मध्यमकशास्त्रस्तुतिः
यद्बुद्धैरिह शासनं नवविधं सूत्रादि सङ्कीर्तितं
लोकानां चरितानुरोधनिपुणं सत्यद्वयापाश्रयम् ।
तस्मिन् रागनिराकृतौ नहि कथा द्वेषक्षये जायते
द्वेषस्यापि निराकृतौ नहि कथा रागक्षये जायते ॥ १॥
मानादेरपि यत् क्षयाय वचनं नान्यं मलं हन्ति तत्
तस्माद्वयापितरं न तत्र च पुनस्तास्ता महार्थाः कथाः ।
मा मोहस्य परिक्षयाय तु कथा क्लेशानशेषानसौ
हन्यान्मोहसमाश्रिता हि सकलाः क्लेशा जिनैर्भाषिताः ॥ २॥
मोहस्यास्य परिक्षयाय च यतो दृष्टाः प्रतीत्यादय-
स्तत्त्वं तत् प्रतिपच्च सैव सुगतैः सङ्कीर्तिता मध्यमा ।
कायो धर्ममयो मुनेः स च यतः सा शून्यतेत्युच्यते
बुद्धानां हृदयं स चापि महती विद्येति सङ्कीर्त्यते ॥ ३॥
यस्मात्सर्वगुणाकरोऽयमुदितो बुद्धैरतस्तत्कथा
शास्त्रे मध्यमकेऽथ विस्तरतरा मुख्यात्मना वर्णिता ।
कारुण्यद्रुतचेतसा प्रवचनं बुद्ध्वा यथावस्थितं
बुद्धानां तनयेन तेन सुधिया नागार्जुनेनादरात् ॥ ४॥
गम्भीरं जिनशासनं न हि जनो यो वेत्ति तत्संविदे
मौनीन्द्राद् वचसः पृथङ्निगदितुं वाञ्छन्ति तत्त्वं च ये ।
अन्ये येऽपि कुबुद्धयः प्रवचनं व्याचक्षते चान्यथा
तेषां चापि निराकृतौ कृतमिदं शास्त्रं हतान्तर्द्वयम् ॥ ५॥
स्पष्टं राहुलभद्रपादसहितो नागार्जुनो तन्मतं
देवेनाप्यनुगम्यमानवचनः कालं चिरं दिष्टवान् ।
तच्छास्त्रप्रविवेकनिश्चितधियस्तीर्थ्यान् विजित्याखिलां-
स्तच्छिष्या अपि शासनं मुनिवरस्यादिष्टवन्तश्चिरम् ॥ ६॥
आयाताय शिरोऽर्थिन्ने करुणया प्रोत्कृत्य दत्त्वा शिरः
संयाते तु सुखावतीं जिनसुते नागार्जुने तत्कृताः ।
ग्रन्थाः शिष्यगणाश्च तेऽपि बहुना कालेन नाशं गताः
तत्त्वार्केऽस्तमितेऽधुना न हि मतं स्पष्टं तदस्ति क्वचित् ॥ ७॥
उत्प्रेक्षा रचितार्थमात्रनिपुणे दुरङ्गते सत्पथाद्
उन्मत्तेऽथ निपीय तर्कमदिरां लोकेऽधुना भूयसा ।
सर्वज्ञोदिततत्त्वबोधरहिते बौद्धे मते व्याकुले
धन्योऽसौ क्षणमप्यपास्य विमतिं यः शून्यतां गाहते ॥ ८॥
भीत्या वस्तुनिबन्धनोपरचितैर्यः शास्त्रपाशैर्वृत-
श्चित्त्वोत्प्लुत्य च याति वस्तुपरिखां चैको मृगोऽसौ महान् ।
तं प्रत्यद्य न चिन्तया मम गुणश्चैकस्तु यो नाधुना
तं प्रत्येव तदन्यशास्त्रमथनी वृत्तिः कृतेयं मया ॥ ९॥
दृष्ट्वा सूत्रसमुच्चयं परिकथां रत्नावलीं संस्तुती-
रभ्यस्यातिचिरं च शास्त्रगदितास्ताः कारिका यत्नतः ।
युक्त्याख्यामथ षष्टिकां सविडलां तां शून्यतासप्ततिं
या चासावथ विग्रहस्य रचिता व्यावर्तिनी तामपि ॥ १०॥
दृष्ट्वा तच्छतकादिकं बहुविधं सूत्रं गभीरं तथा
वृत्तिं चाप्यथ बुद्धपालितकृतां सूक्ष्मां च यद्भाविना ।
पारम्पर्यसमागतं प्रविचयाच्चासादितं यन्मया
पिण्डीकृत्य तदेतदुन्नतधियां तुष्टौ समावेदितम् ॥ ११॥
चिन्तामण्डल एष तर्कमथनः साक्षादिहावस्थितान्
अर्थान् सम्यगनाकुलान् पटुधियां वागांशुभिर्भासयन् ।
वृत्तिं स्पष्टतरामिमां च विदधच्चन्द्रोऽधुना कीर्तिमान्
लोकानामुदितो निहन्ति विमतीः सान्द्रान्धकारैः सह ॥ १२॥
कृत्वा वृत्तिमिमामनाकुलपदां सत्प्रक्रियामादरात्
श्राद्धानां सुधियां न निश्चयविधौ युक्त्यागमापाश्रयाम् ।
यत्पुण्यं मम शून्यतेव विपुलं तेनैव लोकोऽखिल-
स्त्यक्त्वा दृष्टिगणं प्रयातु पदवीं सर्वप्रपञ्चच्छिदाम् ॥ १३॥
शास्तारं प्रणिपत्य गौतममहं तद्धर्मतावस्थितान्
सम्बुद्धान् सकलं जिनात्मजगणं धर्मं च तैर्भाषितम् ।
चक्षुर्भूतमनन्तबुद्धवचनस्यालोचने देहिनां
योऽमुं मध्यमकं चकार कृपया नागार्जुनस्तं नमे ॥ १४॥
इति श्री आचाऱ्यचन्द्रकीर्तिकृता मध्यमकशास्त्रस्तुतिः समाप्ता ॥