महाप्रतिसरास्तोत्रम्
ॐ नमः श्रीमहाप्रतिसरायै ।
यस्याः स्मरणमात्रेण सर्वे पापाः क्षयं गताः ।
यया युक्तो वज्रकायो नमस्तस्यै नमो नमः ॥ १॥
यां स्मरन् राक्षसः क्रूरो माठरं कुक्षिसंस्थितम् ।
प्राक्षिपद् गोविषं नद्यां नमस्तस्यै नमो नमः ॥ २॥
याऽरक्षत् वणिजः पुत्रं क्रूरसर्पाद् वधोद्यतात् ।
विषदाहमुमूर्षुं च नमस्तस्यै नमो नमः ॥ ३॥
ब्रह्मदत्तो महाराजो यया रक्षितमस्तकः ।
रिपुं जित्वा विराजोऽभून्नमस्तस्यै नमो नमः ॥ ४॥
भिक्षुर्दुःशीलको रोगी यया कण्ठे प्रबन्धितः ।
प्राणान्मुक्त्वा ययौ स्वर्गं नमस्तस्यै नमो नमः ॥ ५॥
समुद्रे पोतसंक्षुब्धे वणिजां प्राणरक्षकः ।
यां स्मरन् सार्थवाहोऽभून्नमस्तस्यै नमो नमः ॥ ६॥
यस्यां च प्रतिबद्धायां भार्यायां सुतमाप्तवान् ।
प्रसारितभुजो राजा नमस्तस्यै नमो नमः ॥ ७॥
दरिद्रो यां प्रति स्मृत्वा दीनारान् प्रददौ जिने ।
राजाऽभीष्टप्रदाताऽभून्नमस्तस्यै नमो नमः ॥ ८॥
यां प्रबद्ध्वाऽसुरैर्युद्धं शक्रश्चूडामणौ प्रभुः ।
लब्धवान् विजयं वज्री नमस्तस्यै नमो नमः ॥ ९॥
यस्या मन्त्रबलेनैव पूर्य पारमिताश्च षट् ।
मारा जिता जिनैर्बुद्धैर्नमस्तस्यै नमो नमः ॥ १०॥
अपधीरो वधार्होऽपि प्रक्षिप्तः सर्वसङ्कटे ।
यां स्मृत्वा परिमुक्तोऽभून्नमस्तस्यै नमो नमः ॥ ११॥
यया बन्धितकण्ठश्च मुक्तोऽभूत् पापसङ्कटात् ।
नगरे नायकोऽभूच्च नमस्तस्यै नमो नमः ॥ १२॥
या चाऽपराजिता विद्या सर्वबुद्धैश्च धारिता ।
मुद्रिता भाषिता नित्यं पठिता परिदेशिता ॥ १३॥
लिखिता मोदिता सत्त्वहिताय पूजिता सदा ।
स्मृता कायगता कृत्वा नमस्तस्यै नमो नमः ॥ १४॥
यस्याः स्मरणमात्रान्न दुर्लभं भुवनत्रये ।
पाठस्वाध्यायनाद्वापि नमस्तस्यै नमो नमः ॥ १५॥
या विद्या दुर्लभा बुद्धैर्व्याकृता सुप्तशंसिता ।
महती धारणी ख्याता सर्वपापक्षयङ्करी ॥ १६॥
महाबला महावीर्या महातेजा महत्प्रभा ।
महागुणवती विद्या सर्वभारविदारणी ॥ १७॥
पापसन्धिसमुद्घाती मारबन्धप्रमोचनी ।
जननी बोधिसत्त्वानां सर्वदुष्टविनाशिनी ॥ १८॥
रक्षणी पोषणी धात्री परमन्त्रविघातिनी ।
कार्खोदविषयोगानां विध्वंसनकरी शिवा ॥ १९॥
महाध्यानरतानां च गृह्णतां लिखतां सदा ।
पाठाध्ययनकृतां नित्यं दधतां शृण्वतां तथा ॥ २०॥
परेभ्यो देशिता चैव नित्यं मनसि भाविता ।
सा पुस्तकगतां कृत्वा पूज्यमाना नमस्कृता ॥ २१॥
सर्वपापहरी भद्रा बोधिसम्भारपूरिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २२॥
यस्या मन्त्रप्रभावेण सर्वभयान्युपद्रवाः ।
दुष्टाः सुरमनुष्याश्च दैत्यगन्धर्वराक्षसाः ॥ २३॥
ग्रहाः स्कन्दा अपस्माराः पिशाचा यक्षकिन्नराः ।
डाकिन्यः शाकिनीसङ्घा नागा कार्खोदव्याधयः ॥ २४॥
ज्वराश्च विविधा रोगाः परकर्मकृतास्तथा ।
विषाग्निशस्त्रमन्त्राणि विद्युतः कालवायवः ॥ २५॥
अतिवृष्टिरनावृष्टिः सर्वशत्रुभयानि च ।
तथान्ये पापसर्गा वा विनश्यन्ति न संशयः ॥ २६॥
सर्वकार्याणि सिद्ध्यन्ति नमस्तस्यै नमो नमः ।
यश्चैतां धारयेद्विद्यां कण्ठे बाहौ च मस्तके ॥ २७॥
नित्यं रक्षन्ति देवास्तं दैत्या नागाश्च मानुषाः ।
गन्धर्वाः किन्नरा यक्षा भूतप्रेतपिशाचकाः ॥ २८॥
डाकिन्यो राक्षसा दूत्यः कूष्माण्डाः कठपूतनाः ।
त्रिसन्ध्यं यः पठेन्नित्यं बुद्धा रक्षन्ति तं सदा ॥ २९॥
प्रत्येकाः श्रावकाश्चैव बोधिसत्त्वा महर्धिकाः ।
योगिनः सिद्धमन्त्राश्च महावीर्या महर्षयः ॥ ३०॥
वज्रपाणिश्च यक्षेन्द्रः शक्रश्च त्रिदशैः सह ।
चत्वारश्च महाराजा ब्रह्मविष्णुमहेश्वराः ॥ ३१॥
नन्दिकृष्णो महाकालः कार्तिकेयो गणेश्वरः ।
भैरवा मातृका दुर्गास्तथाऽन्ये मारकायिकाः ॥ ३२॥
विद्यादेव्यो महावीर्या महाबलपराक्रमाः ।
मामकी भृकुटी तारा चाङ्कुशी वज्रशृङ्खला ॥ ३३॥
महाश्वेता महाकाली वज्रदूती सुपाशिका ।
वज्रमाला महाविद्या सुवीर्याऽमृतकुण्डली ॥ ३४॥
वज्राऽपराजिता चण्डी कालकर्णी महाबला ।
तथा धन्या महाभागा पद्मकुण्डलिरेव च ॥ ३५॥
मणिचूडा पुष्पदन्ती स्वर्णकेशी च पिङ्गला ।
एकजटा महादेवी धन्या विद्युन्मालिनी ॥ ३६॥
कपालिनी च लङ्केशी ब्रह्मक्षितिकनायिका ।
हारीती पाञ्चिकाश्चैव शङ्खिनी कूटदन्तिनी ॥ ३७॥
श्रीः सरस्वती लक्ष्मीः सिद्धेश्वरी सदानुगा ।
तमेवाऽन्येऽपि रक्षन्ति यस्य विद्या करे स्थिता ॥ ३८॥
स भवेत् सर्वसत्त्वानां मोक्षार्थं च समुद्यतः ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ३९॥
इति श्रीमहाप्रतिसरास्तोत्रं सम्पूर्णम् ॥