो बुद्धबिम्बाङ्कमौलेः ॥ ४१॥
सम्यक्सम्बुद्धभानुस्फुटविकटजटापुञ्जकुञ्जोरुमूर्तेः
संसाराम्भोधिमज्जद्गुरुतरजनतामेदिनीस्तम्भनस्य ।
भूयाद् भद्राय पादः कमलधरगिरेः सेवितः सिद्धसार्थैः
पर्यन्तोद्वान्तकान्तिस्रवदरुणमहाधातुमन्निर्झरो वः ॥ ४२॥
संसाराध्वप्रबन्धश्रमसकलजगत्क्लान्तिसंशान्तिहेतु-
च्छायस्येच्छाफलस्य स्फुटनखकुसुमोद्भासिशाखाभृतो वः ।
लोकेशाङघ्रिद्रुमस्य प्रणतसुरजनैर्मौलिमालालवाले
मूले सम्पादितोऽव्यान्मणिकलशभृतः स्वच्छधामाम्बुसेकः ॥ ४३॥
सम्मूलक्लेशजालप्रबलरिपुबलोन्मूलनस्थूललाभा-
ल्लब्धोल्लासो विलासी बलविजयिलसन्मौलिलीलालयो वः ।
पाद पायादतुल्यामलकमलभृतोऽलीकफुल्लाब्जलोभ-
व्यालोलानल्पलापोल्लसदलिपटलाल्लुप्तसङ्गीतिलोलः ॥ ४४॥
त्रैलोक्यैश्वर्यलक्ष्मीचपलकरिवधूसंयमालानदण्डः
कष्टक्लेशाहिदष्टस्खलदखिलजगत्पालने दक्षतर्क्षः ।
दुर्वारान्तःप्रवेशाकृशनरकपुरे द्वारगाढार्गलो वो
भूत्यै लोकेशपादो भवजलधिसमुल्लङ्घनैकप्लवोऽस्तु ॥ ४५॥
इति पादुकादेशना वृत्तो नृत्तप्रकारः सपदि विघटिता वाद्यविद्यानवद्या
नो गीतं नावगीतं कृतरसरचनैर्नैव भावैरभावि ।
इत्यन्तः स्मेरशाक्रे सदसि न शकिता यत्र पूजाप्सरोभिः
कर्तुं भावातुराभिः स जयति जनितातृप्तिरूपः सरोजी ॥ ४६॥
उद्दामस्थामवामक्रमविषममिलन्मारमानप्रमाथी
मध्यादुन्माथिमोहोद्गमममितमहोमौलिरायामभीमम् ।
श्रीमन्निःसीमभूमासममहिममहाकामधामातिभूमौ
सत्त्वप्रेमप्रकामप्रथितमृदुमना निर्विरामाश्रयो वः ॥ ४७॥
सारप्राकारघोरावरणनिवरणो बन्धनक्रूरदूर-
स्फारावारातिरौद्रे नरकनगरिकाकारधारिण्यरीणाम् ।
कारागारोदरे यः स्मरणशरणतां कारणाकातराणां
यातः सत्कारकारी गुरुतरकरुणः पातु लोकेश्वरो वः ॥ ४८॥
कल्पान्तोल्लासिहेलाचलदनिलचलोल्लोलकल्लोलमाला-
वाचाले नक्रजालाकुलकलिलजले वारिधावुल्ललन्तः ।
आलम्बे यस्य नीलोत्पलविमलमहाकुट्टिमालीनलीलां
आलीयन्ते लधीयः स जगति कमली पालनायाल मस्तु ॥ ४९॥
धूमौघोबन्धबन्धीकृतविधुरविधुब्रध्ननिर्बन्धधामा
नीरोधोद्भेदबाधाबुधविबुधवधूधीरतोद्धारधुर्यः ।
यन्नामाधीतिधाराधरविधृतिकृतामेति धूमध्वजोऽपि
प्रध्वंसं साधु धेयान्निरवधि स विधिं बुद्धधारो धृतेर्वः ॥ ५०॥
क्रोधादुत्क्षिप्तकालायुधकरनिकरः क्रूरसूत्कारकारी
दानक्लिद्यत्कपोलाकुलमधुपकुलाकाण्डकालोरुकायः ।
क्रान्तो यन्नामकष्टाङ्कुशहतिकृपणः कातरेण करीन्द्रो
लोकेशः स प्रकामोपकरणकरुणः कामकृत्यं क्रियाद् वः ॥ ५१॥
सूत्कारिश्वासपोषाकृशविषवमथुप्लोषिरोषाश्रयाशा
दंशाशादर्शितास्या भृशततशिरसो नाशने दन्दशूकाः ।
यन्नामाशीविषेशद्विषि विशति विषां धीषु नश्यन्त्यनीशा
लोकेशः सोऽस्तु विश्वश्रयदतिविषमक्लेशराशेः शमाय ॥ ५२॥
गन्धोद्गारोरुगर्वग्रहणगजगणग्रासगीतोग्रवेगः
सावेगोदग्रगामी गलगहनगुहागाढगम्भीरगर्जः ।
योगैर्युग्योपयोगानगमि मृगपतिर्यद्गणोद्गीतियोगाद्
दुर्योगं वः स योगी स्थगयतु सुगतासङ्गितुङ्गोत्तमाङ्गः ॥ ५३॥
भूयोऽपायानुमेयः क्षतदयहृदयो भीविधायी विहाय
स्थेयान् शैलोपमेयः श्रयदलिगवयच्छायकायो निकायः ।
सद्योगोपायमायामय इव विलयं यातवान् यातवीर्यो
यत्पादध्यायिनेयः स सुगतनिलयो जायतां वो जयाय ॥ ५४॥
सन्त्रासावासभूमिं कलिविसरसरद्यादसं भास्वरासि-
प्रासप्रोल्लासिभङ्गं प्रसृतसितलसत्केतुसत्फेनहास्याम् ।
यत्सेवासाधुनावा द्विषदसमसमित्सारसेनास्रवन्तीं
सोत्साहाः सञ्चरन्ते सुखमसुखमसौ संह्रियाद् वः सरोजी ॥ ५५॥
भूभृत्सम्भारभेदप्रभुकरविभवो भूरिभूभोगभीमं
बिभ्राणश्चित्रभानुं भवदतिभरभीसम्भ्रमोद्भ्रान्तिभूतः ।
दम्भोलिर्भीतिभाजामभवदभिपतन्नाशुनाभावभूमि-
र्भक्तेर्यस्य प्रभावात् स भवतु भवभिद्वो भृताम्भोजशोभी ॥ ५६॥
आबाधाधूतधैर्यश्च्युतिविधिसविधो दुर्विधक्रोधवेधो
बाधादुःसाधरोधोद्धुरबहुविविधव्याधिसम्बाधदेहः ।
यस्य ध्यानावधानादधिकधृतिसुधाधानसन्धारितासु-
र्धीमान्नाधेर्विधेयो धियमवतु स वो बोधये बुद्धमूर्धा ॥ ५७॥
आरादाहूतियातृक्षितिपतिरतुलारातिशातिप्रताप-
प्रोद्गीतिर्दण्डनीतिप्रथितपितृपतिख्यातिजिद्दण्डनीतिः ।
यत्पादाधीतिशक्तेः कुपितमतिरतिप्रीतिमायाति भूते-
र्व्याघातोद्भूतिहेतुर्जिनवृषवसतिः संह्रियाद् वः स भीतिम् ॥ ५८॥
ब्रह्मा जिह्मायितोऽभूदगुरुरपि गुरुः खण्डिताखण्डलोक्ति-
र्विष्णुस्तूष्णीमधृष्टो वचनविरचने वीतगर्वोऽपि शर्वः ।
तुष्टास्तुष्टूषवोऽपि स्फुटमिति विबुधा नो बुधा यद्गुणोक्तौ
स श्रीमानब्जपाणिर्जयति जिनमनोगोचरान्तर्गुणौघः ॥ ५९॥
धात्रा चित्रं चरित्रं सुररिपुरिपुणा सत्रिनेत्रेण नेत्रे
गोत्रामित्रेण गोत्रं गतिरपि गुरुणा रात्रिपेणापि गात्रम् ।
मैत्रं मित्रेण पुत्रीयितसकलजगत्प्रेम पुत्रेण चात्रे-
र्यत्रेदं स्तोत्रपात्रं स्तुतमवतु स वोऽमात्रसत्तोऽब्जपाणिः ॥ ६०॥
यस्मिन् ब्रह्मा बहुत्वं बहुबहुमतवानाननानां निजानां
स्कन्दोऽप्यानन्दगर्भं नुतिषु नतिकृतौ नागनाथोऽपि मूर्ध्नः ।
शक्रः श्लाघ्यामनैषीन्नयनदशशतां यं विलोक्य त्रिलोकी-
लोकेशो निर्विरामानतिनयनरतिस्तोत्रपात्रं स पायात् ॥ ६१॥
खेदी खे दीप्तरश्मिः किल विफलमसावध्वनीनोध्वनीनो
लोकालोकार्थमास्ते ननु कमलभृतो दीप्ततापः प्रतापः ।
धीरैर्धीरैरकारि स्तुतिरिति विहितोल्लासभासां सभासां
यस्यार्यस्यास्तु तस्माज्जगति कृतरिपुक्षिप्रसादः प्रसादः ॥ ६२॥
न्यस्ता यस्मिन्नमस्ये नतिरपि नितरामुन्नतिः पुण्यधाम्नां
निःसामान्यैकमान्येऽपचितिरूपचितिर्भूयसी भक्तिभाजाम् ।
ध्यानस्थानस्य यस्य स्मृतिरपि सहसा विस्मृतिर्भूतभीतेः
सोऽनन्ताचिन्त्यलोके विहितहितपथो लोकनाथोऽवताद्वः ॥ ६३॥
दम्भो दम्भोलिरैन्द्रः क्वचिदकृत सुरारातिशातोऽतिशातो
हारी हारीरणासौ बलवति विफलाभीषु राजीषु राजी ।
चक्रे चक्रेण नार्थं हरिरिति जनता नूनमाहेति हेति-
व्यासव्यासक्तिमुक्तान् जयति रिपुजनोल्लासरोजी सरोजी ॥ ६४॥
लोकातोतं दधानः सुखमपि जगतां तीव्रदुःखेन दुःखी
नित्यं नित्यानुरक्तोऽप्यशरणकृपणप्राणभृद्योगयुक्तः ।
त्रैलोक्यस्यैकनाथोऽप्यसमरुचिजनाराधनाबन्धुरो यः
सोऽव्यात् सम्बुद्धमौलिर्विहितविसदृशाचिन्त्यचर्यश्चिरं वः ॥ ६५॥
निर्विच्छेदत्रिलोकीनिहितनिरुपमस्नेहयोगानुयोगान्
निर्वाणो न प्रकम्प्यो बलवदलघुभिस्तीर्थिकोन्मत्तवातैः ।
जीयाल्लोकेशदीपः स भुवनभवनोद्भूतमोहान्धकार-
ध्वंसोऽविध्वंसधामा परहितकरणोद्योगसंवृत्तवर्त्तिः ॥ ६६॥
क्वासौ सर्वत्र मैत्री क्व विषमबहलक्लेशविद्वेषिदाहः
क्व प्रौढा मुक्तिशक्तिः क्व च दृढकरुणापाशनिष्पन्दबन्धः ।
क्वोपेक्षापक्षपातः क्वपरहितकृतिव्यग्रता तद्विचित्रं
चित्रं राजीवपाणेश्चरितमतिजगज्जायतां ज्योतिजिद्वः ॥ ६७॥
सर्वाग्रः सर्वरूपप्रथनपृथुनयः सर्वदा सर्वनाथः
सर्वेषां सर्वथा यो विनयविधिमहासर्वगुर्वर्थसिद्ध्यै ।
सर्वैः सातोतगर्वैर्गुरुमहिमगुणैः खर्वयन् सर्वगर्वान्
सर्वः सर्वप्रदो वः सफलयतु रूचीः सर्वविन्मौलिरुर्वीः ॥ ६८॥
ईशः स्वामी प्रजानां पतिरमरगुरुर्लोकपालो महेन्द्रो
भास्वान् दत्तारिदण्डः परजयबलिजिद् वित्तदो जैत्रपाशः ।
इत्यन्तर्हासगर्भं भणति परिजनेऽन्वर्थनाम्नां निजानां
पात्रे यत्रानुलज्जैर्नतममरगणैरब्जपाणिः स जीयात् ॥ ६९॥
वर्यार्याणां वरेण्यो वरपरविधुरोत्सारणा संवरो वो
दुर्वारैः सारमारैरमितकरधरो दुर्धरो वैरिवीरैः ।
वीरो वीरारिवारी प्रचुरतरवरोदारसम्भारवारि-
स्फारासारोरुधाराविसरवितरणाधीरधाराधरः स्यात् ॥ ७०॥
नित्योद्युक्तेऽतिशक्ते प्रभवति नलिनोद्भासि हस्ते समस्तो
नाथी संसारयादःपतिपथपथको लोक इत्याकलय्य ।
यस्मिन् विन्यस्य भारं लघुरलघुकृपो विश्वदीपं प्रपेदे
बुद्धोऽवन्ध्यप्रतिज्ञाकृतधृतिविधृतिर्निर्वृतिं सोऽवताद्वः ॥ ७१॥
उच्चैरूढो गरीयान् सुगत इव जगत्कार्यसम्भारभारो
न्यस्ता हस्ते प्रशस्ता निज इव कमलालङ्कृतिर्भक्तिभाजाम् ।
निर्वाणं नारकाग्नेर्निचय इव चिरं प्रापितः सत्त्वसार्थः
तीव्रक्लेशप्रबन्धो जन इव शमितो येन पायात् स युष्मान् ॥ ७२॥
यो नानानन्तरूपप्रकटनपटिमख्यातमायोऽप्यमायः
संशान्ताशेषभीरप्यतिकरुणतया कातराचारकारी ।
वीतक्रोधोऽपि दुष्टाशयदमनबुधक्रोधनित्यानुबन्धः
सम्बुद्धोद्भासिमौलिः स जयति महतां चिन्तनीयोऽप्यचिन्त्यः ॥ ७३॥
धत्ते नैवोत्तमाङ्गं परमपितु वपुर्योऽमिताभाभिरामं
सन्नालं नारविन्दं गुरुभयविधुरा वैरिसेनापि यस्य ।
येनाबद्धा जटा नो जगदहितहतिव्यापृतेनापि कक्षा
दक्षोऽसौ रक्षताद्वः कुपितयममुखालोकनाल्लोकनाथः ॥ ७४॥
शेषाशङ्की चकम्पे भवसलिलनिधिः क्लेशसार्थैः प्रलीनं
विश्रान्तं बोधिसत्त्वैर्मुनिरपि शुशुभे श्लाघ्यनिर्वाणलीलः ।
यस्मिन्नाबद्धकक्षे प्रसरति परितोऽशेषसत्त्वार्थकार्य-
व्यायामे स प्रकामं शमयतु सुगतावासमौलिर्मलं वः ॥ ७५॥
इति भगवद्वर्णना ।
प्रत्यूहव्यूहबाधाविघटनविषमे मानसस्याप्यभूमौ
कर्मण्येकान्तशर्मच्छिदि जगदहितोच्छित्तये पद्मपाणिः ।
निघ्नः क्रीतोऽथ भीतो बलवदिव यया निर्विकारो नियुक्तः
सा नाथस्यातिगुर्वी प्रभुरवतु कृपा निष्कृपादन्तकाद्वः ॥ ७६॥
भूमिर्नैवाभिभूतेर्मृदुतरमपि यल्लोकधातूननन्तान्
अत्यन्तावीर्यवीर्यं युगपदपि भृशं भासयंस्त्रासशान्त्यै ।
खद्योतोद्योतलेशानुकृतिविलिसिताशेषतेजस्वितेज-
स्तेजो लोकेश्वरं वो हरतु हृदि भवद्भूरिमोहान्धकारम् ॥ ७७॥
निःशेषाकाशधातुर्जन इव जनितापूरिताशः समन्तात्
प्रारब्धः सर्वभासामिव निरतिशयापायराशेर्विलोपः ।
सार्धं सान्द्रान्धकारैः शममगमि महानृद्धिमान्मानिमारो
येनोद्भासः स भूयात् सरसिरूहभृतो भूतये जायतां वः ॥ ७८॥
ईशोऽन्यद्योतनाशो बलभिदितरभादुःशमध्वान्तराशेः
सत्त्वद्रोहाशयानामनुपमतपनो योऽच्युतश्चित्रभानुः ।
नानानन्ताचलादिव्यवहितविषयोद्भासने शक्तिधारी
लोकेशोद्भास एकोप्यमरगणनिभो भीभिदे वः स भूयात् ॥ ७९॥
सम्पन्नाशेषसत्त्वप्रचुरजलचरेच्छासुखं यत्र दूरं
दुर्लङ्घये यान्त्यधस्ताद् गिरय इव जनानर्थदुस्तीर्थ्यसार्थाः ।
दुर्वारोऽसौ समन्तात् पृथुभवभुवनाभावसंरम्भजृम्भी
भीदावाग्निप्रशान्त्यै करकमलविभाम्भोनिधिर्जृम्भताद्वः ॥ ८०॥
निर्वाणो नारकाग्निः किमिति यदि विनेयेषु धर्मामृतौघो-
राशिर्बद्धो जटानां यदि गतिरहितः किं समहो रिपूणाम् ।
मर्धागारे गरीयान् यदि वसति जिनो बन्धुरा किं त्रिलोकी
नाथस्येत्थं विचित्रा व्यवहृतिरहितं हन्तु वो लोकबन्धोः ॥ ८१॥
मूर्च्छत्येकापि सत्त्वाशयवशविहिताकारभेदाभिरामा
दुर्भेदाभूतकल्पा चलदचलमहारम्भदम्भोलिकोटिः ।
लौकेशी सन्मनीषाकुमुदशशिरुचिस्तीर्थिकानर्थकोटि-
ध्वान्तान्तर्धानभानुर्भवतु भवभिदे देशना शासनी वः ॥ ८२॥
दुर्वादोन्मादनादिप्रचुरमदकणादाक्षपादादिवादि-
प्रोद्यन्नानाविवादास्पदमदसदसां सापवादो विवादः ।
उत्सादः सप्रमादोन्मदजनविपदां कोविदानां प्रसादो
भावानुत्पादवादो जयति जिनवपुः पादसम्पादमौलेः ॥ ८३॥
त्रस्तव्यस्तारिशस्त्रं त्रयि जगति चकास्ति स्तुतो यद्गभस्ति-
स्तोमो विस्तीर्णतोयं मरुनिलयसदां विस्तरध्वस्ततापः
स स्तादस्ताहितास्त्रो बलिवलिकुलिशः पद्महस्तस्य हस्तो -
ऽनापास्त्यैः वं समस्तत्रिभुवनविकसत्साध्वसापास्तिशस्तः ॥ ८४॥
संवर्तोद्वृत्तवातव्यतिकरविषयोत्तुङ्गशैलद्रुमाली-
निर्मूलोन्मूलनाय प्रभुररिकरिणां शातितानल्पदर्पः ।
भद्रो लोकेश्वरस्य प्रणयिमधुकराकर्षदानौघवर्षी
हस्तस्तम्बेरमो वो भवरिपुनगरीभञ्जनायालमस्तु ॥ ८५॥
सत्कोषं सन्निधानं घनरुचिजिनतावाञ्छिताच्छेदसिद्धौ
यद्यातं शातकोटिमनुकृतिमहितत्रासिसत्पत्रकोटि ।
सम्यक्सम्बोधिलक्ष्मीकृतवसतिगुणश्लाघयैवाविमुक्तं
मुक्तेस्तत्कारणं वः करकमलमलं लोकनाथस्य भूयात् ॥ ८६॥
शश्वद्वर्धिष्णुतृष्णाविकलगलदरीविह्वलप्रेतराशे-
राह्लादोत्पादि सत्यं कमलमधिवसद्बोधिलक्ष्मीकमब्जम् ।
सत्पद्मं भूतिवाञ्च्छाविनिहितमनसां साधुसेवापदं यत्
तल्लोकेशस्य युष्मान् पटुरुचिपटलीराजिराजीवमव्यात् ॥ ८७॥
नानादुःखप्रतानां तनुकिरणघनोत्तापनक्लेशभानु-
म्लानं दीनाननं यज्जनमनुजनयत्यातपत्रोपमानम् ।
ग्लानिं मा गादहीनं तदखिलभुवनान्यूनभानूद्वितानं
लीनं लोकेशपाणौ नलिनममलिनं म्लानिमेनो नयेद्वः ॥ ८८॥
स्थाम्नः स्थानं महिम्नो महदुदयपदं धामधाम्नां प्रथिम्न-
स्त्रासावासो रिपूणां दुरभिभवभवाद्भीभिदोद्भूतिभूमिः ।
कान्तं शोभानिशान्तं वसतिरतिजगद्वीर्यविस्तारिराशे-
र्लोकेशस्यास्तु बाहुर्बहुजगदहितोच्छेदनाचण्डदण्डः ॥ ८९॥
यल्लावण्यामृतौघं क्षरदपि जनितातङ्कमेवाहितानां
तृप्तिं नैव प्रयच्छत्यथ पुनरतनुप्रीणनं लोचनानाम् ।
शोभागारं विशोभीकृतसकलजगद्भूषणं भूषणानां
तद्भुयादेकचीरं सुखमसुखनुदे भास्वदम्भोजिनो वः ॥ ९०॥
म्लानं रूपाभिमानैर्जगति सफलतां लोचनैः पुण्यभाजां
यातं घातं तु तृष्णाततितरलतरैर्यत्र लावण्यसिन्धौ ।
मन्येऽसङ्ख्यैः शशाङ्कप्रभृतिभिरतुलं कान्तिमद्भिः कृतं स्याद्
एकं यद्यास्यमस्याप्यतिजयि जयतां तन्मुखं पद्मपाणेः ॥ ९१॥
यस्मिन् विद्वेषभाजामविरतविलसत्कान्तितोयौघमेघैः
संवृत्तं दाहदायि स्फुटतरमसकृद्दुर्दिनं देहिनां तु ।
धौता ध्वस्तानुबन्धा बहुलमलमषीपङ्कलेपप्रबन्धाः
तद्बुद्धागारमूर्द्धामुखमतिसुखदं स्ताद्विचित्रक्रियं वम् ॥ ९२॥
इष्टाब्जाक्लिष्टपाणेः स्फुटविकटकुटीकुट्टिमान्तोपविष्ट-
स्पष्टश्लिष्टामिताभद्युतिपटुपटलापाटलाभापटिम्नः ।
शोभाविष्टैरदृष्टोपरिघनघटनस्योत्कटाटोपबन्धः
कूटस्याव्याज्जटानां कटुरकटसुहृत्सङ्कटात्कङ्कटो वः ॥ ९३॥
अत्यन्ताह्लादहेतोरविरतविस्तृतस्यामिताभप्रभाम्भः
सम्भारस्यैव सेकान् निरतिशयमृजासुन्दरो लब्धवृद्धिः ।
उद्दामामोदिदिव्याद्भुतकुसुमचयैरर्चितश्चिन्तितार्थ-
प्राप्तेः सम्पत्तये स्तान्नलिनधरजटाकल्पवल्लीचयो वः ॥ ९४॥
यासां बद्धो विमुक्तिं गमयति नियतामुज्झितान्याधिवासो
निःसामान्यां विभूषां जनयति वपुषा यासु नाथोऽमिताभः ।
सर्वामोदच्छिदो या निरुपमवहलामोदलिप्ताखिलाशा
लौकेश्योऽवश्यलभ्यां मृतिमतिविकटास्ता जटा वो हरन्तु ॥ ९५॥
सङ्घातो नो जटानामखिलजनमनोबन्धने पाशराशि-
र्लावण्यं नापि दुःखानलविकलजगज्जीवनीयोऽमृतौघः ।
नाम्भोजं दुष्टदम्यान्तकतुरगकशाक्लेशदोषातिमोषः
प्रत्याशा पोषसिद्धिं दिशतु जिनशशिश्लेषिकेशः श्रियो वः ॥ ९६॥
उद्दामापिङ्गतेजःप्रसरविरचिताशेषदिग्दाहमोह-
त्रस्तात्राणात्रिलोकीकवलनरभसोल्लासिकालाग्निकल्पम् ।
दष्टौष्ठं दुष्टदृष्टिज्वलितमनुहयग्रीवमाबद्धलक्ष्म्या
जाता लोकेश्वरी वः क्षणमतुलकृपाकातरा दृष्टिरव्यात् ॥ ९७॥
लोपं लोकः प्रयाति स्फुटमखिलमहाभूभृतामद्य तूर्णं
चूर्णीभावो धराणामपि जलनिधयः शोषमायान्त्यनन्ताः ।
इत्थं यस्यान्तकोपभ्रुकुटिभरभवद्भङ्गभीमाल्ललाटा-
न्निर्यान्तीं वीक्ष्य देवीमतुलभुजबलैस्त्रस्तमब्जी स जीयात् ॥ ९८॥
स्तुत्यैः स्तुत्या गुरूणामपि जगति गुरुर्वन्दिता वन्दनीयै-
र्मूर्तेवानल्पकल्पार्जितसकलजगत्त्राणनिर्व्याजशक्तिः ।
लोकस्यार्तिच्छिदा यैः स्वयमतुलकृपैवाब्जिनो निर्गता स्तात्
तारा संसारकारोदरगुरुविलसत्कारणाहारिणी वः ॥ ९९॥
गीर्वाणग्रामगीतो गुरुगणनगुणो गीष्पतेरग्रगाभि-
र्ग्राह्योनुद्गाढवर्गस्फुटगतिगहनो हंसगाम्युग्रगाभिः ।
गम्भीरोद्गारिणीभिर्निगदितगरिमागेयपूगाल्पभागः
सम्यग्गम्यः समग्रोऽवतु सुगतगिरामब्जिनो वो गुणौघः ॥ १००॥
कविरपि जन्मनि जन्मनि भक्तश्चरणेऽवलोकितेश्वरस्य ।
प्रकृतिशरणगोत्तरधीः परहितगुरुकार्यकार्यः स्याम् ॥ १०१॥
इति महाक्षपटलिकश्रीवज्रदत्तकविविरचितं श्रीलोकेश्वरशतकं सम्पूर्णम् ॥