लोमशमुनिना शाकविक्रयिणे कृतमुपदेशम्
सुखःदुखे समे मे स्तो न हि मे स्तः प्रियाऽप्रिये ।
एवं धर्मं पालयध्वं जनास्त्वभयदानकम् ॥ ८३॥
तेन मुक्तिमवाप्स्यन्ति भवन्तोऽभयवर्तनाः ।
नारायणो हि भगवांस्तेन तुष्यति सर्वदा ॥ ८४॥
नमो ब्राह्मणयज्ञाय नमः प्रजाध्वराय च ।
नमः सेवाप्रवीणेभ्यो जनेभ्यश्च नमो नमः ॥ ८५॥
सुकृतेन सुहव्येन देवास्तुष्यन्ति सर्वदा ।
नमस्कारेण हव्येन स्तोत्रेण हृदयेन च ॥ ८६॥
यज्ञाहुत्या सुसन्तुष्टा आदित्या वर्षयन्ति हि ।
ततः सस्यरसान्नानि तेभ्यः प्रजाप्रवर्धनम् ॥ ८७॥
प्रजाः कुर्वन्ति यज्ञांश्च ब्रह्म तुष्यति तत्र च ।
ब्रह्मतोषकरा भक्तास्तोषयन्त्यपरानपि ॥ ८८॥
तस्माद्भक्तिं प्रकुर्वन्तु सर्वं यद्ब्रह्मदैवतम् ।
ब्रह्मतृप्तौ जगत्सर्वं तृप्तमेव न संशयः ॥ ८९॥
यज्ञे तृप्ताः सर्वदेवाः स्युर्यस्य ब्रह्मतर्पणम् ।
तस्य प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया ॥ ९०॥
धर्माधारा धर्मोदया ब्रह्मध्यानपराश्च ये ।
भक्तिविज्ञानसम्पन्नाः परं पारं तितीर्षवः ॥ ९१॥
सर्वस्थितं परब्रह्म दृष्ट्वा लब्ध्वा विचार्य च ।
पुण्यात्पुण्यतमं स्थानं प्राप्नुवन्त्यक्षरं पदम् ॥ ९२॥
यत्र गत्वा न शोकोऽस्ति न च्यावो न व्यथा मृतिः ।
नैतादृशानां स्वर्गार्थं यजनं वा यशोऽर्थकम् ॥ ९३॥
सतामाचररूपं तद्यजनं द्रोहवर्जितम् ।
ब्रह्मतृप्तिपरं समिदोषधिफलमूलकैः ॥ ९४॥
स्वर्गार्थं पुण्यमेवास्ति नैर्गुण्यं मुक्तये भवेत् ।
तदहं हृदये कृत्वा नैर्गुण्यं त्वाचरामि वै ॥ ९४९॥
अन्ये यजन्ति यज्ञेषु स्मृद्ध्यर्थं कृतनिश्चयाः ।
तेन ते देवयानेन यथा यान्ति दिवं पुनः ॥ ९६॥
आवृतिं तेऽभिगच्छन्ति नाऽऽवर्तन्ते तु निर्गुणाः ।
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः ॥ ९७॥
पुनः स्वर्गं पुनर्भूमिर्भ्रमावर्तो न लीयते ।
तस्माद्भवन्तु वै ब्रह्मयजना नान्ययाजिनः ॥ ९८॥
ब्रह्म वै दैवतं कृत्वा यज्ञे मोक्षं प्रयान्तु च ।
आत्मतीर्थे मखं शुक्लं कुर्वन्तु दिव्यभावनैः ॥ ९९॥
एवं कृतोपदेशश्च शाकविक्रयको वणिक् ।
सर्वसेवापरो नित्यं चाभजत् पुरुषोत्तमम् ॥ १००॥
इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय २४७-अध्यायान्तर्गतं
लोमशमुनिना शाकविक्रयिणे कृतमुपदेशं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय २४७/८३-१००॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 247/83-100..
Proofread by PSA Easwaran