मङ्गलषोडशस्तुतिः
ॐ नमः समन्तभद्राय ।
येन पुण्याटवीस्थेनानेके शासनवर्तिनः ।
दिवोदासादयो भूपाः स नो रक्षतु मारजित् ॥ १॥
लोकानां ग्रहबद्धानां रक्षार्थं पुण्यकानने ।
ग्रहानदमयद् यो वै स नो रक्षतु तद्भयात् ॥ २॥
काश्यपाद्यान् महर्षींस्तान् आनन्दाद्यांश्च ब्राह्मणान् ।
प्राव्राजयत् सुमुक्त्यर्थं स नो रक्षतु मुक्तिदः ॥ ३॥
सौवर्णधान्यदानेन दीनं विप्रमपालयत् ।
दुर्भिक्षभयतो नित्यं स नो रक्षतु शाक्यराट् ॥ ४॥
यो मैत्रकन्यको भूत्वा मातृद्रोहिणमत्यगात् ।
चक्रं दूरीकृतं येन स नो रक्षतु मातृवान् ॥ ५॥
सुप्रियो बदरद्वीपयात्राप्तमणिवृष्टिभिः ।
काशीयान् प्राकरोदाढ्यान् स नो रक्षतु काञ्चनैः ॥ ६॥
भूत्वा यः सुधनो नाम निधानं समदर्शयत् ।
दारिद्रयदुःखतो नित्यं स नो रक्षतु सर्ववित् ॥ ७॥
कुष्ठादिरोगहरणे राजगृहमुपाविशत् ।
तत्तद्रोगभयान्नित्यं स नो रक्षतु धर्मराट् ॥ ८॥
यः कुशो भूपतिर्भूत्वाऽष्टमीमाहात्म्यमुत्तमम् ।
प्रकाशयन्निजे देहे स नो रक्षतु धर्मवित् ॥ ९॥
सौदासं सत्यवचसा काश्यामस्थापयन्नृपान् ।
बन्धनान्मोचयामास स नो रक्षतु सर्ववित् ॥ १०॥
गोपान् ररक्ष यो देव्याः प्रभावं संप्रकाशयन् ।
वह्निदाहारिभयतः स नो रक्षतु भीतिहा ॥ ११॥
योऽन्धीभूतां मातरं स्वां चूडारत्नं जले व्यधात् ।
दिव्यनेत्रान् जनान् कृत्वा स नो रक्षतु नेत्रदः ॥ १२॥
विरूपं प्राकरोत् पुत्रं छायासीनं सुसुन्दरम् ।
सर्वलक्षणसम्पन्नं स नो रक्षतु सर्वदः ॥ १३॥
सकलानन्दनामानं राज्ये यः प्राभ्यषेचयत् ।
सन्ततिस्थितिकुर्वाणः स नो रक्षतु स्थैर्यकृत् ॥ १४॥
विषदं भ्रातरं यश्चाक्षमद् भिक्षुन् विषाशिनः ।
ररक्ष धारणीविज्ञः स नो रक्षतु निर्विषः ॥ १५॥
श्रीस्वयम्भुदर्शनाय नैपालीयान् प्रयासितुम् ।
कपिलान् प्रस्थितो योऽसौ स नो रक्षतु सन्ततम् ॥ १६॥
इति भद्रकल्पावदानोद्धृता शाक्यसिंहस्य मङ्गलषोडशस्तुतिः समाप्ता ॥